भुशुण्डि रामायण में माता सीता की अनेकानेक स्तुतियां हैं जिसमें से अग्निकृत, इन्द्रकृत, कुबेरकृत, शिवकृत आदि मुख्य स्तुति है। माता सीता की आराधना में इन स्तुतियों का व्यापक लाभ मिलता है। यहां ये सभी श्री सीता स्तुति (shri sita stuti) संस्कृत में दिये गये हैं।
श्री सीता स्तुति – shri sita stuti
अग्निरुवाच
तव नखरुचिद्योत्तैः पारेपरार्द्धरविप्रभा
भवति सततं मन्दीभूता प्रमोदवनेश्वरि ।
अथ यदि भवत्कारुण्याब्धेरुतञ्चतिवीचिका
शिथिलप्रायप्राणोऽप्यशोभत सूर्यवत् ॥१॥
जननि मयका प्राप्तं तेजस्त्वदीयनखत्विष-
स्त्रिभुवनमहाराज्यमप्यणुमासते ।
यदिदमखिललोके पूर्णं महः प्रविलोक्यते
तदपि तव चेद् दृष्टं रूपं भवत्यणुमात्रकम् ॥२॥
दिनमणिः स्वो मुक्तामाणिक्यहीरमाणिप्रभा
हिमकरकलाकान्तिस्तोमः सुवर्णमरीचयः ।
यदिहभुवने दिव्यं भौमं तथा करजं महः
सकलमपि तन्मन्ये तावन्मदङ्गकलोद्भवम् ॥३॥
मयि पुनरदस्तेजोमात्रं त्वदीयतनुप्रभा
वितरणभव मातः का ते रुचामियतीस्तुतिः ।
परमपुरुषप्राणप्रेयस्तमे भवतीपरं
कलयसि कलाकलापं यत्सत्त्वं तदूर्जितमात्मना ॥४॥
इयतिविभवे तासा भासामहो सुमहापदे जयति
भवती सीतेमूर्द्धाभिषिक्त पदागमैः ।
तदपि च न ते दृष्टःक्वापिध्रुवम्मनसिस्मयो
न भवति यतःकाचित्कोटिर्भवत्प्रतियोगिनी ॥५॥
प्रमुदविपिनक्रोडक्रीडापरा परपूरुष-
प्रणयपदवीसीमा सामानुग्रहभाजनम् ।
कलयकलयप्रेम्णा श्रीमत्यदाम्बुजयोः परं
विधिहरिहरश्रीशेषेन्द्राद्युपासितमात्रयोः ॥६॥
परमपुरुषार्थस्ते लीलारसात्मकविग्रहे-
प्रमुदविपिनान्तश्रीः संयोगविप्रयुजात्मिका ।
विधिहरिहराद्यन्तर्निष्ठैः सुरैः समुपासिता
प्रकृतिमधुराकारा धारामृतद्रवरूपिणी ॥७॥
रसिकणिना युक्ता रामेन्दुनाप्रमुदाटवी
प्रकटविलसद्रूपा गोपालिकापटुवोशिनी ।
उदयसिकलाकोटिज्योत्स्नमयीमधुराकृति-
र्निजरसमहामग्नानन्दोदधेः स्वसखीगणैः ॥८॥
तव हि रमणः प्रोक्तः श्रीरामचन्द्र इति श्रुतौ
तदुदयपदंश्रीर्मायाख्या श्रुताभवतीपुनः ।
त्वपि सतिभवेत्सद्बुद्धिश्चेज्जनो न विमुच्यते-
नियतमथ तज्जायेतज्ञानंयदीश्वरगोचरा ॥९॥
नमो महाचिदानन्दिनीशक्तिसमेताय विश्वोदयस्थिति-
संहरणामितलीलाशालिने महाभागैकरसिकाय
प्रमोदवनविलासिने प्रमोदवननिकेतनचमत्कारक-
स्वानन्दभयनित्यनिरवधिविलासप्रेमास्पदस्वरूपाय रामाय ॥१०॥
तुभ्यं च नमस्तदेकविहारिण्यै ब्रह्मानन्दैकप्रतिष्ठायै
संयोगसुधातरङ्गिण्यै वियोगहुताशकवलीकृताशेषव्यतिरिक्तभावायै
