यदि हम भगवान विष्णु के सहस्रनाम की बात करें तो इसका मुख्य तात्पर्य होगा विष्णु नाम से वर्णित सहस्रनाम, क्योंकि भगवान विष्णु के अनेकों नाम से भी सहस्रनाम स्तोत्र (vishnu sahasranamam stotra) मिलते हैं। विभिन्न पुराणों में भगवान विष्णु के भी अनेकों सहस्रनाम स्तोत्र मिलते हैं जिनमें से दो प्रमुख विष्णु सहस्रनाम स्तोत्र यहां दिया गया है। प्रथम गरुड़पुराणोक्त है और द्वितीय स्कन्द पुराणोक्त।
विष्णु सहस्रनाम स्तोत्र संस्कृत में – vishnu sahasranamam stotra
रुद्र उवाच
संसारसागराद्घोरान्मुच्यते किं जपन्प्रभो ।
नरस्तन्मे परं जप्यं कथय त्वं जनार्दन ॥१॥
हरिरुवाच
परेश्वरं परं ब्रह्म परमात्मानमव्ययम् ।
विष्णुं नामसहस्रेण स्तुवन्मुक्तो भवेन्नरः ॥२॥
यत्पवित्रं परं जप्यं कथयामि वृषध्वज ।
शृणुष्वावहितो भूत्वा सर्वपापविनाशनम् ॥३॥
ॐ वासुदेवो महाविष्णुर्वामनो वासवो वसुः ।
बालचन्द्रनिभो बालो बलभद्रो बलाधिपः ॥४॥
बलिबन्धनकृद्वेधा वरेण्यो वेदवित्कविः ।
वेदकर्ता वेदरूपो वेद्यो वेदपरिप्लुतः ॥५॥
वेदाङ्गवेत्ता वेदेशो बलाधारो बलार्दनः ।
अविकारो वरेशश्च वरुणो वरुणाधिपः ॥६॥
वीरहा च बृहद्वीरो वन्दितः परमेश्वरः ।
आत्मा च परमात्मा च प्रत्यगात्मा वियत्परः ॥७॥
पद्मनाभः पद्मनिधिः पद्महस्तो गदाधरः ।
परमः परभूतश्च पुरुषोत्तम ईश्वरः ॥८॥
पद्मजङ्घः पुण्डरीकः पद्ममालाधरः प्रियः ।
पद्माक्षः पद्मगर्भश्च पर्जन्यः पद्मसंस्थितः ॥९॥
अपारः परमार्थश्च पराणां च परः प्रभुः ।
पण्डितः पण्डितेड्यश्च पवित्रः पापमर्दकः ॥१०॥
शुद्धः प्रकाशरूपश्च पवित्रः परिरक्षकः ।
पिपासावर्जितः पाद्यः पुरुषः प्रकृतिस्तथा ॥११॥
प्रधानं पृथिवीपद्मं पद्मनाभः प्रियप्रदः ।
सर्वेशः सर्वगः सर्वः सर्ववित्सर्वदः सुरः ॥१२॥
सर्वस्य जगतो धाम सर्वदर्शी च सर्वभृत् ।
सर्वानुग्रहकृद्देवः सर्वभूतहृदिस्थितः ॥१३॥
सर्वपूज्यश्च सर्वाद्यः सर्वदेवनमस्कृतः ।
सर्वस्य जगतो मूलं सकलो निष्कलोऽनलः ॥१४॥
सर्वगोप्ता सर्वनिष्ठः सर्वकारणकारणम् ।
सर्वध्येयः सर्वमित्रः सर्वदेवस्वरूपधृक् ॥१५॥
सर्वाध्यक्षः सुराध्यक्षः सुरासुरनमस्कृतः ।
दुष्टानां चासुराणां च सर्वदा घातकोऽन्तकः ॥१६॥
सत्यपालश्च सन्नाभः सिद्धेशः सिद्धवन्दितः ।
सिद्धसाध्यः सिद्धसिद्धः साध्यसिद्धो हृदीश्वरः ॥१७॥
शरणं जगतश्चैव श्रेयः क्षेमस्तथैव च ।
शुभकृच्छोभनः सौम्यः सत्यः सत्यपराक्रमः ॥१८॥
सत्यस्थः सत्यसङ्कल्पः सत्यवित्सत्यदस्तथा ।
धर्मो धर्मीच कर्मीच सर्वकर्मविवर्जितः ॥१९॥
कर्मकर्ता च कर्मैव क्रिया कार्यं तथैव च ।
श्रीपतिर्नृपतिः श्रीमान्सर्वस्य पतिरूर्जितः ॥२०॥
स देवानां पतिश्चैव वृष्णीनां पतिरीडितः ।
पतिर्हिरण्यगर्भस्य त्रिपुरान्तपतिस्तथा ॥२१॥
पशूनां च पतिः प्रायो वसूनां पतिरेव च ।
पतिराखण्डलस्यैव वरुणस्य पतिस्तथा ॥२२॥
वनस्पतीनां च पतिरनिलस्य पतिस्तथा ।
अनलस्य पतिश्चैव यमस्य पतिरेव च ॥२३॥
कुबेरस्य पतिश्चैव नक्षत्राणां पतिस्तथा ।
ओषधीनां पतिश्चैव वृक्षाणां च पतिस्तथा ॥२४॥
नागानां पतिरर्कस्य दक्षस्य पतिरेव च ।
सुहृदां च पतिश्चैव नृपाणां च पतिस्तथा ॥२५॥
गन्धर्वाणां पतिश्चैव असूनां पतिरुत्तमः ।
पर्वतानां पतिश्चैव निम्नगानां पतिस्तथा ॥२६॥
सुराणां च पतिः श्रेष्ठः कपिलस्य पतिस्तथा ।
लतानां च पतिश्चैव वीरुधां च पतिस्तथा ॥२७॥
मुनीनां च पतिश्चैव सूर्यस्य पतिरुत्तमः ।
पतिश्चन्द्रमसः श्रेष्ठः शुक्रस्य पतिरेव च ॥२८॥
ग्रहाणां च पतिश्चैव राक्षसानां पतिस्तथा ।
किन्नराणां पतिश्चैव द्विजानां पतिरुत्तमः ॥२९॥
सरितां च पतिश्चैव समुद्राणां पतिस्तथा ।
सरसां च पतिश्चैव भूतानां च पतिस्तथा ॥३०॥
वेतालानां पतिश्चैव कूष्माण्डानां पतिस्तथा ।
पक्षिणां च पतिः श्रेष्ठः पशूनां पतिरेव च ॥३१॥
महात्मा मङ्गलो मेयो मन्दरो मन्दरेश्वरः ।
मेरुर्माता प्रमाणं च माधवो मलवर्जितः ॥३२॥
मालाधरो महादेवो महादेवेन पूजितः ।
महाशान्तो महाभागो मधुसूदन एव च ॥३३॥
महावीर्यो महाप्राणो मार्कण्डेयर्षिवन्दितः ।
मायात्मा मायया बद्धो मायया तु विवर्जितः ॥३४॥
मुनिस्तुतो मुनिर्मैत्रो महानासो महाहनुः ।
महाबाहुर्महादान्तो मरणेन विवर्जितः ॥३५॥
महावक्त्रो महात्मा च महाकायो महोदरः ।
महापादो महाग्रीवो महामानी महामनाः ॥३६॥
महागतिर्महाकीर्तिर्महारूपो महासुरः ।
मधुश्च माधवश्चैव महादेवो महेश्वरः ॥३७॥
मखेज्यो मखरूपी च माननीयो मखेश्वरः ।
महावातो महाभागो महेशोऽतीतमानुषः ॥३८॥
मानवश्च मनुश्चैव मानवानां प्रियङ्करः ।
मृगश्च मृगपूज्यश्च मृगाणां च पतिस्तथा ॥३९॥
बुधस्य च पतिश्चैव पतिश्चैव बृहस्पतेः ।
