जितिया व्रत जीवित्पुत्रिका व्रत का ही एक अन्य नाम है। स्त्रियां पुत्र और पति की दीर्घायु कामना से जितिया का कठिन व्रत किया करती हैं। यह व्रत इतना कठिन होता है कि सामान्य व्रतों की तुलना में अधिक काल तक उपवास करना पड़ता है और उसमें भी बड़ी बात है कि जल आदि का ग्रहण करना भी निषिद्ध होता है। यदि कोई गंभीर परिस्थिति हो जाये तो उस समय गोमुखी होकर दूध पिया जा सकता है। प्रदोष काल में राजा जीमूतवाहन की पूजा करने के बाद जीवित्पुत्रिका व्रत कथा श्रवण करनी चाहिये। इस आलेख में जीवित्पुत्रिका व्रत की कथा संस्कृत में दी गयी है।
जीवित्पुत्रिका व्रत कथा / जीमूतवाहन व्रत कथा
वैशम्पायन उवाच
कैलासशिखरे रम्ये गौरी पृच्छति शङ्करम् । यदहं श्रोतुमिच्छामि तत्त्वं वद महेश्वर ॥
पार्वत्युवाचव्रतेन केन तपसा पूजया नियमेन वा । सौभाग्यवत्यो जायन्ते स्त्रियो जीवितपुत्रिकाः ॥
शङ्कर उवाचआश्विने कृष्णपक्षे तु या भवेदष्टमी तिथिः । शालिवाहनराजस्य पुत्रं जीमूतवाहनम् ॥१॥
पूजयन्ति स्त्रियस्तस्यां पुत्रकामाः सहर्षिताः । देवं दर्भमयं कृत्वा स्थापयेद्वारिभाजने ॥२॥
पीतलोहितवर्णैश्च कार्पासास्थिभिरेव च । नानावर्ण पताकाभिर्गन्धपुष्पादिभिस्तथा ॥३॥
प्रकल्प्य प्राङ्गणे कोष्ठं कृत्वा पुष्करिणीं ततः । तत्रैव पर्कटीशाखा धर्तव्या जलसन्निधौ ॥४॥
चिल्ली शृगाली कर्तव्या गोमयैर्मृत्तिकादिभिः । ते उभे तत्र धर्तव्ये सिन्दूरारुणमस्तके ॥५॥
यथोपचारैः पूजाभिस्तं देवं विप्ररूपिणम् । पूजयित्वा कथामेनां याः शृण्वन्ति वराः स्त्रियः ॥६॥
उपवार्ं प्रकुर्वन्ति ताः स्युः पूर्णमनोरथाः । वंशपत्रेण कर्तव्या पूजा वंशविवृद्धये ॥७॥
अस्ति सागरसान्निध्ये शर्मदा नर्मदा नदी । नगर्यां काञ्चनावत्यां तत्तीरे दक्षिणापथे ॥८॥
तत्रैवाखिलभूपाल जेता पार्थ इवापरः ॥९॥
नाम्ना मलयकेतुस्तु महाराजोऽखिलेश्वरः ॥१०॥
नाना-पदातिसामग्री मातङ्गतुरगायुधः । नर्मदापश्चिमे कूले बाहूट्टारमरुस्थलम् ॥११॥
तत्रास्ति पर्कटीघूघूर्महती कोटरान्विता । तस्याञ्चावसतिस्मैका शृगाली कोटरे चिरात् ॥१२॥
चिल्ली चैकाग्रशाखायां मैत्रमासीत् परन्तयोः । कृष्णाष्टम्यामिषे चेतन्नगराधिनिवासिनाम् ॥१३॥
योषितः पूजयन्ति स्म शालिवाहनपुत्रकम् । जीमूतवाहनं जीवत्पुत्रकामाः सहर्षिताः ॥१४॥
शुश्रुवुस्ताः कथां जग्मुः स्वं स्वं गृहमतः परम् । शिवा चिल्ली तथा चक्रे यद्यदाचरितं स्त्रिया ॥१५॥
देवात्तद्दिनसन्ध्यायां तन्नगर्यां चिरस्थितः ॥१६॥
