इस आलेख में श्रीराम नवमी व्रत माहात्म्य अर्थात व्रत कथा दी गयी है। इस व्रत कथा को कथा तब कहा जा सकता है जब सुना जा रहा हो वास्तव में ये रामनवमी व्रत का माहात्म्य ही है क्योंकि इसमें रामनवमी व्रत का महत्व और व्रत की विधि बतायी गयी है। यह ब्रह्म पुराण से लिया गया है।
श्री राम नवमी व्रत कथा – ram navami vrat vidhi
श्री रामनवमी व्रत का महत्व और विधि ब्रह्मपुराण में ब्रह्मा और नारद संवाद के रूप में वर्णित है। इसे श्री रामनवमी व्रत माहात्म्य नाम से जाना जाता है। यहाँ श्री राम नवमी व्रत माहात्म्य संस्कृत में वर्णित है और साथ ही हिंदी में भी महत्वपूर्ण तथ्य दिए गये हैं :
॥ अथ श्री रामनवमी व्रत माहत्म्य ॥
नारद उवाच –
- व्रतानां यद् व्रत्तं पुण्यं धर्माणां धर्ममुत्तमम् । गुप्तानां यन्महद् गोप्यं तपसां यन्महत्तपः ॥१॥
केन पुण्येन विश्वात्मन् घोरं संसारसागरम् । मायावर्तशताकीर्णं नरस्तरति दुस्तरम् ॥२॥
व्रतान्युक्तान्यनेकानि विष्णो प्रीतिकराणि वै । नाम्ना विष्णो सहस्राणि पुरा प्रोक्तानि मे प्रभो ॥३॥
एकादशीव्रतं प्रोक्तं जागरादि समन्वितम् । केन व्रतेन सहसा प्रीतो भवति केशवः ॥४॥
केन यज्ञेन दानेन तपसा वा जगत्पतिः । प्रीतो भवति विश्वात्मा तन्मे ब्रूहि पितामह ॥५॥
पितामह उवाच –
- साधु पृष्टं त्वया वत्स लोकानां हितकाम्यया । यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥६॥
पुरा कैलासशैलस्थं गौरी पृच्छति शङ्करम् । शृणु नारद तत् सर्वं यथावत् कथयामि ते ॥७॥
चैत्र मासे सिते पक्षे या तिथिर्नवमी भवेत् । सा रामनवमी प्रोक्ता पुण्योपचयकरिणी ॥८॥
तस्यामुपोषणं सद्यो विष्णुप्रीतिकरं परम् । इति मत्वा प्रयत्नेन विधानं तत्र नारद ॥९॥
नारी वा पुरुषो वापि तत्रैव भक्तियोगतः । पूजां कुर्याद् विधानेन जागरं चाप्युपोषणम् ॥१०॥
किं भूरिदक्षिणैर्यज्ञैः किं तपोभिः सुदुष्करैः । कि दानेन भवेत्तस्य येन नैतद् व्रतं कृतम् ॥११॥
व्रतान्युक्तान्यनेकानि पावनीयानि नारद । परं श्रीरामनवमी व्रतं जगति दुर्लभम् ॥१२॥
कार्तिक्यां पूर्णिमायां वै द्वारकायां द्विजोत्तम । कपिलाकोटिदानस्य फलं प्राप्नोति तद् व्रती ॥१३॥
तेन तप्तं तपस्तीव्रं दत्ता तेन वसुन्धरा । येन वैतत् कृतं सम्यक् श्रीरामनवमीव्रतम् ॥१४॥
एकादश्युवासेन बहुजन्मार्जितेन वै । यत्फलं लभते मर्त्यस्तत्र चैकोपवासतः ॥१५॥
तस्मान्नारद नारीभिः पुरुषैश्च समाहितैः । कर्तव्यं व्रतमेतत्तु नात्र कार्या विचारणा ॥१६॥
नारद उवाच –
- भगवञ्छ्रीरामनवमी माहात्म्यं प्रोक्तमुत्तमम् । विधिना केन कर्तव्यं तत्सर्वं वक्तुमर्हसि ॥१७॥
ब्रह्मोवाच –
