विभिन्न पुराणों में भगवान श्रीकृष्ण की अनेकानेक स्तुतियां (krishna stuti) हैं जो ब्रह्मा, इन्द्र, देवता, ऋषि-मुनियों द्वारा की गयी है। भगवान श्रीकृष्ण की अराधना में हमें उनके विभिन्न स्तुतियों की आवश्यकता होती है और एक साथ अनेकों स्तुति सरलता से उपलब्ध नहीं होती। यहां भागवत पुराणोक्त ब्रह्मा कृत श्रीकृष्ण स्तुति, पद्म पुराणोक्त अक्रूर कृत श्रीकृष्ण स्तुति, पद्म पुराणोक्त इन्द्र कृत श्रीकृष्ण स्तुति, गर्गसंहितोक्त दुर्वासा कृत श्रीकृष्ण स्तुति, गर्गसंहितोक्त देव कृत श्रीकृष्ण स्तुति दी गयी है।
यहां पढ़ें अनेकों कृष्ण स्तुति – krishna stuti
ब्रह्मोवाच नौमीड्य तेऽभ्रवपुषे तडिदम्बराय
गुञ्जावतंसपरिपिच्छलसन्मुखाय ।
वन्यस्रजे कवलवेत्रविषाणवेणु-
लक्ष्मश्रिये मृदुपदे पशुपाङ्गजाय ॥१॥
अस्यापि देव वपुषो मदनुग्रहस्य
स्वेच्छामयस्य न तु भूतमयस्य कोऽपि ।
नेशेमहि त्ववसितुं मनसान्तरेण
साक्षात्तवैव किमुतात्मसुखानुभूतेः ॥२॥
ज्ञाने प्रयासमुदपास्य नमन्त एव
जीवन्ति सन्मुखरितां भवदीयवार्ताम् ।
स्थाने स्थिताः श्रुतिगतां तनुवाङ्मनोभिः
ये प्रायशोऽजित जितोऽप्यसि तैस्त्रिलोक्याम् ॥३॥
श्रेयःस्रुतिं भक्तिमुदस्य ते विभो क्लिश्यन्ति ये केवलबोधलब्धये ।
तेषामसौ क्लेशल एव शिष्यते नान्यद्यथा स्थूलतुषावघातिनाम् ॥४॥
पुरेह भूमन् बहवोऽपि योगिनस्त्वदर्पितेहा निजकर्मलब्धया ।
विबुध्य भक्त्यैव कथोपनीतया प्रपेदिरेऽञ्जोऽच्युत ते गतिं पराम् ॥५॥
तथापि भूमन् महिमाऽगुणस्य ते विबोद्धुमर्हत्यमलान्तरात्मभिः ।
अविक्रियात्स्वानुभवादरूपतो ह्यनन्यबोध्यात्मतया न चान्यथा ॥६॥
गुणात्मनस्तेऽपि गुणान् विमातुं हितावतीर्णस्य क ईशिरेऽस्य ।
कालेन यैर्वा विमिताः सुकल्पैर्भूपांसवः खे मिहिका द्युभासः ॥७॥
तत्तेऽनुकम्पां सुसमीक्षमाणो भुञ्जान एवात्मकृतं विपाकम् ।
हृद्वाग्वपुर्भिर्विदधन्नमस्ते जीवेत यो मुक्तिपदे स दायभाक् ॥८॥
पश्येश मेऽनार्यमनन्त आद्ये परात्मनि त्वय्यपि मायिमायिनि ।
मायां वितत्येक्षितुमात्मवैभवं ह्यहं कियानैच्छमिवार्चिरग्नौ ॥९॥
अतः क्षमस्वाच्युत मे रजोभुवो ह्यजानतस्त्वत्पृथगीशमानिनः ।
अजावलेपान्धतमोऽन्धचक्षुष एषोऽनुकम्प्यो मयि नाथवानिति ॥१०॥
क्वाहं तमोमहदहङ्खचराग्निवार्भूसंवेष्टिताण्डघटसप्तवितस्तकायः ।
