भगवान के अनेकानेक स्तोत्रों में से एक प्रकार मंगल स्तोत्र भी होता है जिसमें भगवान के अनेकानेक नामों द्वारा उनसे मंगल प्रार्थना की जाती है, मंगल की कामना की जाती है। भगवान श्रीकृष्ण के अनेकों मंगल स्तोत्र हैं जो श्रीकृष्ण मङ्गलं (krishna mangalam), कृष्ण मंगलाचरण श्लोक, श्रीकृष्ण मङ्गल स्तोत्र आदि नामों से जाने जाते हैं। यहां तीन श्रीकृष्ण मङ्गलं स्तोत्र संस्कृत में दिया गया है।
श्रीकृष्णमङ्गलं : कृष्ण मंगलाचरण श्लोक – krishna mangalam
मङ्गलं बालकृष्णाय दिव्यलीलाय मङ्गलम् ।
मङ्गलं नीलवर्णाय मातृमान्याय मङ्गलम् ॥१॥
मङ्गलं रुक्मिणीशाय जगदीशाय मङ्गलम् ।
मङ्गलं यदुनाथाय दीननाथाय मङ्गलम् ॥२॥
मङ्गलं देवदेवाय वासुदेवाय मङ्गलम् ।
मङ्गलं नन्दपुत्राय सदानन्दाय मङ्गलम् ॥३॥
मङ्गलं पूतनाहन्त्रे लीलामर्त्याय मङ्गलम् ।
मङ्गल शकटच्छेत्रे पद्मपादाय मङ्गलम् ॥४॥
मङ्गलं वत्सपालाय विश्वपालाय मङ्गलम् ।
मङ्गलं योगिमृग्याय गोपमित्राय मङ्गलम् ॥५॥
मङ्गलं बालगोपाय ब्रह्मविद्याय मङ्गलम् ।
मङ्गलं कमलाभर्त्रे गोपीकान्ताय मङ्गलम् ॥६॥
मङ्गलं मातृबद्धाय जडघ्नायास्तु मङ्गलम् ।
मङ्गलं क्रीडते स्त्रीभिः कुन्दारूढाय मङ्गलम् ॥७॥
मङ्गलं द्विषते क्रूरान् प्रियाक्रूराय मङ्गलम् ।
मङ्गलं वल्लवीभर्ने कंसघ्नायास्तु मङ्गलम् ॥८॥
मङ्गलं प्रीतभक्ताय विद्यावासाय मङ्गलम् ।
मङ्गलं मागधजिते द्वारकेशाय मङ्गलम् ॥९॥
मङ्गलं पार्थसुहृदे जितदैत्याय मङ्गलम् ।
मङ्गलं रुक्मिणीजाने रुक्मिणीशाय मङ्गलम् ॥१०॥
मङ्गलं नैकरूपाय नरदैत्याय मङ्गलम् ।
पुत्रिणे नित्यरूपाय ब्रह्माचार्याय मङ्गलम् ॥११॥
मङ्गलं द्रौपदीड्याय मानदायास्तु मङ्गलम् ।
मङ्गलं प्रियभक्ताय भक्तपालाय मङ्गलम् ॥१२॥
मङ्गलं दिशते कामान् विप्रप्रार्थ्याय मङ्गलम् ।
मङ्गलं शिष्टपालाय भारघ्नायास्तु मङ्गलम् ॥१३॥
मङ्गलं मायिनेऽमायसारथ्यायास्तु मङ्गलम ।
मङ्गलं पूर्णरूपाय गीताचार्याय मङ्गलम् ॥१४॥
मङ्गलं विश्वरूपाय योगिध्येयाय मङ्गलम् ।
मङ्गलं विश्वगुरवे कृपावासाय मङ्गलम् ॥१५॥
मङ्गलं ज्ञानरूपाय सर्वाभिज्ञाय मङ्गलम् ।
मङ्गलं सर्वशक्ताय महासत्त्वाय मङ्गलम् ॥१६॥
मङ्गलं दिव्यवीर्याय माहेश्वर्याय मङ्गलम् ।
मङ्गलं तेऽच्युता य सत्कुलत्राणाय मङ्गलम् ॥१७॥
॥ इति श्रीकृष्णमङ्गलं सम्पूर्णम् ॥
श्रीकृष्णमङ्गलं : मङ्गलं यादवेन्द्राय महनीयगुणात्मने
मङ्गलं यादवेन्द्राय महनीयगुणात्मने ।
वसुदेवतनूजाय वासुदेवाय मङ्गलम् ॥१॥
किरीटकुण्डलभ्राजदलकैर्यन्मुखश्रिये ।
श्रीवत्सकौस्तुभोद्भासि वक्षसे चास्तु मङ्गलम् ॥२॥
नीलाम्बुदनिकाशाय विद्युत्सदृशवाससे ।
देवकीवसुदेवाभ्यां संस्तुतायास्तु मङ्गलम् ॥३॥
ताभ्यां सम्प्रार्थितायाथ प्राकृतार्भकरूपिणे ।
यशोदाय गृहं पित्रा प्रापितायास्तु मङ्गलम् ॥४॥
पूतनाऽसुपयःपानपेशलायाऽसुरारिणे ।
