आत्मकल्याण के लिये साधना पूर्वक आध्यात्मिक उन्नति करने की आवश्यकता होती है। आध्यात्मिक उन्नति हेतु यह आवश्यक नहीं है कि किसी विशेष देवता को ही इष्ट बनाया जाय, अपितु पंचदेवता में से किसी को भी इष्ट बनाया जा सकता है। किन्तु जिनको भी इष्ट बनाया जाता है उनकी अराधना में हृदय स्तोत्र का विशेष महत्व होता है। हृदय स्तोत्र के बिना साधना पथ पर आगे बढ़ाना संभव नहीं होता है। जो प्रथम पूज्य गणेश की साधना करना चाहते हैं उनके लिये गणेश हृदय स्तोत्र का विशेष महत्व हो जाता है और यहां दिया गया है।
गणेश हृदय स्तोत्र – Ganesh Hriday Stotaram
प्रथम पूज्य गणपति के स्तोत्र-कथा आदि विशेष रूप से गणेश पुराण और मुद्गल पुराण से प्राप्त होते हैं। यहां जो गणेश हृदय स्तोत्र दिया गया है वह मुद्गल पुराण से लिया गया है।
शौनक उवाच
प्रकृतं वद सूत त्वं संवादं शङ्करस्य च । सनकादेर्विशेषेण सर्वसिद्धिकरं परम् ॥१॥
नानावतारसंयुक्तं धूम्रवर्णचरित्रकम् । श्रुत्वा सनकमुख्यास्तं किमूचुर्योगसिद्धये ॥२॥
सूत उवाच
धूम्रवर्णावतारस्य श्रुत्वाऽहं वधसंश्रितम् । चरितं हृष्टरोमाणः पप्रच्छुः शङ्करं द्विजाः ॥३॥
सनकाद्या ऊचुः
नानावतारसंयुक्तं श्रुत्वामाहात्म्यमुत्तमम् । धूम्रवर्णावतारस्य सन्तुष्टाः स्म सदाशिव ॥४॥
अधुना शाधि सर्वेश योगप्राप्त्यर्थमुत्तमम् । विधिं सुखकरं शीघ्रं सुगमं योगिनायक ॥५॥
शिव उवाच
गणेशहृदयं वक्ष्ये सर्वसिद्धिप्रदायकम् । साधकाय महाभागाः शीघ्रेण शान्तिदं परम् ॥६॥
पुराऽहं गणनाथस्य ध्यानयुक्तोऽभवं द्विजाः । तत्र मां सरितां श्रेष्ठा जगाद वाक्यमुत्तमम् ॥७॥
गङ्गोवाच
वद शङ्कर कस्य त्वं ध्यानं करोषि नित्यदा । इच्छामि तमहं ज्ञातु त्वत्तः किं परमं मतम् ॥८॥
शिव उवाच
गणेशं देवदेवेशं ब्रह्मब्रह्मेशमादरात् । ध्यायामि सर्वभावज्ञे कुलदेवं सनातनम् ॥९॥
तस्य यद् हृदयं देवि गुप्तं सर्वप्रदायकम् । कथयिष्यामि सर्वज्ञे येन ज्ञास्यसि तं विभुम् ॥१०॥
पुराऽज्ञानावृतोऽहं तु तपसि संस्थितोऽभवम् । तत्र तपः प्रभावेण हृद्यपश्यं गजाननम् ॥११॥
तस्य दर्शनमात्रेण स्फूर्तिः प्राप्ता मया प्रिये । तया गणेश्वरं ज्ञात्वा योगिवन्द्योऽभवं मुदा ॥१२॥
तत्तेऽहं शृणु वक्ष्यामि गणेशहृदयं परम् । येन गाणेशयोगे त्वं निपुणा सम्भविष्यसि ॥१३॥
विनियोग : ॐ अस्य श्रीगणेशहृदयस्तोत्रमन्त्रस्य शम्भुरृषिः । नानाविधानि छन्दांसि । श्री गणेशो देवता । गमिति बीजम् । ज्ञानात्मिका शक्तिः । नादः कीलकम् । श्रीगणपतिप्रीत्यर्थमभीष्टसिद्धयर्थं जपे विनियोगः ॥