क्वेदृग्विधाविगणिताण्डपराणुचर्यावाताध्वरोमविवरस्य च ते महित्वम् ॥११॥
उत्क्षेपणं गर्भगतस्य पादयोः किं कल्पते मातुरधोऽक्षजागसे ।
किमस्ति नास्तिव्यपदेशभूषितं तवास्ति कुक्षेः कियदप्यनन्तः ॥१२॥
जगत्त्रयान्तोदधिसम्प्लवोदे नारायणस्योदरनाभिनालात् ।
विनिर्गतोऽजस्त्विति वाङ्न वै मृषा किं त्वीश्वरत्वान्न विनिर्गतोऽस्मि ॥१३॥
नारायणस्त्वं न हि सर्वदेहिनामात्मास्यधीशाखिललोकसाक्षी ।
नारायणोऽङ्गं नरभूजलायनात्तच्चापि सत्यं न तवैव माया ॥१४॥
तच्चेज्जलस्थं तव सज्जगद्वपुः किं मे न दृष्टं भगवंस्तदैव ।
किं वा सुदृष्टं हृदि मे तदैव किं नो सपद्येव पुनर्व्यदर्शि ॥१५॥
अत्रैव मायादमनावतारे ह्यस्य प्रपञ्चस्य बहिः स्फुटस्य ।
कृत्स्नस्य चान्तर्जठरे जनन्या मायात्वमेव प्रकटीकृतं ते ॥१६॥
यस्य कुक्षाविदं सर्वं सात्मं भाति यथा तथा ।
तत्त्वय्यपीह तत्सर्वं किमिदं मायया विना ॥१७॥
अद्यैव त्वदृतेऽस्य किं मम न ते मायात्वमादर्शितं
एकोऽसि प्रथमं ततो व्रजसुहृद्वत्साः समस्ता अपि ।
तावन्तोऽसि चतुर्भुजास्तदखिलैः साकं मयोपासिता-
स्तावन्त्येव जगन्त्यभूस्तदमितं ब्रह्माद्वयं शिष्यते ॥१८॥
अजानतां त्वत्पदवीमनात्मन्यात्माऽऽत्मना भासि वितत्य मायाम् ।
सृष्टाविवाहं जगतो विधान इव त्वमेषोऽन्त इव त्रिनेत्रः ॥१९॥
सुरेष्वृषिष्वीश तथैव नृष्वपि तिर्यक्षु यादःस्वपि तेऽजनस्य ।
जन्मासतां दुर्मदनिग्रहाय प्रभो विधातः सदनुग्रहाय च ॥२०॥
को वेत्ति भूमन् भगवन् परात्मन् योगेश्वरोतीर्भवतस्त्रिलोक्याम् ।
क्व वा कथं वा कति वा कदेति विस्तारयन् क्रीडसि योगमायाम् ॥२१॥
तस्मादिदं जगदशेषमसत्स्वरूपं स्वप्नाभमस्तधिषणं पुरुदुःखदुःखम् ।
त्वय्येव नित्यसुखबोधतनावनन्ते मायात उद्यदपि यत्सदिवावभाति ॥२२॥
एकस्त्वमात्मा पुरुषः पुराणः सत्यः स्वयञ्ज्योतिरनन्त आद्यः ।
नित्योऽक्षरोऽजस्रसुखो निरञ्जनः पूर्णोऽद्वयो मुक्त उपाधितोऽमृतः ॥२३॥
एवंविधं त्वां सकलात्मनामपि स्वात्मानमात्माऽऽत्मतया विचक्षते ।
गुर्वर्कलब्धोपनिषत्सुचक्षुषा ये ते तरन्तीव भवानृताम्बुधिम् ॥२४॥
आत्मानमेवात्मतयाऽविजानतां तेनैव जातं निखिलं प्रपञ्चितम् ।
ज्ञानेन भूयोऽपि च तत्प्रलीयते रज्ज्वामहेर्भोगभवाभवौ यथा ॥२५॥
अज्ञानसंज्ञौ भवबन्धमोक्षौ द्वौ नाम नान्यौ स्त ऋतज्ञभावात् ।