पतिः शनैश्चरस्यैव राहोः केतोः पतिस्तथा ॥४०॥
लक्ष्मणो लक्षणश्चैव लम्बोष्ठो ललितस्तथा ।
नानालङ्कारसंयुक्तो नानाचन्दनचर्चितः ॥४१॥
नानारसोज्ज्वलद्वक्त्रो नानापुष्पोपशोभितः ।
रामो रमापतिश्चैव सभार्यः परमेश्वरः ॥४२॥
रत्नदो रत्नहर्ता च रूपी रूपविवर्जितः ।
महारूपोग्ररूपश्च सौम्यरूपस्तथैव च ॥४३॥
नीलमेघनिभः शुद्धः सालमेघनिभस्तथा ।
धूमवर्णः पीतवर्णो नानारूपो ह्यवर्णकः ॥४४॥
विरूपो रूपदश्चैव शुक्लवर्णस्तथैव च ।
सर्ववर्णो महायोगी यज्ञो यज्ञकृदेव च ॥४५॥
सुवर्णवर्णवांश्चैव सुवर्णाख्यस्तथैव च ।
सुवर्णावयवश्चैव सुवर्णः स्वर्णमेखलः ॥४६॥
सुवर्णस्य प्रदाता च सुवर्णेशस्तथैव च ।
सुवर्णस्य प्रियश्चैव सुवर्णाढ्यस्तथैव च ॥४७॥
सुपर्णी च महापर्णो सुपर्णस्य च कारणम् ।
वैनतेयस्तथादित्य आदिरादिकरः शिवः ॥४८॥
कारणं महतश्चैव प्रधानस्य च कारणम् ।
बुद्धीनां कारणं चैव कारणं मनसस्तथा ॥४९॥
कारणं चेतसश्चैव अहङ्कारस्य कारणम् ।
भूतानां कारणं तद्वत्कारणं च विभावसोः ॥५०॥
आकाशकारणं तद्वत्पृथिव्याः कारणं परम् ।
अण्डस्य कारणं चैव प्रकृतेः कारणं तथा ॥५१॥
देहस्य कारणं चैव चक्षुषश्चैव कारणम् ।
श्रोत्रस्य कारणं तद्वत्कारणं च त्वचस्तथा ॥५२॥
जिह्वायाः कारणं चैव प्राणस्यैव च कारणम् ।
हस्तयोः कारणं तद्वत्पादयोः कारणं तथा ॥५३॥
वाचश्चकारणं तद्वत्पायोश्चैव तु कारणम् ।
इन्द्रस्य कारणं चैव कुबेरस्य च कारणम् ॥५४॥
यमस्य कारणं चैव ईशानस्य च कारणम् ।
यक्षाणां कारणं चैव रक्षसां कारणं परम् ॥५५॥
नृपाणां कारणं श्रेष्ठं धर्मस्यैव तु कारणम् ।
जन्तूनां कारणं चैव वसूनां कारणं परम् ॥५६॥
मनूनां कारणं चैव पक्षिणां कारणं परम् ।
मुनीनां कारणं श्रेष्ठ योगिनां कारणं परम् ॥५७॥
सिद्धानां कारणं चैव यक्षाणां कारणं परम् ।
कारणं किन्नराणां च गन्धर्वाणां च कारणम् ॥ ५८॥
नदानां कारणं चैव नदीनां कारणं परम् ।
कारणं च समुद्राणां वृक्षाणां कारणं तथा ॥ ५९॥
कारणं वीरुधां चैव लोकानां कारणं तथा ।
पातालकारणं चैव देवानां कारणं तथा ॥ ६०॥
सर्पाणां कारणं चैव श्रेयसां कारणं तथा ।
पशूअनां कारणं चैव सर्वेषां कारणं तथा ॥ ६१॥
देहात्मा चेन्द्रियात्मा च आत्मा बुद्धेस्तथैव च ।
मनसश्च तथैवात्मा चात्माहङ्कारचेतसः ॥ ६२॥
जाग्रतः स्वपतश्चात्मा महदात्मा परस्तथा ।
प्रधानस्य परात्मा च आकाशात्मा ह्यपां तथा ॥ ६३॥
पृथिव्याः परमात्मा च रसस्यात्मा तथैव च ।
गन्धस्य परमात्मा च रूपस्यात्मा परस्तथा ॥ ६४॥
शब्दात्मा चैव वागात्मा स्पर्शात्मा पुरुषस्तथा ।
श्रोत्रात्मा च त्वगात्मा च जिह्वायाः परमस्तथा ॥ ६५॥
घ्राणात्मा चैव हस्तात्मा पादात्मा परमस्तथा ।
उपस्थस्य तथैवात्मा पाय्वात्मा परमस्तथा ॥ ६६॥
इन्द्रात्मा चैव ब्रह्मात्मा रुद्रात्मा च मनोस्तथा ।
दक्षप्रजापतेरात्मा सत्यात्मा परमस्तथा ॥ ६७॥
ईशात्मा परमात्मा च रौद्रात्मा मोक्षविद्यतिः ।
यत्नवांश्च तथा यत्नश्चर्मी खड्गी मुरान्तकः ॥ ६८॥
ह्रीप्रवर्तनशीलश्च यतीनां च हिते रतः ।
यतिरूपी च योगी च योगिध्येयो हरिः शितिः ॥ ६९॥
संविन्मेधा च कालश्च ऊष्मा वर्षा मतिस्तथा ।
संवत्सरो मोक्षकरो मोहप्रध्वंसकस्तथा ॥ ७०॥
मोहकर्ता च दुष्टानां माण्डव्यो वडवामुखः ।
संवर्तः कालकर्ता च गौतमो भृगुरङ्गिराः ॥ ७१॥
अत्रिर्वसिष्ठः पुलहः पुलस्त्यः कुत्स एव च ।
याज्ञवल्क्यो देवलश्च व्यासश्चैव पराशरः ॥ ७२॥
शर्मदश्चैव गाङ्गेयो हृषीकेशो बृहच्छ्रवाः ।
केशवः क्लेशहन्ता च सुकर्णः कर्णवर्जितः ॥ ७३॥
नारायणो महाभागः प्राणस्य पतिरेव च ।
अपानस्य पतिश्चैव व्यानस्य पतिरेव च ॥ ७४॥
उदानस्य पतिः श्रेष्ठः समानस्य पतिस्तथा ।
शब्दस्य च पतिः श्रेष्ठः स्पर्शस्य पतिरेव च ॥ ७५॥
रूपाणां च पतिश्चाद्यः खड्गपाणिर्हलायुधः ।
चक्रपाणिः कुण्डली च श्रीवत्साङ्कस्तथैव च ॥ ७६॥
प्रकृतिः कौस्तुभग्रीवः पीताम्बरधरस्तथा ।
सुमुखो दुर्मुखश्चैव मुखेन तु विवर्जितः ॥ ७७॥
अनन्तोऽनन्तरूपश्च सुनखः सुरमन्दरः ।
सुकपोलो विभुर्जिष्णुर्भ्राजिष्णुश्चेषुधीस्तथा ॥ ७८॥
हिरण्यकशिपोर्हन्ता हिरण्याक्षविमर्दकः ।
निहन्ता पूतनायाश्च भास्करान्तविनाशनः ॥ ७९॥
केशिनो दलनश्चैव मुष्टिकस्य विमर्दकः ।
कंसदानवभेत्ता च चाणूरस्य प्रमर्दकः ॥ ८०॥
अरिष्टस्य निहन्ता च अक्रूरप्रिय एव च ।
अक्रूरः क्रूररूपश्च अक्रूरप्रियवन्दितः ॥ ८१॥
भगहा भगवान्भानुस्तथा भागवतः स्वयम् ।
उद्धवश्चोद्धवस्येशो ह्युद्धवेन विचिन्तितः ॥ ८२॥
चक्रधृक्चञ्चलश्चैव चलाचलविवर्जितः ।
अहङ्कारो मतिश्चित्तं गगनं पृथिवी जलम् ॥ ८३॥
वायुश्चक्षुस्तथा श्रोत्रं जिह्वा च घ्राणमेव च ।