न्यास
॥ अथ करन्यासः॥
॥ ॐ गां अङ्गुष्ठाभ्यां नमः ॥
॥ ॐ गीं तर्जनीभ्यां नमः ॥
॥ ॐ गूं मध्यमाभ्यां नमः ॥
॥ ॐ गैं अनामिकाभ्यां नमः ॥
॥ ॐ गौं कनिष्ठिकाभ्यां नमः ॥
॥ ॐ गः करतलकरपृष्ठाभ्यां नमः ॥
॥ अथ हृदयाद्यङ्गन्यासः ॥
॥ ॐ गां हृदयाय नमः ॥
॥ ॐ गीं शिरसे स्वाहा ॥
॥ ॐ गूं शिखायै वषट् ॥
॥ ॐ गैं कवचाय हुम् ॥
॥ ॐ गौं नेत्रत्रयाय वौषट् ॥
॥ ॐ गः अस्त्राय फट् ॥
॥अथ ध्यानम् ॥
सिन्दूराभं त्रिनेत्रं पृथुतरजठरं रक्तवस्त्रावृतं तं
पाशं चैवाङ्कुशं वै रदनमभयदं पाणिभिः सन्दधानम् ॥
सिद्ध्या बुद्ध्या प्रश्लिष्टं गजवदनमहं चिन्तये ह्येकदन्तं
नानाभूषाभिरामं निजजनसुखदं नाभिशेषं गणेशम् ॥१४॥
एवं ध्यात्वा मानसोपचारैः पूजयेत् । किञ्चिन्मूलमन्त्रं जप्त्वा हृदयं पठेत् ॥
ॐ गणेशमेकदन्तं च चिन्तामणिं विनायकम् । दुण्ढिराजं मयूरेशं लम्बोदरं गजाननम् ॥ १५॥
हेरम्बं वक्रतुण्डं च ज्येष्ठराजं निजस्थितम् । आशापूरं तु वरदं विकटं धरणीधरम् ॥१६॥
सिद्धिबुद्धिपतिं वन्दे ब्रह्मणस्पतिसंज्ञितम् । माङ्गल्येशं सर्वपूज्यं विघ्नानां नायकं परम् ॥१७॥
एकविंशति नामानि गणेशस्य महात्मनः । अर्थेन संयूतान्येव हृदयं परिकीर्तितम् ॥१८॥
॥ इति हृदयम् ॥
गङ्गोवाच
एकविंशतिनाम्नां त्वमर्थं ब्रूहि सदाशिव । गणेशहृदयं येन जानामि करुणानिधे ॥१९॥
शिव उवाच
गकाररूपं विविधं चराचरं णकारगं ब्रह्म तथा परात्परम् ।
तयोः स्थितास्तस्य गणाः प्रकीर्तिता गणेशमेकं प्रणमाम्यहं परम् ॥२०॥
मायास्वरूपं तु सदैकवाचकं दन्तः परो मायिकरूपधारकः ।
योगे तयोरेकरदं सुमानिनि धीस्थं नतोऽहं जनभक्तिलालसम् ॥२१॥
चित्तप्रकाशं विविधेषु संस्थं लिप्तं न लेपादि विवर्जितं तम् ।
भोगैर्विहीनं त्वथ भोगकारकं चिन्तामणिं तं प्रणमामि नित्यम् ॥२२॥
विनायकं नायकवर्जितं प्रिये विशेषतो नायकमीश्वरात्मनाम् ।
निरङ्कुशं तं प्रणमामि सर्वदं सदात्मकं भावयुतेन चेतसा ॥२३॥
वेदाः पुराणानि महेश्वरादिकाः शास्त्राणि योगेश्वरदेवमानवाः ।
नागासुरा ब्रह्मगणाश्च जन्तवो ढुण्ढन्ति वन्दे त्वथ दुण्ढिराजकम् ॥२४॥
मायार्थवाच्यो हि मयुरभावो नानाभ्रमार्थं प्रकरोति तेन् ।
तस्मान् मयूरेशमथो वदन्ति नमामि मायापतिमासमन्तात् ॥२५॥
यस्योदराद्विश्वमिदं प्रसूतं ब्रह्माणि तद्वज्जठरे स्थितानि ।
अनन्तरूपं जठरं हि यस्य लम्बोदरं तं प्रणतोऽस्मि नित्यम् ॥२६॥
