विभिन्न पुराणों में भगवान शिव के अनेकों कवच मिलते हैं यथा अमोघ शिव कवच, ब्रह्माण्डविजयी शिव कवच। शिव उपासना में सहयोगार्थ यहां ३ प्रमुख शिव कवच स्तोत्र (shiv kavach stotra) स्कन्द पुराणोक्त अमोघ शिव कवच, शिवरहस्योक्त दधीचिकृत शिव कवच, ब्रह्मवैवर्त पुराणोक्त ब्रह्माण्डविजयी नामक शिव कवच संस्कृत में दिये गये हैं।
यहां पढ़ें 3 शिव कवच स्तोत्र संस्कृत में – shiv kavach stotra
स्कन्द पुराणोक्त अमोघ शिव कवच
विनियोग : अस्य श्रीशिवकवचस्तोत्रमन्त्रस्य, वृषभ ऋषिः, अनुष्टुप्छन्दः, श्रीसदाशिवरुद्रो देवता, ह्रीं शक्तिः, वं कीलकम्, श्रीं ह्रीं क्लीं बीजम्, श्रीसदाशिवप्रीत्यर्थे शिवकवचस्तोत्रजपे विनियोगः ॥
॥ ऋष्यादिन्यासः ॥
- ॐ ब्रह्मऋषये नमः शिरसि ॥
- अनुष्टुप् छन्दसे नमः, मुखे ॥
- श्रीसदाशिवरुद्रदेवताय नमः हृदि ॥
- ह्रीं शक्तये नमः, पादयोः ॥
- वं कीलकाय नमः नाभौ ॥
- श्री ह्रीं क्लीमिति बीजाय नमः गुह्ये ॥
- विनियोगाय नमः, सर्वाङ्गे ॥
॥ अथ करन्यासः ॥
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ ह्रीं रां सर्वशक्तिधाम्ने ईशानात्मने अङ्गुष्ठाभ्यां नमः ॥
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ नं रीं नित्यतृप्तिधाम्ने तत्पुरुषात्मने तर्जनीभ्यां नमः ॥
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ मं रूं अनादिशक्तिधाम्ने अघोरात्मने मध्यमाभ्यां नमः ॥
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ शिं रैं स्वतन्त्रशक्तिधाम्ने वामदेवात्मने अनामिकाभ्यां नमः ॥
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ वां रौं अलुप्तशक्तिधाम्ने सद्योजातात्मने कनिष्ठिकाभ्यां नमः ॥
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ यं रः अनादिशक्तिधाम्ने सर्वात्मने करतलकरपृष्ठाभ्यां नमः ॥
॥ हृदयाद्यङ्गन्यासः ॥
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ ह्रीं रां सर्वशक्तिधाम्ने ईशानात्मने हृदयाय नमः ॥
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ नं रीं नित्यतृप्तिधाम्ने तत्पुरुषात्मने शिरसे स्वाहा ॥
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ मं रूं अनादिशक्तिधाम्ने अघोरात्मने शिखायै वषट् ॥
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ शिं रैं स्वतन्त्रशक्तिधाम्ने वामदेवात्मने कवचाय हुम् ॥
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ वां रौं अलुप्तशक्तिधाम्ने सद्योजातात्मने नेत्रत्रयाय वौषट् ॥
