अगस्त्यसंहिता में माता सीता का एक महत्वपूर्ण स्तोत्र है जिसका नाम है श्री जानकी स्तवराज (Shri Janaki Stavaraja)। यह स्तुति भगवान शिव के द्वारा की गयी है जो श्रुतियों के प्रश्न करने पर भगवान श्री संकर्षण जी द्वारा वर्णन किया गया है। इस स्तवराज में माता जानकी के चरणारविन्द, चरणतल, अङ्गुली, नूपुर, गुल्फ, श्रीचरण, नितम्ब, कटि, उदर, नाभि, वक्षस्थल, बाहु, कण्ठ, मुखमण्डल, मुख, नकबेसर, नेत्र, भौंह, भाल, कर्ण, कर्णफूल, केशपाश, वेणी, साडी आदि के साथ ही स्वरूप वर्णन करते हुये वंदना की गयी है। यहां संस्कृत में श्रीजानकीस्तवराज दिया गया है।
श्री जानकी स्तवराज – Shri Janaki Stavaraja
तां ध्याये स्तवराजेन प्रोक्तरूपां परात्पराम् ।
आह्लादिनीं हरेःकाञ्चिच्छक्तिं सात्वतसेविताम् ॥१॥
श्रुतिरुवाच
कीदृशः स्तवराजोऽयं केन प्रोक्तः सुरेश्वर ।
कथ्यतां कृपया देव! जानकीरूपबोधकः ॥२॥
श्रीसङ्कर्षण उवाच
ब्रवीमि स्तवराजं ते श्रीशिवेन प्रभाषितम् ।
श्रुतं श्रीवक्त्रतो दिव्यं पावनानां च पावनम् ॥३॥
चकाराराधनं तस्य मन्त्रराजेन भक्तितः ।
कदाचिच्छ्रीशिवोरूपं ज्ञातुमिच्छुर्हरेः परम् ॥४॥
दिव्यवर्षशतं वेदविधिना विधिवेदिना ।
जजाप परमं जाप्यं रहस्ये स्थितचेतसा ॥५॥
प्रसन्नोभूत्तदा देवः श्रीरामः करुणाकरः ।
मन्त्राराध्येन रूपेण भजनीयः सतां प्रभुः ॥६॥
श्रीराम उवाच
द्रष्टुमिच्छसि यद्रूपं मदीयं भावनास्पदम् ।
आह्लादिनीं परां शक्तिं स्तूयाः सात्वतसम्मताम् ॥७॥
तदाराध्यस्तदारामस्तदधीनस्तया विना ।
तिष्ठामि न क्षणां शम्भो ! जीवनं परमं मम ॥८॥
इत्युक्त्वा देवदेवेशो वशीकरणमात्मनः ।
पश्यतस्तस्य रूपं स्वमन्तर्धानं दधौ प्रभुः ॥९॥
श्रुत्वारूपं तदा शम्भुः तस्याः श्रीहरिवक्त्रतः ।
अचिन्तयत्समाधाय मनः कारणमात्मनः ॥१०॥
अस्फुरत्कृपया तस्य रूपं तस्याः परात्परम् ।
दुर्निरीक्ष्यं दुराराध्यं सात्वतां हृदयङ्गमम् ॥११॥
आश्रयं सर्वलोकानां ध्येयं योगिविदां तथा ।
आराध्यं मुनिमुख्यानां सेव्यं संयमिनां सताम् ॥१२॥
दृष्ट्वाश्चर्यमयं सर्व रूपं तस्याः सुरेश्वरः
तुष्टावजानकीं भक्त्या मूर्तिमतीं प्रभाविनीम् ॥१३॥
॥ स्तुति प्रारम्भः ॥
वन्दे विदेहतनयापदपुण्डरीकं
कैशोरसौरभसमाहृतयोगिचित्तम् ।
हन्तुं त्रितापमनिशं मुनिहंससेव्यं
सन्मानसालिपरिपीतपरागपुञ्जम् ॥१४॥
पादस्य यावकरसेन तलं सुरक्तं
सौभाग्यभाजनमिदं हि परं जनानाम् ।
युक्तीकृतं सुभजतां तव देवि नित्यं
दत्ताश्रयं सुमनसां मनसानुरागम् ॥१५॥
पादङ्गुलीनखरुचिस्तव देविरम्या
योगीन्द्रवृन्दमनसा विशदा विभाव्या ।
त्रैताप क्लान्त्युपशमाय शशाङ्ककान्ति
दोषेण किं समुपयाति तुलां युता सा ॥१६॥