दन्ताश्रेष्ठिज्येष्ठपुत्रो लोकान्तरमपद्यत ॥१७॥
तत्रैव नर्मदातीरे दत्त्वाग्निं तस्य बान्धवाः । दत्त्वा तोयाञ्जलिं सर्वं स्वं स्वं धाम समागताः ॥१८॥
ततो निशीथे संवर्षद् घनगर्जभयङ्करे । अतिक्षुधापीडितया शृगाल्याऽभिहिता च सा ॥१९॥
चिल्ली त्वमिति जागर्षि तां वै प्रोवाच चिल्लिका । स्निग्धे शृगालि जागर्मि भूयो भूयो यथाऽवदत् ॥२०॥
तथैवोत्तरमातिष्ठ चिल्ली विस्मयमागता । किमर्थमहमाहूता बभाषे नैव किञ्चन ॥२१॥
तदहं निश्चलीभूय परीक्षे चैतदाशयम् । इति निश्चत्य मनसा सा चिल्ली मौनमादधत् ॥२२॥
निद्रायितां हि तां ज्ञात्वा कोटराद् बहिरागता । शृगाली नर्मदां गत्वा मुखेन जलमाहरत् ॥२३॥
ततश्चिताग्निं निर्वाप्य शवमांसं यथेप्सितम् । भुक्त्वा तु लवशः कृत्वा शेषं कोटरमानयत् ॥२४॥
एतत्सकलवृत्तान्तं ज्ञात्वा चिल्ली समागता । ददर्श सा प्रभाते तु संवृत्ततेऽभिहिता तया ॥२५॥
शृगालि पारणाचर्चा क्रियते न त्वया कथम । स्मृत्वा तु रात्रिचरितमुदासीनमुवाच सा ॥२६॥
शृगालि सखि कुर्यास्त्वं पारणान्तु मया पुनः । कर्तव्या पारणा द्रव्यैर्योषाभिश्च निवेदितैः ॥२७॥
इति श्रुत्वा शृगाली तु मांसैः कोटरसंस्थितैः । यथेष्टं कोटरे स्थित्वा चकारालीकपारणाम् ॥२८॥
चिल्ली तु योषितादत्तैर्द्रव्यैश्चक्रे च पारणाम् । ततः कालवशाचिल्लीशृगाल्यौ तीर्थराजकम् ॥२९॥
जग्मतुः कामिकं क्षेत्रं चिल्ली कृत्वा तु कामनाम् । महामात्यवरस्येह बुद्धिसेनस्य धीमतः ॥३०॥
पत्नी चाहं भविष्यामि तत्र प्राणान् स्वयं जहौ । शिवा मलयकेतोश्च महाराजस्य तादृशी ॥३१॥
महादेवी भविष्यामि कृत्वा चेति मनोरथम् । तत्याज तीर्थराजेऽस्मिन् प्राणान् सा धूर्त्तकामिनी ॥३२॥
प्रयागमृतिपुण्येन वेदज्ञस्य द्विजन्मनः । गृहे भास्करसंज्ञस्य बभूव जनिरेतयोः ॥३३॥
ज्येष्ठा शीलवती तत्र कर्पूरावतिकापरा । बभूवतुर्न्नागकन्या-सुरकन्या-समे गुणैः ॥३४॥
पूर्वा तु बुद्धिसेनस्य त्वपरा वसुधापतेः । भार्या बभूव हर्षेण कृतकृत्ये बभूवतुः ॥३५॥
अथ शीलवती तेन सप्तपुत्रानजीजनत् । चिरायुषः क्रमादेव पूर्णकामा जहास च ॥३६॥
कर्पूरावतिका राज्ञी मृतपुत्रातिदुःखिता । क्षीयमाणानुदिवसं वैराग्यं समवाप सा ॥३७॥
गते बहुतरे काले शीलवत्याः सुताँश्च तान् । सप्तसेवार्थमायातान् स्वरूपैर्मन्मथोपमान् ॥३८॥
यूनः सङ्ग्रामसीमायां कुमारप्रतिमौजसः । बुद्धौ बृहस्पतिसमान् परनारीसहोदरान् ॥३९॥
विलोक्य वज्रपातेन ताडिते वापतत्क्षितौ । कर्पूरावतिका कष्टं कष्टमुत्थाय वेश्म च ॥४०॥
