देवताओं के कुछ स्तोत्र ऐसे होते हैं जिनका नाम स्तवन होता है। भगवान विष्णु को प्रमुख देवता माना गया है और इनके अनेकों स्तवन पुराणों में मिलते हैं। यदि आप भगवान विष्णु के भक्त हैं और उनकी अराधना करते हैं तो आपको भगवान विष्णु के स्तवन की भी आवश्यकता होती है। यहां ३ प्रमुख विष्णु स्तवन (vishnu stavan) संस्कृत में दिया गया है जो इस प्रकार हैं : अदितिकृत बृहद्धर्मपुराणोक्त विष्णु स्तवन, गौरमुखकृत वराहपुराणोक्त विष्णु स्तवन और नरसिंह पुराणोक्त विष्णु स्तवन।
विष्णु स्तवन संस्कृत में – vishnu stavan
अदितिरुवाच
तस्मै नमस्ते कृष्णाय हरये परमात्मने ।
अजाय चादितेयाय काश्यपाय नमोऽस्तुते ॥१॥
नमस्ते पृश्निगर्भाय कैवल्यपतये नमः ।
देववन्दितपादाब्ज नमस्तुभ्यं नमो नमः ॥२॥
स्मृतार्त्तिनाशकानन्त देव पद्मविलोचन ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥३॥
इदं ब्रह्माण्डमखिलं क्रीडागेण्डूकमेव ते ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥४॥
निक्षिप्तोत्क्षिप्तविक्षिप्तप्रतिक्षिप्ता वयन्तथा ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥५॥
विष्णो तव कृपा यस्य परमानन्दवर्षिणी ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥६॥
तपस्ते यस्य हृदयं भक्तिस्ते यस्य दर्शन ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥७॥
परमां निष्कलां सूक्ष्मां प्राप्य यश्चात्मनि स्थितः ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥८॥
प्राणायामादिनिर्धूतकल्मषो यं समीक्षते ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥९॥
चन्द्रादित्यौ दृशौ यस्य ब्राह्मणा यस्य वै मुखम् ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥१०॥
निक्षिप्तोत्क्षिप्तविक्षिप्तप्रतिक्षिप्ता वयं पुनः ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥११॥
अग्निर्यस्य मुखं चास्य कर्णौ यस्य दिशोदश ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥१२॥
वायुर्यस्य स्वयं श्वासो माया हास्यञ्च यस्य वै ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥१३॥
पृथ्वी यस्यासनं सत्यं लोको मुकुटमेव यत् ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥१४॥
दक्षिणा चोत्तरा दिक् च भुजौ यस्य महाबलौ ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥१५॥
नासाग्रं यस्य पूर्वा दिक् पृष्ठं यस्य च पश्चिमा ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥१६॥