मञ्जीर धीरनिनदं कलहंसकाली
हासाय सा भवति भावयति त्वदीयम् ।
किञ्चायरं रसिकमौलिमनो नियन्तुं
दृष्टं मया परमकौशलमत्र तस्य ॥१७॥
सिद्धीशबुद्धिवररञ्जनगूढगुल्फौ
पादारविन्दयुगलौ जनतापवर्गौ ।
विन्दन्ति ते त्रिभुवनेश्वरि! भावसिद्धिं
ध्यायन्ति ये निखिल सौभगभानुभाजौ ॥१८॥
हेमाभिवर्द्धितविभूषणभूषितन्ते
त्रैलोक्यतेज इव मञ्जुल-पुञ्जभूतम् ।
भावामि सुन्दरि पदं सरसीरुहाभं
भीताभयप्रदमनन्तमनोभिध्येयम् ॥१९॥
चक्राभहारिसुनितम्बयुगं भवत्यः
ध्येयं सुधीभिरनिशं रसनाभिषक्तम् ।
ध्यानास्पदं रघुपतेर्मनसो मुनीनां
भावैकगम्यममरेशनताङ्घ्रिपद्मे ॥२०॥
कौशेय वस्त्र परिणद्धमलङ्कृतं ते
कार्तस्वराशनिमणि प्रवरप्रवेकैः ।
रत्नोत्तमै रसनया ग्रहकान्तिमद्भि-
र्भास्वन्ति निर्मिततया स्वधियन्ति मध्यम् ॥२१॥
अश्वत्थपत्रनिभमम्ब धियोदरन्ते
भव्यं भवाब्धितरिकेवलकालनाशे ।
भूयो न भावि जननीजठरेनिवास-
स्तेषां मनो धरणिजेऽत्र सुलग्नमासीत् ॥२२॥
नाभीहृदं हरिमनः करिणः कृशांशो
पुष्टिप्रदं प्रचलितं त्रिवलीतरङ्गम् ।
राजीसुशैवलनिभं भ्रमिभूतरोम्णां
शान्त्यै तव त्रितपतामतिभावयामः ॥२३॥
नीलाभकञ्चुकमणीन्द्रसमूहनिष्कै-
र्वक्षोजयुग्ममतितुङ्गमलङ्कृतन्ते ।
हारैर्मनोहरतरैस्तरुणि! क्षितीजे!
सौन्दर्यवारिनिधिवारितरङ्गसङ्गम् ॥२४॥
बाहूमृणालमदखण्डनपण्डितौ ते
भीताभयप्रदवदान्यतमौ जनानाम् ।
रुक्माङ्गदाङ्कित-विटङ्कितमुद्रिकौ तौ
हैरण्यकङ्कणधृतावलयौ भजामः ॥२५॥
कण्ठं कपोत-तरुणीगलकान्तिमोषं
भूषैरनेकविधभूषितमम्ब तुभ्यम् ।
ध्यायेम मानसविशुद्धिकृते कपालो
योगीन्द्रभावितपदे शमदे शरण्ये ॥२६॥
वक्त्रेन्दुमिन्दुचयखण्डितमण्डितांशु
खण्डांशपण्डितमनः परिदण्डिताशम् ।
सन्मानसाब्जमुदितद्युतिदं वरेण्यं
रामाक्षितारकचकोरमहं भजे ते ॥२७॥
ताम्बूलरागपरिरञ्जितदन्तपङ्क्ति
प्रद्योतिताधरमधः कृतबिम्बरागम् ।
ईषत्स्मितद्युतिकटाक्षविकाशिताशं
वक्त्रं परेशनयनास्पदमाभजे ते ॥२८॥
नासाग्रमौक्तिकफलं फलदं परेशे
ध्यायन्ति ये च निजजाड्यविनाशहेतो ।
त्रैलोक्यनिर्मलपदं सुखदं त्वदीयं
स्वेच्छाभिकाङ्क्षिण इदं बहुसो रसज्ञाः ॥२९॥
ज्ञानं निरञ्जनमिदं विवदन्ति ये ते
मुह्यन्ति सूरिनिवहास्तरुणीकटाक्षैः ।
नालोकयन्ति नितरां तव देवितावद्
दीर्घायुषाक्षियुगमञ्जनरञ्जितं ते ॥३०॥
भ्रूवल्लरीविलसितं जगदाहुरीशे
व्यासादयो मुनिवरास्तुत एव नित्यम् ।
नाशाय तस्य तरुणीतिलके त्वदीया
पाशीकृता हरिमनोमृगबन्धनाय ॥३१॥
भालं विशालमतिसौभगभाजनं ते
सिन्दूरविन्दुरुचिरद्युतिदीप्तिमन्तम् ।
पिण्डीकृतःकिमुतराग इतीव तस्मिन्
प्रद्योतते जननि जागतजन्मभाजाम् ॥३२॥
आदर्शवर्तुलकपोलविलोललोलं