जगद्गलाधो गणनायकस्य गजात्मकं ब्रह्मशिरः परेशम् ।
तयोश्च योगे प्रवदन्ति सर्वे गजाननं तं प्रणमामि नित्यम् ॥२७॥
दीनार्थवाच्यस्त्वथ हेर्जगच्च ब्रह्मार्थवाच्यो निगमेषु रम्बः ।
तत्पालकत्वाच्च तयोः प्रयोगे हेरम्बमेकं प्रणमामि नित्यम् ॥२८॥
विश्वात्मकं यस्य शरीरमेकं तस्माच्च वक्त्रं परमात्मरूपम् ।
तुण्डं तदेवं हि तयोः प्रयोगे तं वक्रतुण्डं प्रणमामि नित्यम् ॥२९॥
मातापिताऽयं जगतां परेषां तस्याऽपि माता जनकादिकं न ।
श्रेष्ठं वदन्ते निगमाः परेश तं ज्येष्ठराजं प्रणमामि नित्यम् ॥३०॥
नानाचतुःस्थं विविधात्मकेन संयोगरूपेण निजस्वरूपम् ।
पूर्यस्य सा पूर्णसमाधिरूपा स्वानन्दनाथं प्रणमामि चातः ॥३१॥
मनोरथान् पूरयतीह गङ्गे चराचराणां जगतां परेषाम् ।
अतो गणेशं प्रवदन्ति चाशाप्रपूरकं तं प्रणमामि नित्यम् ॥३२॥
वरैः समास्थापितमेव सर्वं विश्वं तथा ब्रह्मविहारिणा च ।
अतः परं विप्रमुखा वदन्ति वरप्रदं तं वरदं नतोऽस्मि ॥३३॥
मायामयं सर्वमिदं विभाति मिथ्यास्वरूपं भ्रमदायकं च ।
तस्मात्परं ब्रह्म वदन्ति सत्यमेनं परेशं विकटं नमामि ॥३४॥
चित्तस्य प्रोक्ता मुनिभिः पृथिव्यो नानाविधा योगिभिरेव गङ्गे ।
तासां सदा धारक एक एव वन्दे च धरणीधरमादिभूतम् ॥३५॥
विश्वात्मिका ब्रह्ममयी हि बुद्धिः तस्या विमोहप्रदिका च सिद्धिः ।
ताभ्यां सदा खेलति योगनाथः तं सिद्धिबुद्धीशमथो नमामि ॥३६॥
असत्यसत् साम्यतुरीयनैज्यगन्निवृत्ति रूपाणि विरच्य खेलकः ।
सदा स्वयं योगमयेन भाति तं नमाम्यतोऽहं त्वथ ब्रह्मणस्पतिम् ॥३७॥
अमङ्गलं विश्वमिदं सहात्मभिः अयोगसंयोगयुतं प्रणश्वरम् ।
ततः परं मङ्गलरूपधधारकं नमामि माङ्गल्यपतिं सुशान्तिदम् ॥३८॥
सर्वत्रमान्यं सकलावभासकं सुज्ञैः शुभादावशुभादिपूजितम् ।
पूज्यं न तस्मान्निगमादिसम्मतं तं सर्वपूज्यं प्रणतोऽस्मि नित्यम् ॥३९॥
भुक्तिं च मुक्तिं प्रददाति तुष्टो भक्तिप्रियो निजविघ्नहा च ।
भक्त्या विहीनाय ददाति विघ्नान् तं विघ्नराजं प्रणमामि नित्यम् ॥४०॥
नामार्थयुक्तं कथितं प्रिये ते विघ्नेश्वरस्यैव परं रहस्यम् ।
सप्तत्रिनाम्नां हृदयं नरो यो ज्ञात्वा परं ब्रह्ममयो भवेदिह ॥४१॥
गङ्गोवाच
नाम्नां यथृदयं प्रोक्तं त्वया ब्रह्मपदं परम् । न तत्रानुभवो मे तु तदर्थं वद शङ्कर ॥४२॥
शिव उवाच
मन्त्रं गृह्य गणेशस्य पुरश्चरणमार्गतः ।भज त्वं तेन तं ज्ञानं भविष्यति न संशयः ॥४३॥
हृदयं मन्त्रराजस्य कथयामि समासतः ।मन्त्र एव गणेशानो न भिन्नस्तत्र वर्तते ॥४४॥
