भगवान सूर्य प्रत्यक्ष देवता है और पंचदेवताओं में से एक हैं, इसके साथ ही नवग्रहों में प्रमुख हैं और ग्रहराज के नाम से जाने जाते हैं। आरोग्य, आत्मा आदि के कारक हैं। भगवान सूर्य की अराधना में सहस्रनाम पाठ करना भी विशेष महत्वपूर्ण है। इसके साथ ही हवन के लिये भी सहस्रनाम का महत्व होता है। इस आलेख में भगवान सूर्य के दो सहस्रनाम दिये गये हैं जिसमें से एक भविष्य पुराणोक्त है और दूसरा स्कन्द पुराणोक्त।
सूर्य सहस्रनाम स्तोत्र – surya sahasranam stotra
सुमन्तुरुवाच
माघे मासि सिते पक्षे सप्तम्याङ्कुरुनन्दन । निराहारो रविम्भक्त्या पूजयेद्विधिना नृप ॥१॥
पूर्वोक्तेन जपेज्जप्यन्देवस्य पुरतः स्थितः । शुद्धैकाग्रमना राजञ्जितक्रोधो जितेन्द्रियः ॥२॥
शतानीक उवाच
केन मन्त्रेण जप्तेन दर्शनं भगवान्व्रजेत् । स्तोत्रेण वापि सविता तन्मे कथय सुव्रत ॥३॥
सुमन्तुरुवाच
स्तुतो नामसहस्रेण यदा भक्तिमता मया । तदा मे दर्शनं यातः साक्षाद् देवो दिवाकरः ॥४॥
शतानीक उवाच
नाम्नां सहस्रं सवितुः श्रोतुमिच्चामि हे द्विज । येन ते दर्शनं यातः साक्षाद्देवो दिवाकरः ॥१॥
सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम् । स्तोत्रमेतन्महापुण्यं सर्वोपद्रवनाशनम् ॥२॥
न तदस्ति भयं किञ्चिद्यदनेन न नश्यति । ज्वराद्यैर्मुच्यते राजन् स्तोत्रेऽस्मिन् पठिते नरः ॥३॥
अन्ये च रोगाः शाम्यन्ति पठतः शृण्वतस्तथा । सम्पद्यन्ते यथा कामाः सर्व एव यथेप्सिताः ॥४॥
य एतदादितः श्रुत्वा सङ्ग्रामं प्रविशेन्नरः । स जित्वा समरे शत्रूनभ्येति गृहमक्षतः ॥५॥
वन्ध्यानां पुत्रजननं भीतानां भयनाशनम् । भूतिकारि दरिद्राणां कुष्ठिनां परमौषधम् ॥६॥
बालानां चैव सर्वेषां ग्रहरक्षोनिवारणम् । पठते संयतो राजन् स श्रेयः परमाप्नुयात् ॥७॥
स सिद्धः सर्वसङ्कल्पः सुखमत्यन्तमश्नुते । धर्मार्थिभिर्धर्मलुब्धैः सुखाय च सुखार्थिभिः ॥८॥
राज्याय राज्यकामैश्च पठितव्यमिदं नरैः । विद्यावहं तु विप्राणां क्षत्रियाणां जयावहम् ॥९॥
पश्वावहं तु वैश्यानां शूद्राणां धर्मवर्धनम् । पठतां शृण्वतामेतद्भवतीति न संशयः ॥१०॥
तच्चृणुष्व नृपश्रेष्ठ प्रयतात्मा ब्रवीमि ते । नाम्नां सहस्रं विख्यातं देवदेवस्य धीमतः ॥११॥
॥ ध्यानम् ॥
ध्येयः सदा सवितृमण्डलमध्यवर्ती
नारायणः सरसिजासनसन्निविष्टः ।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥
॥ अथ स्तोत्रम् ॥
ॐ विश्वविद्विश्वजित्कर्ता विश्वात्मा विश्वतोमुखः । विश्वेश्वरो विश्वयोनिर्नियतात्मा जितेन्द्रियः ॥१॥
कालाश्रयः कालकर्ता कालहा कालनाशनः । महायोगी महासिद्धिर्महात्मा सुमहाबलः ॥२॥
प्रभुर्विभुर्भूतनाथो भूतात्मा भुवनेश्वरः । भूतभव्यो भावितात्मा भूतान्तःकरणं शिवः ॥३॥
शरण्यः कमलानन्दो नन्दनो नन्दवर्धनः । वरेण्यो वरदो योगी सुसंयुक्तः प्रकाशकः ॥४॥
प्राप्तयानः परप्राणः पूतात्मा प्रयतः प्रियः । नयः सहस्रपात् साधुर्दिव्यकुण्डलमण्डितः ॥५॥
अव्यङ्गधारी धीरात्मा सविता वायुवाहनः । समाहितमतिर्दाता विधाता कृतमङ्गलः ॥६॥
कपर्दी कल्पपाद्रुद्रः सुमना धर्मवत्सलः । समायुक्तो विमुक्तात्मा कृतात्मा कृतिनां वरः ॥७॥
अविचिन्त्यवपुः श्रेष्ठो महायोगी महेश्वरः । कान्तः कामारिरादित्यो नियतात्मा निराकुलः ॥८॥
कामः कारुणिकः कर्ता कमलाकरबोधनः । सप्तसप्तिरचिन्त्यात्मा महाकारुणिकोत्तमः ॥९॥
सञ्जीवनो जीवनाथो जयो जीवो जगत्पतिः । अयुक्तो विश्वनिलयः संविभागी वृषध्वजः ॥१०॥
वृषाकपिः कल्पकर्ता कल्पान्तकरणो रविः । एकचक्ररथो मौनी सुरथो रथिनां वरः ॥११॥
सक्रोधनो रश्मिमाली तेजोराशिर्विभावसुः । दिव्यकृद्दिनकृद्देवो देवदेवो दिवस्पतिः ॥१२॥
दीननाथो हरो होता दिव्यबाहुर्दिवाकरः । यज्ञो यज्ञपतिः पूषा स्वर्णरेताः परावरः ॥१३॥
परापरज्ञस्तरणिरंशुमाली मनोहरः । प्राज्ञः प्राज्ञपतिः सूर्यः सविता विष्णुरंशुमान् ॥१४॥
सदागतिर्गन्धवहो विहितो विधिराशुगः । पतङ्गः पतगः स्थाणुर्विहङ्गो विहगो वरः ॥१५॥
हर्यश्वो हरिताश्वश्च हरिदश्वो जगत्प्रियः । त्र्यम्बकः सर्वदमनो भावितात्मा भिषग्वरः ॥१६॥
आलोककृल्लोकनाथो लोकालोकनमस्कृतः । कालः कल्पान्तको वह्निस्तपनः संप्रतापनः ॥१७॥
विरोचनो विरूपाक्षः सहस्राक्षः पुरन्दरः । सहस्ररश्मिर्मिहिरो विविधाम्बरभूषणः ॥१८॥