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ यं रः अनादिशक्तिधाम्ने सर्वात्मने अस्त्राय फट् ॥
॥ अथ ध्यानम् ॥
वज्रदंष्ट्रं त्रिनयनं कालकण्ठमरिन्दमम् ।
सहस्रकरमप्युग्रं वन्दे शम्भुमुमापतिम् ॥
रुद्राक्षकङ्कणलसत्करदण्डयुग्मः
पालान्तरालसितभस्मधृतत्रिपुण्ड्रः ।
पञ्चाक्षरं परिपठन् वरमन्त्रराजं
ध्यायन् सदा पशुपतिं शरणं व्रजेथाः ॥
अतः परं सर्वपुराणगुह्यं
निःशेषपापौघहरं पवित्रम् ।
जयप्रदं सर्वविपत्प्रमोचनं
वक्ष्यामि शैवं कवचं हिताय ते ॥
॥ अथ कवचम् ॥
ऋषभ उवाच नमस्कृत्य महादेवं विश्वव्यापिनमीश्वरम् ।
वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् ॥१॥
शुचौ देशे समासीनो यथावत्कल्पितासनः ।
जितेन्द्रियो जितप्राणश्चिन्तयेच्छिवमव्यम् ॥२॥
हृत्पुण्डरीकान्तरसंनिविष्टं स्वतेजसा व्याप्तनभोऽवकाशम् ।
अतीन्द्रियं सूक्ष्ममनन्तमाद्यं ध्यायेत्परानन्दमयं महेशम् ॥३॥
ध्यानावधूताखिलकर्मबन्धश्चिरं चिदान्दनिमग्नचेताः ।
षडक्षरन्याससमाहितात्मा शैवेन कुर्यात्कवचेन रक्षाम् ॥४॥
मां पातु देवोऽखिलदेवतात्मा संसारकूपे पतितं गभीरे ।
तन्नाम दिव्यं वरमन्त्रमूलं धुनोतु मे सर्वमघं हृदिस्थम् ॥५॥
सर्वत्र मां रक्षतु विश्वमूर्तिर्ज्योतिर्मयानन्दघनश्चिदात्मा ।
अणोरणीयानुरुशक्तिरेकः स ईश्वरः पातु भयादशेषात् ॥६॥
यो भूस्वरूपेण बिभर्ति विश्वं पायात्स भूमेर्गिरिशोऽष्टमूर्तिः ।
योऽपां स्वरूपेण नृणां करोति सञ्जीवनं सोऽवतु मां जलेभ्यः ॥७॥
कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः ।
स कालरुद्रोऽवतु मां दवाग्नेर्वात्यादिभीतेरखिलाच्च तापात् ॥८॥
प्रदीप्तविद्युत्कनकावभासो विद्यावराभीतिकुठारपाणिः ।
चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः प्राच्यां स्थितं रक्षतु मामजस्त्रम् ॥९॥
कुठारवेदाङ्कुशपाशशूलकपालढक्काक्षगुणान्दधानः ।
चतुर्मुखो नीलरुचिस्त्रिनेत्रः पायादघोरो दिशि दक्षिणस्याम् ॥१०॥
कुन्देन्दुशङ्खस्फटिकावभासो वेदाक्षमालावरदाभयाङ्कः ।
त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः सद्योऽधिजातोऽवतु मां प्रतीच्याम् ॥११॥
वराक्षमालाभयटङ्कहस्तः सरोजकिञ्जल्कसमानवर्णः ।
त्रिलोचनश्चारुचतुर्मुखो मां पायादुदिच्यां दिशि वामदेवः ॥१२॥
वेदाभयेष्टाङ्कुशटङ्कपाशकपालढक्काक्षशूलपाणिः । पाशटङ्क
सितद्युतिः पञ्चमुखोऽवतान्मामीशान ऊर्ध्वं परमप्रकाशः ॥१३॥
मूर्धानमव्यान्मम चन्द्रमौलिर्भालं ममाव्यादथ भालनेत्रः ।
नेत्रे ममाव्याद्भगनेत्रहारी नासां सदा रक्षतु विश्वनाथः ॥१४॥