वाक्पाणिपादजवनः पायूपस्थस्तथैव च ॥ ८४॥
शङ्करश्चैव शर्वश्च क्षान्तिदः क्षान्तिकृन्नरः ।
भक्तप्रियस्तथा भर्ता भक्तिमान्भक्तिवर्धनः ॥ ८५॥
भक्तस्तुतो भक्तपरः कीर्तिदः कीर्तिवर्धनः ।
कीर्तिर्दीप्तिः क्षमा कान्तिर्भक्तश्चैव दयापरा ॥ ८६॥
दानं दाता च कर्ता च देवदेवप्रियः शुचिः ।
शुचिमान्सुखदो मोक्षः कामश्चार्थः सहस्रपात् ॥ ८७॥
सहस्रशीर्षा वैद्यश्च मोक्षद्वारस्तथैव च ।
प्रजाद्वारं सहस्राक्षः सहस्रकर एव च ॥ ८८॥
शुक्रश्च सुकिरीटी च सुग्रीवः कौस्तुभस्तथा ।
प्रद्युम्नश्चानिरुद्धश्च हयग्रीवश्च सूकरः ॥ ८९॥
मत्स्यः परशुरामश्च प्रह्लादो बलिरेवच ।
शरण्यश्चैव नित्यश्च बुद्धो मुक्तः शरीरभृत् ॥ ९०॥
खरदूषणहन्ता च रावणस्य प्रमर्दनः ।
सीतापतिश्च वर्धिष्णुर्भरतश्च तथैव च ॥ ९१॥
कुम्भेन्द्रजिन्निहन्ता च कुम्भकर्णप्रमर्दनः ।
नरान्तकान्तकश्चैव देवान्तकविनाशनः ॥ ९२॥
दुष्टासुरनिहन्ता च शम्बरारिस्तथैव च ।
नरकस्य निहन्ता च त्रिशीर्षस्य विनाशनः ॥ ९३॥
यमलार्जुनभेत्ता च तपोहितकरस्तथा ।
वादित्रश्चैव वाद्यं च बुद्धश्चैव वरप्रदः ॥ ९४॥
सारः सारप्रियः सौरः कालहन्ता निकृन्तनः ।
अगस्त्यो देवलश्चैव नारदो नारदप्रियः ॥ ९५॥
प्राणोऽपानस्तथा व्यानो रजः सत्त्वं तमः शरत् ।
उदानश्च समानश्च भेषजं च भिषक्तथा ॥ ९६॥
कूटस्थः स्वच्छरूपश्च सर्वदेहविवर्जितः ।
चक्षुरिन्द्रियहीनश्च वागिन्द्रियविवर्जितः॥ ९७॥
हस्तेन्द्रियविहीनश्च पादाभ्यां च विवर्जितः ।
पायूपस्थविहीनश्च मरुतापविवर्जितः ॥ ९८॥
प्रबोधेन विहीनश्च बुद्ध्या चैव विवर्जितः ।
चेतसा विगतश्चैव प्राणेन च विवर्जितः ॥ ९९॥
अपानेन विहीनश्च व्यानेन च विवर्जितः ।
उदानेन विहीनश्च समानेन विवर्जितः ॥ १००॥
आकाशेन विहीनश्च वायुना परिवर्जितः ।
अग्निना च विहीनश्च उदकेन विवर्जितः ॥ १०१॥
पृथिव्या च विहीनश्च शब्देन च विवर्जितः ।
स्पर्शेन च विहीनश्च सर्वरूपविवर्जितः ॥ १०२॥
रागेण विगतश्चैव अघेन परिवर्जितः ।
शोकेन रहितश्चैव वचसा परिवर्जितः ॥ १०३॥
रजोविवर्जितश्चैव विकारैः षड्भिरेव च ।
कामेन वर्जितश्चैव क्रोधेन परिवर्जितः ॥ १०४॥
लोभेन विगतश्चैव दम्भेन च विवर्जितः ।
सूक्ष्मश्चैव सुसूक्ष्मश्च स्थूलात्स्थूलतरस्तथा ॥ १०५॥
विशारदो बलाध्यक्षः सर्वस्य क्षोभकस्तथा ।
प्रकृतेः क्षोभकश्चैव महतः क्षोभकस्तथा ॥ १०६॥
भूतानां क्षोभकश्चैव बुद्धेश्च क्षोभकस्तथा ।
इन्द्रियाणां क्षोभकश्च विषयक्षोभकस्तथा ॥ १०७॥
ब्रह्मणः क्षोभकश्चैव रुद्रस्य क्षोभकस्तथा ।
अगम्यश्चक्षुरादेश्च श्रोत्रागम्यस्तथैव च ॥ १०८॥
त्वचा न गम्यः कूर्मश्च जिह्वाग्राह्यस्तथैव च ।
घ्राणेन्द्रियागम्य एव वाचाग्राह्यस्तथैव च ॥ १०९॥
अगम्यश्चैव पाणिभ्यां पदागम्यस्तथैव च ।
अग्राह्यो मनसश्चैव बुद्ध्या ग्राह्यो हरिस्तथा ॥ ११०॥
अहम्बुद्ध्या तथा ग्राह्यश्चेतसा ग्राह्य एव च ।
शङ्खपाणिरव्ययश्च गदापाणिस्तथैव च ॥ १११॥
शार्ङ्गपाणिश्च कृष्णश्च ज्ञानमूर्तिः परन्तपः ।
तपस्वी ज्ञानगम्यो हि ज्ञानी ज्ञानविदेव च ॥ ११२॥
ज्ञेयश्च ज्ञेयहीनश्च ज्ञप्तिश्चैतन्यरूपकः ।
भावो भाव्यो भवकरो भावनो भवनाशनः ॥ ११३॥
गोविन्दो गोपतिर्गोपः सर्वगोपीसुखप्रदः ।
गोपालो गोगतिश्चैव गोमतिर्गोधरस्तथा ॥ ११४॥
उपेन्द्रश्च नृसिंहश्च शौरिश्चैव जनार्दनः ।
आरणेयो बृहद्भानुर्बृहद्दीप्तिस्तथैव च ॥ ११५॥
दामोदरस्त्रिकालश्च कालज्ञः कालवर्जितः ।
त्रिसन्ध्यो द्वापरं त्रेता प्रजाद्वारं त्रिविक्रमः ॥ ११६॥
विक्रमो दण्डहस्तश्च ह्येकदण्डी त्रिदण्डधृक् ।
सामभेदस्तथोपायः सामरूपी च सामगः ॥ ११७॥
सामवेदोः ह्यथर्वश्च सुकृतः सुखरूपकः ।
अथर्ववेदविच्चैव ह्यथर्वाचार्य एव च ॥ ११८॥
ऋग्रूपी चैव ऋग्वेदः ऋग्वेदेषु प्रतिष्ठितः ।
यजुर्वेत्ता यजुर्वेदो यजुर्वेदविदेकपात् ॥ ११९॥
बहुपाच्च सुपाच्चैव तथैव च सहस्रपात् ।
चतुष्पाच्च द्विपाच्चैव स्मृतिर्न्यायो यमो बली॥ १२०॥
सन्न्यासी चैव सन्न्यासश्चतुराश्रम एव च ।
ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः ॥ १२१॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वर्णस्तथैव च ।
शीलदः शीलसम्पन्नो दुःशीलपरिवर्जितः ॥ १२२॥
मोक्षोऽध्यात्मसमाविष्टः स्तुतिः स्तोता च पूजकः ।
पूज्यो वाक्करणं चैव वाच्यश्चैव तु वाचकः ॥ १२३॥
वेत्ता व्याकरणश्चैव वाक्यं चैव च वाक्यवित् ।
वाक्यगम्यस्तीर्थवासी तीर्थस्तीर्थी च तीर्थवित् ॥ १२४॥
तीर्थादिभूतः साङ्ख्यश्च निरुक्तं त्वधिदैवतम् ।
प्रणवः प्रणवेशश्च प्रणवेन प्रवन्दितः ॥ १२५॥
प्रणवेन च लक्ष्यो वै गायत्री च गदाधरः ।