खगः प्रतर्दनो धन्यो हयगो वाग्विशारदः । श्रीमानशिशिरो वाग्मी श्रीपतिः श्रीनिकेतनः ॥१९॥
श्रीकण्ठः श्रीधरः श्रीमान् श्रीनिवासो वसुप्रदः । कामचारी महामायो महोग्रोऽविदितामयः ॥२०॥
तीर्थक्रियावान् सुनयो विभक्तो भक्तवत्सलः । कीर्तिः कीर्तिकरो नित्यः कुण्डली कवची रथी ॥२१॥
हिरण्यरेताः सप्ताश्वः प्रयतात्मा परन्तपः । बुद्धिमानमरश्रेष्ठो रोचिष्णुः पाकशासनः ॥२२॥
समुद्रो धनदो धाता मान्धाता कश्मलापहः । तमोघ्नो ध्वान्तहा वह्निर्होताऽन्तःकरणो गुहः ॥२३॥
पशुमान् प्रयतानन्दो भूतेशः श्रीमतां वरः । नित्योऽदितो नित्यरथः सुरेशः सुरपूजितः ॥२४॥
अजितो विजितो जेता जङ्गमस्थावरात्मकः । जीवानन्दो नित्यगामी विजेता विजयप्रदः ॥२५॥
पर्जन्योऽग्निः स्थितिः स्थेयः स्थविरोऽथ निरञ्जनः । प्रद्योतनो रथारूढः सर्वलोकप्रकाशकः ॥२६॥
ध्रुवो मेषी महावीर्यो हंसः संसारतारकः । सृष्टिकर्ता क्रियाहेतुर्मार्तण्डो मरुतां पतिः ॥२७॥
मरुत्वान् दहनस्त्वष्टा भगो भर्गोऽर्यमा कपिः । वरुणेशो जगन्नाथः कृतकृत्यः सुलोचनः ॥२८॥
विवस्वान् भानुमान् कार्यः कारणस्तेजसां निधिः । असङ्गगामी तिग्मांशुर्घर्मांशुर्दीप्तदीधितिः ॥२९॥
सहस्रदीधितिर्ब्रध्नः सहस्रांशुर्दिवाकरः । गभस्तिमान् दीधितिमान् स्रग्वी मणिकुलद्युतिः ॥३०॥
भास्करः सुरकार्यज्ञः सर्वज्ञस्तीक्ष्णदीधितिः । सुरज्येष्ठः सुरपतिर्बहुज्ञो वचसां पतिः ॥३१॥
तेजोनिधिर्बृहत्तेजा बृहत्कीर्तिर्बृहस्पतिः । अहिमानूर्जितो धीमानामुक्तः कीर्तिवर्धनः ॥३२॥
महावैद्यो गणपतिर्धनेशो गणनायकः । तीव्रप्रतापनस्तापी तापनो विश्वतापनः ॥३३॥
कार्तस्वरो हृषीकेशः पद्मानन्दोऽतिनन्दितः । पद्मनाभोऽमृताहारः स्थितिमान् केतुमान् नभः ॥३४॥
अनाद्यन्तोऽच्युतो विश्वो विश्वामित्रो घृणिर्विराट् । आमुक्तकवचो वाग्मी कञ्चुकी विश्वभावनः ॥३५॥
अनिमित्तगतिः श्रेष्ठः शरण्यः सर्वतोमुखः । विगाही वेणुरसहः समायुक्तः समाक्रतुः ॥३६॥
धर्मकेतुर्धर्मरतिः संहर्ता संयमो यमः । प्रणतार्तिहरो वायुः सिद्धकार्यो जनेश्वरः ॥३७॥
नभो विगाहनः सत्यः सवितात्मा मनोहरः । हारी हरिर्हरो वायुरृतुः कालानलद्युतिः ॥३८॥
सुखसेव्यो महातेजा जगतामेककारणम् । महेन्द्रो विष्टुतः स्तोत्रं स्तुतिहेतुः प्रभाकरः ॥३९॥
सहस्रकर आयुष्मान् अरोषः सुखदः सुखी । व्याधिहा सुखदः सौख्यं कल्याणः कलतां वरः ॥४०॥
आरोग्यकारणं सिद्धिरृद्धिर्वृद्धिर्बृहस्पतिः । हिरण्यरेता आरोग्यं विद्वान् ब्रध्नो बुधो महान् ॥४१॥
प्राणवान् धृतिमान् घर्मो घर्मकर्ता रुचिप्रदः । सर्वप्रियः सर्वसहः सर्वशत्रुविनाशनः ॥४२॥
प्रांशुर्विद्योतनो द्योतः सहस्रकिरणः कृती । केयूरी भूषणोद्भासी भासितो भासनोऽनलः ॥४३॥
शरण्यार्तिहरो होता खद्योतः खगसत्तमः । सर्वद्योतो भवद्योतः सर्वद्युतिकरो मतः ॥४४॥
कल्याणः कल्याणकरः कल्यः कल्यकरः कविः । कल्याणकृत् कल्यवपुः सर्वकल्याणभाजनम् ॥४५॥
शान्तिप्रियः प्रसन्नात्मा प्रशान्तः प्रशमप्रियः । उदारकर्मा सुनयः सुवर्चा वर्चसोज्ज्वलः ॥ ४६॥
वर्चस्वी वर्चसामीशस्त्रैलोक्येशो वशानुगः । तेजस्वी सुयशा वर्ष्मी वर्णाध्यक्षो बलिप्रियः ॥४७॥
यशस्वी तेजोनिलयस्तेजस्वी प्रकृतिस्थितः । आकाशगः शीघ्रगतिराशुगो गतिमान् खगः ॥४८॥
गोपतिर्ग्रहदेवेशो गोमानेकः प्रभञ्जनः । जनिता प्रजनो जीवो दीपः सर्वप्रकाशकः ॥४९॥
सर्वसाक्षी योगनित्यो नभस्वानसुरान्तकः । रक्षोघ्नो विघ्नशमनः किरीटी सुमनःप्रियः ॥५०॥
मरीचिमाली सुमतिः कृताभिख्यविशेषकः । शिष्टाचारः शुभाकारः स्वचाराचारतत्परः ॥५१॥
मन्दारो माठरो वेणुः क्षुधापः क्ष्मापतिर्गुरुः । सुविशिष्टो विशिष्टात्मा विधेयो ज्ञानशोभनः ॥५२॥
महाश्वेतः प्रियो ज्ञेयः सामगो मोक्षदायकः । सर्ववेदप्रगीतात्मा सर्ववेदलयो महान् ॥५३॥
वेदमूर्तिश्चतुर्वेदो वेदभृद्वेदपारगः । क्रियावानसितो जिष्णुर्वरीयांशुर्वरप्रदः ॥५४॥
व्रतचारी व्रतधरो लोकबन्धुरलङ्कृतः । अलङ्काराक्षरो वेद्यो विद्यावान् विदिताशयः ॥५५॥
आकारो भूषणो भूष्यो भूष्णुर्भुवनपूजितः । चक्रपाणिर्ध्वजधरः सुरेशो लोकवत्सलः ॥५६॥
वाग्मिपतिर्महाबाहुः प्रकृतिर्विकृतिर्गुणः । अन्धकारापहः श्रेष्ठो युगावर्तो युगादिकृत् ॥५७॥
अप्रमेयः सदायोगी निरहङ्कार ईश्वरः । शुभप्रदः शुभः शास्ता शुभकर्मा शुभप्रदः ॥५८॥