पायाच्छ्रुती मे श्रुतिगीतकीर्तिः कपोलमव्यात्सततं कपाली ।
वक्त्रं सदा रक्षतु पञ्चवक्त्रो जिह्वां सदा रक्षतु वेदजिह्वः ॥१५॥
कण्ठं गिरीशोऽवतु नीलकण्ठः पाणिद्वयं पातु पिनाकपाणिः ।
दोर्मूलमव्यान्मम धर्मबाहुर्वक्षःस्थलं दक्षमखान्तकोऽव्यात् ॥१६॥
ममोदरं पातु गिरीन्द्रधन्वा मध्यं ममाव्यान्मदनान्तकारी ।
हेरम्बतातो मम पातु नाभिं पायात्कटी धूर्जटिरीश्वरो मे ॥१७॥
ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्वरोऽव्यात् ।
जङ्घायुगं पुङ्गवकेतुरव्यात्पादौ ममाव्यात्सुरवन्द्यपादः ॥१८॥
महेश्वरः पातु दिनादियामे मां मध्ययामेऽवतु वामदेवः ।
त्रियम्बकः पातु तृतीययामे वृषध्वजः पातु दिनान्त्ययामे ॥१९॥
पायान्निशादौ शशिशेखरो मां गङ्गाधरो रक्षतु मां निशीथे ।
गौरीपतिः पातु निशावसाने मृत्युञ्जयो रक्षतु सर्वकालम् ॥२०॥
अन्तःस्थितं रक्षतु शङ्करो मां स्थाणुः सदा पातु बहिःस्थितं माम् ।
तदन्तरे पातु पतिः पशूनां सदाशिवो रक्षतु मां समन्तात् ॥२१॥
तिष्ठन्तमव्याद्भुवनैकनाथः पायाद्व्रजन्तं प्रमथाधिनाथः ।
वेदान्तवेद्योऽवतु मान्निषण्णं मामव्ययः पातु शिवः शयानम् ॥२२॥
मार्गेषु मां रक्षतु नीलकण्ठः शैलादिदुर्गेषु पुरत्रयारिः ।
अरण्यवासादिमहाप्रवासे पायान्मृगव्याध उदारशक्तिः ॥२३॥
कल्पान्तकाटोपपटुप्रकोपः स्फुटाट्टहासोच्चलिताण्डकोशः ।
घोरारिसेनार्णवदुर्निवारमहाभयाद्रक्षतु वीरभद्रः ॥२४॥
पत्त्यश्वमातङ्गघटावरूथसहस्रलक्षायुतकोटिभीषणम् ।
अक्षौहिणीनां शतमाततायिनां छिन्द्यान्मृडो घोरकुठारधारया ॥२५॥
निहन्तु दस्यून्प्रलयानलार्चिर्ज्वलत्त्रिशूलं त्रिपुरान्तकस्य ।
शार्दूलसिंहर्क्षवृकादिहिंस्त्रान्सन्त्रासयत्वीशधनुः पिनाकम् ॥२६॥
दुःस्वप्नदुःशकुनदुर्गतिदौर्मनस्यदुर्भिक्षदुर्व्यस नदुःसहदुर्यशांसि ।
उत्पाततापविषभीतिमसद्ग्रहार्तिव्याधींश्च नाशयतु मे जगतामधीशः ॥२७॥
ॐ नमो भगवते सदाशिवाय सकलतत्त्वात्मकाय सकलतत्त्वविहाराय सकललोकैककर्त्रे सकललोकैकभर्त्रे
सकललोककैकहर्त्रे सकललोककैकगुरवे सकललोकैकसाक्षिणे सकलनिगमगुह्याय सकलवरप्रदाय सकलदुरितार्तिभञ्जनाय सकलजगदभयङ्काराय सकललोकैकशङ्कराय शशाङ्कशेखराय शाश्वतनिजाभासाय निर्गुणाय निरुपमाय नीरूपाय निराभासाय निराममाय निष्प्रपञ्चाय निष्कलङ्काय निर्द्वन्द्वाय निःसङ्गाय निर्मलाय निर्गमाय नित्यरूपविभवाय निरुपमविभवाय निराधाराय नित्यशुद्धबुद्धपरिपूर्णसच्चिदानन्दाद्वयाय परमशान्तप्रकाशतेजोरूपाय
जयजय महारुद्र महारौद्र भद्रावतार दुःखदावदारण महाभैरव कालभैरव कल्पान्तभैरव कपालमालाधर