शकटासुर विध्वंसि पादपद्माय मङ्गलम् ॥५॥
यशोदाऽऽलोकिते स्वास्ये विश्वरूपप्रदर्शिने ।
मायामानुषरूपाय माधवायास्तु मङ्गलम् ॥६॥
तृणावर्तदनूजासु हारिणे शुभकारिणे ।
वत्सासुरप्रभेत्रे च वत्सपालाय मङ्गलम् ॥७॥
दामोदराय वीराय यमलार्जुनपातिने ।
धात्रा हृतानां वत्सानां रूपधर्त्रेऽस्तु मङ्गलम् ॥८॥
ब्रह्मस्तुताय कृष्णाय कालीयफणनृत्यते ।
दावाग्निरक्षिताशेष गोगोपालाय मङ्गलम् ॥९॥
गोवर्धनाचलोद्घर्त्रे गोपी क्रीडाभिलाषिणे ।
अञ्जल्याऽऽहृतवस्त्राणां सुप्रीतायास्तु मङ्गलम् ॥१०॥
सुदर्शनाख्य गन्धर्व शापमोक्षणकारिणे ।
शङ्खचूडशिरोहर्त्रे वृषभघ्नाय मङ्गलम् ॥११॥
गान्दिनीसुतसन्दृष्ट दिव्यरूपाय शौरिणे ।
त्रिवक्रया प्रार्थिताय सुन्दराङ्गाय मङ्गलम् ॥१२॥
गन्धमाल्याम्बराढ्याय गजराजविमर्दिने ।
चाणूरमुष्टिकप्राणहारिणे चास्तु मङ्गलम् ॥१३॥
कंसहन्त्रे जरासन्धबलमर्दन कारिणे ।
मथुरापुरवासाय महाधीराय मङ्गलम् ॥१४॥
मुचुकुन्द महानन्ददायिने परमात्मने ।
रुक्मिणी परिणेत्रे च सबलायास्तु मङ्गलम् ॥१५॥
द्वारकापुरवासाय हारनूपुरधारिणे ।
सत्यभामासमेताय नरकघ्नाय मङ्गलम् ॥१६॥
बाणासुरकरच्छेत्रे भूतनाथस्तुताय च ।
धर्माहूताय यागार्थं शर्मदायास्तु मङ्गलम् ॥१७॥
कारयित्रे जरासन्धवधं भीमेन राजभिः ।
मुक्तैः स्तुताय तत्पुत्र राज्यदायास्तु मङ्गलम् ॥१८॥
चैद्यतेजोपहर्त्रे च पाण्डवप्रियकारिणे ।
कुचेलाय महाभाग्यदायिने तेऽस्तु मङ्गलम् ॥१९॥
देव्यष्टक समेताय पुत्रपौत्रयुताय च ।
षोडशस्त्री सहस्रैस्तु संयुतायास्तु मङ्गलम् ॥२०॥
यश्शिष्टरक्षणपरः करुणाम्बुराशिः
दुष्टासुरांशनृपतीन् विनिगृह्य शूरान् ।
कष्टां दशां अपनुदन्तरसा पृथिव्याः
पुष्टिं ददातु स हरिः कुलदैवतं नः ॥२१॥
॥ इति श्रीकृष्णमङ्गलं सम्पूर्णम् ॥
श्रीकृष्णमङ्गलस्तोत्रं
सर्वे वेदाः साङ्गकलापाः परमेण
प्राहुस्तात्पर्येण यदद्वैतमखण्डम् ।
ब्रह्मासङ्गं प्रत्यगभिन्नं पुरुषाख्यं
तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥१॥
मायाधिष्ठानं परिशुद्धं यदविद्या
सूते विश्वं देवमनुष्यादिविभेदम् ।
यस्मिन् ज्ञाते सा शशशृङ्गेण समा स्यात्
तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥२॥
श्रीवैकुण्ठे श्रीधरणीलालितपादः
सर्वैर्वे दैर्मूर्तिधरैः संस्तुतकीर्तिः ।
आस्ते नित्यं शेषशयो यः परमात्मा
तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥३॥
धर्मत्राणायैव कृतानेकविभूतिः
श्वेतद्वीपे क्षीरपयोधौ कृतवासः ।
यो भृत्यानामार्तिहरः सत्त्वसमूह-
स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥४॥
क्षीराम्भोधेस्तीरमुपाव्रज्य सुरेशै-
र्ब्रह्मेशानेन्द्रादिभिराम्नायशिरोभिः ।
भूमेः सौख्यं कामयमानैः प्रणतो य-
स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥५॥