यस्याज्ञाकारिणो वायुसूर्यचन्द्रधराम्बुदाः ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥१७॥
त्रैलोक्यं लङ्कितं येन दुर्लङ्घ्यशासनेन वै ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥१८॥
यस्योदरस्थं सकलं त्रैलोक्यं भूर्भुवादिकम् ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥१९॥
मुखबाहूरुपादेभ्यो वर्णा यस्य बभूविरे ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥२०॥
मनश्चक्षुःश्रुतित्वग्भ्यो यस्याभूवंस्तथाश्रमाः ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥२१॥
सहस्त्रशीर्षा यः कूटः सहस्राक्षः सहस्त्रपात् ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥२२॥
आदित्यकोटिवर्णो यो योऽतीतो निखिलन्तमः ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥२३॥
एक उर्वरितो यस्तु कल्पान्ते महति प्रभुः ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥२४॥
एतावानेव नैव त्वमनन्तगुणशक्तिमान् ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥२५॥
त्रिगुणानामपार्थक्यात्सृष्ट्यादि कुरुषे च यः ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥२६॥
॥ इति बृहद्धर्मपुराणान्तर्गता अदितिकृतः विष्णुस्तवः सम्पूर्णः ॥
गौरमुखकृत वराहपुराणोक्त विष्णु स्तवन
धरण्युवाच
कथं गौरमुखो विष्णुं तोषयामास भूधर ।
एतन्मे कौतुकं श्रोतुं सम्यगिच्छा प्रवर्त्तते ॥१॥
वराह उवाच
नमोऽस्तु विष्णवे नित्यं नमस्ते पीतवाससे ।
नमस्ते चाद्यरूपाय नमस्ते जलरूपिणे ॥२॥
नमस्ते सर्वसंस्थाय नमस्ते जलशायिने ।
नमस्ते क्षितिरूपाय नमस्ते तेजसात्मने ॥३॥
नमस्ते वायुरूपाय नमस्ते व्योमरूपिणे ।
त्वं देवः सर्वभूतानां प्रभुस्त्वमसि हृच्छयः ॥४॥
त्वमोङ्कारो वषट्कारः सर्वत्रैव च संस्थितः ।
त्वमादिः सर्वदेवानां तव चादिर्न विद्यते ॥५॥
त्वं भूस्त्वं च भुवो देव त्वं जनस्त्वं महः स्मृतः ।
त्वं तपस्त्वं च सत्यं च त्वयि देव चराचरम् ॥६॥
त्वत्तो भूतमिदं विश्वं त्वदुद्भूता ऋगादयः ।
त्वत्तः शास्त्राणि जातानि त्वत्तो यज्ञाः प्रतिष्ठिताः ॥७॥
त्वत्तो वृक्षा वीरुधश्च त्वत्तः सर्वा वनौषधीः ।
पशवः पक्षिणः सर्पास्त्वत्त एव जनार्दन ॥८॥
ममापि देवदेवेश राजा दुर्जयसंज्ञितः ।
आगतोऽभ्यागतस्तस्य आतिथ्यं कर्त्तुमुत्सहे ॥९॥
तस्य मे निर्धनस्याद्य देवदेव जगत्पते ।
भक्तिनम्रस्य देवेश कुरुष्वान्नाद्यसञ्चयम् ॥१०॥
यं यं स्पृशामि हस्तेन यं यं पश्यामि चक्षुषा ।