खट्वाङ्गखड्गचर्मपाशाङ्कुशडमरुशूलचापबाणगदाशक्तिभिन्दिपाल-तोमरमुसलमुद्गरपट्टिशपरशुपरिघभुशुण्डीशतघ्नीचक्राद्यायुध भीषणकरसहस्र मुखदंष्ट्राकराल
विकटाट्टहासविस्फारितब्रह्माण्डमण्डल नागेन्द्रकुण्डल नागेन्द्रहार नागेन्द्रवलय नागेन्द्रचर्मधर मृत्युञ्जय त्र्यम्बक
त्रिपुरान्तक विरूपाक्ष विश्वेश्वर विश्वरूप वृषभवाहन विषभूषण विश्वतोमुख सर्वतो रक्ष रक्ष मां ज्वलज्वल महामृत्युभयमपमृत्युभयं नाशयनाशय रोगभयमुत्सादयोत्सादय विषसर्पभयं शमयशमय चोरभयं मारयमारय मम शत्रूनुच्चाटयोच्चाटय शूलेन विदारय विदारय कुठारेण भिन्धिभिन्धि खड्गेन छिन्धिछिन्धि खट्वाङ्गेन विपोथय विपोथय मुसलेन निष्पेषयनिष्पेषय बाणैः सन्ताडय सन्ताडय रक्षांसि भीषयभीषय भूतानि विद्रावयविद्रावय कूष्माण्डवेतालमारीगणब्रह्मराक्षसान्सन्त्रासयसन्त्रासय मामभयं कुरुकुरु वित्रस्तं मामाश्वासयाश्वासय नरकभयान्मामुद्धारयोद्धारय सञ्जीवयसञ्जीवय क्षुतृड्भ्यां मामाप्याययाप्यायय दुःखातुरं मामानन्दयानन्दय शिवकवचेन मामाच्छादयाच्छादय त्र्यम्बक सदाशिव नमस्ते नमस्ते नमस्ते ।
॥ पूर्ववत् हृद्यादि न्यासः ॥ पञ्चपूजा ॥
॥ भूर्भुवस्सुवरोमिति दिग्विमिकः ॥
॥ फलश्रुतिः ॥
ऋषभ उवाच इत्येतत्कवचं शैवं वरदं व्याहृतं मया ।
सर्वबाधाप्रशमनं रहस्यं सर्वदेहिनाम् ॥२८॥
यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम् ।
न तस्य जायते क्वापि भयं शम्भोरनुग्रहात् ॥२९॥
क्षीणायुर्मृत्युमापन्नो महारोगहतोऽपि वा ।
सद्यः सुखमवाप्नोति दीर्घमायुश्च विन्दति ॥३०॥
सर्वदारिद्र्यशमनं सौमङ्गल्यविवर्धनम् ।
यो धत्ते कवचं शैवं स देवैरपि पूज्यते ॥३१॥
महापातकसङ्घातैर्मुच्यते चोपपातकैः ।
देहान्ते शिवमाप्नोति शिववर्मानुभावतः ॥३२॥
त्वमपि श्रद्धया वत्स शैवं कवचमुत्तमम् ।
धारयस्व मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि ॥३३॥
सूत उवाच
इत्युक्त्वा ऋषभो योगी तस्मै पार्थिवसूनवे ।
ददौ शङ्खं महारावं खड्गं चारिनिषूदनम् ॥३४॥
पुनश्च भस्म संमन्त्र्य तदङ्गं सर्वतोऽस्पृशत् ।
गजानां षट्सहस्रस्य द्विगुणं च बलं ददौ ॥३५॥
भस्मप्रभावात्सम्प्राप्य बलैश्वर्यधृतिस्मृतीः ।
स राजपुत्रः शुशुभे शरदर्क इव श्रिया ॥३६॥
तमाह प्राञ्जलिं भूयः स योगी राजनन्दनम् ।
एष खड्गो मया दत्तस्तपोमन्त्रानुभावतः ॥३७॥
शितधारमिमं खड्गं यस्मै दर्शयसि स्फुटम् ।
स सद्यो म्रियते शत्रुः साक्षान्मृत्युरपि स्वयम् ॥३८॥
अस्य शङ्खस्य निह्रादं ये शृण्वन्ति तवाहिताः ।
ते मूर्च्छिताः पतिष्यन्ति न्यस्तशस्त्रा विचेतनाः ॥३९॥
खड्गशङ्खाविमौ दिव्यौ परसैन्यविनाशिनौ ।