शालग्रामनिवासी च शालग्रामस्तथैव च ॥ १२६॥
जलशायी योगशायी शेषशायी कुशेशयः ।
महीभर्ता च कार्यं च कारणं पृथिवीधरः ॥ १२७॥
प्रजापतिः शाश्वतश्च काम्यः कामयिता विराट् ।
सम्राट्पूषा तथा स्वर्गो रथस्थः सारथिर्बलम् ॥ १२८॥
धनी धनप्रदो धन्यो यादवानां हिते रतः ।
अर्जुनस्य प्रियश्चैव ह्यर्जुनो भीम एव च ॥ १२९॥
पराक्रमो दुर्विषहः सर्वशास्त्रविशारदः ।
सारस्वतो महाभीष्मः पारिजातहरस्तथा ॥ १३०॥
अमृतस्य प्रदाता च क्षीरोदः क्षीरमेव च ।
इन्द्रात्मजस्तस्य गोप्ता गोवर्धनधरस्तथा ॥ १३१॥
कंसस्य नाशनस्तद्वद्धस्तिपो हस्तिनाशनः ।
शिपिविष्टः प्रसन्नश्च सर्वलोकार्तिनाशनः ॥ १३२॥
मुद्रो मुद्राकरश्चैव सर्वमुद्राविवर्जितः ।
देही देहस्थितश्चैव देहस्य च नियामकः ॥ १३३॥
श्रोता श्रोत्रनियन्ता च श्रोतव्यः श्रवणस्तथा ।
त्वक्स्थितश्च स्पर्शयिता स्पृश्यं च स्पर्शनं तथा ॥ १३४॥
रूपद्रष्टा च चक्षुःस्थो नियन्ता चक्षुषस्तथा ।
दृश्यं चैव तु जिह्वास्थो रसज्ञश्च नियामकः ॥ १३५॥
घ्राणस्थो घ्राणकृद्घ्राता घ्राणेन्द्रियनियामकः ।
वाक्स्थो वक्ता च वक्तव्यो वचनं वाङ्नियामकः ॥ १३६॥
प्राणिस्थः शिल्पकृच्छिल्पो हस्तयोश्च नियामकः ।
पदव्यश्चैव गन्ता च गन्तव्यं गमनं तथा ॥ १३७॥
नियन्ता पादयोश्चैव पाद्यभाक्च विसर्गकृत् ।
विसर्गस्य नियन्ता च ह्युपस्थस्थः सुखस्तथा ॥ १३८॥
उपस्थस्य नियन्ता च तदानन्दकरश्च ह ।
शत्रुघ्नः कार्तवीर्यश्च दत्तात्रेयस्तथैव च ॥ १३९॥
अलर्कस्य हितश्चैव कार्तवीर्यनिकृन्तनः ।
कालनेमिर्महानेमिर्मेघो मेघपतिस्तथा ॥ १४०॥
अन्नप्रदोऽन्नरूपी च ह्यन्नादोऽन्नप्रवर्तकः ।
धूमकृद्धूमरूपश्च देवकीपुत्र उत्तमः ॥ १४१॥
देवक्या नन्दनो नन्दो रोहिण्याः प्रिय एव च ।
वसुदेवप्रियश्चैव वसुदेवसुतस्तथा ॥ १४२॥
दुन्दुभिर्हासरूपश्च पुष्पहासस्तथैव च ।
अट्टहासप्रियश्चैव सर्वाध्यक्षः क्षरोऽक्षरः ॥ १४३॥
अच्युतश्चैव सत्येशः सत्यायाश्च प्रियो वरः ।
रुक्मिण्याश्च पतिश्चैव रुक्मिण्या वल्लभस्तथा ॥ १४४॥
गोपीनां वल्लभश्चैव पुण्यश्लोकश्च विश्रुतः ।
वृषाकपिर्यमो गुह्यो मङ्गलश्च बुधस्तथा ॥ १४५॥
राहुः केतुर्ग्रहो ग्राहो गजेन्द्रमुखमेलकः ।
ग्राहस्य विनिहन्ता च ग्रामीणी रक्षकस्तथा ॥ १४६॥
किन्नरश्चैव सिद्धश्च छन्दः स्वच्छन्द एव च ।
विश्वरूपो विशालाक्षो दैत्यसूदन एव च ॥ १४७॥
अनन्तरूपो भूतस्थो देवदानवसंस्थितः ।
सुषुप्तिस्थः सुषुप्तिश्च स्थानं स्थानान्त एव च ॥ १४८॥
जगत्स्थश्चैव जागर्ता स्थानं जागरितं तथा ।
स्वप्नस्थः स्वप्नवित्स्वप्नस्थानं स्वप्नस्तथैव च ॥ १४९॥
जाग्रत्स्वप्नसुषुप्तेश्च विहीनो वै चतुर्थकः ।
विज्ञानं वेद्यरूपं च जीवो जीवयिता तथा ॥ १५०॥
भुवनाधिपतिश्चैव भुवनानां नियामकः ।
पातालवासी पातालं सर्वज्वरविनाशनः ॥ १५१॥
परमानन्दरूपी च धर्माणां च प्रवर्तकः ।
सुलभो दुर्लभश्चैव प्राणायामपरस्तथा ॥ १५२॥
प्रत्याहारो धारकश्च प्रत्याहारकरस्तथा ।
प्रभा कान्तिस्तथा ह्यर्चिः शुद्धस्फटिकसन्निभः ॥ १५३॥
अग्राह्यश्चैव गौरश्च सर्वः शुचिरभिष्टुतः ।
वषट्कारो वषड्वौषट्स्वधा स्वाहा रतिस्तथा ॥ १५४॥
पक्ता नन्दयिता भोक्ता बोद्धा भावयिता तथा ।
ज्ञानात्मा चैव देहात्मा भूमा सर्वेश्वरेश्वरः ॥ १५५॥
नदी नन्दी च नन्दीशो भारतस्तरुनाशनः ।
चक्रपः श्रीपतिश्चैव नृपाणां चक्रवर्तिनाम् ॥१५६॥
ईशश्च सर्वदेवानां द्वारकासंस्थितस्तथा ।
पुष्करः पुष्कराध्यक्षः पुष्करद्वीप एव च ॥१५७॥
भरतो जनको जन्यः सर्वाकारविवर्जितः ।
निराकारो निर्निमित्तो निरातङ्को निराश्रयः॥१५८॥
इति नामसहस्रं ते वृषभध्वज कीर्तितम् ।
देवस्य विष्णोरीशस्य सर्वपापविनाशनम् ॥१५९॥
पठन्द्विजश्च विष्णुत्वं क्षत्रियो जयमाप्नुयात् ।
वैश्यो धनं सुखं शूद्रो विष्णुभक्तिसमन्वितः ॥१६०॥
॥ इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीविष्णुसहस्रनामस्तोत्रनिरूपणं नाम पञ्चदशोऽध्यायः ॥
स्कन्द पुराणोक्त विष्णु सहस्रनाम स्तोत्र
देवा ऊचुः
ब्रह्मन्केन प्रकारेण विष्णुभक्तिः परा भवेत् ।
तत्सर्वं श्रोतुमिच्छामस्त्वत्तो ब्रह्मविदां वर ॥१॥
ब्रह्मोवाच
श्रूयतां भोः सुरश्रेष्ठा विष्णुभक्तिमनुत्तमाम् ।
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ॥२॥
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ।
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ॥३॥
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ।
अभीप्सितार्थसिद्ध्यर्थं पूज्यते यः सुरैरपि ॥४॥
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ।
कल्पादौ सृष्टिकामेन प्रेरितोऽहं च शौरिणा ॥५॥