गकारो ब्रह्मदेवश्चाऽकारो विष्णुः प्रकीर्तितः ।बिन्दुः शिवस्तथा भानुः सानुनासिक संज्ञितः ॥४५॥
तेषां सन्धिर्महाशक्तिरेभिः स मन्त्र उच्यते ।देवता गणनाथस्तु तेषां संयोगकारकः ॥४६॥
तेभ्यस्तारमयं विश्वं समुत्पन्नं प्रिये पुरा ।अतस्तारयुतो मन्त्रो गणेशैकाक्षराकृतिः ॥४७॥
तारः स षड् विधः प्रोक्तस्तन्निबोध सरिद्वरे ।अकारोकारकौः प्रोक्तौः मकारो नादबिन्दुके ॥४८॥
शून्यं विद्धि महामाये तत्र भेदं वदाम्यहम् ।शून्यं देहीस्वरूपं तु बिन्दुर्देह इति स्मृतः ॥४९॥
ताभ्यां चतुर्विधं विश्वं स्थूलादिभेदधारकम् ।एतादृशं बिजानीहि मन्त्रराजं गजाननम् ॥५०॥
आगमोक्तविधानेन कृत्वा न्यासादिकं पुरा ।ततो गणेश्वरं पूज्य जपं कुर्याद्विचक्षणः ॥५१॥
तद्दशांशेन होमं वै कुर्यादागममार्गतः ।तद्दशांशमितं प्रोक्तं तर्पणं गणपस्य च ॥५२॥
तद्दशांशमितं देवि मार्जनं तद्दशांशतः ।विप्राणां भोजनं प्रोक्तमेवं पञ्चाङ्गमुच्चते ॥५३॥
यथाविधिकृतं चैतत्सद्यो हि फलदं भवेत् ।अतस्त्वं मन्त्रराजस्य पञ्चकं तत्समाचर ॥५४॥
एवमुक्त्वाददे तस्यै मन्त्रं विधिसमन्वितम् ।गणेशस्य प्रणम्यैव मां ययौ सा तपोऽर्थतः ॥५५॥
मयूरेशं समासाद्य चकार तप उत्तमम् ।गङ्गा तत्रैव विप्रेशा मन्त्रध्यानपरायणा ॥५६॥
पुरश्चरणमेकं सा चकार सरितां वरा ।ततः प्रसन्नता यातो गणेशो भक्तवत्सलः ॥५७॥
तस्यैव कृपया तस्या हृदि ज्ञानं बभूव ह ।तेनैकविंशतेर्नाम्नामर्थज्ञा तत्क्षणादभूत् ॥५८॥
ततो हर्षयुता देवी तत्र वासं चकार सा ।नित्यं भक्तिसमायुक्ताऽभजत्तं गणनायकम् ॥५९॥
सनकाद्या ऊचुः
ब्रह्मभूता सरित्श्रेष्ठा मयूरेशं कथं प्रभो ।अभजत्तस्य मार्गं नो ब्रूहि नाथ नमोऽस्तु ते ॥६०॥
शिव उवाच
ब्रह्मभूतो नरो योगी गणेशमभजत्सदा ।नवधा भक्तिभावेन तत्परश्च महर्षयः ॥६१॥
पुत्रः कलत्रं जनकौ सुहृदगणो द्रव्यं सखावृत्तिजविद्यया युतम् ।
स्वर्गस्तु मोक्षो विविधं त्वमेव मे स्वामी गुरुर्विघ्नपतिः परात्परः ॥६२॥
सांसर्गिकं कायिकवाचिकं परं कर्माचरन्मानसजं त्रिदेहतः ।
ज्ञानं हृदिस्थं च मया परात्परं विध्नेश्वरायेति समर्पितं किल ॥६३॥
योगाकारेण विघ्नेश एकानेकादिसंश्रितः ।भुङ्क्ते स विविधान्भोगान् शुभाऽशुभसमाश्रितान् ॥६४॥
नाहं नरः स्वयं साक्षात् क्रीडति गणनायकः ।स्वामिसेवकभावेन ब्रह्मणि शोभते रतः ॥६५॥
अनेन विधिना विप्रा भजन्ते गणनायकम् ।योगिनः शुकमुख्याश्च मुद्गलाद्या महर्षयः ॥६६॥