- निरामिषं सकृद् भुक्त्वा नरोऽष्टम्यां समाहितः । नवम्यां प्रातरुत्थाय कृतनित्यक्रियः शुचिः ॥१८॥
नानाविधानि पुष्पाणि नैवेद्यान्यपि चाहरेत् । ततः सुविस्तरे पुण्ये मण्डपे सुपरिष्कृते ॥१९॥
निर्मायाष्टदलं पद्मं पूजयेत् तद्दिने दले । तन्मध्ये रामचन्द्रस्य मूर्तिर्वै लक्ष्मणस्य च ॥२०॥
सीतायाश्च प्रकर्त्तव्या पूजयेत्तां समाहितः । भक्त्या दशरथं तत्र नरः पूर्वदलैऽर्चयेत् ॥२१॥
वह्निकोणे दले कुर्यात् कौशल्यायां प्रपूजनम् । याम्ये दले च कैकेय्याः सुमित्रायांश्च नैर्ऋते ॥२२॥
वारुणे भरतस्यापि शत्रुघ्नस्य च मारुतेः । सुग्रीवस्य च कौबेरे तथैशान्यां हनूमतः ॥२३॥
एवमष्टदले पूज्याः पाद्यार्घ्यादिभिरुत्तमैः । अर्घ्यमन्त्रान् प्रत्यनेन शृणु नारद विस्तरात् ॥२४॥
- ओं दशग्रीवविनाशाय जातोऽर्ज रघुनन्दन । गृहाणार्घ्यं मया दत्तं प्रसीद पुरुषोत्तम ॥२५॥
ओं दशाननविनाशाय जाता धरणिसम्भवा । मैथिली शीलसम्पन्ना पातु नः पतिदेवता ॥२६॥
ओं निहतो रावणियेन शक्रजिच्छत्रुघातिना । स पातु लक्ष्मणो धन्वी सुमित्रानन्दवर्धनः ॥२७॥
ओं नानाविधगुणागार गृहाणार्घ्यं नृपोत्तम । रविवंशप्रदीपाय नमो दशरथाय वै ॥२८॥
ओं गृहाणार्घ्यं महादेवि रम्ये दशरथप्रिये । जगदानन्दवन्द्यायै कौशल्यायै नमो नमः ॥२९॥
ओं दृढप्रतिज्ञे कैकेयि मातर्भरतवन्दिते । गृहाणार्घ्यं महादेवि रक्ष मां भक्तवत्सले ॥३०॥
ओं शुभलक्षणसम्पन्ने लक्ष्मणानन्दकारिणी । सुमित्रं देहि मे देवि सुमित्रायै नमो नमः ॥३१॥
ओं भक्तवत्सल भव्यात्मन् रामभक्तिपरायण। भक्त्या दत्तं गृहाणार्घ्यं भरताय नमो नमः ॥ ३२॥
ओं लवणान्तक शत्रुघ्न शत्रु काननपावक । गृहाणार्घ्यं मया दत्तं प्रसीद कुरु मे शुभम् ॥३३॥
ओं सुग्रीवाय नमस्तुभ्यं दशग्रीवान्तकप्रिय। गृहाणार्घ्यं महावीर किष्किंधानायक प्रभो ॥३४॥
ओं कर्मकुम्भीरसङ्कीर्णमुत्तीर्णोऽसि महार्णवं। हनूमते नमस्तुभ्यं गृहाणार्घ्यं महामते ॥३५॥
- एभिर्मन्त्रैः प्रदातव्योऽर्घ्यो नारद भक्तितः । पुष्पैर्गन्धैश्च धूपैश्च कर्तव्यो विधिनाऽमुना ॥३६॥
नृत्यवादित्रगीतैश्च कुर्याज्जागरणं निशि । येनैव क्रियते विप्र रम्यं रामव्रतं शुभम् ॥३७॥
तं दृष्ट्वा शत्रवो यान्ति दूर भयसमन्विताः । पुत्रार्थी लभते पुत्रं राज्यार्थी राज्यमाप्नुयात् ॥३८॥
मोक्षार्थी लभते मोक्षं धनार्थी तु धनं लभेत् । ब्राह्मणो धर्ममाप्नोति क्षत्रियो यश उत्तमम् ॥३९॥
वैश्यो धनसमृद्धिस्तं शूद्रः प्राप्नोति सद्गतिम् । अयोध्यायां मुनिश्रेष्ठ य एतत्कुरुते व्रतम् ॥४०॥
पितरस्तस्य तृप्यन्ति वर्षकोटिशतानि च । स्नात्वा वै सरयूतोये कृत्वा रामव्रतं शुभम् ॥४१॥