वृक्षं वा तृणकन्दं वा तत्तदन्नं चतुर्विधम् ॥११॥
तथा त्वन्यतमं वाऽपि यद्ध्यातं मनसा मया ।
तत् सर्वं सिद्ध्यतां मह्यं नमस्ते परमेश्वर ॥१२॥
इति स्तुत्या तु देवेशस्तुतोष जगतां पतिः ।
मुनेस्तस्य स्वकं रूपं दर्शयामास केशवः ॥१३॥
॥ इति वराहपुराणे एकादशोऽध्यायान्तर्गतः वराहप्रोक्तः विष्णुस्तवः सम्पूर्णः ॥
नरसिंह पुराणोक्त विष्णु स्तवन
व्यास उवाच
प्रणिपत्य जगन्नाथं चराचरगुरुं हरिम् ।
मार्कण्डेयोऽभितुष्टाव भोगपर्यङ्कशायिनम् ॥१॥
मार्कण्डेय उवाच
प्रसीद भगवन् विष्णो प्रसीद पुरुषोत्तम ।
प्रसीद देवदेवेश प्रसीद गरुडध्वज ॥२॥
प्रसीद विष्णो लक्ष्मीश प्रसीद धरणीधर ।
प्रसीद लोकनाथाद्य प्रसीद परमेश्वर ॥३॥
प्रसीद सर्वदेवेश प्रसीद कमलेक्षण ।
प्रसीद मन्दरधर प्रसीद मधुसूदन ॥४॥
प्रसीद सुभगाकान्त प्रसीद भुवनाधिप ।
प्रसीदाद्य महादेव प्रसीद मम केशव ॥५॥
जय कृष्ण जयाचिन्त्य जय विष्णो जयाव्यय ।
जय विश्व जयाव्यक्त जय विष्णो नमोऽस्तु ते ॥६॥
जय देव जयाजेय जय सत्य जयाक्षर ।
जय काल जयेशान जय सर्व नमोऽस्तु ते ॥७॥
जय यज्ञपते नाथ जय विश्वपते विभो ।
जय भूतपते नाथ जय सर्वपते विभो ॥८॥
जय विश्वपते नाथ जय दक्ष नमोऽस्तु ते ।
जय पापहरानन्त जय जन्मजरापह ॥९॥
जय भद्रातिभद्रेश जय भद्र नमोऽस्तु ते ।
जय कामद काकुत्स्थ जय मानद माधव ॥१०॥
जय शंकर देवेश जय श्रीश नमोऽस्तु ते ।
जय कुङ्कुमरक्ताभ जय पङ्कजलोचन ॥११॥
जय चन्दनलिप्ताङ्ग जय राम नमोऽस्तु ते ।
जय देव जगन्नाथ जय देवकीनन्दन ॥१२॥
जय सर्वगुरो ज्ञेय जय शम्भो नमोऽस्तु ते ।
जय सुन्दर पद्माभ जय सुन्दरिवल्लभ ।
जय सुन्दरसर्वाङ्ग जय वन्द्य नमोऽस्तु ते ॥१३॥
जय सर्वद सर्वेश जय शर्मद शाश्वत ।
जय कामद भक्तानां प्रभविष्णो नमोऽस्तु ते ॥१४॥
नमः कमलनाभाय नमः कमलमालिने ।
लोकनाथ नमस्तेऽस्तु वीरभद्र नमोऽस्तु ते ॥१५॥
नमस्त्रैलोक्यनाथाय चतुर्मूर्ते जगत्पते ।
नमो देवाधिदेवाय नमो नारायणाय ते ॥१६॥
नमस्ते वासुदेवाय नमस्ते पीतवाससे ।
नमस्ते नरसिंहाय नमस्ते शार्ङ्गधारिणे ॥१७॥
नमः कृष्णाय रामाय नमश्चक्रायुधाय च ।
नमः शिवाय देवाय नमस्ते भुवनेश्वर ॥१८॥
नमो वेदान्तवेद्याय नमोऽनन्ताय विष्णवे ।
नमस्ते सकलाध्यक्ष नमस्ते श्रीधराच्युत ॥१९॥
लोकाध्यक्ष जगत्पूज्य परमात्मन् नमोऽस्तु ते ।
त्वं माता सर्वलोकानां त्वमेव जगतः पिता ॥२०॥
त्वमार्तानां सुहृन्मित्रं प्रियस्त्वं प्रपितामहः ।
त्वं गुरुस्त्वं गतिः साक्षी त्वं पतिस्त्वं परायणः ॥२१॥