सत्यवान् श्रुतिमानुच्चैर्नकारो वृद्धिदोऽनलः । बलभृद्बलदो बन्धुर्मतिमान् बलिनां वरः ॥५९॥
अनङ्गो नागराजेन्द्रः पद्मयोनिर्गणेश्वरः । संवत्सर ऋतुर्नेता कालचक्रप्रवर्तकः ॥६०॥
पद्मेक्षणः पद्मयोनिः प्रभावानमरः प्रभुः । सुमूर्तिः सुमतिः सोमो गोविन्दो जगदादिजः ॥६१॥
पीतवासाः कृष्णवासा दिग्वासास्त्विन्द्रियातिगः । अतीन्द्रियोऽनेकरूपः स्कन्दः परपुरञ्जयः ॥६२॥
शक्तिमाञ्जलधृग्भास्वान् मोक्षहेतुरयोनिजः । सर्वदर्शी जितादर्शो दुःस्वप्नाशुभनाशनः ॥६३॥
माङ्गल्यकर्ता तरणिर्वेगवान् कश्मलापहः । स्पष्टाक्षरो महामन्त्रो विशाखो यजनप्रियः ॥६४॥
विश्वकर्मा महाशक्तिर्द्युतिरीशो विहङ्गमः । विचक्षणो दक्ष इन्द्रः प्रत्यूषः प्रियदर्शनः ॥६५॥
अखिन्नो वेदनिलयो वेदविद्विदिताशयः । प्रभाकरो जितरिपुः सुजनोऽरुणसारथिः ॥६६॥
कुनाशी सुरतः स्कन्दो महितोऽभिमतो गुरुः । ग्रहराजो ग्रहपतिर्ग्रहनक्षत्रमण्डलः ॥६७॥
भास्करः सततानन्दो नन्दनो नरवाहनः । मङ्गलोऽथ मङ्गलवान् माङ्गल्यो मङ्गलावहः ॥६८॥
मङ्गल्यचारुचरितः शीर्णः सर्वव्रतो व्रती । चतुर्मुखः पद्ममाली पूतात्मा प्रणतार्तिहा ॥६९॥
अकिञ्चनः सतामीशो निर्गुणो गुणवाञ्चुचिः । सम्पूर्णः पुण्डरीकाक्षो विधेयो योगतत्परः ॥७०॥
सहस्रांशुः क्रतुमतिः सर्वज्ञः सुमतिः सुवाक् । सुवाहनो माल्यदामा कृताहारो हरिप्रियः ॥७१॥
ब्रह्मा प्रचेताः प्रथितः प्रयतात्मा स्थिरात्मकः । शतविन्दुः शतमुखो गरीयाननलप्रभः ॥७२॥
धीरो महत्तरो विप्रः पुराणपुरुषोत्तमः । विद्याराजाधिराजो हि विद्यावान् भूतिदः स्थितः ॥७३॥
अनिर्देश्यवपुः श्रीमान् विपाप्मा बहुमङ्गलः । स्वःस्थितः सुरथः स्वर्णो मोक्षदो बलिकेतनः ॥७४॥
निर्द्वन्द्वो द्वन्द्वहा सर्गः सर्वगः संप्रकाशकः । दयालुः सूक्ष्मधीः क्षान्तिः क्षेमाक्षेमस्थितिप्रियः ॥७५॥
भूधरो भूपतिर्वक्ता पवित्रात्मा त्रिलोचनः । महावराहः प्रियकृद्दाता भोक्ताऽभयप्रदः ॥७६॥
चक्रवर्ती धृतिकरः सम्पूर्णोऽथ महेश्वरः । चतुर्वेदधरोऽचिन्त्यो विनिन्द्यो विविधाशनः ॥७७॥
विचित्ररथ एकाकी सप्तसप्तिः परात्परः । सर्वोदधिस्थितिकरः स्थितिस्थेयः स्थितिप्रियः ॥७८॥
निष्कलः पुष्कलो विभुर्वसुमान् वासवप्रियः । पशुमान् वासवस्वामी वसुधामा वसुप्रदः ॥७९॥
बलवान् ज्ञानवांस्तत्त्वमोङ्कारस्त्रिषु संस्थितः । सङ्कल्पयोनिर्दिनकृद्भगवान् कारणापहः ॥८०॥
नीलकण्ठो धनाध्यक्षश्चतुर्वेदप्रियंवदः । वषट्कारोद्गाता होता स्वाहाकारो हुताहुतिः ॥८१॥
जनार्दनो जनानन्दो नरो नारायणोऽम्बुदः । सन्देहनाशनो वायुर्धन्वी सुरनमस्कृतः ॥८२॥
विग्रही विमलो विन्दुर्विशोको विमलद्युतिः । द्युतिमान् द्योतनो विद्युद्विद्यावान् विदितो बली ॥८३॥
घर्मदो हिमदो हासः कृष्णवर्त्मा सुताजितः । सावित्रीभावितो राजा विश्वामित्रो घृणिर्विराट् ॥८४॥
सप्तार्चिः सप्ततुरगः सप्तलोकनमस्कृतः । सम्पूर्णोऽथ जगन्नाथः सुमनाः शोभनप्रियः ॥८५॥
सन्तापहृत् परो मन्त्रो मन्त्रमूर्तिर्महाबलः । श्रेष्ठात्मा सुप्रियः शम्भुर्मरुतामीश्वरेश्वरः ॥९६॥
संसारगतिविच्चेत्ता संसारार्णवतारकः । सप्तजिह्वः सहस्रार्ची रत्नगर्भोऽपराजितः ॥९७॥
धर्मकेतुरमेयात्मा धर्माधर्मवरप्रदः । लोकसाक्षी लोकगुरुर्लोकेशश्चण्डवाहनः ॥९८॥
धर्मयूपो यूपवृक्षो धनुष्पाणिर्धनुर्धरः । पिनाकधृङ्महोत्साहो महामायो महाशनः ॥९९॥
वीरः शक्तिमतां श्रेष्ठः सर्वशस्त्रभृतां वरः । ज्ञानगम्यो दुराराध्यो लोहिताङ्गो विवर्धनः ॥१००॥
खगोऽन्धो धर्मदो नित्यो धर्मकृच्चित्रविक्रमः । भगवानात्मवान् मन्त्रस्त्र्यक्षरो नीललोहितः ॥१०१॥
एकोऽनेकस्त्रयी कालः सविता समितिञ्जयः । शार्ङ्गधन्वाऽनलो भीमः सर्वप्रहरणायुधः ॥१०२॥
सुकर्मा परमेष्ठी च नाकपाली दिविस्थितः । वदान्यो वासुकिर्वैद्य आत्रेयोऽथ पराक्रमः ॥१०३॥
द्वापरः परमोदारः परमो ब्रह्मचर्यवान् । उदीच्यवेषो मुकुटी पद्महस्तो हिमांशुभृत् ॥१०४॥
सितः प्रसन्नवदनः पद्मोदरनिभाननः । सायं दिवा दिव्यवपुरनिर्देश्यो महालयः ॥१०५॥
महारथो महानीशः शेषः सत्त्वरजस्तमः । धृतातपत्रप्रतिमो विमर्षी निर्णयः स्थितः ॥१०६॥
अहिंसकः शुद्धमतिरद्वितीयो विवर्धनः । सर्वदो धनदो मोक्षो विहारी बहुदायकः ॥१०७॥
चारुरात्रिहरो नाथो भगवान् सर्वगोऽव्ययः । मनोहरवपुः शुभ्रः शोभनः सुप्रभावनः ॥१०८॥