न जातु लभते जन्तुर्जन्मसागरबन्धनम् । गयायां पिण्डदानेन यत्फलं कथितं मुने ॥४२॥
तत्फलं कोटिगुणितमयोध्यायां कृते व्रते । नारीभिः पुरुषैर्वापि पुरुषार्थमभीप्सुभिः ॥४३॥
कर्तव्यश्च प्रयत्नेन भक्तिमुक्तिशुभप्रदम् । या नारी कुरुते भक्त्या व्रतं रामस्य दुर्लभम् ॥४४॥
पुत्रं सौभाग्यमेश्वर्यं लभते नात्र संशयः । श्रीरामनवमीं प्राप्य भुङ्क्ते या वरवर्णिनी ॥४५॥
लभते सा मुनिश्रेष्ठ वैधव्यं जन्मजन्मनि । व्रतमेतन्मया प्रोक्तं मुने गुह्यतरं महत् ॥४६॥
रक्षणीयं प्रयत्नेन न देयं यस्य कस्यचित् । रामभक्ताय शुद्धाय शान्ताय निर्मलात्मने ॥४७॥
दातव्यं व्रतमेतत्तु सर्वकामफलप्रदम् । ततः प्रभाते सम्प्राप्ते स्वर्णादिप्रतिमा शुभा ॥४८॥
आचार्याय प्रदातव्या मृन्मयीं तु विसर्जयेत् । स्नात्वा तु विधिना विप्र सरयूं पूजयेत् ततः ॥४९॥
विप्रेभ्यो दक्षिणां दत्त्वा स्वयं पारणमाचरेत् ॥५०॥
॥ इति श्रीब्रह्मपुराणे ब्रह्मनारदसंवादे श्रीरामनवमीव्रतमाहात्म्यं समाप्तम् ॥
श्री रामनवमी व्रत माहात्म्य के महत्वपूर्ण तथ्य
- जिसने श्री रामनवमी व्रत नहीं किया हो, यदि उसने बहुत सारे दक्षिणा देकर कई यज्ञ भी किये हों, बहुत सारा दान भी किया हो फिर भी उसका अधिक महत्व नहीं होता। अर्थात यदि और कुछ न भी करे तो भी श्री रामनवमी व्रत अवश्य करे।
- कार्तिक पूर्णिमा को द्वारका में उत्तम ब्राह्मणों को कड़ोरों कपिला गाय दान करने से भी अधिक फल श्री राम नवमी व्रत का होता है।
- श्री रामनवमी व्रत से जितना पुण्य प्राप्त होता है उतना पुण्य कठिन तपस्या करने से भी प्राप्त नहीं होता।
- श्री रामनवमी व्रत से जितना पुण्य प्राप्त होता है उतना पुण्य पूरी पृथ्वी दान करने से भी नहीं होता।
- बहुत जन्मों तक एकादशी व्रत करने से जो फल प्राप्त होता है उससे अधिक मात्र एक बार रामनवमी व्रत करने पर ही प्राप्त हो जाता है।
इसके साथ ही व्रत के नियम, पूजा की विधि का वर्णन किया गया है। पूजा विधि में एक विशेष तथ्य यह है कि अर्घ्य की प्रधानता बताई गयी है और सपरिवार श्री राम जी के अर्घ्य मंत्रों को दिया गया है।
राम नवमी पूजा विधि में अर्घ्य मंत्रों के साथ सम्पूर्ण पूजा विधि दिया गया है – रामनवमी पूजा विधि
महाशिवरात्रि कब है महाशिवरात्रि पूजा विधि महाशिवरात्रि व्रत कथा महाशिवरात्रि पूजन सामग्री होलिका दहन कब है होलिका दहन विधि होली कब है अचला सप्तमी कब है सरस्वती पूजा कब है सरस्वती पूजा विधि नवरात्रि कब है दुर्गा पूजा विधि काली पूजा दुर्गा सप्तशती पाठ
Discover more from संपूर्ण कर्मकांड विधि
Subscribe to get the latest posts sent to your email.