ज्वालामालिन्यै प्रज्वलन्महाभावानलज्वालानुरागरसिकायै गोपेश्वर्यै
जनकनरेन्द्रतनयायै तत्र श्रीनन्दनदुहित्रे
श्रीराजिनीगर्भैकमहांशु मालिमाणीक्यमालायै
श्रीसुखितगवेन्द्रनन्दनप्रेमैकभाजनायै
श्रीमाङ्गल्यकालालनललितविग्रहायै
निरवग्रहानुग्रहपात्रीकृतनिजजनपरिवेष्टितायै
परमपुरुषोरूपप्रकटिताशेषपुमर्थधोरिण्यै
सुधारसद्रवशीतायै सीतायै ॥११॥
इत्थमुक्त्वा स्तुतिं तस्यास्त्रिवेदीरूढसत्पदाम् ।
दण्डवन्न्यपतश्चाग्निराधिदैविकरूपधृक् ॥१२॥
॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे सीताजन्मोत्सवे देवस्तुतावेकविंशोऽध्यायः ॥
इन्द्रकृत सीता स्तुति
इन्द्र उवाच
मदाधिपत्यं कियदेतदस्ति यस्मिन्नहं नाम तथापि मातः ।
सेयं भवत्याः सुदुरन्तमाया नो चेत्कथं वै प्रभजामि न त्वाम् ॥१॥
ब्रह्मादयो लोकपालाः समग्रास्त्वदङ्घ्रिपङ्केरुहधूलिधूसराः ।
लुठन्ति ते धाम्नि शुभे प्रमुद्वनं गवां पुरीषेषु रजःसु चैव ॥२॥
तत्रापि मातः प्रविभासि नित्यं प्रमोदवल्लीवनगह्वरेषु ।
अत्रापि चांशेन ततोऽवतीर्णारामेण साकं रमितुं रमाभिः ॥३॥
यान्या अपि ब्रजभुवि प्रमदाः सहस्र
श्रीरामचन्द्ररमणोत्सवलब्धकामाः ।
तास्त्वत्प्रसादमधिगम्य न चेदभूषां
क्वेदं सुखं हरिविरञ्चिशिवाद्यलभ्यम् ॥४॥
व्यक्ता विभाति सततं बहुमूर्तिता ते एकैव यद्रमसि रामरसीन्द्रयुक्ता ।
कुमुद्वने प्रमुदवीथिषु नित्यधाम्नि सङ्केतकुञ्जमिथिलापुरि कोसलायाम् ॥५॥
श्रीराधिकासिकिलकीर्तिसुतेतिगीतासीतासिकोसलपुरेमिथिलापुरे च ।
व्यक्तं तदंशसहिता सहजेति चासि श्रीमत्प्रमोदवनवीथिषु पुर्णरूपा ॥६॥
पूर्णैव सर्वविषयेषु वितीर्णदृष्टिर्नित्यं तथापि रमसे रसिकेन्द्रयुक्ता ।
श्रीमत्प्रमोदवनवीथिषु नित्यमग्ना स्वानन्दसिन्धुलहरीगणसङ्गमेषु ॥७॥
साकेतधाम्नि सुभगे सरयूतटान्तरिगन्त रङ्गशिशिरोपवनाभिरामे ।
नत्यं स्थितैव जगतोऽन्तकरणाय मातर्भूयोऽपि सम्प्रकटितासि निजांशुभासा ॥८॥
कल्याणिनी सुखदकल्पलता जनानां स्वाङ्घ्रिप्रसादभवभव्यसमूहभाजाम् ।
भक्तिं तनोषि कृपया खलु रामचन्द्रहस्तग्रहं विदधती भवसिन्धुमध्ये ॥९॥
न स्यास्त्वमीशि यति दत्तकरावलम्बा भक्तावलेर्विदधतीकुशलानि नित्यम् ।
श्रीमन्महारसिक राजवरोऽपि किं तु कुर्वीत तेषु करुणामरुणाङ्घ्रिपद्मे ॥१०॥
स्वरूपभूता तव या प्रकाशशक्तिः परं सा सुविशुद्धसत्त्वा ।
उदीर्णबोधा विरजस्तमस्का न यत्र मायागुणसम्भूतओघः ॥११॥
अज्ञानिनां ये गमकास्ते न सन्ति लोभादयस्तव देहानुबन्धाः ।