स्वं गत्वा निजपर्यङ्के द्वारमावृत्य साऽस्वपीत् । राजा पप्रच्छ भृत्यान् स्वान् महादेवी न दृश्यते ॥४१॥
क्व गता तैः समाख्यातमस्मिन्नेव गृहेऽम्बिका । सुप्तास्तीति समाकर्ण्यं स राजाप्यविशद् गृहम् ॥४२॥
आह प्रिये समुत्तिष्ठ किमर्थं विजने गृहे । सुप्ता तिष्ठसि मे खेदं ददासि प्रियभाषिणि ॥४३॥
सा बभाषे सुखेनेति न तुतोष महीपतिः । राज्ञा तु पृच्छयमाना सा बभाषे धरणीपतिम् ॥४४॥
तदोतिष्ठामि हे नाथ यथेप्सितमतर्कितम् । करिष्यसि न चेत्त्वं मे गच्छ सुप्तास्मि मा वद ॥४५॥
इत्युक्तवाँस्तदा राजा त्वदुक्तमहमाचरे । सहसोत्थाय सोवाच सत्यं कुरु महीपते ॥४६॥
इति श्रुत्वा महाराजः सत्यं चक्रे प्रियोदितम् । तत उत्थाय चालिङ्ग्य नृपतिं समभाषत ॥४७॥
मद्भगिन्याः सुतानां वै सप्त मूर्ध्नो निकृत्य मे । ददस्वेति यदि प्राणान् ममाभिलषसि प्रिय ॥४८॥
श्रुत्वा मलयकेतुः स भूमिं कर्णौ च संस्पृशन् । कथं त्वम्भाषसे चैव स्वपुत्रा भगिनीसुताः ॥४९॥
न मुमोच हठं राज्ञी भगिनीसुतमारणे । राज्ञा तु सत्यभीत्या तद्दारुणं स्वीकृतं महत् ॥५०॥
राज्ञी तद्वचनं सत्यमाकलय्य महीपतेः । जीमूतवाहनं देवं प्रपूज्यासीन्महोत्सवा ॥५१॥
अथ द्वारि महाराजो यन्त्रिका-चक्रमादधौ । एकस्मिन् दिवसे तेषां राजसेवां चिकीर्षताम् ॥५२॥
शिरांसि सप्तचक्रेण चकर्त्त स महीपतिः । दत्त्वा तानि प्रियायै च मनोदुःखमवाप सः ॥५३॥
तानि प्रेक्ष्य महादेवी हर्षिता च बभूव सा । प्रक्षाल्य वंशपात्रेषु सप्तसु स्फीतवस्त्रकैः ॥५४॥
आच्छाद्य वायनान् राज्ञी प्रेषयच्चेटिकाकरैः । अथ शीलवती प्रादात्स्नुषाभ्यः सप्तडल्लकान् ॥५५॥
स्वं स्वं च नाथमित्युक्त्वा भोजयिष्यथ हे स्नुषाः । अथ शीलवतीपुत्र वृत्तं जीमूतवाहनः ॥५६॥
ज्ञात्वा झटिति चोत्थाय सेवां कृत्वाऽचलद् गृहम् । द्वारमागत्य चालोक्य कबन्धान् परिखागतान् ॥५७॥
बुद्धिसेनसुतानाञ्च चिन्तयामास वै चिरम् । एषां मात्रा शीलवत्या चाद्भुतं समुपासितम् ॥५८॥
अतः सकरुणो मृद्भिर्घटितानि शिरांसि च । कबन्धेषु नियोज्याशु पीयूषैरभ्यषेचयत् ॥५९॥
कर्पूरावतिका यानि शिरांसि प्रैषयत्स्वयम् । शीलवत्यै तान्यभूवन् सप्ततालफलानि वै ॥६०॥
जीमूतस्तु तथा कृत्वा स्ववासमगमत्तदा । ततस्तदनुभावेन जीविताः सप्तपुत्रकाः ॥६१॥
आनन्दहृष्टपुष्टाङ्गाः सुप्तवत् सहसोत्थिताः । स्वं स्वं घोटकमारुह्य स्वं गृहं चलितास्तथा ॥६२॥
तत्र गत्वा तु ते सर्वे स्नात्वा स्वं स्वं गृहं ययुः । एतेभ्यः स्वस्वभार्याभिः प्रत्येकं सप्तडल्लकाः ॥६३॥