अजस्रचित्याऽऽत्मनि केवले परे विचार्यमाणे तरणाविवाहनी ॥२६॥
त्वामात्मानं परं मत्वा परमात्मानमेव च ।
आत्मा पुनर्बहिर्मृग्य अहोऽज्ञजनताऽज्ञता ॥२७॥
अन्तर्भवेऽनन्त भवन्तमेव ह्यतत्त्यजन्तो मृगयन्ति सन्तः ।
असन्तमप्यन्त्यहिमन्तरेण सन्तं गुणं तं किमु यन्ति सन्तः ॥२८॥
अथापि ते देव पदाम्बुजद्वयप्रसादलेशानुगृहीत एव हि ।
जानाति तत्त्वं भगवन् महिम्नो न चान्य एकोऽपि चिरं विचिन्वन् ॥२९॥
तदस्तु मे नाथ स भूरिभागो भवेऽत्र वान्यत्र तु वा तिरश्चाम् ।
येनाहमेकोऽपि भवज्जनानां भूत्वा निषेवे तव पादपल्लवम् ॥३०॥
अहोऽतिधन्या व्रजगोरमण्यः स्तन्यामृतं पीतमतीव ते मुदा ।
यासां विभो वत्सतरात्मजात्मना यत्तृप्तयेऽद्यापि न चालमध्वराः ॥३१॥
अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् ।
यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥३२॥
एषां तु भाग्यमहिमाऽच्युत तावदास्ता-
मेकादशैव हि वयं बत भूरिभागाः ।
एतद्धृषीकचषकैरसकृत्पिबामः
शर्वादयोऽङ्घ्र्युदजमध्वमृतासवं ते ॥३३॥
तद्भूरिभाग्यमिह जन्म किमप्यटव्यां
यद्गोकुलेऽपि कतमाङ्घ्रिरजोऽभिषेकम् ।
यज्जीवितं तु निखिलं भगवान् मुकुन्द-
स्त्वद्यापि यत्पदरजः श्रुतिमृग्यमेव ॥३४॥
एषां घोषनिवासिनामुत भवान् किं देव रातेति नः
चेतो विश्वफलात्फलं त्वदपरं कुत्राप्ययन् मुह्यति ।
सद्वेषादिव पूतनाऽपि सकुला त्वामेव देवापिता
यद्धामार्थसुहृत्प्रियात्मतनयप्राणाशयास्त्वत्कृते ॥३५॥
तावद्रागादयः स्तेनास्तावत्कारागृहं गृहम् ।
तावन्मोहोऽङ्घ्रिनिगडो यावत्कृष्ण न ते जनाः ॥३६॥
प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले ।
प्रपन्नजनतानन्दसन्दोहं प्रथितुं प्रभो ॥३७॥
जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो ।
मनसो वपुषो वाचो वैभवं तव गोचरः ॥३८॥
अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्वदृक् ।
त्वमेव जगतां नाथो जगदेतत्तवार्पितम् ॥३९॥
श्रीकृष्ण वृष्णिकुलपुष्करजोषदायिन्
क्ष्मानिर्जरद्विजपशूदधिवृद्धिकारिन् ।
उद्धर्मशार्वरहर क्षितिराक्षसध्रुग्
आकल्पमार्कमर्हन् भगवन् नमस्ते ॥४०॥
॥ इति श्रीमद्भागवतमहापुराणे दशमस्कन्धे पूर्वार्धे चतुर्दशाध्यायान्तर्गतं ब्रह्मकृतं श्रीकृष्णस्तुतिः सम्पूर्णा ॥