न शक्तो वै प्रजाः कर्तुं विष्णुध्यानपरायणः ।
एतस्मिन्नन्तरे सद्यो मार्कण्डेयो महाऋषिः ॥६॥
सर्वसिद्धेश्वरो दान्तो दीर्घायुर्विजितेन्द्रियः ।
मयादृष्टोऽथगत्वातं तदाहं समुपस्थितः ।
ततः प्रफुल्लनयनौ सत्कृत्य चेतरेतरम् ॥७॥
पृच्छमानौ परं स्वास्थ्यं सुखासीनौ सुरोत्तमाः ।
तदा मया स पृष्टो वै मार्कण्डेयो महामुनिः ॥८॥
भगवन्केन प्रकारेण प्रजा मेऽनामया भवेत् ।
तत्सर्वं श्रोतुमिच्छामि भगवन्मुनिवन्दित ॥९॥
श्रीमार्कण्डेय उवाच
विष्णुभक्तिः परा नित्या सर्वार्तिदुःखनाशिनी ।
सर्वपापहरा पुण्या सर्वसुखप्रदायिनी ॥१०॥
एषा ब्राह्मी महाविद्या न देया यस्य कस्यचित् ।
कृतघ्नाय ह्यशिष्याय नास्तिकायानृताय च ॥११॥
ईर्ष्यकाय च रूक्षाय कामिकाय कदाचन ।
तद्गतं सर्वं विघ्नन्तियत्तद्धर्मं सनातनम् ॥१२॥
एतद्गुह्यतमं शास्त्रं सर्वपापप्रणाशनम् ।
पवित्रं च पवित्राणां पावनानां च पावनम् ॥१३॥
विष्णोर्नामसहस्रं च विष्णुभक्तिकरं शुभम् ।
सर्वसिद्धिकरं नृणां भुक्तिमुक्तिप्रदं शुभम् ॥१४॥
विनियोग : अस्य श्रीविष्णुसहस्रनामस्तोत्रमन्त्रस्य मार्कण्डेय ऋषिः । विष्णुर्देवताः । अनुष्टुप्च्छन्दः । सर्वकामानवाप्त्यर्थे जपे विनियोगः ॥
॥ अथ ध्यानम् ॥
सजलजलदनीलं दर्शितोदारशीलं
करतलधृतशैलं वेणुवाद्ये रसालम् ।
व्रजजन कुलपालं कामिनीकेलिलोलं
तरुणतुलसिमालं नौमि गोपालबालम् ॥१५॥
ॐ विश्वं विष्णुर्हृषीकेशः सर्वात्मा सर्वभावनः ।
सर्वगः शर्वरीनाथो भूतग्रामाऽऽशयाशयः ॥१६॥
अनादिनिधनो देवः सर्वज्ञः सर्वसम्भवः ।
सर्वव्यापी जगद्धाता सर्वशक्तिधरोऽनघः ॥१७॥
जगद्बीजं जगत्स्रष्टा जगदीशो जगत्पतिः ।
जगद्गुरुर्जगन्नाथो जगद्धाता जगन्मयः ॥१८॥
सर्वाऽऽकृतिधरः सर्वविश्वरूपी जनार्दनः ।
अजन्मा शाश्वतो नित्यो विश्वाधारो विभुः प्रभुः ॥१९॥
बहुरूपैकरूपश्च सर्वरूपधरो हरः ।
कालाग्निप्रभवो वायुः प्रलयान्तकरोऽक्षयः ॥२०॥
महार्णवो महामेघो जलबुद्बुदसम्भवः ।
संस्कृतो विकृतो मत्स्यो महामत्स्यस्तिमिङ्गिलः ॥२१॥
अनन्तो वासुकिः शेषो वराहो धरणीधरः ।
पयःक्षीर विवेकाढ्यो हंसो हैमगिरिस्थितः ॥२२॥
हयग्रीवो विशालाक्षो हयकर्णो हयाकृतिः ।
मन्थनो रत्नहारी च कूर्मो धरधराधरः ॥२३॥
विनिद्रो निद्रितो नन्दी सुनन्दो नन्दनप्रियः ।
नाभिनालमृणाली च स्वयम्भूश्चतुराननः ॥२४॥
प्रजापतिपरो दक्षः सृष्टिकर्ता प्रजाकरः ।
मरीचिः कश्यपो दक्षः सुरासुरगुरुः कविः ॥२५॥
वामनो वाममार्गी च वामकर्मा बृहद्वपुः ।
त्रैलोक्यक्रमणो दीपो बलियज्ञविनाशनः ॥२६॥
यज्ञहर्ता यज्ञकर्ता यज्ञेशो यज्ञभुग्विभुः ।
सहस्रांशुर्भगो भानुर्विवस्वान्रविरंशुमान् ॥२७॥
तिग्मतेजाश्चाल्पतेजाः कर्मसाक्षी मनुर्यमः ।
देवराजः सुरपतिर्दानवारिः शचीपतिः ॥२८॥
अग्निर्वायुसखो वह्निर्वरुणो यादसाम्पतिः ।
नैरृतो नादनोऽनादी रक्षयक्षोधनाधिपः ॥२९॥
कुबेरो वित्तवान्वेगो वसुपालो विलासकृत् ।
अमृतस्रवणः सोमः सोमपानकरः सुधीः ॥३०॥
सर्वौषधिकरः श्रीमान्निशाकरदिवाकरः ।
विषारिर्विषहर्ता च विषकण्ठधरो गिरिः ॥३१॥
नीलकण्ठो वृषी रुद्रो भालचन्द्रो ह्युमापतिः ।
शिवः शान्तो वशी वीरो ध्यानी मानी च मानदः ॥३२॥
कृमिकीटो मृगव्याधो मृगहा मृगलाञ्छनः ।
बटुको भैरवो बालः कपाली दण्डविग्रहः ॥३३॥
स्मशानवासी मांसाशी दुष्टनाशी वरान्तकृत् ।
योगिनीत्रासको योगी ध्यानस्थो ध्यानवासनः ॥३४॥
सेनानीः सैन्यदः स्कन्दो महाकालो गणाधिपः ।
आदिदेवो गणपतिर्विघ्नहा विघ्ननाशनः ॥३५॥
ऋद्धिसिद्धिप्रदो दन्ती भालचन्द्रो गजाननः ।
नृसिंह उग्रदंष्ट्रश्च नखी दानवनाशकृत् ॥३६॥
प्रह्लादपोषकर्ता च सर्वदैत्यजनेश्वरः ।
शलभः सागरः साक्षी कल्पद्रुमविकल्पकः ॥३७॥
हेमदो हेमभागीच हिमकर्ता हिमाचलः ।
भूधरो भूमिदो मेरुः कैलासशिखरो गिरिः ॥३८॥
लोकालोकान्तरो लोकी विलोकी भुवनेश्वरः ।
दिक्पालो दिक्पतिर्दिव्यो दिव्यकायो जितेन्द्रियः ॥३९॥
विरूपो रूपवान्रागी नृत्यगीतविशारदः ।
हाहा हूहूश्चित्ररथो देवर्षिर्नारदः सखा ॥४०॥
विश्वेदेवाः साध्यदेवा धृताशीश्च चलोऽचलः ।
कपिलो जल्पको वादी दत्तो हैहयसङ्घराट् ॥४१॥
वसिष्ठो वामदेवश्च सप्तर्षिप्रवरो भृगुः ।
जामदग्न्यो महावीरः क्षत्रियान्तकरो ह्यृषिः ॥४२॥
हिरण्यकशिपुश्चैव हिरण्याक्षो हरप्रियः ।
अगस्तिः पुलहो दक्षः पौलस्त्यो रावणो घटः ॥४३॥
देवारिस्तापसस्तापी विभीषणहरिप्रियः ।
तेजस्वी तेजदस्तेजी ईशो राजपतिः प्रभुः ॥४४॥
दाशरथी राघवो रामो रघुवंशविवर्धनः ।
सीतापतिः पतिः श्रीमान्ब्रह्मण्यो भक्तवत्सलः ॥४५॥
सन्नद्धः कवची खड्गी चीरवासा दिगम्बरः ।
किरीटी कुण्डली चापी शङ्खचक्री गदाधरः ॥४६॥