एतत्सर्वं समाख्यातं गुह्यं गणपतेर्मया ।हृदयं तेन विघ्नेशं तोषयध्वं महर्षयः ॥६७॥
यथा देहेन्द्रियाद्येषु मुख्यं स्वहृदयं स्मृतम् ।यत्र जीवस्वरूपेण तिष्ठति गणनायकः ॥६८॥
तथा गणपतेरेतद् हृदयं परिकीर्तितम् ।अत्र योगपतिः साक्षात्तिष्ठति ब्रह्मनायकः ॥६९॥
अनेन गणनाथं तु यस्तोष्यति नरोत्तमः ।स भुक्त्वा सकलान्भोगानन्ते योगमयो भवेत् ॥७०॥
एवं मदीयवाक्यं ते श्रुत्वा ब्रह्मसुताः परम् ।प्रणम्य मां ययुः सर्वे सनकाद्यास्तपोवनम् ॥७१॥
एकाक्षरमन्त्रस्य पञ्चकं सेव्य योगिनः ।गणेशहृदयं ज्ञात्वा गाणपत्या बभूविरे ॥७२॥
ततो नित्यं गणेशस्य हृदयं ते महर्षयः ।जपन्ति भक्तिसंयुक्ता भ्रमन्ति स्वेच्छयेरिताः ॥७३॥
अतस्त्वमपि भावेन गणेशहृदयं परम् ।सेवस्व गाणपत्येषु मुख्यस्तथा भविष्यसि ॥७४॥
मुद्गल उवाच
एवमुक्त्वा महानागं शेषाय प्रददौ शिवः ।मन्त्रमेकाक्षर साङ्गं स ययौ तं प्रणम्य च ॥७५॥
साधयित्वा यथान्यायं हृदयज्ञो बभूव ह ।नित्यं हृदयकेनैव तुष्टाव द्विरदाननम् ॥७६॥
गणेशहृदयं पुण्यं शृणुयाच्छ्रावयेन्नरः ।ईप्सितं प्राप्नुयाच्चान्ते ब्रह्मभूतो भवेदिह ॥७७॥
नित्यं पठेन्नरश्चेदं हृदयं गणपस्य यः ।स गणेशो न सन्देहो दर्शनात्सिद्धिदो भवेत् ॥७८॥
पुत्रपौत्रकलत्रादि लभते पाठतो नरः ।धनं सुविपुलं धान्यमारोग्यमचलां श्रियम् ॥७९॥
एकविंशतिवारं यो दिवसानेकविंशतिम् ।पठेत् गणपतिं चिन्त्यं स लभेदीप्सितं फलम् ॥८०॥
असाध्यं साधयेन्मर्त्यौ गणेशहृदयेन यत् ।राजबद्धं त्रिकालेषु मोचयेत्पाठ तो विधे ॥८१॥
मारणोच्चाटनादीनि वश्यमोहादिकानि तु ।अनेन साधयेन्मर्त्यः परं कृत्यं विनाशयेत् ॥८२॥
सङ्ग्रामे जयमाप्नोति वीरश्रीसंयुतो भवेत् ।अस्य पाठेन भो दक्ष न किञ्चिद् दुर्लभं भवेत् ॥८३॥
विद्यामायुर्यशः प्रज्ञामङ्ग हीनोङ्गमाप्नुयात् ।यं यं चिन्तयते मर्त्यस्तं तं प्राप्नोति निश्चितम् ॥८४॥
नानेन सदृशं किञ्चिद् शीघ्रसिद्धिकरं भवेत् ।साक्षाद्गणपतेः प्रोक्तं हृदयं ते मया विधे ॥८५॥
गणेशभक्तिहीनाय दुर्विनीताय विद्विषे ।न देयं गणराजस्य हृदयं वै कदाचन ॥८६॥
गणेशभक्तियुक्ताय साधवे च प्रयत्नतः ।दातव्यं तेन विघ्नेशः सुप्रसन्नो भविष्यति ॥८७॥
महासिद्धिप्रदं तुभ्यं कथितं गणपस्य च ।हृदयं कि पुनः श्रोतुमिच्छसि त्वं प्रजापते ॥८८॥
॥ इति श्रीमुद्गलपुराणोक्त गणेशहृदयं स्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।
Discover more from संपूर्ण कर्मकांड विधि
Subscribe to get the latest posts sent to your email.