त्वं ध्रुवस्त्वं वषट्कर्ता त्वं हविस्त्वं हुताशनः ।
त्वं शिवस्त्वं वसुर्धाता त्वं ब्रह्मा त्वं सुरेश्वरः ॥२२॥
त्वं यमस्त्वं रविर्वायुस्त्वं जलं त्वं धनेश्वरः ।
त्वं मनुस्त्वमहोरात्रं त्वं निशा त्वं निशाकरः ।
त्वं धृतिस्त्वं श्रियः कान्तिस्त्वं क्षमा त्वं धराधरः ॥२३॥
त्वं कर्ता जगतामीशस्त्वं हन्ता मधुसूदन ।
त्वमेव गोप्ता सर्वस्य जगतस्त्वं चराचर ॥२४॥
करणं कारणं कर्ता त्वमेव परमेश्वरः ।
शङ्खचक्रगदापाणे भो समुद्धर माधव ॥२५॥
प्रिय पद्मपलाशाक्ष शेषपर्यङ्कशायिनम् ।
त्वामेव भक्त्या सततं नमामि पुरुषोत्तमम् ॥२६॥
श्रीवत्साङ्कं जगद्बीजं श्यामलं कमलेक्षणम् ।
नमामि ते वपुर्देव कलिकल्मषनाशनम् ॥२७॥
लक्ष्मीधरमुदाराङ्गं दिव्यमालाविभूषितम् ।
चारूपृष्ठं महाबाहुं चारुभूषणभूषितम् ॥२८॥
पद्मनाभं विशालाक्षं पद्मपत्रनिभेक्षणम् ।
दीर्घतुङ्गमहाघ्राणं नीलजीमूतसंनिभम् ॥२९॥
दीर्घबाहुं सुगुप्ताङ्गं रत्नहारोज्ज्वलोरसम् ।
सुभ्रूललाटमुकुटं स्निग्धदन्तं सुलोचनम् ॥३०॥
चारुबाहुं सुताम्रोष्ठं रत्नोज्ज्वलितकुण्डलम् ।
वृत्तकण्ठं सुपीनांसं सरसं श्रीधरं हरिम् ॥३१॥
सुकुमारमजं नित्यं नीलकुञ्चितमूर्धजम् ।
उन्नतांसं महोरस्कं कर्णान्तायतलोचनम् ॥३२॥
हेमारविन्दवदनमिन्दिरायनमीश्वरम् ।
सर्वलोकविधातारं सर्वपापहरं हरिम् ॥३३॥
सर्वलक्षणसम्पन्नं सर्वसत्त्वमनोरमम् ।
विष्णुमच्युतमीशानमनन्तं पुरुषोत्तमम् ॥३४॥
नतोऽस्मि मनसा नित्यं नारायणमनामयम् ।
वरदं कामदं कान्तमनन्तं सूनृतं शिवम् ॥३५॥
नमामि शिरसा विष्णो सदा त्वां भक्तवत्सल ।
अस्मिन्नेकार्णवे घोरे वायुस्कम्पितचञ्चले ॥३६॥
अनन्तभोगशयने सहस्रफणशोभिते ।
विचित्रशयने रम्ये सेविते मन्दवायुना ॥३७॥
भुजपञ्जरसंसक्तकमलालयसेवितम् ।
इह त्वां मनसा सर्वमिदानीं दृष्टवानहम् ॥३८॥
इदानीं तु सुदुःखार्थो मायया तव मोहितः ।
एकोदके निरालम्बे नष्टस्थावरजङ्गमे ॥३९॥
शून्ये तमसि दुष्पारे दुःखपङ्के निरामये ।
शीतातपजरारोगशोकतृष्णादिभिः सदा ॥४०॥
पीडितोऽस्मि भृशं तात सुचिरं कालमच्युत ।
शोकमोहग्रहग्रस्तो विचरन् भवसागरे ॥४१॥
इहाद्य विधिना प्राप्तस्तव पादाब्जसंनिधौ ।
एकार्णवे महाघोरे दुस्तरे दुःखपीडितः ॥४२॥
चिरभ्रमपरिश्रान्तस्त्वामद्य शरणं गतः ।
प्रसीद सुमहामाय विष्णो राजीवलोचन ॥४३॥
विश्वयोने विशालाक्ष विश्वात्मन् विश्वसम्भव ।
अनन्यशरणं प्राप्तमतोऽत्र कुलनन्दन ॥४४॥
त्राहि मां कृपया कृष्ण शरणागतमातुरम् ।
नमस्ते पुण्डरीकाक्ष पुराणपुरुषोत्तम ॥४५॥
अञ्जनाभ हृषीकेश मायामय नमोऽस्तु ते ।
