सिद्ध सरस्वती स्तोत्र

सिद्ध सरस्वती स्तोत्र

सिद्ध सरस्वती स्तोत्र

यहां सिद्ध सरस्वती स्तोत्र ध्यान मंत्र और विनियोग के साथ दिया गया है जो विद्याप्राप्ति, वाणीदोष निवारण आदि के लिये विशेष लाभकारी है। ध्यान व विनियोग अन्यत्र से लिया गया है।

सरस्वती ध्यान मंत्र :

दोर्भिर्युक्तैश्चतुर्भिः स्फटिकमणिमयीमक्षमालां दधानां
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण ।
पाशं वीणा मुकुन्दस्फटिकमणिनिभां भासमाना समाना
सा मे वादे च तथ्यं निवसतु वदने सर्वदा सुप्रसन्ना ॥१॥

आरूढा श्वेतहंसे भ्रमति च गगने दक्षिणे चाक्षसूत्रं
वामे हस्ते च दिव्याम्बरकनकमयं पुस्तकं ज्ञानगम्या ।
सा वीणां वादयन्ती स्वकरकरजपैः शास्त्रविज्ञानशब्दैः
क्रीडन्ती दिव्यरूपा करकमलधरा भारती सुप्रसन्ना ॥२॥

श्वेतपद्मासना देवी श्वेतगन्धानुलेपना ।
अर्चिता मुनिभिः सर्वैर्ऋषिभिः स्तूयते सदा ॥३॥

सरस्वती ध्यान मंत्र
सरस्वती ध्यान मंत्र

एवं ध्यात्वा सदा देवीं वाञ्छितं लभते नरः ॥४॥

विनियोग : ॐ अस्य श्रीसिद्धसरस्वतीस्तोत्रमन्त्रस्य मार्कण्डेय ऋषिः, स्रग्धरा अनुष्टुप् छन्दः, मम वाग्विलाससिद्ध्यर्थं पाठे विनियोगः ॥

श्रीसिद्धसरस्वती स्तोत्रं

शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्वयापिनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥१॥

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥२॥

दोर्भिर्युक्तैश्चतुर्भिः स्फटिकमणिमयीमक्षमालां दधानां
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण ।
पाशं वीणा मुकुन्दस्फटिकमणिनिभां भासमाना समाना
सा मे वादे च तथ्यं निवसतु वदने सर्वदा सुप्रसन्ना ॥३॥

ह्रीं ह्रीं ह्रीं हृद्यैकबीजे शशिरूचिकमले कल्पविस्पष्टशोभे
भव्ये भव्यानुकूले कुमतिवनदवे विश्ववन्द्याङ्घ्रिपद्मे ।
पद्मे पद्मोपविष्टे प्रणतजनमनोमोदसम्पादयित्रि
प्रोत्फुल्लज्ञानकूटे हरिनिजदयिते देवि संसारसारे ॥४॥

ऐं ऐं ऐं जाप्यतुष्टे हिमरुचिमुकुटले वल्लकीव्यग्रहस्ते
मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिं प्रशस्ताम् ।
विद्ये वेदान्तवेद्ये परिणतपठिते मोक्षदे मुक्तिमार्गे
मार्गातीतस्वरूपे भव मम वरदे शारदे शुभ्रहारे ॥५॥

धीं धीं धीं धारणाख्ये धृतिमतिनतिभिर्नामभिः कीर्तनीये
नित्येऽनित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे ।
पुण्ये पुण्यप्रभावे हरिहरनमिते पूर्णतत्व स्वरूपे
मातर्मात्रार्धतत्त्वे मतिमतिमतिदे माधवप्रीतिमोदे ॥६॥

क्लीं क्लीं क्लीं सुस्वरूपे दह दह दुरितं पुस्तकव्यग्रहस्ते
संतुष्टाकारचित्ते स्मितमुखि सुभगे जृम्भिणि स्तम्भनीये ।
मोहे मुग्धप्रबोधे मम कुरु कुमतिध्वान्तविध्वंसमीड्ये
गीर्गौर्वाग्भारति त्वं कविधृतरसने सिद्धिदे सिद्धिसाध्ये ॥७॥

सौं सौं सौं शक्तिबीजे कमलभवमुखाम्भोजमूर्ति स्वरूपे
रूपेरूपप्रकाशे सकलगुणमये निर्गुणे निर्विकल्पे ।
न स्थूले नैव सूक्ष्मेऽप्यविदितविभवे जाप्यविज्ञानतुष्टे
विश्वे विश्वान्तराले सकल गुणमये निष्कले नित्यशुद्धे ॥८॥

श्रीं श्रीं श्रीं स्तौमि त्वाऽहं मम खलु रसना मा कदाचित्त्यज त्वं
मा मे बुद्धिर्विरुद्धा भवतु मम मनो पातु माम् देवि पापात् ।
मा मे दुःखं कदाचित् क्वचिदपि विषये पुस्तके नाकुलत्वं
शास्त्रे वादे कवित्वे प्रसरतु मम धीर्माऽस्तु कुण्ठा कदापि ॥९॥

इत्येतैः श्लोकमुख्यैः प्रतिदिनमुषसि स्तौति यो भक्तिनम्रो
वाणी वाचस्पतेरप्यविदितविभवो वाक्यतत्वार्थवेत्ता ।
स स्यादिष्टार्थलाभैः सुतमिव सततं पातु तं सा च देवी
सौभाग्यं तस्य लोके प्रसरतु कविता विघ्नमस्तं प्रयातु ॥१०॥

निर्विघ्नं तस्य विद्या प्रभवति सततं चाशु ग्रन्थप्रबोधः
कीर्तिस्त्रैलोक्यमध्ये निवसति वदने शारदा तस्य साक्षात् ।
दीर्घायुर्लोकपूज्यः सकलगुणनिधिः संततं राजमान्यो
वाग्देव्याः सम्प्रसादात् त्रिजगति विजयो जायते तस्यसाक्षात् ॥११॥

ब्रह्मचारी व्रती मौनी त्रयोदश्यामहर्निशं ।
सारस्वतो जनः पाठात् सकृदिष्टार्थलाभवान् ॥१२॥

पक्षद्वये त्रयोदश्यामेकविंशतिसंख्यया ।
अविच्छिन्नः पठेद्यस्तु सुभगो लोकविश्रुतः ॥
वाञ्छितं फलमाप्नोति षण्मासैर्नापि संशयः ॥१३॥

सरस्वती स्तुति
सरस्वती स्तुति

॥ इति श्रीसनत्कुमारसंहितोक्तं सिद्धसरस्वती स्तोत्रं समाप्तं ॥

नित्य कर्म पूजा पद्धति मंत्र

कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।

Leave a Reply