तथापि दर्पं शमयस्यासुराणा धर्मावगुप्तिं कुरुषे च स्वभावात् ॥१२॥
त्वं कालरूपा त्वमसि श्रीः सुधा त्वं माता पिताजगतस्त्वं हि तेषु ।
लीलावतारैर्जयसि क्रीडसि त्वं नानास्वरूपैः सह पत्या रमेत ॥१३॥
त्वं भक्तिरूपाखिलजीवजुष्टा प्रवर्तयस्यार्यपथं कृपाढ्ये ।
वेदार्थसारज्ञबुधावलीभिः प्रायः प्रपन्ना निजरूपलब्धये ॥१४॥
ब्रह्माण्डवर्गेमद्विधाः कोटिशस्ते गायन्ति कीर्ति विपुलप्रणादम् ।
दृष्ट्वा विभूतिं तव भूरिभाग्ये न कस्य जायेत हि मानभङ्गः ॥१५॥
आविर्भवन्ती भुवने भ्राजसे त्वं शमाय दैतेयजभूभरस्य ।
तथैव पादाम्बुजमाधुरीजुषां भवायवर्गाय सता मुनीनाम् ॥१६॥
तुभ्यं नमो भगवत्यै पुरुष्यै श्रीजानक्यै श्रीसहजाधिकायै ।
अप्राकृतं सत्वमुपाददाना या क्षेममेतस्य करोषि तस्यै ॥१७॥
यः कृष्णनामा भगवान् यशोऽदागर्भैकरत्नं भविता द्वापरान्ते ।
सोऽपि त्वदंशेन समृद्धकामो भवायवर्गं स्वजुषां संविधाता ॥१८॥
श्रीरामचन्द्रोऽजनि राजमौलेरघुप्रवीराद्दशवक्रादिहन्ता ।
सो वै त्वदीयाधरपीयूषधारावशीकृतः क्रीत एव त्वयाम्ब ॥१९॥
स्वच्छन्दलीलावपुषे विशुद्धविज्ञानमूर्त्यै करुणात्मिकायै ।
सर्वात्मिकायै सर्वबीजप्रदायै नमो नमः सर्वभूतात्मने ते ॥२०॥
न ज्ञायते ते जननि स्वरूपमस्मादृशैस्तव भाव्यानुबद्धैः ।
तेषां कृपाहेतव एतदेव प्रकाशितं निजरूपं भवत्या ॥२१॥
त्वयानिजानुग्रहभाजनीकृताः सुरेश्वरा मादृशाः कोटिशोऽद्य ।
न चेत्कथ दृश्यरूपास्यमीभिर्निरञ्जना निर्गुणा त्वं निरीहा ॥२२॥
त्वं जानकी जनकस्यालयेऽद्य त्वं श्रीः परा सहजा त्व कलेश्वरी ।
स्वयोगशक्त्या बहुधा त्वं विभासि त्वया सनाथा वयमद्धा समस्ताः ॥२३॥
त्वमीश्वरीदेवि चराचरस्य त्वं नः पतीनां पतिरप्रमेया ।
धराधर्मश्रुतिकोविप्रदेवरक्षाकरी जयतात्केवलैव ॥२४॥
लक्ष्मण उवाच
इत्युक्त्वा देवराजस्तां सुरभीस्तननिर्गतैः ।
अभ्यषिञ्चत्सरभसं पयोभिरमृतोपमैः ॥२५॥
ऐरावतकरानीतव्योमगङ्गापयोभरैः ।
मन्दारकुसुमस्तोममकरन्दसुगन्धिभिः ॥२६॥
सौराज्यं चैव साम्राज्यं सर्वैश्वर्यमहापदम् ।
आधिराज्यं महाराज्यं दत्त्वा तस्यैपरश्रिये ॥२७॥
तदीयचरणाम्भोजमकरन्दसुनिर्वृतः ।
कृतार्थं मन्यमानं स्वं निजलोकमुपाव्रजत् ॥२८॥
॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये सीताजन्मोत्सवे इन्द्रकृता सीतास्तुतिः विंशोऽध्यायः ॥
कुबेरकृत सीता स्तुति
कुबेर उवाच
धनाधिपतिरस्म्यहं जननि भक्तवर्यस्य ते