ददिरे तैस्तु मूर्द्धानः फलीभूताः प्रभावतः । जीमूतवाहनस्यैव भक्षितास्तु यथेप्सितम् ॥६४॥
ततो मन्त्रिप्रवीरस्य बुद्धिसेनस्य वेश्मनि । पुत्रवृत्तान्तमावेत्तुं कर्णं दत्त्वा स्थिता सती ॥६५॥
राज्ञी नाक्रन्दमश्रौषीत्तदा ज्ञातुं स्वचेटिकाम् । प्रेषयामास तद्वेश्म जायते क्रन्दनं न वा ॥६६॥
तत आगत्य दास्या तु तद्वेश्म विनिवेदितम् । सहर्षं सकलं दृष्ट्वा नृत्यगीतसमाकुलम् ॥६७॥
इति श्रुत्वा महादेवी बभूवातीव पीडता । निःश्वस्य क्रुद्धनागीव मुमूर्च्छ च मुहुर्मुहुः ॥६८॥
ततः प्रभाते सञ्जाते पुनश्शीलवतीसुतान् । सेवार्थमागतान् दृष्ट्वा राजानं प्रत्युवाच सा ॥६९॥
राज्ञीति रजँश्चौराणां छित्त्वा सप्तशिरांसि मे । दत्तानि श्रीमता नाथ मुग्धाहं कि प्रतारिता ॥७०॥
अन्यथा कथमेते वै सेवार्थं समुपागताः । राजा च विस्मयाविष्टो नोचे क्षणमधोमुखः ॥७१॥
कथमुक्तं त्वया देवि त्वदग्रेण मया पुनः । छिन्नानि मस्तकान्येषां कथमेवं प्रभाषसे ॥७२॥
ममापि कौतुकं जातमतः कारणमुच्यते । त्वद्भगिन्या कृतं कर्म पूर्वं तदनुभावतः ॥७३॥
इह जन्मनि सा जीवत्सप्तपुत्रा शुभान्विता । न त्वया तद्व्रतं चीर्णमथवा तदुपेक्षितम् ॥७४॥
तेन त्वं पुत्रशोकेन पीडिता वर्त्तसे प्रिये । इति तद्वचनं श्रुत्वा नोचे काञ्चिदुदासिवत् ॥७५॥
ततो मन्त्रिप्रवीरेण बुद्धिसेनेन धीमता । स्वयं तत्पुत्रवृत्तान्तं शीलवत्यै न्यवेदयत् ॥७६॥
अथ संवत्सरेऽतीते तद्व्रते समुपस्थिते । पारणादिवसे राज्ञी शीलवत्यै न्यवेदयत् ॥७७॥
इति मातस्त्वया साकं पारणाद्य विधीयते । दासीमुखेन सन्दिष्टां तां वाचं साऽवमन्यत ॥७८॥
महामात्यस्य च वधूः किञ्चिदूचे तदप्रियम् । महादेव्या समं चेटि पारणा नैव युज्यते ॥७९॥
इति चेटीमुखाच्छ्रुत्वा रोषाद्विहृदया सती । दण्डिकां सा समारुह्य ययौ शीलवतीगृहम् ॥८०॥
ततः शीलवती देव्याश्चरणौ शीतवारिभिः । प्रक्षाल्याचलवस्त्रेण सम्प्रोक्ष्य स्फीतचामरैः ॥८१॥
वीजयामास तां देवीं पप्रच्छ कुशलं शनैः । ततो राज्ञी च तामूचे भगिनीञ्च मया सह ॥८२॥
पारणां कुरु यातिस्म पारणासमयः खलु । ततः शीलवती प्राह विचार्य्यं च पुनः पुनः ॥८३॥
कर्पूरावति राज्यस्य भोगं कुरु हठं त्यज । राज्ञी निवेदयामास भगिन्यै सा मुहुर्मुहुः ॥८४॥
अद्य त्वया समं मातः पारणा मम नान्यथा । भूयो भूयस्तथैवोक्ता शीलवत्या न चात्यजत् ॥८५॥
हठं शीलवती तस्यास्ततो ज्ञात्वा सुनिश्चयम् । पारणाद्रव्यमादाय करे धृत्वा तया ययौ ॥८६॥
