श्रीवराहपुराणे षडशीतितमोऽध्यायः
रुद्र उवाच
अथ तृतीयं कुशद्वीपं शृणुत ।
कुशद्वीपेन क्षीरोदः परिवृतः शाकद्वीपस्य विस्ताराद्द्विगुणेन ।
तत्रापि सप्त कुलपर्वताः । सर्वे च द्विनामानः ।
तद्यथा कुमुदविद्रुमेति च सोच्यते । उन्नतो हेमपर्वतः सैव ।
बलाहको द्युतिमान् सैव । तथा द्रोणः सैव पुष्पवान् ।
कङ्कश्च पर्वतः सैव कुशेशयः । तथा षष्ठो महिषनामा स एव हरिरित्युच्यते ।
तत्राग्निर्वसति । सप्तमस्तु ककुद्मान् नाम सैव मन्दरः कीर्त्यते ।
इत्येते पर्वताः कुशद्वीपे व्यवस्थिताः एतेषां वर्षभेदो भवति द्विनामसंज्ञः ।
कुमुदस्य श्वेतमुद्भिदं तदेव कीर्त्यते ।
उन्नतस्य लोहितं वेणुमण्डलं तदेव भवति ।
बलाहकस्य जीमूतं तदेव रथाकार इति ।
द्रोणस्य हरितं तदेव बलाधनं भवति । कङ्कस्यापि ककुद्मान् नाम ।
वृत्तिमत् तदेव मानसं महिषस्य प्रभाकरम् ।
ककुद्मतः कपिलं तदेव सङ्ख्यातं नाम इत्येतानि वर्षाणि ।
तत्र द्विनाम्न्यो नद्यः । प्रतपा प्रवेशा सैवोच्यते ।
द्वितीया शिवा यशोदा सा च भवति ।
तृतीया पित्रा नाम सैव कृष्णा भण्यते ।
चतुर्थी ह्रादिनी नाम सैव चन्द्रा निगद्यते ।
विद्युता च पञ्चमी शुक्ला सैव । वर्णा षष्ठी सैव विभावरी ।
महती सप्तमी सैव धृतिः ।
एताः प्रधानाः शेषाः क्षुदनद्यः ।
इत्येष कुशद्वीपस्य सन्निवेशः ।
शाकद्वीपो द्विगुणः सन्निविष्टश्च कथितः । तस्य च मध्ये महाकुशस्तम्बः ।
एष च कुशद्वीपो दधिमण्डोदेनावृतः क्षीरोदद्विगुणेन ।
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षडशीतितमोऽध्यायः ॥८६॥
श्रीवराहपुराणे सप्ताशीतितमोऽध्यायः
रुद्र उवाच
अथ क्रौञ्चं भवति चतुर्थं कुशद्वीपाद्द्विगुणमानतः
समुद्रः क्रौञ्चेन द्विगुणेनावृतः । तस्मिंश्च सप्तैव प्रधानपर्वताः ।
प्रथमः कौञ्चो विद्युल्लतो रैवतो मानसः सैव पावकः ।
तथैवान्धकारः सैवाच्छोदकः । देवावृत्तो स च सुरापो भण्यते ।
ततो देविष्ठः स एव काञ्चनशृङ्गो भवति ।
देवनन्दात्परो गोविन्दः, द्विविन्द इति । ततः पुण्डरीकः सैव तोषाशयः ।
एते सप्त रत्नमयाः पर्वताः क्रीञ्चद्वीपे व्यवस्थिताः ।
सर्वे च परस्परेणोच्छ्रयाः ।
तत्र वर्षाणि तथा क्रौञ्चस्य कुशलो देशःसैव माधवः स्मृतः
वामनस्य मनोऽनुगः सैव संवर्तकस्ततोष्णवान् सोमप्रकाशः ।
ततः पावकः सैव सुदर्शनः । तथा चान्धकारः सैव सम्मोहः ।
ततो मुनिदेशः स च प्रकाशः । ततो दुन्दुभिः सैवानर्थ उच्यते ।
तत्रापि सप्तैव नद्यः ॥८७.१॥
गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ख्यातिश्च पुण्डरीका च
गङ्गा सप्तविधाः स्मृताः । गौरी सैव पुष्पवहा कुमुद्वती ताम्रवती
रोधसन्ध्या सुखावहा च मनोजवा च क्षिप्रोदा च ख्यातिः सैव
गोबहुला पुण्डरीका चित्रवेगा शेषाः क्षुद्रनद्यः ।
क्रौञ्चद्वीपो घृतोदेनावृतः । घृतोदा शाल्मलेनेति ॥८७.२॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे सप्ताशीतितमोऽध्यायः ॥८७॥
श्रीवराहपुराणे अष्टाशीतितमोऽध्यायः
रुद्र उवाच
त्रिषु शिष्टेषु वक्ष्यामि द्वीपेषु मनुजान्युत ।
शाल्मलं पञ्चमं वर्षं प्रवक्ष्ये तन्निबोधत ।
क्रौञ्चद्वीपस्य विस्ताराच्छाल्मलो द्विगुणो मतः ॥८८.१॥
घृतसमुद्रमावृत्य व्यवस्थितस्तद्विस्तारो द्विगुणस्तत्र च सप्त पर्वताः
प्रधानास्तावन्ति वर्षाणि तावत्यो नद्यः । तत्र च पर्वताः ।
सुमहान् पीतः शातकौम्भात् सार्वगुणसौवर्णरोहितसुमनसकुशल
जाम्बूनदवैद्युता इत्येते कुलपर्वता वर्षाणि चेति ।
अथ षष्ठं गोमेदं कथ्यते ।
शाल्मलं यथा सुरोदेनावृतं तद्वत् सुरोदोऽपि
तद्विगुणेन गोमेदेनावृतः । तत्र च प्रधानपर्वतौ द्वावेव ।
एकस्य तावत्तावसरः । अपरश्च कुमुद इति ।
समुद्रश्चेक्षुरसस्तद्द्विगुणेन पुष्करेणावृतः ।
तत्र च पुष्कराख्ये मानसो नाम पर्वतः ।
तदपि द्विधा छिन्नं वर्षं तत्प्रमाणेन च ।
स्वादोदकेनावृतम् । ततश्च कटाहम् । एतत् पृथिव्याः प्रमाणम् ।
ब्रह्माण्डस्य च सकटाह विस्तारप्रमाणम् ।
एवंविधानामण्डानां परिसङ्ख्या न विद्यते ।
एतानि कल्पे कल्पे भगवान् नारायणः क्रोडरूपी
रसातलान्तः प्रविष्टानि दंष्ट्रैकेनोद्धृत्य स्थितौ स्थापयति ।
एष वः कथितो मार्गो भूमेरायामविस्तरः ।
स्वस्ति वोऽस्तु गमिष्यामि कैलासं निलयं द्विजाः ॥८८.२॥
श्रीवराह उवाच
एवमुक्त्वा गतो रुद्रः क्षणाददृश्यमूर्तिमान् ।
ते च सर्वे गता देवा ऋषयश्च यथागतम् ॥८८.३॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे अष्टाशीतितमोऽध्यायः ॥८८॥