सुप्रभावः सुप्रतापः सुनेत्रो दिग्विदिक्पतिः । राज्ञीप्रियः शब्दकरो ग्रहेशस्तिमिरापहः ॥१०९॥
सैंहिकेयरिपुर्देवो वरदो वरनायकः । चतुर्भुजो महायोगी योगीश्वरपतिस्तथा ॥११०॥
अनादिरूपोऽदितिजो रत्नकान्तिः प्रभामयः । जगत्प्रदीपो विस्तीर्णो महाविस्तीर्णमण्डलः ॥१११॥
एकचक्ररथः स्वर्णरथः स्वर्णशरीरधृक् । निरालम्बो गगनगो धर्मकर्मप्रभावकृत् ॥११२॥
धर्मात्मा कर्मणां साक्षी प्रत्यक्षः परमेश्वरः । मेरुसेवी सुमेधावी मेरुरक्षाकरो महान् ॥११३॥
आधारभूतो रतिमांस्तथा च धनधान्यकृत् । पापसन्तापहर्ता च मनोवाञ्चितदायकः ॥११४॥
रोगहर्ता राज्यदायी रमणीयगुणोऽनृणी । कालत्रयानन्तरूपो मुनिवृन्दनमस्कृतः ॥११५॥
सन्ध्यारागकरः सिद्धः सन्ध्यावन्दनवन्दितः । साम्राज्यदाननिरतः समाराधनतोषवान् ॥११६॥
भक्तदुःखक्षयकरो भवसागरतारकः। भयापहर्ता भगवानप्रमेयपराक्रमः ॥
मनुस्वामी मनुपतिर्मान्यो मन्वन्तराधिपः ॥११७॥
॥ फलश्रुतिः ॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्चसि । नाम्नां सहस्रं सवितुः पाराशर्यो यदाह मे ॥१॥
धन्यं यशस्यमायुष्यं दुःखदुःस्वप्ननाशनम् । बन्धमोक्षकरं चैव भानोर्नामानुकीर्तनात् ॥२॥
यस्त्विदं शृणुयान्नित्यं पठेद्वा प्रयतो नरः । अक्षयं सुखमन्नाद्यं भवेत्तस्योपसाधितम् ॥३॥
नृपाग्नितस्करभयं व्याधितो न भयं भवेत् । विजयी च भवेन्नित्यमाश्रयं परमाप्नुयात् ॥४॥
कीर्तिमान् सुभगो विद्वान् स सुखी प्रियदर्शनः । जीवेद्वर्षशतायुश्च सर्वव्याधिविवर्जितः ॥५॥
नाम्नां सहस्रमिदमंशुमतः पठेद्यः
प्रातः शुचिर्नियमवान् सुसमृद्धियुक्तः ।
दूरेण तं परिहरन्ति सदैव रोगाः
भूताः सुपर्णमिव सर्वमहोरगेन्द्राः ॥६॥
॥ इति श्री भविष्यपुराणे सप्तमकल्पे श्रीभगवत्सूर्यस्य सहस्रनामस्तोत्रं सम्पूर्णम् ॥
श्रीसूर्य सहस्रनाम स्तोत्रम् – स्कन्द पुराणोक्त
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
विनियोग – अस्य श्रीसूर्यसहस्रनामस्तोत्रमहामन्त्रस्य आदित्योपासकः श्रीसूर्यवर्चा ऋषिः । श्रीमदादित्यनारायणो देवता ब्रह्मवर्चस्विता मूलमिति बीजम् । सर्वपापविनाशक इति शक्तिः । अग्निश्च जातवेदाश्चेति परमो मन्त्रः । हृद्रोगहारीति कीलकम् । निषङ्गी कवचीत्यस्त्रम् । भक्तरक्षणतत्पर इति कवचम् । श्रीमदादित्यप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
॥ न्यास ॥
- आदित्योऽदितिदेव अङ्गुष्ठाभ्यां नमः ॥
- मन्त्रो यन्त्रं तथा क्षेत्रं तर्जनीभ्यां स्वाहा ॥
- गायत्रीवल्लभः प्राशुः मध्यमाभ्यां वौषट् ॥
- छन्दोमयः शास्त्रमय अनामिकाभ्यां हुम् ॥
- सुब्रह्मण्यश्च सूरीन्द्र कनिष्ठिकाभ्यां वषट् ॥
- सुरभूसुरदत्तार्घ्यशुद्धाम्बुग्रहणेरत करतलकरपृष्ठाभ्यां फट् ॥
॥ सूर्यदेवध्यानम् ॥
आदित्यस्त्वादिदेवोऽयं भास्करो भवनाशनः ।
विश्वमूर्तिर्विश्वनेता चिन्मूर्तिश्चिन्तितार्थदः ॥३॥
मण्डलस्य च विस्तारं नमस्कारविधिं ततः ।
पूजाक्रमविशेषेण श्रुत्वा पुनरभाषत ॥
सूर्यवर्चा उवाच
भगवन् सर्वतत्त्वज्ञ सर्वकर्मप्रवर्तक । नाम्नां सहस्रं दिव्यानां श्रोतुमिच्छाम्यहं रवेः ॥
बृहस्पतिरुवाच सूर्यवर्चः शृणु परं सूर्यस्य च महात्मनः । उत्तमं नामसाहस्रं यत्तमस्ते निकृन्तति ॥
बृहस्पतिस्सभगवानित्युक्तसूर्यवर्चसम् । ध्यात्वा नारायणं देवं भानुमण्डलमध्यगम् ॥
॥अथ श्रीसूर्यसहस्रनामस्तोत्रम् ॥
ॐ आदित्यश्चादिदेवोऽयं भास्करो भवनाशनः । विश्वमूर्तिर्विश्वनेता चिन्मूर्तिश्चिन्तितार्थदः ॥१॥
सद्योजातो वामदेवस्सर्वपापविनाशकः । वेद्यो वैद्यस्सदायोगी विश्वकर्मा विभावसुः ॥२॥
विरिञ्चिर्विश्रुतात्मा च विश्वसर्गप्रवर्तकः । विद्यात्मा विषयज्ञश्च विश्वात्मा विश्वपापहा ॥३॥
विदुषामीश्वरो विद्वान्विश्वनेता विशेषवित् । वीरहा विषयश्शून्यो वालखिल्यादिवन्दितः ॥४॥
वामनो वरदः प्रांशुर्वासुदेवस्सनातनः । वालखिल्यपुरोगश्च वारिदो वसुमान्वसुः ॥५॥
वरेण्यो वासुदेवश्च वसुरेता वसुप्रदः । वायुर्वाचस्पतिर्विश्वं विष्णुर्विश्वामरेश्वरः ॥६॥
ओङ्कारश्च वषट्कारः सोमग्रहपुरोगमः । ग्रहनक्षत्रमाली च शिंशुमारशरीरवान् ॥७॥
शरण्यश्शङ्करश्शम्भुः कालात्मा कान्तिवर्धनः। कामदेवः कामहर्ता विराड्वीरासनस्थितः ॥८॥
विस्तारभूमा भूतेशो विश्वगुप्तनुरीश्वरः । मन्देहरिपुरिन्दुश्च बिन्दुस्सुन्दरविग्रहः ॥९॥