आत्मसैन्यस्वपक्षाणां शौर्यतेजोविवर्धनौ ॥४०॥
एतयोश्च प्रभावेन शैवेन कवचेन च ।
द्विषट्सहस्रनागानां बलेन महतापि च ॥४१॥
भस्मधारणसामर्थ्याच्छत्रुसैन्यं विजेष्यसि ।
प्राप्य सिंहासनं पैत्र्यं गोप्ताऽसि पृथिवीमिमाम् ॥४२॥
इति भद्रायुषं सम्यगनुशास्य समातृकम् ।
ताभ्यां सम्पूजितः सोऽथ योगी स्वैरगतिर्ययौ ॥४३॥
॥ इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे सीमन्तिनीमाहात्म्ये भद्रायूपाख्याने शिवकवचकथनं नाम द्वादशोऽध्यायः ॥
शिवरहस्योक्त दधीचिकृत शिव कवच
दधीचिरुवाच
कवचं देवदेवस्य वक्ष्येशृणु नराधिप ।
येनाऽऽवृतो महादुःखैर्मुक्तो मुक्ति च विन्दति ॥
ध्येयः श्रीमन्महादेवः साम्बः संसारमोचकः ।
पवित्रहृदयैः शुद्धैर्भस्मरुद्राक्षभूषणैः ॥
श्रीविश्वेश्वर मुमासहायमनघं विश्वात्मकं चिद्घनम् ।
सत्यं ज्ञानमनन्तमक्षरमजं निर्लिप्तमेकं प्रभुम् ॥
ओङ्कारात्मकमक्षरं परतरं ब्रह्मादिभिर्भावितम् ।
सानन्दं हृदि भावयेद्भवभयध्वान्तान्तमानन्ददम् ॥
एवं ध्यात्वा महादेवं सच्चिदानन्दलक्षणम् ।
कवचेनावृतो भूत्वा मृत्युपाशैर्विमुच्यते ॥
यद्ब्रह्मरन्ध्रं मम संविदाभं
तद्ब्रह्मरन्ध्रं भगवानुमेशः ।
पायात्स संस्थानमनन्तलक्षणं
निवार्य सर्वाघकुलं निरन्तरम् ॥
तत्पार्श्वर्घाग्निगमान्त चारी
रुद्रः शिखायां तु शिवावतंसः ।
शिरः शिखां पातु ममेन्दुचूडः
भालं ममाव्याज्ज्वलनोरुभालः ॥
वामं कपोलं मम पातु शम्भुः
कपोलमीशोऽवतु दक्षिणं मे ।
पायाद्गिरीशो मम वामनेत्रं
त्रिलोचनो दक्षिणमक्षि पायात् ॥
भ्रूयुग्ममव्याद्वृषभध्वजो मे
भ्रूमध्यमव्यान्मखनाशदक्षः ।
नासापुटं पातु ममान्तकान्तको
नासान्तरं पातु पिनाकपाणिः ॥
मुखं ममाव्यात्स च पञ्चवक्त्रः
पायान्ममौष्ठौ गजकृत्तिवासाः ।
दन्तान्ममाव्यात्प्रभुरिन्द्र दन्तो
जिह्वां ममाव्यान्निगमान्तजिह्वः ॥
श्रीनीलकण्ठोऽवतु कण्ठदेशं
पायान्महेशोऽवतु कण्ठपार्श्वम् ।
स्कन्धौ ममाव्यान्मदनान्तकारी
वक्षः स्थलं पातु ममाम्बिकेशः ॥
विश्वम्भरोऽव्यादुदरं ममेदं
सर्वेश्वरो रक्षतु रोमकूपान् ।
आन्त्राणि पायादुरुशक्तिरव्या-
दस्थीनि विश्वस्थितिनाशहेतुः ॥
त्र्यम्बको दक्षिणबाहुमव्या-
द्वामं ममाव्याद्भुजगावनद्धः ।
प्रकोष्ठमव्याद्गिरिराजचापो
हस्तौ ममाव्याद्वरशूलहस्तः ॥
विशाखनाथोऽवतु हस्तशाखा-
न्नखान्ममाव्यान्नरसिह्म हारी ।
पृष्ठं ममाव्यात्रिपुरारि रव्या-
त्कटिद्वयं मे गिरिजासहायः ॥
कट्यन्तरालं मम पातु शम्भु-
रूरुद्वयं मे मृगशाबपाणिः ।
जानुद्वयं पातु जनार्दनेशो
गुल्फद्वयं पातु विराट्स्वरूपः ॥
पादौ ममाव्यादमरैकवन्द्यः