सखा हृदिनिरन्तरं किमपि भावयानः स्थितः ।
कदा खलु भवत्यहो जनकभूपतेर्मन्दिरे
शुभैरवतरेत्तरां भवति यन्निधीनां फलम् ॥१॥
गायकेभ्यो नर्तकेभ्यस्तथैव च स्तावकेभ्यस्तथा ।
स्वस्तिवाचकेभ्यो ददे निधीन् ॥२॥
अथ जन्मोत्सवदिने मातस्तव फलं गताः ।
आकरेषु चिरं रुद्धा निधयो मम हस्तगाः ॥३॥
भवत्या ये पत्यावुदयमुपयायाते दशरथ
क्षितीन्द्रस्यागरे व्यपितपरिशिष्टा विनिहिताः ।
निधीन् संस्कुर्वे तानहमधिकमद्य त्वदुदये
जगन्माङ्गल्यार्थे गुणवति वितीर्य द्विजगणे ॥४॥
अद्यास्माकमहोभाग्यं यक्षाणां बहुकालतः ।
सुसाध्यस्थापिता विद्याः करिष्यामः फलान्विताः ॥५॥
ता एव विद्याश्च गुणास्त एव तान्येव रत्नानि धनानि चैव ।
येषां खलु स्यादुपयोगयोगः प्रभौ प्रसादोन्मुखतामुपेते ॥६॥
अद्याहं रिक्तयिष्यामि निधिस्थानान्यशेषतः ।
तव जन्मोत्सवं प्राप्य दानैर्मानैश्च बन्धुषु ॥७॥
पुनस्तव विवाहादिकौतुके समुपस्थिते ।
त्वद्भाण्डागाराधिकारिमहद्भूतं भरिष्यति ॥८॥
न खल्वक्षयवस्तूनां विनाश उपपद्यते ।
भृतं भृतं रिच्यतेऽथो रिक्तं रिक्तं पुनर्भरेत् ॥९॥
सकुटुम्बोऽद्यनृत्येयं गायेयं च गुणांस्तव ।
विहरेयं हरेयं स्वं दद्यामद्यामथादपे ॥१०॥
त्रिभुवनमङ्गलकारि त्वदीयमिदमद्भुतम् ।
जन्मनो चेत्कथमव्यक्तं भवति व्यक्तं परं ब्रह्म ॥११॥
नमो निष्करणोपाधिकरुणारसवारिधे ।
तुभ्यं त्रिभुवनोद्भासि कीर्तये ब्रह्ममूर्तये ॥१२॥
नमश्चैतन्यसाक्षिण्यै स्वानन्दवपुषे भृशम् ।
स्वप्रकाशस्वरूपायै नीरूपायै सुरूपिणि ॥१३॥
भक्तचेतश्चमत्कारिप्रेमानन्दैक मूर्तये ।
भुवनोद्भासिभाग्यौद्यभरितायै नमो नमः ॥१४॥
स्वैरलीलाविनोदिन्यै वशिताधिकमूर्तये ।
तत्सङ्गामृतपानेनाप्यतृप्तमनसे नमः ॥१५॥
श्रीभूलीलाद्यनन्तप्रकटगुणगणाख्यानरूपात्मिकायै
साक्षाच्छीरामचन्द्रामितरतिसुखितस्वादितस्वान्तरायै ।
भक्तैकानुग्रहार्थप्रसृमरविमलापूर्णकारुण्यलक्ष्म्यै
जानक्यै जन्मवत्यै खलु भुवि सहजायै परब्रह्मणे ते ॥१६॥
इत्युक्त्वा पदयोः पपातः भगवान् राजाधिराजः प्रभु
र्भूयोवैश्रवणः स्थितः सविनयं बद्ध्वा तदग्रेञ्जलिम् ।
पद्माद्यैर्निधिभिः कृताञ्जलिपुटैर्जन्मोत्सवे सम्भ्रमं
कर्तुं भूरि समागतेः सहयुतः श्रीमैथिलेन्द्रालये ॥१७॥
एवं सर्वे सुरौद्याः स्तुतिमतुलतरां श्रौतवाक्यैः प्रमाणै
र्निर्मायानन्तकोटिप्रचुरगुणगणाख्यायकैर्भूरि वारम् ।
ब्रह्मेशानौ रमेशं सुरपतिमपि चोच्चैः पुरस्कृत्य
याताः प्रेमानन्दाब्धिवीचिसमुदयनिभृतोद्धूतचित्तावगाहाः ॥१८॥
॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये सीताजन्मोत्सवे कुबेरकृतस्तुतौ षड्विंशोऽध्यायः ॥
शिवकृत सीता स्तुति
महादेव उवाच
अहं हरिः पद्मभवस्तथान्ये देवा पदङ्घ्रिद्वितयं प्रपन्नाः ।
भवन्ति लोके महतामपीशास्तां रामरामां प्रणतोऽस्मि नित्यम् ॥१॥
गुह्यं च ते नाम यदास्ति नित्यं गृह्णन्ति यद्वै सहजेति वेदाः ।
मातः स्फुटं तत्प्रतिपाद्यरूपां त्वां देवतां कामपि संश्रयामि ॥२॥
वनं प्रमोदाख्यमनन्तकोटिश्रीजुष्टमानन्दमयं समन्तात् ।
त्वद्वल्लभो यत्र च रामचन्द्रो विभाति कन्दर्पपरार्घ्यवेषः ॥३॥
भक्त्या प्रयुक्तं तदहं श्रयामि भूत्वा कदाचित् खलु कोऽपि गोपः ।
चिरं यदानन्दसमुद्रमग्नो ब्रह्माक्षरं वेद न किञ्चिदेतत् ॥४॥
तव स्वरूपं श्रुतिभिर्विमृग्यं ब्रह्मादिदेवैरपि नैव गम्यम् ।
अधिप्रमोदाटविकुञ्जवीथिष्वदो विसर्पत्यभितः पदाभ्याम् ॥५॥
शृङ्गारनामा रसराज उच्चैस्तवैव देहे कलिनप्रतिष्ठः ।
यदंशमात्रेण जगत्समस्तं विमोहित स्थावरजङ्गमाढ्यम् ॥६॥
लक्ष्मीः स्वयं या हरिसङ्गमेन प्रमोदयन्ती हृदयं विभाति ।
सा त्वत्कटाक्षामृतभूरिवर्षैः प्रभाविनीति ध्रुवमेव वेद्मि ॥७॥
विना त्वदङ्घ्रिप्रभवप्रभावं कुतो भवेदृद्धिरिति प्रतीतम् ।
यतस्त्वदाराधनवञ्चितानां भवोदधौ दुःखपरम्परैव ॥८॥
दिनेदिने यत्र तवोदयेच्छुः सखीसमूहो यतते त्वदीशम् ।
वशे विधातुं बहुभावदूत्यैः स ते विलासो हृदये ममास्ताम् ॥९॥
यथा पुमर्थाः पुरुषाय भोगा यच्छन्ति चत्वार उदीर्णरूपाः ।
तथा स्वतन्त्रः खलु ते विलासः फलात्मकश्चैव फलार्पकश्च ॥१०॥
तवैव नित्यं वशवर्तिनी सा मायाभिधा शक्तिरनन्तरूपा ।
यथाखिलं मोहितमेतदुच्चैर्जगत्स्वरूपं परतन्त्रमेव ॥११॥
अचिन्त्यरूपा करुणा भवत्याः शक्ता समुद्धर्तुमुदेतिजीवान् ।
नो चेत्कथं दुस्तरमोहजालं विभिद्य पारं परमं प्रयान्ति ॥१२॥
पितामहो यद्वितनोतिविश्वं रक्षन् हरिर्द्रावयते च दैत्यान् ।
अहं तथा संहरणं करोमि तदेतदाभाति भवत्प्रसाद ॥१३॥
यतोऽभवद्वाङ्मनसं निवृत्तं यदाप्यनावाप्यमिहास्ति किञ्चित् ।
यदेव सर्वेर्मुनिभिर्गृहीतं तदेव रूपं परमं भवत्याः ॥१४॥
अनन्तशक्तिप्रभवप्रभावमनन्तसङ्ख्याका पुमर्थमूलम् ।
अनन्तकालक्षपणाक्षयं ते विचेष्टितं मे हृदये चकास्तु ॥१५॥
तडिल्लतावच्च सुवर्णवर्णं रामाभ्रसम्पर्कसदामनोज्ञम् ।
ध्यातं न यैस्ते जननि स्वरूपं तेषां भवेऽस्मिन् जनुरेव मोघम् ॥१६॥