पद्म पुराणोक्त अक्रूर कृत श्रीकृष्ण स्तुति
जब भगवान श्रीकृष्ण को लेकर अक्रूर जी मथुरा जा रहे थे तब मध्य में यमुना स्नान करते समय भगवान श्रीकृष्ण ने एक अद्भुद्लीला किया था और तब अक्रूर ने भगवान श्री कृष्ण की स्तुति किया था जो अनेकों पुराणों में वर्णित है। इसमें से पद्म पुराणोक्त अक्रूर कृत श्रीकृष्ण स्तुति का विशेष महत्व है और स्नानकाल में इसके पाठ का विशेष महत्व है।
दृष्ट्वा तस्मिन् जले देवं विस्मयं परमं ययौ ।
तुष्टावाथ यदुश्रेष्ठो हरिं सर्वगमीश्वरम् ॥
अक्रूर उवाच
कालात्मने नमस्तुभ्यमनादिनिधनाय च ।
अव्यक्ताय नमस्तुभ्यमविकाराय ते नमः ॥
भूतभर्त्रे नमस्तुभ्यं भूतव्याघ्र नमो नमः ।
नमस्ते सर्वभूतानां नियन्त्रे परमात्मने ॥
विकारायाविकाराय प्रत्यक्षपुरुषाय च ।
गुणभर्त्रे नमस्तुभ्यं नियमाय नमो नमः ॥
देशकालादिनिर्भेदरहिताय परात्मने ।
अनन्ताय नमस्तुभ्यमच्युताय नमो नमः ॥
गोविन्दाय नमस्तुभ्यं त्रयीनाथाय शार्ङ्गिणे ।
नारायणाय विश्वाय वासुदेवाय ते नमः ॥
विष्णवे पुरुरूपाय शाश्वताय नमो नमः ।
पद्मनेत्राय नित्याय शङ्खचक्रधराय च ॥
उद्यत्कोटिरविप्रख्य भूषणाञ्चितवर्चसे ।
हरये सर्वलोकानामीश्वराय नमो नमः ॥
सवित्रे सर्वजगतां बीजाय परमात्मने ।
सङ्कर्षणाय कृष्णाय प्रद्युम्नाय नमो नमः ॥
अनिरुद्धाय धात्रे च विधात्रे विश्वयोनये ।
सहस्रमूर्त्तये तुभ्यं बहुमूर्द्धाङ्घ्रिबाहवे ॥
सहस्रनाम्ने नित्याय पुरुषाय नमो नमः ।
नमस्ते नागपर्यङ्कशायिने सौम्यरूपिणे ॥
केशवाय नमस्तुभ्यं पीतवस्त्रधराय च ।
लक्ष्मीघनकुचाश्लेषविमर्दोज्ज्वलवर्चसे ।
श्रीधराय नमस्तुभ्यं श्रीशायानन्तरूपिणे ॥
ईश्वर उवाच
स्नानकाले पठेद्यस्तु देवं ध्यायन्सनातनम् ।
इमं स्तवं नरो भक्त्या महद्भिर्मुच्यते ह्यघैः ॥
सर्वतीर्थफलं प्राप्य विष्णुसायुज्यमाप्नुयात् ।
एवमन्तर्जले देवं स्तुत्वा भागवतोत्तमः ॥
अर्चयामास स जलैः कुसुमैश्च सुगन्धिभिः ।
कृतकृत्यस्तदाक्रूरो निर्गत्य यमुनाजलात् ॥
॥ इति श्रीपद्मपुराणे उत्तरखण्डे पञ्चचत्वारिंशाधिकद्विशततमाध्यायान्तर्गतं अक्रूरकृता श्रीकृष्णस्तुतिः सम्पूर्णा ॥
पद्म पुराणोक्त इन्द्र कृत श्रीकृष्ण स्तुति
ततः शतक्रतुर्देवः समेत्य मधुसूदनम् ।
तुष्टाव प्राञ्जलिर्भूत्वा हर्षगद्गदया गिरा ॥