पायाद्धरः पादतलद्वयं मे ।
पादाङ्गुलीः पातु समस्तरूपो
सर्वां तनुं पातु महेश्वरो मे ॥
प्राच्यां सदा रक्षतु नीतुरुद्रो
कर्पूर गौरोऽवतु दक्षिणस्याम् ।
पातु प्रतीच्यां भगनेत्रहारी
पायादुदीच्यां जगदेकनाथः ॥
ममोर्ध्वमव्यादुडुराजकान्ति-
रधो ममाव्यादुरगेन्द्र भूषः ।
दिगन्तरालेषु समस्तनाथः
पायाद्वृषीधीश्वरकेतुलक्ष्यः ॥
नदीषु मां रक्षतु विश्वनाथः
कूपेषु मां रक्षतु विश्वमूर्तिः ।
पायात्समुद्रेषु जलाधिराजः
सरित्समुद्रादिविधानदक्षः ॥
वापीषु पायादतिबाह्यवर्ती
दवानलात्पातु दरीशहारः ।
गर्तेषु पायात्सुरगर्वहारी
वृक्षेषु पायाद्वृषभध्वजोमाम् ॥
पायाद्गजेभ्यो गजदर्पहारी
पायादहिभ्योऽपि हि वीरभद्रः ।
पायात्समेभ्यो विषसर्पहारी
पायात्त्रिमूर्तिविषवृश्चिकेभ्यः ॥
भूताधिपः पातु विरोधिभीतेः
रक्षः पिशाचिदिभयात्कपाली ।
मृत्युञ्जयो रक्षतु मृत्युभीतेः
कालाग्निरुद्रोऽवतु कालभीतेः ॥
पापारिरव्याद्बहुपातकेभ्यः
पायाद्ग्रहेभ्यः कमलासनार्च्यः ।
श्री विष्णुनेत्रार्चित पादपद्मः
पातु प्रभातेष्वखिलेषु शम्भुः ॥
मध्यन्दिनेष्वेव मृडोऽनिशं मां
सायाह्नकालेऽप्यमराधिनाथः ।
महेश्वरो रक्षतु मध्यरात्रे
पायादुषस्यान्धकनाशहेतुः ॥
सर्षेषुकालेष्वपि पातु शम्भु-
रुमाङ्गसंश्लिष्टमनोक्षदेहः ।
मार्गे मृगव्याधवपुर्धरोऽव्याद्
युद्धेषु पायादसुरौघदारी ॥
सर्वत्र सर्वार्तिहरो हरोव्या-
त्सर्वेप्सितार्थप्रदरूपधारी ।
रक्षाविहिनस्थलमस्ति यन्मे
तत्रावतु श्रीवरवीरभद्रः ॥
कृत्वैवं कवचं पूर्वं स्तोत्रमेतत्पठेन्नरः ।
स्तोत्रं चैतन्महेशेन तस्मा आख्यातमादरात् ॥
॥ इति शिवरहस्यान्तर्गते ऋषिदधीचिप्रोक्तं शिवकवचं सम्पूर्णम् ॥
ब्रह्मवैवर्त पुराणोक्त ब्रह्माण्डविजयी नामक शिव कवच
नारद उवाच
शिवस्य कवचं ब्रूहि मत्स्य राजेन यद्धृतम् ।
नारायण महाभाग श्रोतुं कौतूहलं मम ॥१॥
श्रीनारायण उवाच
कवचं शृणु विप्रेन्द्र शङ्करस्य महात्मनः ।
ब्रह्माण्ड विजयं नाम सर्वाऽवयव रक्षणम् ॥२॥
पुरा दुर्वाससा दत्तं मत्स्यस्य राजाय धीमते ।
दत्वा षडक्षरं मन्त्रं सर्व पाप प्रणाशनम् ॥३॥
स्थिते च कवचे देहे नास्ति मृत्युश्च जीविनाम् ।
अस्त्रेशस्त्रेजलेवह्नौ सिद्धिश्चेन्नास्ति संशयः ॥४॥
यद्धृत्वा पठनात् बाणः शिवत्वं प्रापलीलया ।
बभूव शिवतुल्यश्च यद्धृत्वा नन्दिकेश्वरः ॥५॥
वीरश्रेष्ठो वीरभद्रो साम्बोऽभूद् धारणाद्यतः ।
त्रैलोक्य विजयी राजा हिरण्यकशिपुः स्वयम् ॥६॥
हिरण्याक्षश्च विजयी चाऽभवद् धारणाद्धि सः ।
यद्धृत्वा पठनात् सिद्धो दुर्वासा विश्व पूजितः ॥७॥
जैगीषव्यो महायोगी पठनाद् धारणाद्यतः ।