नर्मदातीरमासाद्य महादेवीमुवाच सा । आलिङ्ग्य क्व गृहं त्यक्त्वा राज्यभोगं कुरु प्रिये ॥८७॥
शमञ्च भविता राज्ञी शीलवत्यै तदाह सा । ततः शीलवती राज्ञी सुस्नाता नर्मदाम्भसि ॥८८॥
अथ शीलवती देवान् नमस्कृत्य दिशांपतीन् । किं पूर्वजन्मवृत्तान्तं न त्वं स्मरसि पश्य तत् ॥८९॥
पूर्वजन्मशृगाली त्वं चिल्ली चाहं विहङ्गमा । एषा सा नर्मदा बाहूट्टार एतन्मरुस्थलम् ॥९०॥
सा घूघूपर्कटी चैतत्कोटरे तव संस्थितिः । एतस्याः शिखरे नीडं ममापि नृपनन्दिनि ॥९१॥
एकदा नगरस्त्रीभिः सहावाभ्यां कृतं व्रतम् । जीमूतवाहनस्येह पूजनश्चोपवासकम् ॥९२॥
कथां श्रुत्वाऽथ ताः सर्वाः स्वां वसतिमाययुः । आवामपि च तत्सायं वणिक्कश्चिन्मृतः स्वयम् ॥९३॥
तस्मै वह्निञ्च दत्त्वा स्वं गतास्तद्बान्धवा गृहम् । ततोऽर्द्धरात्रे सम्भूते मामाह त्वं शिवात्मिका ॥९४॥
चिल्लि जागर्षि शश्वद्वै सखि जागर्मि किं वद । वारं वारं त्वया चोक्तं तथैवोत्तरितं मया ॥९५॥
ततस्त्वच्चरितं ज्ञातुं मया निद्रा विभाविता । तथा भूतां तु मां ज्ञात्वा विनिस्सृत्य च कोटरात् ॥९६॥
मुखेनानीय पानीयं चितां निर्वाप्य तत्पलम् । भुक्त्वा यथेष्टमन्ते चाऽवशिष्टं कोटरान्तरे ॥९७॥
रक्षितं शवमांसं यत् यदस्थ्यत्यत्र तत्स्थले । दर्शयामास सा शीलवती राज्ञीमनिन्दिताम् ॥९८॥
अनेन व्रतभङ्गेन भगिनि त्वं तथाऽभवः । मया न तद्व्रतं त्यक्तं तस्मान्मे चिरजीवनी ॥९९॥
सन्ततिः सुखिनी चाहं न च स्वामिनि योगिनी । इति प्राग्जन्मवृत्तान्तं स्मारिता नृपकामिनी ॥१००॥
तिष्ठन्ती तत्र तत्याज निःश्वस्य स्वं कलेवरम् । ततः शीलवती नृत्य-गीतवाद्यैः सुहर्षिता ॥१०१॥
आजगाम निजं धाम स्वाभिपुत्रादिशोभितम् । तच्छ्रुत्वा नृपतिस्तत्र विललाप मुमोह च ॥१०२॥
वृद्धब्राह्मणवाक्येन कष्टमुत्थाय भूपति । स्नात्वा क्रियां शमं चक्रे प्रियायाः पारलौकिकीम् ॥१०३॥
तत्प्रीत्या द्विजमुख्येभ्यो ददौ बहुविधं धनम् । राज्यचिन्तां ततश्चक्रे वशी मन्त्रिसमन्वितः ॥१०४॥
ईश्वर उवाच
अधुनापि च या योषिद्विधिवत्तं प्रपूजयेत् । जीमूतवाहनं देवि चोपवाससमन्वितम् ॥१०५॥
कथां श्रुत्वा तु विप्राय दक्षिणां प्रतिपादयेत् । इह भोगानवाप्यैव जीविपुत्रा शुभान्विता ॥१०६॥
अन्ते च भजते देवि विष्णुलोकं सनातनम् ॥१०७॥
॥ इति श्रीभविष्यपुराणे हरगौरीसंवादे श्रीजीमूतवाहन व्रतकथा समाप्ता ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।
One thought on “जीवित्पुत्रिका व्रत कथा – Jitiya Vrat Katha”