तावन्मुखे जाड्यमुदेति भूयस्तावद्दरिद्रो भवतीह लोकः ।
तवन्न कान्तिप्रसरोऽस्मिन् देहे यावन्न तेऽजायत दृष्टिपातः ॥१७॥
अधिप्रमोदाटविकुञ्ज मध्ये श्रीरामयोगेन सदा स्फुरन्ती ।
इन्दीवरश्यामललोचनां त्वां सम्पत्तिसंवित्तिकृते भजामि ॥१८॥
यद्वाग्भवं नाम निरूढ़वीजं परात्मकं वेदसमूलमूलम् ।
तत्तद्वपुः सन्निहितं समस्ततन्त्रैषु मन्त्रात्मतया भजामि ॥१९॥
कदाचिदुन्मीलितमानभावोन्नते भ्रुवौ मन्मथचापचारू ।
श्रीरामचन्द्रैकरसीन्द्रभाव्ये भजामि ते मुक्तकृपाकटाक्षे ॥२०॥
वेदान्तवाक्येषु निगूढमुच्चैर्यत्तत्परं ब्रह्म चिदेकमात्रम् ।
तस्यापि चेत्थं परमाप्रतिष्ठा तदा कथं वाग्विषयत्वमेषि ॥२१॥
नित्ये महिम्नि प्रथितप्रतिष्ठा त्वेके महागाथगुणेकजुष्टा ।
अगोचरा ब्रह्मशिवादिभिस्त्वमधिप्रमोदाटवि दृश्यसे वै ॥२२॥
कदापि पञ्चत्वमियाद्विरञ्चिस्तथा विरामं भजते रमेशः ।
भजाम्यहं चैव विनाशभाव तदा त्वमीशः स्वयमेव चासि ॥२३॥
त्वदङ्घ्रिपङ्केरुहगर्भधूली त्रिवेदमल्लीसुमनोमधूलीम् ।
विचिन्वतां ज्ञानयथेष्वगम्यामधिप्रमोदाटवि किं न लप्स्ये ॥२४॥
वेदान्तविज्ञानविनिश्चितार्थैर्योगेन कष्टेन गृहीतमन्यैः ।
तत्त्वत्स्वरूपं प्रमुदाटवीनामाभीरकन्याभिरहो सुखापम् ॥२५॥
यथाकथञ्चिद्विषयैर्विमुक्ता नृपां मनोवृत्तिरुदीर्णरूपा ।
त्वामप्रमेयामविलभ्य सीते कदर्थनीया किमु मुक्तिमार्गे ॥२६॥
ये स्वाश्रयां च प्रवदन्ति मुक्तिं तेषामहम्भाविनष्टमात्रा ।
ब्रह्मास्त्रिरूपाखलु चित्तवृत्तिरत्यर्थमेवप्रविभाति मोघा ॥२७॥
ये त्वत्पदाब्ज प्रभजन्ति सन्तस्तेषां परानुग्रहमात्रवश्या ।
स्वं ब्रह्मधर्मं प्रविहाय मातः करोषि साश्चर्यचरित्रचर्याम् ॥२८॥
रजांसि भूमेः प्रमिमातु कश्चित्तथा तरङ्गान् जलधेर्बिभर्तु ।
तथापि मातस्तव दिव्यकेलीगुणान् न सङ्ख्यातुमसौ समर्थः ॥२९॥
नमस्त्रिवेदीशिरसि स्थितायै ततोऽपि दौर्लभ्यतमान्वितायै ।
स्वभक्तिमात्रैकसुलभात्मने ते श्रीसच्चिदानन्दपदोन्नतायै ॥३०॥
प्रमोदवनवीथीषु सहजानन्दिनी तु या ।
सा त्वं जनकभूपस्य गृहे मातः समागता ॥३१॥
भक्तानुग्रहकारिण्याः को जानाति तव क्रियाम् ।
फलानुमेयमात्रत्वात्तथापि खलु गीयते ॥३२॥
इत्युच्चार्यं शिवः स्तोत्रं सीतायाः परमश्रियः ।
सानन्दाश्रुमिलन्नेत्रं दण्डवन्न्यपतद्भुवि ॥३३॥
॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये सीताजन्मस्तुतावेकोनविंशोऽध्यायः ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।