इन्द्र उवाच
नमस्ते पुण्डरीकाक्ष सर्वज्ञाति त्रिविक्रम ।
त्रिगुणातीत सर्वेश विश्वस्यात्मन्नमोऽस्तु ते ॥
त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः क्रतुर्हविः ।
त्वमेव सर्वदेवानां पिता माता च केशव ॥
अग्रे हिरण्यगर्भस्त्वं भूतस्य समवर्त्तत ।
त्वमेवैकः पतिरसि पुरुषस्त्वं हिरण्मयः ॥
पृथिवीं द्यामिमां देव त्वमेव धृतवानसि ।
आत्मदः फलदो यश्च स्यादेवं जगदीश्वर ॥
अवाप्तं तच्च त्रिदशैः प्रकाशं जगताम्पतेः ।
अमृतं चैव मृत्युश्च छाया तव सनातन ॥
तस्मै देवाय भवते विधेम हविषा वयम् ।
हेमवन्त इमे यस्य समुद्भूता हिरण्मयाः ॥
समुद्रा रसना यस्य वाहस्तस्यैव केशव ।
इमा दिशः प्रतिदिशो वायुर्यस्य तवाव्यय ॥
तस्मै देवाय भवते विधेम हविषा वयम् ।
येन त्वया समारूढा पृथिवी वर्द्धता पुनः ॥
स्वर्लोकः स्तम्भितो येन त्वया ब्रह्मन्महेश्वर ।
त्वमन्तरिक्षे रजसो वसानः सर्वगोऽव्ययः ॥
तस्मै देवाय भवते विधेम हविषा वयम् ।
यं क्रन्दसि राजमाने तप्तभासे गुणान्विते ॥
अभ्यैक्षेतां च मनसा अवश्यं श्रीश्च सर्वदा ।
यत्रास्ति सूर उदितो विभाति परमे पदे ॥
तस्मै देवाय भवते विधेम हविषा वयम् ।
यदापो बृहतीर्विश्व ब्रह्ममायं जनार्दनाः ॥
गर्भं दधानाः सर्गेऽत्र जनयन्तीरघौघकृत् ।
समवर्तत देवानामसुरेकोऽव्ययो विभुः ॥
तस्मै देवाय भवते विधेम हविषा वयम् ।
या आपो महिना दक्षं पर्यपश्यत्प्रजापतिम् ॥
यज्ञं दधानास्तत्रादौ जनयन्तीर्हविः पुमान् ।
यो देवेष्वेक एवासीदधिदेवः परात्परः ॥
तस्मै देवाय भवते विधेम हविषा वयम् ।
मा नो हिंसीज्जनिता यः पृथिव्या अव्ययः पुमान् ॥
यो वा दिवं सत्यधर्मा जजानाव्यय ईश्वरः ।
यश्चन्द्रो बृहतीरपो जजान सकलं जगत् ॥
तस्मै देवाय भवते विधेम हविषा वयम् ।
एतानि विश्वजातानि बभूव परिता प्रभो ॥
त्वदुत्पन्नप्रजाध्यक्ष भविष्यद्भूतमच्युतः ।
यजामस्त्वां च यत्कामास्तन्नो अस्तु समासतः ॥
त्रयाणां पतयः स्याम तव कारुण्यवीक्षणात् ।
हिरण्मयाख्यः पुरुषो हिरण्यश्मश्रुकेशवान् ॥
आप्रणखात्सर्वं हिरण्यं सविता तु हिरण्यभाक् ।
असौ सर्वगतो ब्रह्मा यस्त्वादित्ये व्यवस्थितः ॥
तद्वै देवस्य सवितुर्वरेण्यं भर्ग उत्तमम् ।
सदा धीमहि ते रूपं धियो यो नः प्रभाति हि ॥
नमस्ते पुण्डरीकाक्ष श्रीश सर्वेश केशव ।