सामगानप्रियस्साधुस्सत्यसन्धस्सदाशिवः । समात्मासन्धिरव्यक्तं साम्बस्सारसवर्धनः ॥१०॥
सूदस्सूक्ष्मस्सूक्ष्मकायस्सूक्ष्मदृक्सुदृगव्ययः । रथाङ्गहेतिरम्भोजवर्धनः सर्वसम्मतः ॥११॥
वज्रभृद्वत्सलो वाग्मी वागीशो वायुवाहनः । धर्मात्माऽधर्मशत्रुश्च कर्मसाक्षी परन्तपः ॥१२॥
पञ्चाननः पञ्चमूर्तिः पञ्चाङ्गी पापभञ्जनः । पराशरः पुण्यमूर्तिः पुरुहूतानुजः परः ॥१३॥
सनात्सर्वं सहस्सर्वस्सर्वगस्सर्वपोषकः । सप्ताश्वस्सप्तरज्जुश्च सप्तैधास्सप्तसारथिः ॥१४॥
सप्तप्रियस्सप्तदोग्धा मुञ्जिकेशो मुरान्तकः । शुकश्शुद्धश्शुभाचारस्सर्वबीजमनायकः ॥१५॥
कर्ता विकर्ता गहनो कारणं करणं महत् । अकुण्ठविक्रमश्शौरिर्वैकुण्ठो भगवान्भवः ॥१६॥
भानुर्हंसस्सहस्रांशुस्तपनस्सविता पिता । जातुकर्णो जयी ज्यायान् मीनाङ्गी सिंहपालकः ॥१७॥
एकोच्चस्सप्तनीचश्च षट्पतिर्मानवल्लभः । ऋतुस्सुदर्शनः कालः कुञ्जराननपूजितः ॥१८॥
द्विजोऽद्विजश्शुचिर्धीरः श्रीमान् मूर्तित्रयात्मकः । शिवङ्करः श्रीभूतेशस्सिन्धुरुच्चैश्श्रवा हरिः ॥१९॥
प्रद्मप्रबोधकः पद्मी पद्मगर्भः प्रभाकरः । अह्नाम्प्रभुर्दिनमणिदैतेयकुलमृत्युकृत् ॥२०॥
कला काष्ठा मुहूर्तात्मा दिनरात्रिशरीरवान् । पद्मापतिः परंधाम परमात्मा परायणम् ॥२१॥
निदानं नित्यमद्वैतं केवलं मुक्तिकारणम् । सर्वभूतशरीरस्थं चैतन्यं ब्रह्मनिर्गुणम् ॥२२॥
एको नैकः कृतिश्शान्तिर्मतिर्बुद्धिधृतिस्स्मृतिः । मन्त्रो यन्त्रं तथाक्षेत्रं क्षेत्रज्ञोऽक्षरसंज्ञिकः ॥२३॥
इन्द्रियाणामधिष्ठाता तत्त्वं तत्पुरुषाग्रणीः । अमायी मायिनामग्र्यो लोकस्वामी स्वराड्गुरुः ॥२४॥
प्राणदः प्रणवः प्राणो प्राप्तिसाधनमम्बरम् । जगन्मित्रं पवित्रं च देवानामपिदैवतम् ॥२५॥
सिन्धुनिद्राद्धिरण्याङ्गो सैंहिकेयविशोधितः । विषुवच्चायनं कान्तिश्चन्द्रोत्पत्त्ययनं ग्रहः ॥२६॥
दिगीशो देववृन्देशो नक्षत्रेशो धनेश्वरः । सूर्यवर्चास्सूरिराद्यस्सूर्यापतिरुमाधवः ॥२७॥
विभाकरो द्वादशात्मा कपिलः कपिशिक्षकः । कपितातः कपिः पिङ्गः पङ्गुकालपिता हरः ॥२८॥
विविक्तस्सागरस्सेतुस्ताम्रस्ताम्ररथो रथी । मेरुप्रभस्सुमेरुश्च बुधनुन्नरथो भवः ॥२९॥
सहस्रप्रग्रहो धन्वी मेधावी श्रुतिसागरः । भिषक्पिता भिषक्सारो भैषजं भवरोगहृत् ॥३०॥
जन्मादिश्शास्त्रयोनिश्च विज्ञानं ज्ञानमेव च । ज्ञाता ज्ञेयं स्फुटस्फूर्तिरनीशो नाहविर्नृपः ॥३१॥
अविच्छिन्नान्वयश्शास्ता रामो राजीवलोचनः । गायत्रीवल्लभः प्रांशुर्गेयो गाता गुणार्णवः ॥३२॥
सत्यमेधास्समाम्नायस्सन्धाता कश्यपात्मजः । सर्वधर्ममयस्साक्षी चित्कूटनिलयोऽनलः ॥३३॥
चिरन्तनश्चिदात्मा च वैशाखशिखिवाहनः । अश्वत्थः कुशनाभश्च साम्राज्यं जगदीश्वरः ॥३४॥
दीप्तमूर्तिमहामूर्तिस्सुतपाः ऋतुभुक्पशुः । यज्वा जाज्ज्वल्यदेहश्च शत्रुमण्डलखण्डनः ॥३५॥
शरारुध्वंसकश्शास्ता शास्त्रयोनिर्निरञ्जनः । अनिन्द्यो निन्द्यविध्वंसी विश्वामित्रवरप्रदः ॥३६॥
विध्यर्थबोधको भानुर्विन्ध्यवीथी प्लवङ्गमः । तत्पदार्थोऽहंपदार्थस्तत्त्वमस्यर्थबोधकः ॥३७॥
त एते त्वमहं देवयक्षरक्षोभयङ्करः । मृत्युञ्जयः पाकभेदी सुषुम्नातालशोभितः ॥३८॥
सहस्राराम्बुजारूढो कर्णिकामध्यमण्डपः । गुहाशयश्शिवस्स्थाणुर्गोप्ता गुणपतिर्गिरिः ॥३९॥
गोमूर्तिस्सर्वदेवात्मा सर्वसन्ध्याप्रवर्तकः । ज्योतिष्मानिन्द्रशर्मा च चिदानन्दो दिगम्बरः ॥४०॥
किरीटी कवची खड्गी शङ्खी शार्ङ्गी च पद्मकः । वेत्री शूली निषङ्गी च तापनस्तपतां वरः ॥४१॥
शङ्करश्चारुसर्वाङ्गस्सर्वबन्धविमोचकः । महात्मा चारुसर्वाङ्गस्सर्वभूषणभूषितः ॥४२॥
भक्तेप्सितार्थसन्धानकल्पवृक्षः ककुत्पतिः । बन्धूककुसुमप्रख्यस्सर्वशस्त्रभृतां वरः ॥४३॥
ब्रह्मण्यो ब्राह्मणो ब्राह्मी राजर्षिरमितप्रभः । सनातनवरस्सोमस्सर्वतत्त्वावलम्बनः ॥४४॥
महापातालसम्मान्यो मानिनामग्रणीर्महान् । सिद्धार्थकृत्सिद्धगुह्यः सिद्धानामुत्तमागतिः ॥४५॥
लोकनाथो विभानाथो माठरो मधुवल्लभः । तीक्ष्णांशुस्तीर्थगर्भश्च श्वेतलोहितवाहनः ॥४६॥
कर्म कर्मविदां नेता सदावरणमण्डलः । सहस्रगुरनन्तात्मा विशिष्टश्शिष्टपोषकः ॥४७॥
दिव्यमूर्तिर्देवसिंहो दिविषत्प्रवरो दमः । विशालाक्षश्श्रीमूर्तिर्विश्वभ्भरविभावसुः ॥४८॥
मूर्धन्वदिष्टदायी च कृतिचिन्तानिवर्तकः । गन्धर्वगणगोप्ता च वस्वादिगणवन्दितः ॥४९॥
