सत्यनारायण पूजा विधि मंत्र सहित – Satyanarayan Puja Vidhi

सत्यनारायण पूजा विधि मंत्र सहित

श्री सत्यनारायण पूजा विधि

१. तिल-जौ लेकर प्रतिष्ठा करें – ॐ मनो जूतिर्ज्जुषतामाज्ज्यस्य बृहस्पतिर्य्यज्ञमिमं तनोत्वरिष्टं य्यज्ञᳪ समिमं दधातु। विश्वे देवा स ऽइह मादयन्तामों३ प्रतिष्ठ ॥ ॐ भूर्भुवः स्वः भगवन् श्री सत्यनारायण इहागच्छ इह तिष्ठ ॥

  • आवाहन : ॐ देवेश भक्तिसुलभ तेजोराशे जगत्पते। क्रियमाणमिमां पूजां गृहाण परमेश्वर॥
  • ध्यान : ॐ ध्यायेत सत्यं गुणातीतं गुणत्रयसमन्वितम् । लोकनाथं त्रिलोकेशं पीताम्बरधरं हरिम् ॥ इन्दीवरदलश्यामं शङ्कचक्रगदाधरम् । गोविन्दं गोकुलानन्दं जगतः पितरं गुरुम् ॥ इदं ध्यानपुष्पं ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • आसन – ॐ नानारत्नसमायुक्तं कार्तस्वरविभूषितम् । आसनं देव देवेश गृहाण पुरुषोत्तम ॥ इदं पुष्पासनं ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • पाद्य – ॐ गङ्गादिसर्व तीर्थेभ्यो मया प्रार्थनयाहृतं। तोयमेतत् सुखस्पर्शं पाद्यार्थं प्रतिगृह्यताम्॥ इदं पाद्यं ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • अर्घ्य – ॐ व्यक्ताऽव्यक्तस्वरूपाय ह्रषीकपतये नमः । मया निवेदितो भक्तया अर्घ्योऽयं प्रतिगृह्राताम् ॥ इदं अर्घ्यं ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • आचमन – ॐ गंगाजल समानीतं सुवर्णकलशे स्थितं। आचम्यतां हृषीकेश त्रैलोक्यव्याधिनाशन ॥ इदं आचमनीयं ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • पञ्चामृत स्नान – ॐ पयो दधि घृतं गव्यं माक्षिकं शर्करा तथा। पञ्चामृतेन स्नपनं गृहाण जगतःपते॥ इदं पंचामृतस्नानीयं ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • शुद्धोदक स्नान – ॐ गङ्गा च यमुना चैव गोदावरी सरस्वती। कृष्णा च गौतमी वेणी सिप्रा सिंधुस्तथैव च॥ तापी पयोष्णी रेवा च ताभ्यः स्नानार्थमाहृतं। तोयमेतत् सुखस्पर्शं स्नानार्थं प्रतिगृह्यताम् ॥ इदं शुद्धोदकस्नानीयं ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • स्नानाङ्गाचमन – स्नानाङ्गमाचमनीयं ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • पीतवस्त्र – ॐ पीताम्बरं शुभं देव सर्वकामार्थसिद्धये । मया निवेदितं भक्तया गृहाण सुरसत्तम ॥ इमे पीत वस्त्रोपवस्त्रे बृहस्पतिदैवतं ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • वस्त्राङ्गाचमन – वस्त्राङ्गाचमनीयं ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • यज्ञोपवीत – ॐ दामोदर नमस्तेऽस्तु ज्ञाहि मां भवसागरात् । ब्रह्मसूत्रं सोत्तरीयं गृहाण सुरसत्तम ॥ इमे यज्ञोपवीते बृहस्पतिदैवते ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • यज्ञोपवीताङ्गाचमन – यज्ञोपवीताङ्गाचमनीयं । ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • चन्दन – ॐ श्रीखण्डचन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ॥ इदमनुलेपनं ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • तिल जौ – ॐ तिला यवाः सुरश्रेष्ठ कम्बूजाश्च सुशोभनाः । वासुदेव जगन्नाथ प्रीत्यर्थं स्वीकुरु प्रभो ॥ एते यवतिलाः ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • पुष्प – ॐ पुष्पं तु परमं दिव्यं पुण्यं सुरभिसम्भवं । गृहाण परया भक्त्या मया दत्तं जगत्पते॥ इदं पुष्पं ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • माला – ॐ नानापुष्पविचित्राढयां पुष्पमालां सुशोभनाम् । प्रयच्छामि च देवेश गृहाण परमेश्वर ॥ इदं पुष्पमाल्यं ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • तुलसी – ॐ तुलसीं हेमरूपां च रत्नरूपां च मञ्जरीम् । भवमोक्षप्रदां तुभ्यमर्पयामि हरिप्रियाम् ॥ एतानि तुलसीदलानि ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • धूप – ॐ वनस्पतिरसो दिव्यो गन्धाढ्यः सुमनोहरः । आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ एष धूपः ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • दीप – ॐ आज्यं च वर्ति संयुक्तं वह्निना योजितं मया। दीपं गृहाण देवेश त्रैलोक्यतिमिरापहं ॥ एष दीपः ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • नैवेद्य – ॐ नैवेद्यं गृह्यतां देव भक्ति मे ह्यचलां कुरु । ईप्सितं च वरं देहि परत्र च पराङ्गतिम् ॥ एतानि नैवेद्यानि ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • अपुङ्गनैवेद्यं – ॐ त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पितम्। गृहाण सुमुखो भूत्वा प्रसीद पुरुषोत्तम ॥ इदमपुङ्गनैवेद्यम् ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • पृथुकान्नानि – ॐ कदलीगुड़ संमिश्रमामतण्डुलसंयुतम् । शर्करादिसमायुक्तं नैवेद्यं प्रतिगृह्राताम् ॥ एतानि पृथुकान्नानि ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • शीतलप्रसाद – ॐ शर्कराकदलीयुक्तं गोदुग्धेन समन्वितम् । नैवेद्यमुत्तमं देव गृहाण पुरुषोत्तम ॥ एतानि सुस्वादुदिव्यान्नं ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • फल – ॐ फलान्यमृतकल्पानि स्थापितानि पुरतस्तव। तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥ एतानि फलानि ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • दही-चूरा-चीनी – एतानि ससित दधिचिपटान्नानि ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • जल – ॐ सर्वपापहरं दिव्यं गाङ्गेयं निर्मल जलम् । दत्तमाचमनीयं ते गृहाण पुरुषोत्तम॥ इदं आचमनीयं ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • ताम्बूल – ॐ पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्। कर्पूरादिसमायुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ इदं ताम्बूलं ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥
  • आभूषण अथवा आभूषण हेतु द्रव्य – ॐ काञ्चनं रजतोपेतं नानारत्नसमन्वितम् । भूषणार्थं च देवेश गृहाण जगतीपते ॥ इदं भूषणं (भूषणार्थं द्रव्यं) ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥

पुष्पाञ्जलि मंत्र :

ॐ अमोघं पुण्डरीकाक्षं नृसिहं दैत्यसूदनम् । हृषीकेशं जगन्नाथं वागीशं वरदायकम् ॥
गुणत्रयं गुणातीतं गोविन्दं गरुडध्वजम् । जनार्दनं जनानन्दं जानकीवल्लभं जयम् ॥
प्रणमामि सदा सत्यनारायणमतः परम् । दुर्गमे विषमे घोरे शत्रुभिः परिपीडिते ॥
विविधापत्सु दुष्टेषु तथान्येष्वपि यद्भयं । नामान्येतानि सङ्कीर्त्यं ईप्सितं फलमाप्नुयात्॥
सत्यनारायणं देवं वन्देऽहं कामदं प्रभुम् । लीलया च ततो विश्वं येन तस्मै नमो नमः ॥
एष मंत्रपुष्पाञ्जलिः ॐ भूर्भुवः स्वः भगवते श्रीसत्यनारायणाय नमः ॥

अगले पृष्ठ पर जायें : 12345

Leave a Reply