कौसल्यानन्दनोदारो भूमिशायी गुहप्रियः ।
सौमित्रो भरतो बालः शत्रुघ्नो भरताऽग्रजः ॥४७॥
लक्ष्मणः परवीरघ्नः स्त्रीसहायः कपीश्वरः ।
हनुमानृक्षराजश्च सुग्रीवो वालिनाशनः ॥४८॥
दूतप्रियो दूतकारी ह्यङ्गदो गदतां वरः ।
वनध्वंसी वनी वेगो वानरध्वज लाङ्गुली ॥४९॥
रविदंष्ट्री च लङ्काहा हाहाकारो वरप्रदः ।
भवसेतुर्महासेतुर्बद्धसेतू रमेश्वरः ॥५०॥
जानकीवल्लभः कामी किरीटी कुण्डली खगी ।
पुण्डरीकविशालाक्षो महाबाहुर्घनाकृतिः ॥५१॥
चञ्चलश्चपलः कामी वामी वामाङ्गवत्सलः ।
स्त्रीप्रियः स्त्रीपरः स्त्रैणः स्त्रियो वामाड्गवासकः ॥५२॥
जितवैरी जितकामो जितक्रोधो जितेन्द्रियः ।
शान्तो दान्तो दयारामो ह्येकस्त्रीव्रतधारकः ॥५३॥
सात्त्विकः सत्त्वसंस्थानो मदहा क्रोधहा खरः ।
बहुराक्षस सम्वीतः सर्वराक्षसनाशकृत् ॥५४॥
रावणारी रणक्षुद्र दशमस्तकच्छेदकः ।
राज्यकारी यज्ञकारी दाता भोक्ता तपोधनः ॥५५॥
अयोध्याधिपतिः कान्तो वैकुण्ठोऽकुण्ठविग्रहः ।
सत्यव्रतो व्रती शूरस्तपी सत्यफलप्रदः ॥५६॥
सर्वसाक्षीः सर्वगश्च सर्वप्राणहरोऽव्ययः ।
प्राणश्चाथाप्यपानश्च व्यानोदानः समानकः ॥५७॥
नागः कृकलः कूर्मश्च देवदत्तो धनञ्जयः ।
सर्वप्राणविदो व्यापी योगधारकधारकः ॥५८॥
तत्त्ववित्तत्त्वदस्तत्त्वी सर्वतत्त्वविशारदः ।
ध्यानस्थो ध्यानशाली च मनस्वी योगवित्तमः ॥५९॥
ब्रह्मज्ञो ब्रह्मदो बह्मज्ञाता च ब्रह्मसम्भवः ।
अध्यात्मविद्विदो दीपो ज्योतीरूपो निरञ्जनः ॥६०॥
ज्ञानदोऽज्ञानहा ज्ञानी गुरुः शिष्योपदेशकः ।
सुशिष्यः शिक्षितः शाली शिष्यशिक्षाविशारदः ॥ ६१॥
मन्त्रदो मन्त्रहा मन्त्री तन्त्री तन्त्रजनप्रियः ।
सन्मन्त्रो मन्त्रविन्मन्त्री यन्त्रमन्त्रैकभञ्जनः ॥ ६२॥
मारणो मोहनो मोही स्तम्भोच्चाटनकृत्खलः ।
बहुमायो विमायश्च महामायाविमोहकः ॥ ६३॥
मोक्षदो बन्धको बन्दी ह्याकर्षणविकर्षणः ।
ह्रीङ्कारो बीजरूपी च क्लीङ्कारः कीलकाधिपः ॥ ६४॥
सौङ्कार शक्तिमाञ्च्छक्तिः सर्वशक्तिधरो धरः ।
अकारोकार ओङ्कारश्छन्दोगायत्रसम्भवः ॥ ६५॥
वेदो वेदविदो वेदी वेदाध्यायी सदाशिवः ।
ऋग्यजुःसामाथर्वेशः सामगानकरोऽकरी ॥ ६६॥
त्रिपदो बहुपादी च शतपथः सर्वतोमुखः ।
प्राकृतः संस्कृतो योगी गीतग्रन्थप्रहेलिकः ॥ ६७॥
सगुणो विगुणश्छन्दो निःसङ्गो विगुणो गुणी ।
निर्गुणो गुणवान्सङ्गी कर्मी धर्मी च कर्मदः ॥ ६८॥
निष्कर्मा कामकामी च निःसङ्गः सङ्गवर्जितः ।
निर्लोभो निरहङ्कारी निष्किञ्चनजनप्रियः ॥ ६९॥
सर्वसङ्गकरो रागी सर्वत्यागी बहिश्चरः ।
एकपादो द्विपादश्च बहुपादोऽल्पपादकः ॥ ७०॥
द्विपदस्त्रिपदोऽपादी विपादी पदसङ्ग्रहः ।
खेचरो भूचरो भ्रामी भृङ्गकीटमधुप्रियः ॥ ७१॥
क्रतुः सम्वत्सरो मासो गणितार्कोह्यहर्निशः ।
कृतं त्रेता कलिश्चैव द्वापरश्चतुराकृतिः ॥ ७२॥
दिवाकालकरः कालः कुलधर्मः सनातनः ।
कला काष्ठा कला नाड्यो यामः पक्षः सितासितः ॥ ७३॥
युगो युगन्धरो योग्यो युगधर्मप्रवर्तकः ।
कुलाचारः कुलकरः कुलदैवकरः कुली ॥ ७४॥
चतुराऽऽश्रमचारी च गृहस्थो ह्यतिथिप्रियः ।
वनस्थो वनचारी च वानप्रस्थाश्रमोऽश्रमी ॥ ७५॥
बटुको ब्रह्मचारी च शिखासूत्री कमण्डली ।
त्रिजटी ध्यानवान्ध्यानी बद्रिकाश्रमवासकृत् ॥ ७६॥
हेमाद्रिप्रभवो हैमो हेमराशिर्हिमाकरः ।
महाप्रस्थानको विप्रो विरागी रागवान्गृही ॥ ७७॥
नरनारायणोऽनागो केदारोदारविग्रहः ।
गङ्गाद्वारतपः सारस्तपोवन तपोनिधिः ॥ ७८॥
निधिरेष महापद्मः पद्माकरश्रियालयः ।
पद्मनाभः परीतात्मा परिव्राट् पुरुषोत्तमः ॥ ७९॥
परानन्दः पुराणश्च सम्राड्राज विराजकः ।
चक्रस्थश्चक्रपालस्थश्चक्रवर्ती नराधिपः ॥ ८०॥
आयुर्वेदविदो वैद्यो धन्वन्तरिश्च रोगहा ।
औषधीबीजसम्भूतो रोगी रोगविनाशकृत ॥ ८१॥
चेतनश्चेतकोऽचिन्त्यश्चित्तचिन्ताविनाशकृत् ।
अतीन्द्रियः सुखस्पर्शश्चरचारी विहङ्गमः ॥ ८२॥
गरुडः पक्षिराजश्च चाक्षुषो विनतात्मजः ।
विष्णुयानविमानस्थो मनोमयतुरङ्गमः ॥ ८३॥
बहुवृष्टिकरो वर्षी ऐरावणविरावणः ।
उच्चैःश्रवाऽरुणो गामी हरिदश्वो हरिप्रियः ॥ ८४॥
प्रावृषो मेघमाली च गजरत्नपुरन्दरः ।
वसुदो वसुधारश्च निद्रालुः पन्नगाशनः ॥ ८५॥
शेषशायी जलेशायी व्यासः सत्यवतीसुतः ।
वेदव्यासकरो वाग्ग्मी बहुशाखाविकल्पकः ॥ ८६॥
स्मृतिः पुराणधर्मार्थी परावरविचक्षणः ।
सहस्रशीर्षा सहस्राक्षः सहस्रवदनोज्ज्वलः ॥ ८७॥
सहस्रबाहुः सहस्रांशुः सहस्रकिरणो नरः ।
बहुशीर्षैकशीर्षश्च त्रिशिरा विशिराः शिरी ॥ ८८॥
जटिलो भस्मरागी च दिव्याम्बरधरः शुचिः ।
अणुरूपो बृहद्रूपो विरूपो विकराकृतिः ॥ ८९॥
समुद्रमाथको माथी सर्वरत्नहरो हरिः ।
वज्रवैडूर्यको वज्री चिन्तामणिमहामणिः ॥ ९०॥