ग्रहपो ग्रहनेता च ग्रन्धिबन्धविभञ्जनः । ग्रसिष्णुर्ग्रहगोप्ता च ग्राही ग्राह्यशरीरभाः ॥५०॥
तपस्वी तापसश्शोच्यो तरणिर्द्युमणिर्मणिः । चिन्तामणिर्दिनमणिर्ज्योतिर्मणिरजेश्वरः ॥५१॥
छन्दोमयश्शास्त्रमयस्सर्वकान्तिखनिर्मनुः । अनूरुसारथिः पीलो पैप्पलो त्रिविलोचनः ॥५२॥
त्रिशिखी ब्राह्मणमयो ज्योतिस्सिद्धान्तबोधनः । त्रिनामा त्रिशरीरश्च त्रिकाण्डश्चण्डदीधितिः ॥५३॥
मुक्तिद्वारं मुनिवरो महोरस्को महामनाः । अन्नपात्रप्रदाता च विष्णुचिन्तापरः पुमान् ॥५४॥
आपदामपहर्ता च रोगकाण्डदवानलः । निवृत्तात्मा समावृत्तो चक्षुरिन्द्रियदेवता ॥५५॥
तपोमयस्तप्ततनुः पूषा पूषादिवन्दितः । सर्वजन्तुशरण्यश्च बह्वृचो बहुदायकः ॥५६॥
कृष्णात्मा कमनीयश्च सर्ववेदविभागकृत् । कर्णो विकर्णः कान्तश्च बहुभोजी बहुप्रियः ॥५७॥
दक्षिणो दक्षिणामूर्तिर्दयावान् दम्भवर्जितः । सद्भूतिः कोशगः कोशी सर्वसिद्धिपरायणः ॥५८॥
शिवदेहश्शिवात्मा च शिवदेहश्शिवप्रदः । वाराणसीवासपरो हंसतीर्थप्रवर्तकः ॥५९॥
सूर्यलिङ्गप्रतिष्ठाता सोमकान्तिविवर्धनः । सुग्रहस्सुखदस्सूक्ष्मस्खरसस्वारित एवच ॥६०॥
सङ्ख्यावान्सर्वसंसारी सूरिः परपुरञ्जयः । कृतागमः कृतविधिः कृतशास्त्रः कृताह्निकः ॥६१॥
राजा राजद्वितीयश्च ग्रहराजः प्रमाणवित् । बाडवो बाडवामूलं हव्यं कव्यं पितृप्रियः ॥६२॥
समाधिवेत्ता सारार्थस्सारदृक्शारदाप्रियः । रक्तपुष्पार्चनीयश्च रक्तगन्धाक्षतप्रियः ॥६३॥
परार्थ्यार्थ्यः पूर्णकान्तिः कृततत्त्वार्थनिर्णयः । निखिलप्राणनिलयो नित्यमेरुप्रदक्षिणः ॥६४॥
पूर्णः पूर्णयिता पूज्यः परमान्नकृतादरः । परहिंसादिरहितो गुरुमूर्तिर्गतिप्रदः ॥६५॥
गोपालो लोकपालश्च सर्वस्सर्वस्वमच्युतः । मरुदीशो मरुच्चक्षुर्मित्रो हृत्तापनाशकः ॥६६॥
हृद्रोगहारी कौमारी हरिमादिविनाशकः । उत्तरां दिवमारूढो हारिद्रः कोकनायकः ॥६७॥
ह्रीं बीजमध्यनिलयो नवनाथविवर्धनः । योगिनीवन्द्यचरणो बलिग्रहणतत्परः ॥६८॥
नित्यकल्याणनिलयो कल्याणाचलसेवकः । कल्याणदानः कल्पात्माऽत्युग्रो रिपुभयङ्करः ॥६९॥
भूतिकृद्भूतिभृद्भूतिर्भूतभावनपूर्वजः । त्रियुगश्च त्रिपृष्ठश्च त्रिपान्मूर्तित्रयात्मकः ॥७०॥
सर्वविघ्नविनाशी च सर्वबन्धविमोचकः । त्रिशिरास्त्रिप्रलम्बश्च त्रिदंष्ट्रस्त्रिचतुर्गतिः ॥७१॥
कुजमित्रं पितृपतिः पितृकारक एव च । शुभाङ्गो लोकसारङ्गस्सारङ्गोऽरुणसारथिः ॥७२॥
पुण्यश्लोकः पुण्यदायी पुण्यकारी पुरातनः । विजयो विष्णुराजश्च विष्णुरातो भवादिहृत् ॥ ७३॥
वदान्यश्च विराड्रूपी विद्यानाथो विधिर्विधुः । प्रशस्तगुणसिन्धुश्च बन्धुर्वेदान्तवेदिनाम् ॥७४॥
तत्त्वार्थमाता ताम्राश्वस्तरुणस्तडिदुज्ज्वलः । तीर्णदुःखस्तीव्रवेगो चन्दनद्युतिरात्मवान् ॥७५॥
अर्कपर्णस्नानतोषी वीतिहोत्रादिदैवतः । एकाक्षश्चैकचक्रश्च स्वतेजोभास्स्वयम्प्रभः ॥७६॥
परागतिः पिण्डजानामण्डजानां भयावहः । क्रूरव्रतः क्रूरकल्पो तामसः परवीरहा ॥७७॥
षट्पल्लवविधानज्ञष्षट्पल्लववरप्रदः । श्रुतिपादपसञ्चारी कोकिलः कमलाश्रयः ॥७८॥
कुष्ठव्याधिविनाशी च दुष्टपीडानिबर्हणः । धृतपद्मद्वयो योद्धा तेजोमण्डलमध्यगः ॥७९॥
सर्वाधिव्याधिशमनो सर्वतापालितापनः । सर्वसाक्षी सदुदयः स्वाष्टाक्षर्यधिदेवता ॥८०॥
स्फोटादिदोषहारी च गुल्मदुःखप्रभञ्जनः । योजनार्बुदसञ्चारी सालोक्यादिप्रदः पिता ॥८१॥
खेटः कृपीटदायी च नग्नो नलिनवल्लभः । कुन्तीप्रसन्नः कौबेरः श्रीवक्षाः श्रीनिकेतनः ॥८२॥
अरुणोऽरुणकेतुश्च युद्धप्रेतगतिप्रदः । संज्ञामनोनुकूलश्च महेन्द्रकृतपूजनः ॥८३॥
गरुडाग्रजसूतश्च सस्यालिसुहृदूर्मिकृत् । गोधूमधान्यनाथश्च वर्तुलाकारमण्डलः ॥८४॥
रुद्रप्रत्यधिदेवश्च हस्तनक्षत्रनायकः । गुञ्जापुञ्जप्रतीकाशः पवित्रीकृतवृत्रहा ॥८५॥
कालिन्दीजनकश्चैव गोब्राह्मणहिते रतः । इन्द्रो वृद्धश्रवाः पूषा विश्ववेदाः प्रजापतिः ॥८६॥
अग्निर्वायुश्च सूर्यश्च वाय्वश्वो रश्मिपालकः । मरीच्यात्मा भुवनसूरद्रोही पुत्रदायकः ॥८७॥
महानाम्नीव्रतहितो महामानोपराक्षसः । आदित्योऽदितिदेवश्च दितिदेवो दिवस्पतिः ॥८८॥
व्योमसन्दृग्विमानस्थो सुमृडीकस्सरोविभुः । स्मृतिप्रत्यक्षमैतिह्यमनुमानं विधायकः ॥८९॥
सतैस्सर्वैस्समाविष्टोऽणुर्महानधिवत्सरः । पटरो विक्लिधः पिङ्गः प्रदर्शी चोपदर्शकः ॥९०॥