कर्णावतंस युगलं जनजाड्यनाशम् ।
सूर्यादिकान्तिहरमाश्रयमोजसान्ते
तीव्रं धिया धरणिजे स्वधियन्ति धीराः ॥३३॥
कालोविभेति जगतामतिभक्षकस्ते
जैवातृको भवदसीमगुणो यतो सौ ।
सर्वातिवल्लभतया भजनीय रूपे
मन्यामहे हरिरिति श्रुतिभूषसारम् ॥३४॥
सीमन्तमम्बतव सुन्दरतातिसीमं
मुक्ताविभूषितमलं समभागभाजम् ।
निःसीमतापदकृते यतयो यतन्ति
जानीमहे महितवन्दितसीममूर्ते ॥३५॥
कालाहिभीतिभजतामहिभोगभिन्ना
पायात्परेश्वरि सतामवती सदानः ।
एणीदृशस्तव विशालतरा नुवेणी
दर्भाग्रभागसदृशी सुदृशां विलोक्याः ॥३६॥
साटीसुसूक्ष्मतरातिगताति नीला
सौवर्णसूत्र कलिता कृपयावृताते ।
भर्तुःस्वरूपमनुभावयतां जनानां
प्रीत्यै करोषि परदेवि यदापिधानम् ॥३७॥
पारे गिरां गुणनिधे! श्रुतयो वदन्ति
रूपं त्वदीयमपरं मनसोप्यगम्यम् ।
साक्षात् कथं सरसिजाक्षि भवेदृते ते
बुद्धौ कृपामनु कृशोदरि मादृशां तत् ॥३८॥
किं चित्रमत्र जननि! प्रभया प्रकाश्यं
विश्वं वदन्ति मुनयस्तव देवि! देवाः ।
जाताश्रयस्त्रिभुवनैर्गुणतोभिवन्द्य-
स्त्राणादिकर्म विभवं परमस्य यस्याः ॥३९॥
वेदास्तवाम्ब! विवदन्ति निजस्वरूपं
नित्यानुभूतिभवभावपराः परेशैः ।
निर्णेतुमद्य यतयस्तपसा यतन्ते
बोधाय पादसरसीरुहयुग्मभृङ्गाः ॥४०॥
जातं त्वदेव नितरां जगतां निदानं
मन्यामहे तदिदमम्ब! कृतं श्रुतीनाम् ।
सर्वं यतः खलु विचेष्टितमाशु शक्तेः
कार्यं हि कारणगुणानवलम्ब विद्यात् ॥४१॥
जानीमहे जननि! ते नयनारविन्द-
स्योन्मीलनेऽजनि जगत् क्षयतान्निमीलात् ।
वैषम्यशून्यसमतां समुपागते य-
त्स्यादस्य पालनमसंशयमस्य नूनम् ॥४२॥
ज्ञातन्त्वदीयमपरं चरितं विशालं
भावं भवे ननुनिजे प्रकटीकरोषि ।
प्रेम्णैव तैः प्रथमतः परमानुभावं
भाव्यं पदाब्जमनिशं स्वजनैरतस्ते ॥४३॥
येषामदः परमवस्तु च तज्जनानां
प्रद्योतते जनकजाचरणारविन्दम् ।
सर्वंसमीक्ष्य इह कर्ममनोवचोभि-
र्ब्रह्मस्वरूपमतिदुर्लभतानुसेव्यम् ॥४४॥
किं दुर्लभं चरणपङ्कजसेवया ते
पूर्णारमन्ति रमणी यतया त्रिलोक्याम् ।
वस्तुप्रकाशविशदं हृदये त्वदीयं
तेषामहो किमुत साधनकोटियत्नैः ॥४५॥
धन्यास्त एव तव देवि पदारविन्दं
स्यन्दायमानमकरन्दमहर्निशं ये ।
भृङ्गायमानमनसो नितरां भजन्ते
भावावबोधनिपुणाः परदेवतायाः ॥४६॥
पादाब्जरागपरिरञ्जितचित्तभृङ्गो
येषां समीक्ष्य इह जातमिदं स्वरूपम् ।
तेषां न किं प्रवदते परितो वरिष्ठं
साध्यं भवेदिह परत्र न किञ्चिदन्यत् ॥४७॥
चुम्बन्ति चिद्घनमहोमकरन्दमस्या
देवैर्मुनीन्द्रनिचयैरति दुर्लभं ते ।
पादाब्जयोरतिविकाशविलासबोध-
र्स्यादेव देवि तवकान्तनिजस्वरूपे ॥४८॥
यावन्न ते सरसिजद्युतिहारिपादे
नस्याद्रतिस्तरुनवाङ्कुरखण्डिताशे