अनिर्मूल्यो महामूल्यो निर्मूल्यः सुरभिः सुखी ।
पिता माता शिशुर्बन्धुर्धाता त्वष्टार्यमा यमः ॥ ९१॥
अन्तःस्थो बाह्यकारी च बहिःस्थो वै बहिश्चरः ।
पावनः पावकः पाकी सर्वभक्षी हुताशनः ॥ ९२॥
भगवान्भगहा भागी भवभञ्जो भयङ्करः ।
कायस्थः कार्यकारी च कार्यकर्ता करप्रदः ॥ ९३॥
एकधर्मा द्विधर्मा च सुखी दूत्योपजीवकः ।
बालकस्तारकस्त्राता कालो मूषकभक्षकः ॥ ९४॥
सञ्जीवनो जीवकर्ता सजीवो जीवसम्भवः ।
षड्विंशको महाविष्णुः सर्वव्यापी महेश्वरः ॥ ९५॥
दिव्याङ्गदो मुक्तमाली श्रीवत्सो मकरध्वजः ।
श्याममूर्तिर्घनश्यामः पीतवासाः शुभाननः ॥ ९६॥
चीरवासा विवासाश्च भूतदानववल्लभः ।
अमृतोऽमृतभागी च मोहिनीरूपधारकः ॥ ९७॥
दिव्यदृष्टिः समदृष्टिर्देवदानववञ्चकः ।
कबन्धः केतुकारी च स्वर्भानुश्चन्द्रतापनः ॥ ९८॥
ग्रहराजो ग्रही ग्राहः सर्वग्रहविमोचकः ।
दानमानजपो होमः सानुकूलः शुभग्रहः ॥ ९९॥
विघ्नकर्ताऽपहर्ता च विघ्ननाशो विनायकः ।
अपकारोपकारी च सर्वसिद्धिफलप्रदः ॥ १००॥
सेवकः सामदानी च भेदी दण्डी च मत्सरी ।
दयावान्दानशीलश्च दानी यज्वा प्रतिग्रही ॥ १०१॥
हविरग्निश्चरुस्थाली समिधश्चानिलो यमः ।
होतोद्गाता शुचिः कुण्डः सामगो वैकृतिः सवः ॥ १०२॥
द्रव्यं पात्राणि सङ्कल्पो मुशलो ह्यरणिः कुशः ।
दीक्षितो मण्डपो वेदिर्यजमानः पशुः क्रतुः ॥ १०३॥
दक्षिणा स्वस्तिमान्स्वस्ति ह्याशीर्वादः शुभप्रदः ।
आदिवृक्षो महावृक्षो देववृक्षो वनस्पतिः ॥ १०४॥
प्रयागो वेणुमान्वेणी न्यग्रोधश्चाऽक्षयो वटः ।
सुतीर्थस्तीर्थकारी च तीर्थराजो व्रती वतः ॥ १०५॥
वृत्तिदाता पृथुः पुत्रो दोग्धा गौर्वत्स एव च ।
क्षीरं क्षीरवहः क्षीरी क्षीरभागविभागवित् ॥ १०६॥
राज्यभागविदो भागी सर्वभागविकल्पकः ।
वाहनो वाहको वेगी पादचारी तपश्चरः ॥ १०७॥
गोपनो गोपको गोपी गोपकन्याविहारकृत् ।
वासुदेवो विशालाक्षः कृष्णोगोपीजनप्रियः ॥ १०८॥
देवकीनन्दनो नन्दी नन्दगोपगृहाऽऽश्रमी ।
यशोदानन्दनो दामी दामोदर उलूखली ॥ १०९॥
पूतनारिः पदाकारी लीलाशकटभञ्जकः ।
नवनीतप्रियो वाग्ग्मी वत्सपालकबालकः ॥ ११०॥
वत्सरूपधरो वत्सी वत्सहा धेनुकान्तकृत् ।
बकारिर्वनवासी च वनक्रीडाविशारदः ॥ १११॥
कृष्णवर्णाकृतिः कान्तो वेणुवेत्रविधारकः ।
गोपमोक्षकरो मोक्षो यमुनापुलिनेचरः ॥ ११२॥
मायावत्सकरो मायी ब्रह्ममायापमोहकः ।
आत्मसारविहारज्ञो गोपदारकदारकः ॥ ११३॥
गोचारी गोपतिर्गोपो गोवर्धनधरो बली ।
इन्द्रद्युम्नो मखध्वंसी वृष्टिहा गोपरक्षकः ॥ ११४॥
सुरभित्राणकर्ता च दावपानकरः कली ।
कालीयमर्दनः काली यमुनाह्रदविहारकः ॥ ११५॥
सङ्कर्षणो बलश्लाघ्यो बलदेवो हलायुधः ।
लाङ्गली मुसली चक्री रामो रोहिणिनन्दनः ॥ ११६॥
यमुनाकर्षणोद्धारो नीलवासा हलो हली ।
रेवती रमणो लोलो बहुमानकरः परः ॥ ११७॥
धेनुकारिर्महावीरो गोपकन्याविदूषकः ।
काममानहरः कामी गोपीवासोऽपतस्करः ॥ ११८॥
वेणुवादी च नादी च नृत्यगीतविशारदः ।
गोपीमोहकरो गानी रासको रजनीचरः ॥ ११९॥
दिव्यमाली विमाली च वनमालाविभूषितः ।
कैटभारिश्च कंसारिर्मधुहा मधुसूदनः ॥ १२०॥
चाणूरमर्दनो मल्लो मुष्टी मुष्टिकनाशकृत् ।
मुरहा मोदका मोदी मदघ्नो नरकान्तकृत् ॥ १२१॥
विद्याध्यायी भूमिशायी सुदामा सुसखा सुखी ।
सकलो विकलो वैद्यः कलितो वै कलानिधिः ॥ १२२॥
विद्याशाली विशाली च पितृमातृविमोक्षकः ।
रुक्मिणीरमणो रम्यः कालिन्दीपतिः शङ्खहा ॥ १२३॥
पाञ्चजन्यो महापद्मो बहुनायकनायकः ।
धुन्धुमारो निकुम्भघ्नः शम्बरान्तो रतिप्रियः ॥ १२४॥
प्रद्युम्नश्चानिरुद्धश्च सात्वतां पतिरर्जुनः ।
फाल्गुनश्च गुडाकेशः सव्यसाची धनञ्जयः ॥ १२५॥
किरीटी च धनुष्पाणिर्धनुर्वेदविशारदः ।
शिखण्डी सात्यकिः शैब्यो भीमो भीमपराक्रमः ॥ १२६॥
पाञ्चालश्चाभिमन्युश्च सौभद्रो द्रौपदीपति ।
युधिष्ठिरो धर्मराजः सत्यवादी शुचिव्रतः ॥ १२७॥
नकुलः सहदेवश्च कर्णो दुर्योधनो घृणी ।
गाङ्गेयोऽथगदापाणिर्भीष्मो भागीरथीसुतः ॥ १२८॥
प्रज्ञाचक्षुर्धृतराष्ट्रो भारद्वाजोऽथगौतमः ।
अश्वत्थामा विकर्णश्चजह्नुर्युद्धविशारदः ॥ १२९॥
सीमन्तिको गदी गाल्वो विश्वामित्रो दुरासदः ।
दुर्वासा दुर्विनीतश्च मार्कण्डेयो महामुनिः ॥ १३०॥
लोमशो निर्मलोऽलोमी दीर्घायुश्च चिरोऽचिरी ।
पुनर्जीवी मृतो भावी भूतो भव्यो भविष्यकः ॥ १३१॥
त्रिकालोऽथ त्रिलिङ्गश्च त्रिनेत्रस्त्रिपदीपतिः ।
यादवो याज्ञवल्क्यश्च यदुवंशविवर्धनः ॥ १३२॥
शल्यक्रीडी विक्रीडश्च यादवान्तकरः कलिः ।
सदयो हृदयो दायो दायदो दायभाग्दयी ॥ १३३॥
महोदधिर्महीपृष्ठो नीलपर्वतवासकृत ।
एकवर्णो विवर्णश्च सर्ववर्णबहिश्चरः ॥ १३४॥
यज्ञनिन्दी वेदनिन्दी वेदबाह्यो बलो बलिः ।