नानामुखश्चैव शीर्षो ऋतुलक्षणलक्षितः । शुक्लात्मा दक्षिणः पक्षः कृष्णात्मा वामपक्षकः ॥९१॥
अहोद्यौर्विषुरूपी च विश्वावनविशेषवित् । अपशुश्चापशुघ्नश्च नपशुः पशुपालकः ॥९२॥
संवत्सरप्रियतमः प्रत्यक्षज्ञेयमण्डलः । षडुद्यमस्सप्तयात्रो विनादी चाभिधावकः ॥९३॥
षष्टिवल्गस्सार्ष्टिकश्च प्रैषकृत्प्रथमस्स्मृतः । अघोराक्षस्सदोनादी वाक्प्रयोजक एव च ॥९४॥
संवत्सरीणः कर्मफलपद्मापीत इवोज्ज्वलः । कनकोज्ज्वलवासाश्च अहताम्बर एव च ॥९५॥
कपर्दी विशिखश्चैव वातवान्मरुतां मुखम् । क्षपणो योत्स्यमानश्च हेमचक्षुरकोपनः ॥९६॥
अपध्वस्तश्च सन्नद्धस्सहदृग्जीवनप्रदः । न देवो न मनुष्यश्च नाग्निर्नेन्द्रो न मारुतः ॥९७॥
नोपमो रुद्रधन्वा च कर्मब्रह्मप्रपञ्चकः । ऋतुभिस्सन्नुतस्स्वामी सर्वकामधुगव्ययः ॥९८॥
आरोग्यस्थानभा भ्राजः पटरस्थानभा अपि । सप्तसूर्यार्पितश्चैव कश्यपो मेर्वमोचकः ॥९९॥
वात्स्यायनः पञ्चकर्णो सप्तहोता च ऋक्पतिः । तस्थिवाञ्जगदात्मा च वैशम्पायन एव च ॥१००॥
अनम्भा अम्भसां मूलमग्निवायुपरायणम् । कश्यपस्यातिथिश्चैव सिद्धागमन एव च ॥१०१॥
नम उक्तिप्रियः पुण्यो अजिराप्रभुरेव च । नर्यापाः पङ्क्तिराधाश्च विसर्पी नीललोहितः ॥१०२॥
नीलार्चिः पीतकार्चिश्च वायुरेकादशात्मकः । वासुकिवैद्युतश्चैव रजतः परुषादिकः ॥१०३॥
नासत्यजनकश्चैव शाम्बरश्चापपूरुषः । सुब्रह्मण्यश्च सूरीन्द्रो गौतमः कौशिकीपतिः ॥१०४॥
अग्निश्च जातवेदाश्च सहोजा अजिराप्रभुः । कः किं कं तत्सत्यमन्नममृतो जीव एव च ॥१०५॥
व्ययजन्मानुजन्मोऽग्रस्सप्तसप्तकदृष्टिभाक् । भानुर्विधुश्च भौमश्च चन्द्रसूनुश्च गीष्पतिः ॥१०६॥
उशना सूर्यसूनुश्च तमः केतुस्तथाद्रिभृत् । अर्धप्रहारो गुलिको यमकण्टक एव च ॥१०७॥
कारको मारकश्चापि पोषकस्तोषकस्तथा । पश्चाल्लत्तः पुरोलत्तः पार्श्वलत्तस्तथैव च ॥१०८॥
आकाशग्रहसंसेव्यो धूमकेतुविजृम्भणः । भूकम्पनादिहेतुश्च रक्तवृष्टिविधायकः ॥१०९॥
गर्जन् पर्जन्यरूपी च दुर्जयो दुरतिक्रमः । निर्जराराध्यचरणो जरामरणवर्जितः ॥११०॥
वियद्गमनजङ्घालो वीतिहोत्रसमप्रभः । विरिञ्चिगर्भसम्भूतो विषव्यालविनाशकृत् ॥१११॥
श्रीपुष्टिकीर्तिसन्दायी नमतां नमनप्रियः । वेदाध्ययनसम्पन्नो वेदान्तेषु च निष्ठितः ॥११२॥
शब्दशास्त्रप्रणेता च शब्दब्रह्ममयः परः । अर्थब्रह्ममयोऽर्थार्थी स्वार्थिनामर्थदायकः ॥११३॥
जपयज्ञस्तपोयज्ञो दानयज्ञस्तथैव च । स्वाध्याययज्ञो धर्मज्ञो नीतिज्ञो विज्ञ एव च ॥११४॥
गुहाशायी गुहाभेदी साक्षान्मन्मथमन्मथः । मञ्जुदेहो मञ्जुकान्तिर्महिमातिशयोज्ज्वलः ॥११५॥
मित्रविन्दावन्द्यपादो मुनिवृन्दावने हितः । ब्रह्मचारी सुमेधाश्च ऊर्ध्वरेतास्तपोमयः ॥११६॥
ऐङ्कारनिलयो वाग्मी वागर्थप्रद एव च । ह्रीङ्कारनिलयो मायी इन्द्रजालादितत्त्ववित् ॥११७॥
श्रीङ्कारनिलयश्श्रीमान् धनदो धनवर्धनः । श्रीचक्रराजनिलयः श्रीदेवीकर्णभूषणम् ॥११८॥
क्लीङ्कारमध्यनिलयः कामराजवशङ्करः । सौश्शक्तिसहितो ज्ञानदानदक्षः प्रकाशकः ॥११९॥
परमात्मान्तरात्मा च जीवात्मा च नियामकः । हृदयग्रन्थिभेत्ता च सर्वसंशयनाशनः ॥१२०॥
ब्रह्मव्याख्याननिपुणो यज्ञदीक्षाधुरन्धरः । दौर्भाग्यतूलवातूलो जराध्वान्तनिवर्तकः ॥१२१॥
द्वैतमोहविनाशी च भेदवादिविभेदनः । वीरभद्रमतध्वंसी वीराराध्यनिबर्हणः ॥१२२॥
कापालिमतकोपी च मीमांसान्यायतत्परः । कार्तान्तिकवरस्सर्वकार्तान्तिकपरायणः ॥१२३॥
जङ्गमाजङ्गममयो जानकीपूजितः पुरा । इक्ष्वाकुवंशनाथश्च इन्दिरास्थानसुन्दरः ॥१२४॥
विद्याविनयविज्ञान त्रयीताण्डवमण्डपः । रामचन्द्रकुलाम्भोधिः कामिनीकामदायकः ॥१२५॥
सङ्गीतशास्त्रनिपुणः सर्वविद्याप्रवर्तकः । राजग्रहोऽधिकारी च राजराजेश्वरीप्रियः ॥१२६॥
राज्यं भौज्यं च साम्राज्यं वैराज्यं राज्यमेव च । गौः पञ्चगव्यं शुद्धात्मा चान्द्रायणफलप्रदः ॥१२७॥
कृच्छ्रादिफलदायी च दारिद्र्यभयनाशनः । दुःखार्णवोत्तारकश्च दुरितवातखण्डनः ॥१२८॥
ब्रह्महत्यादिविध्वंसी भ्रूणहत्यानिबर्हणः । गुरुद्रोहादिशमनो मातृगामिवधोद्यतः ॥१२९॥
पञ्चास्त्रशस्त्रमेघालिझञ्झावातो झषादिकः । चित्रगुर्दानशौण्डश्च सिंहसंहननो युवा ॥१३०॥
वैधव्यबाधाशमनो विधवानां गतिप्रदः । रजोदोषविनाशी च कृतपक्वान्नगर्हणः ॥१३१॥
पट्टाभिषिक्तभक्तालिर्दुष्टमत्तेभकेसरी । अनर्गलगतिगूढो गोमतीतीरपुण्यकृत् ॥१३२॥