यद्धृत्वा वामदेवश्च देवलः पवनः स्वयम् ॥८॥
अगस्त्यश्च पुलस्त्यश्चाऽभवत् विश्वपूजितः ॥९॥
॥ श्रीशिवकवचम् ॥
ॐ नमः शिवायेति च मस्तकं मे सदाऽवतु ।
ॐ नमः शिवायेति च स्वाहा भालं सदाऽवतु ॥१॥
ॐ ह्रीं श्रीं क्लीं शिवायेति स्वाहा नेत्रे सदाऽवतु ।
ॐ ह्रीं क्लीं हूं शिवायेति नमो मे पातु नासिकाम् ॥२॥
ॐ नमः शिवाय शान्ताय स्वाहा कण्ठं सदाऽवतु ।
ॐ ह्रीं श्रीं हूं संसार कर्त्रे स्वाहा कर्णौ सदावतु ॥३॥
ॐ ह्रीं श्रीं पञ्चवक्त्राय स्वाहा दन्तं सदावतु ।
ॐ ह्रीं महेशाय स्वाहा चाऽधरं पातु मे सदा ॥४॥
ॐ ह्रीं श्रीं क्लीं त्रिनेत्राय स्वाहा केशान् सदाऽवतु ।
ॐ ह्रीं ऐं महादेवाय स्वाहा वक्षः सदाऽवतु ॥५॥
ॐ ह्रीं श्रीं क्लीं मे रुद्राय स्वाहा नाभिं सदाऽवतु ।
ॐ ह्रीं ऐं श्रीं श्रीं ईश्वराय स्वाहा पृष्ठं सदाऽवतु ॥६॥
ॐ ह्रीं क्लीं मृतुञ्जयाय स्वाहा भ्रुवौ सदाऽवतु ।
ॐ ह्रीं श्रीं क्लीं ईशानाय स्वाहा पार्श्वं सदाऽवतु ॥७॥
ॐ ह्रीं ईश्वराय स्वाहा चोदरं पातु मे सदा ।
ॐ श्रीं ह्रीं मृत्युञ्जयाय स्वाहा बाहू सदाऽवतु ॥८॥
ॐ ह्रीं श्रीं क्लीं ईश्वराय स्वाहा पातु करौ मम ।
ॐ महेश्वराय रुद्राय नितम्बं पातु मे सदा ॥९॥
ॐ ह्रीं श्रीं भूतनाथाय स्वाहा पादौ सदाऽवतु ।
ॐ सर्वेश्वराय शर्वाय स्वाहा पादौ सदाऽवतु ॥१०॥
प्राच्यां मां पातु भूतेशः आग्नेय्यां पातु शङ्करः ।
दक्षिणे पातु मां रुद्रो नैरृत्यां स्थाणुरेव च ॥११॥
पश्चिमे खण्डपरशुर्वायव्यां चन्द्रशेखरः ।
उत्तरे गिरिशः पातु चैशान्यां ईश्वरः स्वयम् ॥१२॥
ऊर्ध्वे मृडः सदा पातु चाऽधो मृत्युञ्जयः स्वयम् ।
जले स्थले चाऽन्तरिक्षे स्वप्ने जागरणे सदा ॥१३॥
पिनाकी पातु मां प्रीत्या भक्तं वै भक्तवत्सलः ॥ १४॥
॥ फलश्रुतिः ॥
इति ते कथितं वत्स कवचं परमाऽद्भुतम् ॥१५॥
दश लक्ष जपेनैव सिद्धिर्भवति निश्चितम् ।
यदि स्यात् सिद्ध कवचो रुद्र तुल्यो भवेद् ध्रुवम् ॥१६॥
तव स्नेहान् मयाऽऽख्यातं प्रवक्तव्यं न कस्यचित् ।
कवचं काण्व शाखोक्तं अतिगोप्यं सुदुर्लभम् ॥१७॥
अश्वमेध सहस्राणि राजसूय शतानि च ।
सर्वाणि कवचस्यास्य फलं नार्हन्ति षोडशीम् ॥१८॥
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ।
सर्वज्ञः सर्वसिद्धेशो मनोयायी भवेद् ध्रुवम् ॥१९॥
इदं कवचं अज्ञात्वा भवेत् यः शङ्करप्रभुम् ।
शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥२०॥
॥ इति श्रीब्रह्मवैवर्ते पुराणे गणपतिखण्डे ब्रह्माण्डविजयी नाम श्रीशङ्करकवचस्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।