बौद्धारिर्बाधको बाधो जगन्नाथो जगत्पतिः ॥ १३५॥
भक्तिर्भागवतो भागी विभक्तो भगवत्प्रियः ।
त्रिग्रामोऽथ नवारण्यो गुह्योपनिषदासनः ॥ १३६॥
शालिग्रामः शिलायुक्तो विशालो गण्डकाश्रयः ।
श्रुतदेवः श्रुतः श्रावी श्रुतबोधः श्रुतश्रवाः ॥ १३७॥
कल्किः कालकलः कल्को दुष्टम्लेच्छविनाश कृत् ।
कुङ्कुमी धवलो धीरः क्षमाकरो वृषाकपिः ॥ १३८॥
किङ्करः किन्नरः कण्वः केकी किम्पुरुषाधिपः ।
एकरोमा विरोमा च बहुरोमा बृहत्कविः ॥ १३९॥
वज्रप्रहरणो वज्री वृत्रघ्नो वासवानुजः ।
बहुतीर्थकरस्तीर्थः सर्वतीर्थजनेश्वरः ॥ १४०॥
व्यतीपातोपरागश्च दानवृद्धिकरः शुभः ।
असङ्ख्येयोऽप्रमेयश्च सङ्ख्याकारो विसङ्ख्यकः ॥ १४१॥
मिहिकोत्तारकस्तारो बालचन्द्रः सुधाकरः ।
किम्वर्णः कीदृशः किञ्चित्किंस्वभावः किमाश्रयः ॥ १४२॥
निर्लोकश्च निराकारी बह्वाकारैककारकः ।
दौहित्रः पुत्रिकः पौत्रो नप्ता वंशधरो धरः ॥ १४३॥
द्रवीभूतो दयालुश्च सर्वसिद्धिप्रदो मणिः ॥ १४४॥
आधारोऽपि विधारश्च धरासूनुः सुमङ्गलः ।
मङ्गलो मङ्गलाकारो माङ्गल्यः सर्वमङ्गलः ॥ १४५॥
नाम्नां सहस्रं नामेदं विष्णोरतुलतेजसः ।
सर्वसिद्धिकरं काम्यं पुण्यं हरिहरात्मकम् ॥ १४६॥
यः पठेत्प्रातरुत्थाय शुचिर्भूत्वा समाहितः ।
यश्चेदं शृणुयान्नित्यं नरो निश्चलमानसः ॥ १४७॥
त्रिसन्ध्यं श्रद्धया युक्तः सर्वपापैः प्रमुच्यते ।
नन्दते पुत्रपौत्रैश्च दारैर्भृत्यैश्च पूजितः ॥ १४८॥
प्राप्नुते विपुलां लक्ष्मीं मुच्यते सर्वसङ्कटात् ।
सर्वान्कामानवाप्नोति लभते विपुलं यशः ॥ १४९॥
विद्यावाञ्जायते विप्रः क्षत्रियो विजयी भवेत् ।
वैश्यश्च धनलाभाढ्यः शूद्रः सुखमवाप्नुयात् ॥ १५०॥
रणे घोरे विवादे च व्यापारे पारतन्त्रके ।
विजयी जयमाप्नोति सर्वदा सर्वकर्मसु ॥ १५१॥
एकधा दशधा चैव शतधा च सहस्रधा ।
पठते हि नरो नित्यं तथैव फलमश्नुते ॥ १५२॥
पुत्रार्थी प्राप्नुते पुत्रान्धनार्थी धनमव्ययम् ।
मोक्षार्थी प्राप्नुते मोक्षं धर्मार्थी धर्मसञ्चयम् ॥ १५३॥
कन्यार्थी प्राप्नुते कन्यां दुर्लभां यत्सुरैरपि ।
ज्ञानार्थी जायते ज्ञानी योगी योगेषु युज्यते ॥ १५४॥
महोत्पातेषु घोरेषु दुर्भिक्षे राजविग्रहे ।
महामारीसमुद्भूते दारिद्र्ये दुःखपीडिते ॥ १५५॥
अरण्ये प्रान्तरे वाऽपि दावाग्निपरिवारिते ।
सिंहव्याघ्राभिभूतेऽपि वने हस्तिसमाकुले ॥ १५६॥
राज्ञा क्रुद्धेन चाज्ञप्ते दस्युभिः सह सङ्गमे ।
विद्युत्पातेषु घोरेषु स्मर्तव्यं हि सदा नरैः ॥ १५७॥
ग्रहपीडासु चोग्रासु वधबन्धगतावपि ।
महार्णवे महानद्यां पोतस्थेषु न चापदः ॥ १५८॥
रोगग्रस्तो विवर्णश्च गतकेशनखत्वचः ।
पठनाच्छवणाद्वापि दिव्यकाया भवन्ति ते ॥ १५९॥
तुलसीवनसंस्थाने सरोद्वीपे सुरालये ।
बद्रिकाश्रमे शुभे देशे गङ्गाद्वारे तपोवने ॥ १६०॥
मधुवने प्रयागे च द्वारकायां समाहितः ।
महाकालवने सिद्धे नियताः सर्वकामिकाः ॥ १६१॥
ये पठन्ति शतावर्तं भक्तिमन्तो जितेन्द्रियाः ।
ते सिद्धाः सिद्धिदा लोके विचरन्ति महीतले ॥ १६२॥
अन्योन्यभेदभेदानां मैत्रीकरणमुत्तमम् ।
मोहनं मोहनानां च पवित्रं पापनाशनम् ॥ १६३॥
बालग्रहविनाशाय शान्तीकरणमुत्तमम् ।
दुर्वृत्तानां च पापानां बुद्धिनाशकरं परम् ॥ १६४॥
पतद्गर्भा च वन्ध्या च स्राविणी काकवन्ध्यका ।
अनायासेन सततं पुत्रमेव प्रसूयते ॥ १६५॥
पयःपुष्कलदा गावो बहुधान्यफला कृषिः ।
स्वामिधर्मपरा भृत्या नारी पतिव्रता भवेत् ॥ १६६॥
अकालमृत्युनाशाय तथा दुःस्वप्नदर्शने ।
शान्तिकर्मणि सर्वत्र स्मर्तव्यं च सदा नरैः ॥ १६७॥
यः पठत्यन्वहं मर्त्यः शुचिष्मान्विष्णुसन्निधौ ।
एकाकी च जिताहारो जितक्रोधो जितेन्द्रियः ॥ १६८॥
गरुडारोहसम्पन्नः पीतवासाश्चतुर्भुजः ।
वाञ्छितं प्राप्य लोकेऽस्मिन्विष्णुलोके स गच्छति ॥ १६९॥
एकतः सकला विद्या एकतः सकलं तपः ।
एकतः सकलो धर्मो नाम विष्णोस्तथैकतः ॥ १७०॥
यो हि नामसहस्रेण स्तोतुमिच्छति वै द्विजः ।
सोऽयमेकेन श्लोकेन स्तुत एव न संशयः ॥ १७१॥
सहस्राक्षः सहस्रपात्सहस्रवदनोज्ज्वलः ।
सहस्रनामानन्ताक्षः सहस्रबाहुर्नमोऽस्तु ते ॥ १७२॥
विष्णोर्नामसहस्रं वै पुराणं वेदसम्मतम् ।
पठितव्यं सदा भक्तैः सर्वमङ्गलमङ्गलम् ॥ १७३॥
इति स्तवाभियुक्तानां देवानां तत्र वै द्विज ।
प्रत्यक्षं प्राह भगवान्वरदो वरदार्चितः ॥ १७४॥
श्रीभगवानुवाच
व्रियतां भोः सुराः सर्वैर्वरोऽस्मत्तोभिवाञ्छितः ।
तत्सर्वं सम्प्रदास्यामि नाऽत्र कार्या विचारणा ॥ १७५॥
॥ इति श्रीस्कन्दमहापुराणे आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये विष्णुसहस्रनामोऽध्यायः ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।