सर्वात्मापि स्वाश्रितरक्षापरतन्त्र
इश्रीदेवक्यां यो वसुदेवादवतीर्णः ।
चक्रे लीलाः श्रोतृमनोनन्दविधात्री-
स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥६॥
पुत्रं मत्वा यं परमेशानमजातं
पूर्णं मायोपात्तशरीरं सुखरूपम् ।
नन्दो मुक्तिं प्राप यशोदा व्रजपुर्यां
तस्मै श्रीकृष्णाय नमो ॥७॥
गोप्यो गोपा गोपकुमाराश्च यदीयम् ।
दृष्ट्वा रूपं सुन्दरमिन्दीवरनीलम् ।
मन्दस्मेरं कुन्दरदं प्रीतिमवापु-
स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥८॥
बालो भूत्वा मासवया योऽपिबदग्ने
प्राणैः साकं स्तन्यमसुर्याः कुलटायाः ।
स्वरस्त्याकाङ्क्षन्नात्मजनानां जगदीश-
स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥९॥
पद्भधां जघ्नेऽनोऽसुरमुद्यम्य तृतीये
मासे देवो योऽखिलमायाविनिहन्ता ।
सन्तापघ्नः साधुजनानाममरेश-
स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥१०॥
कण्ठे बद्ध्वा मूर्ध्नि विनिर्भिद्य निरस्तः
दुष्टो गोष्ठे येन तृणावर्तसुरारिः ।
सर्वज्ञेनानन्तबलेनातिविमूढ-
स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥११॥
गोपालार्भैश्चारणलीलां विदधानो
गोवत्सानां यो बकदैत्यं विददार ।
आस्यादारम्योदरमत्युन्नतसत्त्वं
तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥१२॥
मात्रे दैत्याच्छङ्कितवत्यै दयया यो
गोप्यै लोकान् स्वात्मसमेतान् मुखपद्मे ।
स्वीये सूक्ष्मेऽदर्शयदव्याहतशक्ति-
स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥१३॥
नव्यं गव्यं क्षीरमनीरं नवनीतं
भुङ्क्ते प्रीत्या दत्तमदत्तं च यथेच्छम् ।
स्वात्मारामाभ्यर्चितपादोऽपि च गोष्टे
तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥१४॥
कालीयोऽहिः कल्पितशिक्षाभयदान-
स्त्यक्त्वा तीर्थं यामुनमात्मीयमवाप ।
द्वीपं येनानन्तबलेनाथ ससैन्य-
स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥१५॥
गोपान् योऽपादापद उद्धृत्य दवाग्ने-
र्मुग्धान् स्निग्धान् पवित्रामललक्ष्मीः ।
अष्टैश्वर्योऽव्याहतलक्ष्मीपतिराद्य-
स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥१६॥
पापाचारोऽघासुरनामाहिशरीरः
शैलाकारो येन हतो मूर्ध्नि विभिन्नः ।
प्रापात्मैक्यं ब्रह्मविदामेव तु गम्यं
तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥१७॥
गोगोपानां श्रोत्रमनोनेत्रसुखानि
प्रादुष्कुर्वन् गोपवधूनां व्रजमध्ये ।
लीलानाट्यान्यद्भुतरूपाणि य आस्ते
तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥१८॥
व्यत्यस्ताम्भोजातपदो वेणुनिनादैः
सर्वाँल्लोकान् सातिशयान् कर्मसु मूढान् ।
चक्रेऽत्यन्तानन्दविधानेन वने य-
स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥१९॥
॥ इति श्रीकृष्णमङ्गलस्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।