अर्क विवाह विधि
चूंकि प्राचीन काल में बहुविवाह की परम्परा थी इसलिये अर्कविवाह विधि की आवश्यकता थी, किन्तु वर्तमान काल में जब बहुविवाह की परम्परा ही नहीं है तो अर्क विवाह विधि की आवश्यकता नहीं है। फिर भी जो शास्त्र की व्यवस्था है उसे नकारा भी नहीं जा सकता, भले ही वर्तमान में बहुविवाह प्रचलित नहीं है किन्तु भविष्य में पुनः प्रचलित भी हो सकती है क्योंकि ये सभी सामाजिक व्यवहार तो परिवर्तनशील हैं।
किन्तु वर्तमान में अर्कविवाह विधि को सरलतम तरीके से समझने की आवश्यकता ही नहीं है लेकिन संस्कृत में अर्क विवाह विधि को यथावत प्रस्तुत करके संरक्षित रखना आवश्यक है, अतः यहां सरल विधि से समझाये बिना संस्कृत में अर्क विवाह विधि दिया जा रहा है।
अर्क विवाह पद्धति
तृतीयविवाहात् प्राक् दिनचतुष्टयाधिकव्यवहिते रविवासरे शनिवासरे वा हस्तर्क्षं शुभे दिनान्तरे वा ग्रामात् प्राच्यां उदीच्यां वा दिशि विजनस्थाने पत्रपुष्पफलयुतार्कावस्ताद् गोमयेन मण्डलं कृत्वा सर्वसम्भारान् तत्र स्थाप्य अर्कपश्चिमत आसने चोपविश्याचम्य गुरुकल्पितग्रहमण्डले स्वस्त्ययनं विधाय गणपतिं प्रतिष्ठाप्य प्रतिज्ञासंकल्पं कुर्यात् :
संकल्प : ॐ तत्सदद्येति श्रुतिस्मृतिपुराणोक्त फलप्राप्ति पूर्वक करिष्यमाण तृतीय मानुषी विवाह तज्जन्य-वैधव्यादि दोषापनुत्यनन्तर वृद्धि हेतवेऽर्कविवाहमहं करिष्ये । तन्निविघ्नतार्थं च गणपत्यादि देवानहं पूजयिष्ये ॥
इतिगणेशषोडशमातृसूर्यादिनवग्रहप्रणवदिग्पालादिपूजनं यथालब्धोपचारैः विधाय हेम्ना नान्दीश्राद्धं कुर्यात् । यथा
हेमश्राद्ध : ॐ अद्येत्याद्युक्त्वा करिष्यमाण तृतीयमानुषी विवाहाङ्गत्वेन कर्तव्याभ्युदयिकश्राद्धे इदमग्निदैवतकं हिरण्यं यथानाम गोत्राय ब्राह्मणाय दातुमहमुत्सृजे ॥
ततः अर्ककन्याप्रदानार्थं वरणद्रव्यैराचार्यं वृणुयात् ।
आचार्य वरण : ॐ अद्येत्यादि मम तृतीय मानुषी विवाहजन्यदोषापनुत्त्यर्थं अर्ककन्याप्रदानार्थं एभिर्वरण द्रव्यैरमुक गोत्रममुक शर्माणं ब्राह्मणमाचार्यत्वेनाहं वृणे ॥ वृत्तोऽऽस्मीति प्रतिवचनं ॥ ततस्तु आचार्यो वरं पूजयेत्
वरार्चन
- ॐ साधुभवानास्तामर्चयिष्यामो भवन्तमिति ब्रूयात् ।
- ॐ अर्चय इति वरेणोक्ते वरोपवेशनार्थे शुद्धमासनं दत्त्वा विष्टरमादाय
- ॐ विष्टरो विष्टरो विष्टरः इत्यन्येनोक्ते
- ॐ विष्टरः प्रतिगृह्यतामिति आचार्यो वदेत् ।