मामुद्धर महाबाहो मग्ने संसारसागरे ॥४६॥
गह्वरे दुस्तरे दुःखक्लिष्टे क्लेशमहाग्रहैः ।
अनाथं कृपणं दीनं पतितं भवसागरे ।
मां समुद्धर गोविन्द वरदेश नमोऽस्तु ते ॥४७॥
नमस्त्रैलोक्यनाथाय हरये भूधराय च ।
देवदेव नमस्तेऽस्तु श्रीवल्लभ नमोऽस्तु ते ॥४८॥
कृष्ण कृष्ण कृपालुस्त्वमगतीनां गतिर्भवान् ।
संसारार्णवमग्नानां प्रसीद मधुसूदन ॥४९॥
त्वामेकमाद्यं पुरुषं पुराणं जगत्पतिं कारणमच्युतं प्रभुम् ।
जनार्दनं जन्मजरार्तिनाशनं सुरेश्वरं सुन्दरमिन्दिरापतिम् ॥५०॥
बृहद्भुजं श्यामलकोमलं शुभं वराननं वारिजपत्रनेत्रम् ।
तरंगभङ्गायतकुन्तलं हरिं सुकान्तमीशं प्रणतोऽस्मि शाश्वतम् ॥५१॥
सा जिह्वा या हरिं स्तौति तच्चित्तं यत्त्वदर्पितम् ।
तावेव केवलौ श्लाघ्यौ यौ त्वत्पूजाकरौ करौ ॥५२॥
जन्मान्तरसहस्रेषु यन्मया पातकं कृतम् ।
तन्मे हर त्वं गोविन्द वासुदेवेति कीर्तनात् ॥५३॥
व्यास उवाच
इति स्तुतस्ततो विष्णुर्मार्कण्डेयेन धीमता ।
संतुष्टः प्राह विश्वात्मा तं मुनिं गरुडध्वजः ॥५४॥
श्रीभगवानुवाच
प्रीतोऽस्मि तपसा विप्र स्तुत्या च भृगुनन्दन ।
वरं वृणीष्व भद्रं ते प्रार्थितं दद्मि ते वरम् ॥५५॥
मार्कण्डेय उवाच
त्वत्पादपद्मे देवेश भक्तिं मे देहि सर्वदा ।
यदि तुष्टो ममाद्य त्वमन्यदेकं वृणोम्यहम् ॥५६॥
स्तोत्रेणानेन देवेश यस्त्वां स्तोष्यति नित्यशः ।
स्वलोकवसतिं तस्य देहि देव जगत्पते ॥५७॥
दीर्घायुष्ट्वं तु यद्दत्तं त्वया मे तप्यतः पुरा ।
तत्सर्वं सफलं जातमिदानीं तव दर्शनात् ॥५८॥
वस्तुमिच्छामि देवेश तव पादाब्जमर्चयन् ।
अत्रैव भगवन् नित्यं जन्ममृत्युविवर्जितः ॥५९॥
श्रीभगवानुवाच
मय्यस्तु ते भृगुश्रेष्ठ भक्तिरव्यभिचारिणी ।
भक्त्या मुक्तिर्भवत्येव तव कालेन सत्तम ॥६०॥
यस्त्विदं पठते स्तोत्रं सायं प्रातस्तवेरितम् ।
मयि भक्तिं दृढां कृत्वा मम लोके स मोदते ॥६१॥
यत्र यत्र भृगुश्रेष्ठ स्थितस्त्वं मां स्मरिष्यसि ।
तत्र तत्र समेष्यामि दान्तो भक्तवशोऽस्मि भोः ॥६२॥
व्यास उवाच
इत्युक्त्वा तं मुनिश्रेष्ठं मार्कण्डेयं स माधवः ।
विरराम स सर्वत्र पश्यन् विष्णुं यतस्ततः ॥६३॥
इति ते कथितं विप्र चरितं तस्य धीमतः ।
मार्कण्डेयस्य च मुनेस्तेनैवोक्तं पुरा मम ॥६४॥
ये विष्णुभक्त्या चरितं पुराणं भृगोस्तु पौत्रस्य पठन्ति नित्यम् ।
ते मुक्तपापा नरसिंहलोके वसन्ति भक्तैरभिपूज्यमानाः ॥६५॥
॥ इति श्रीनरसिंहपुराणे मार्कण्डेयचरितं नाम एकादशोऽध्यायः ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।