तावत्कथं तरुणमौलिमणे जनानां
ज्ञानं दृढं भवति भामिनि रामरूपे ॥४९॥
साक्षात्तपोव्रतयमैर्नियमैः समीहे
कर्तुङ्कृपामृतमिह प्रसभं स्वरूपम् ।
नाथस्यते श्रुतिवचो विषयंकथंस्या-
न्मूढोवृथोत्सृजति देवि सुखान्यमूनि ॥५०॥
योगाधिरूढमुनयो हरिपादपद्मे
ध्यायन्ति ये चरणपङ्कजयुग्ममन्तः ।
वाञ्छन्ति विघ्नशततोप्यनिवार्यमाणां
भक्तिं भवाब्धितरणाय कृपापयोधे ॥५१॥
चार्वङ्किते चरणचारणवन्दिसङ्गं
मह्यं विदेह तनये परिदेहि नान्यम् ।
याचेवरं वरविदां वरदे भवत्या
येनामुना तव धवे मम रञ्जना स्यात् ॥५२॥
याचेऽहमम्ब रघुनन्दनमूर्तिभावं
सार्द्धं त्वयातिदृढ मञ्जलिनाविशेषम् ।
त्वं देहि वेत्तृवरदे मुनिसङ्घमुख्या-
मन्यन्तिवल्लभतरां स्वपतेभवन्तीम् ॥५३॥
उपसंहार
एवं स्तुत्वा परं रूपं जानक्या जाड्यनाशनम् ।
उपारराम शान्तात्मा योगेश्वरः सदाशिवः ॥५४॥
निरीक्ष्य तन्मुखाम्भोजं भावयन् रूपमद्भुतम् ।
काङ्क्षं स्तस्याः परां भक्तिं पादपङ्कजयोर्दृढाम् ॥५५॥
उवाच तं वरारोहा जानकी भक्तवत्सला ।
एवमस्तु महादेव यत्त्वयोक्तं च नान्यथा ॥५६॥
अन्यत्ते काङ्क्षितं ब्रूहि दास्यामि देवदुर्लभम् ।
सत्याम्मयिकृपोन्मुख्यां न किञ्चिन्तस्यदुर्लभम् ॥५७॥
प्रसन्नवदनां दृष्ट्वा सोऽपि देवशिरोमणिः ।
ययाचे वरमात्मीयं रहस्यं भावबोधकः ॥५८॥
प्रादात्तस्मै वदान्या सा यद्यन्मनसिकाङ्क्षितम् ।
वरं-वरेश्वरी साक्षात्पुनरुवाच सा हितम् ॥५९॥
अयं पवित्रमौलिर्मे स्तवराजः त्वयाशिव ।
प्रकाशितोतिगोप्योऽपि मत्प्रसादात्सुरोत्तम ॥६०॥
फलश्रुति निष्काम
यः पठेदिममग्रे मे पूजाकाले प्रयत्नतः ।
तस्येहामुत्र किञ्चिन्न वस्तुस्याद्दृगगोचरम् ॥६१॥
यः पठेदिममग्रे मे पूजाकाले प्रयत्नतः ।
तस्येहामुत्र किञ्चिन्न वस्तुस्याद्दृगगोचरम् ॥६१॥
फलश्रुति सकाम
धनं धान्यं यशः पुत्रानैश्वर्यमतिमानुषम् ।
प्राप्येहामोदते भूयो मत्पदं तद्व्रजेत्सह ॥६२॥
यद्यल्लोकोत्तरं वस्तु त्रिषुलोकेषु दृश्यते ।
तत्सर्वमस्य पाठेन प्राप्नुयाद्भुविमानवः ॥६३॥
आज्ञा इदं मे परमैकान्तं रहस्यं सुरसत्तम ।
न प्रकाश्यं त्वया शम्भो शठाय भावद्वेषिणे ॥६४॥
भक्तिर्यस्यातिदेवेशे सर्वैश्वर्ये तथा मयि ।
गुरौसर्वात्म भावेन विद्यतेभक्तिरुत्तमा ॥६५॥
तस्मै देयं त्वया शम्भो भावनार्द्रहृदे गुरौ ।
सर्वभूतहितार्थाय शान्ताय सौम्यमूर्तये ॥६६॥
इत्युक्त्वा भावनामूर्तिः सीता जनकनन्दिनी ।
कृपापात्राय तस्मै सा पुनः प्रादाद्वरान्तरम् ॥६७॥
सर्वदुःखप्रशमनं जानक्यास्तु प्रसादतः ॥६८॥
॥ इति श्रीमदगस्त्यसंहितान्तर्गतः परमरहस्यः श्रीजानकीस्तवराजः सम्पूर्णः ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।