- ॐ विष्टरं प्रतिगृह्णामि इत्यभिधाय
- वरो विष्टरं गृहीत्वा ॐ वर्ष्मोऽस्मि समानानामुद्यतामिव सूर्यः । इमन्तमभितिष्ठामि यो मा कश्चाभिदासति ॥
- इत्यासने उत्तराग्रविष्टरोपरि वर उपविशति ।
पाद्य : ततस्त्वाचार्यः पाद्यमञ्जलिनादाय
- ॐ पाद्यं पाद्यं पाद्यमित्यन्येनोक्ते ॐ पाद्यं प्रतिगृह्यतामिति आचार्यः वदेत् ।
- ॐ पाद्यम् प्रतिगृहामीत्यभिधाय आचार्याञ्जलितोऽञ्जलिना पाद्यमादाय वरः
- ॐ विराजो दोहोसि विराजो दोहमशीय मयि पाद्यायै विराजो दोहः ॥ इति दक्षिणपादं प्रक्षालयति आचार्यः ।
- अनेनैव क्रमेण वामचरणप्रक्षालनं ( क्षत्रियश्चेद्वरस्तदाचार्यो दासद्वाराक्षालयति) ततः पूर्ववद्विष्टरं गृहीत्वा चरणयोरधस्तादुत्तराग्रं वरः कुर्यात् ।
अर्घ : ततः दूर्वाक्षत-फल-पुष्प-चन्दन-युतार्घपात्रं गृहीत्वाचार्यः
- ॐ अर्घो अर्घो अर्घः इत्यन्येनोक्ते ॐ अर्घः प्रतिगृह्यतामित्याचार्यो वदेत् ।
- ततो वरः प्रतिगृह्णामीत्यभिधायाचार्यहस्तादर्घं गृहीत्वा
- ॐ आपः स्थ युष्माभिः सर्वान्कामानवाप्नुवानीति शिरस्यक्षतादिकं किंचिद्दत्वा ॐ समुद्रं वः प्राहिणोमि स्वां योनिमभिगच्छतः अरिष्टास्माकं वीरामापरासेचिमत्पयः ॥ इत्यर्धपात्रस्थं जलमैशान्यां त्यजन्पठति ।
- ततः आचमनीयमादाय ॐ आचमनीयं आचमनीयं आचमनीयमित्यन्येनोक्ते प्रतिगृह्यतामिति आचार्यो वदेत् ।
- वरं आचमनीयमादाय ॐ आमागन् यशसा स ᳪ सृज वर्चसा तं मा कुरु प्रियं प्रजानामधिपतिं पशूनामरिष्टिं तनूनाम् ॥ इत्येनेन सकृदाचामेत् द्विस्तुष्णीम् ।
मधुपर्क : ततस्त्वाचार्यः कांस्यपात्रस्थ – दधि-मधुघृतानि कांस्य-पात्रपिहितान्यादाय
- ॐ मधुपर्को मधुपर्को मधुपर्कः इत्यन्येनोक्ते
- ॐ मधुपर्कः प्रतिगृह्यताम् इत्याचार्यो वदेत् । ततो वरः
- ॐ गृह्णामीत्यभिधाय ॐ मित्रस्य चक्षुषा त्वा प्रतीक्ष्ये इत्याचार्यकरस्थमेव निरीक्ष्य
- ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि ॥ इत्यनेन वरः मधुपर्कं वामहस्ते कृत्वा
- ॐ नमः श्यावास्यायान्नशने यत्त आविद्धं तत्ते निष्कृन्तामि इत्यनेन अनामिकया त्रिः प्रदक्षिणमालोड्यानामिकाङ्गुष्ठाभ्यां भूमौ क्षिपेत् । पुरस्तथैव द्विः प्रत्येकं क्षिपेत् ।
- ॐ यन्मधुनो मधव्यं परम ᳪ रूपमन्नाद्यं तेनाहं मधुनो मधव्येन परमेण रूपेणान्नाद्येन परमो मधव्योऽन्नादोऽसानि । इत्यनेन वारत्रयं मधुपर्कप्राशनं ।
- ततो मधुपर्कमसंचरदेशे धारयेत् ।