जरायुदोषहारी च पूर्णायुर्योगकारकः । भक्ताब्जपूर्णचन्द्रश्च धर्ममार्गप्रवर्तकः ॥१३३॥
सौवर्गसुखहेतुश्च निरयध्वंसदीक्षितः । भ्रमन्मण्डलसंस्थानो भ्रान्तिपित्तादिरोगहृत् ॥१३४॥
मेहादिरोगशमनो पाण्डुक्षयविनाशनः । पापवेतालमन्त्रज्ञो पापकृज्जनदुर्लभः ॥१३५॥
ज्वरादिदोषदूरश्च विज्वरीकृतभूसुरः । मोक्षनिश्रेणिकासाक्षी दाक्षायण्यादिसेवकः ॥१३६॥
भावुको भद्रकरुणमश्विनीपुष्करोज्ज्वलः । प्रशस्तवान्निस्तुलन प्रबन्धशतकल्पनः ॥१३७॥
भूनेता भूधरो भोगी भाग्यदायी भवप्रियः । कर्मन्दी वललः क्लीबः पशुपालोऽश्वपालकः ॥१३८॥
शनिपीडाविनाशी च कृत्यादोषनिबर्हणः । आभिचारिकविध्वंसी गदावनदवानलः ॥१३९॥
जपपूजार्चनरतो नारायणपदं परम् । पापपाषाणदलनटङ्कीकृतकरावलिः ॥१४०॥
मोक्षलक्ष्मीकवाटश्च मातृकावर्णमण्डनः । अकारादिक्षकारान्तवर्णमालाविभूषणः ॥१४१॥
अनुस्वारादिसङ्ख्यात्मा स्वरो व्यञ्जन एव च । सर्वार्थदस्सर्वकर्मसर्वकार्यप्रकाशकः ॥१४२॥
पञ्चविंशतितत्त्वस्थः पञ्चब्रह्मसमुद्भवः । पारमार्थिकसन्दायी पङ्ग्वादिगतिदायकः ॥१४३॥
सफलीकृतपूजार्थो विफलीकृतदुष्कृतिः । श्रुतिस्मृतिसमाम्नातस्मार्तकर्मप्रकाशकः ॥१४४॥
यज्ञोपवीतधारी च याज्ञवल्क्यादिवन्दितः । सुषुम्नायोगमध्यस्थो लम्बिकायोगसाधनः ॥१४५॥
सालम्बनोद्दीपनादिक्रियाबीजं महामनुः । कल्पातिशायिसङ्कल्पो विकल्पविधिवर्जितः ॥१४६॥
अनल्पमूर्तिरश्वात्मा स्वात्मानन्दविधायकः । आत्मानात्मविवेकज्ञो निरावरणबोधनः ॥१४७॥
निदानभूतस्तत्त्वानां नित्यकल्याणसुन्दरः । शान्तरक्षणनिर्निद्रः श्रुतिस्मृतिशुभद्रुमः ॥१४८॥
आलापीकृतवेदाङ्गो मालालङ्कृतकन्धरः । रुद्राक्षकङ्कणलसत्करो रुद्रजपप्रियः ॥१४९॥
सदाशिवपरब्रह्मस्थानं श्रीशम्भुविग्रहः । मूलाधाराम्बुजारूढो दहराकाशमध्यगः ॥१५०॥
सहस्राराम्बुजारूढो ज्ञानडोलाविलासवान् । वेलोल्लङ्घनसामर्थ्यो वेत्ता निर्वृतिदायकः ॥१५१॥
सुरभूसुरदत्तार्घ्यशुद्धाम्बुग्रहणे रतः । ब्रह्मवर्चस्वितामूलं ब्रह्मश्रीसूर्यविग्रहः ॥१५२॥
॥ फलश्रुतिः ॥
इति नामानि गौणानि भास्करस्य महात्मनः । कानिचिद्वर्णितान्यत्र देवस्यानन्तरूपिणः ॥१५३॥
सूर्यवर्चः कृतार्थोऽसि त्वमद्य न हि संशयः । दिव्यानामपि यन्नाम्नां सहस्रमनुकीर्तितम् ॥१५४॥
एतस्य श्रवणादेव कीर्तनाज्जीवकोटयः । तरन्ति दुस्तरं घोरं संसारं नात्र संशयः ॥१५५॥
यश्शृणोति सदा नाम्नां सहस्रं भास्करस्य च । विद्याकामो लभेद्विद्यामर्थार्थी सार्थको भवेत् ॥१५६॥
अनपत्यो लभेत्पुत्रमराजा राज्यमाप्नुयात् । ग्रहपीडा विनश्यन्ति नश्यन्ति ब्रह्मराक्षसाः ॥१५७॥
आरोग्यमाप्नुयाद्रोगी कामी कामानवाप्नुयात् । किमत्र बहुनोक्तेन सर्वसिद्धिर्भविष्यति ॥१५८॥
धर्मार्थकाममोक्षाणां साधनं सर्वसम्मतम् । श्रुतिस्मृतिपुराणादिसारार्थकृतनिर्णयम् ॥१५९॥
नाम्नां सहस्रं यो भकया पठेन्नियतमानसः । सिध्यन्ति सर्वधर्मार्थास्तस्य नैवात्र संशयः ॥१६०॥
विश्वावसुरुवाच
नारायण नमस्तेऽस्तु भानुमण्डलमध्यग । कर्मणामपि धर्माणां साक्षी त्वं ब्रह्म निर्मलम् ॥१६१॥
अनन्तोऽनन्तनामा च श्रीमान् लोकत्रयेश्वरः । विभूतिः केन वा ज्ञेया ज्योतिषामयनस्य च ॥१६२॥
गन्धर्वा ऊचुः
सूर्य आत्माऽस्य जगतस्तस्थुषश्च त्वमेव हि । त्वामृते नहि पश्यामो जन्तूनां शरणं कलौ ॥१६३॥
वालखिल्या ऊचुः
यः कर्मसाक्षी विदुषां वरेण्यं भर्गश्च सूते सविता जगच्च ।
यो वृष्टिदायी तपनश्च पुष्टिदस्तमेव देवं गतिमामनाम ॥१६४॥
वैखानसा ऊचुः
कलाश्चेन्दोः कलास्सर्वाः कलाभिश्च प्रपञ्चिताः । तमेव कलयामोऽद्य चक्षुषो रतिदैवतम् ॥१६५॥
वैष्णवा ऊचुः
नारायणाश्रयो मर्त्यो नारायणपरायणः । सर्वत्र विजयी भूयात्स एव सविता स्वयम् ॥१६६॥
रुद्रगणा ऊचुः
अष्टमूर्तेरियं मूर्तिरेका दीप्तिमयी यतः । एनं भजाम लोकेशं भानुमण्डलमध्यगम् ॥१६७॥
श्रीसूत उवाच
बृहस्पतिस्सुराचार्यः कृपया परया मुदा । सूर्यवर्चसमित्युक्त्वा विररामोमिति स्वयम् ॥१६८॥
व्यासप्रसादाच्छ्रुतवानहमेतन्महर्षयः! । भवन्तस्सर्वधर्मार्थसिद्ध्यै नित्यं पठन्तिवदम् ॥१६९॥
॥ इति श्रीस्कन्दपुराणे सूर्यसहस्रनामस्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।
Discover more from संपूर्ण कर्मकांड विधि
Subscribe to get the latest posts sent to your email.