वेदान्तवेद्य यज्ञेश यज्ञरूप नमोऽस्तु ते ॥
नमस्ते वासुदेवाय गोपवेषाय ते नमः ।
तत्सर्वध्वंसनादेव अपराधं मया कृतम् ॥
॥ इति इन्द्रकृता श्रीकृष्णस्तुतिः सम्पूर्णा ॥
गर्गसंहितोक्त दुर्वासा कृत श्रीकृष्ण स्तुति
दुर्वासामुनिरुवाच
बालं नवीनशतपत्रविशालनेत्रं बिम्बाधरं सजलमेघरुचिं मनोज्ञम् ।
मन्दस्मितं मधुरसुन्दरमन्दयानं श्रीनन्दनन्दनमहं मनसा नमामि ॥१॥
मञ्जीरनूपुररणन्नवरत्नकाञ्ची श्रीहारकेसरिनखप्रतियन्त्रसङ्घम् ।
दृष्ट्याऽऽर्तिहारिमषिबिन्दुविराजमानं वन्दे कलिन्दतनुजातटबालकेलिम् ॥२॥
पूर्णेन्दुसुन्दरमुखोपरि कुञ्चिताग्राः केशा नवीनघननीलनिभाः स्फुरन्ति ।
राजन्त आनतशिरःकुमुदस्य यस्य नन्दात्मजाय सबलाय नमो नमस्ते ॥३॥
श्रीनन्दनन्दनस्तोत्रं प्रातरुत्थाय यः पठेत् ।
तन्नेत्रगोचरो याति सानन्दं नन्दनन्दनः ॥४॥
॥ इति गर्गसंहितायां गोलोकखण्डे विंशाध्यायान्तर्गता दुर्वससा कृता श्रीकृष्णस्तुतिः सम्पूर्णा ॥
गर्गसंहितोक्त देव कृत श्रीकृष्ण स्तुति
देवा ऊचुः
कृष्णाय पूर्णपुरुषाय परात्पराय यज्ञेश्वराय परकारणकारणाय ।
राधावराय परिपूर्णतमाय साक्षाद्गोलोकधामधिषणाय नमः परस्मै ॥१॥
योगेश्वराः किल वदन्ति महः परं त्वां
तत्रैव सात्वतमनाः कृतविग्रहं च ।
अस्माभिरद्य विदितं यददोऽद्वयं ते
तस्मै नमोऽस्तु महसां पतये परस्मै ॥२॥
व्यङ्ग्येन वा न न हि लक्षणया कदापि
स्फोटेन यच्च कवयो न विशन्ति मुख्याः ।
निर्देश्यभावरहितः प्रकृतेः परं च
त्वां ब्रह्म निर्गुणमलं शरणं व्रजामः ॥३॥
त्वां ब्रह्म केचिदवयन्ति परे च कालं
केचित्प्रशान्तमपरे भुवि कर्मरूपम् ।
पूर्वे च योगमपरे किल कर्तृभाव-
मन्योक्तिभिर्न विदितं शरणं गताः स्मः ॥४॥
श्रेयस्करीं भगवतस्तवपादसेवां
हित्वाथ तीर्थयजनादि तपश्चरन्ति ।
ज्ञानेन ये च विदिता बहुविघ्नसङ्घैः
सन्ताडिता किमु भवन्ति न ते कृतार्थाः ॥५॥
विज्ञाप्यमद्य किमु देव अशेषसाक्षी
यः सर्वभूतहृदयेषु विराजमानः ।
देवैर्नमद्भिरमलाशयमुक्तदेहै-
स्तस्मै नमो भगवते पुरुषोत्तमाय ॥६॥
यो राधिकाहृदयसुन्दरचन्द्रहारः
श्रीगोपिकानयनजीवनमूलहारः ।
गोलोकधामधिषणध्वज आदिदेवः
स त्वं विपत्सु विबुधान् परिपाहि पाहि ॥७॥
वृन्दावनेश गिरिराजपते व्रजेश
गोपालवेषकृत नित्यविहारलील ।
राधापते श्रुतिधराधिपते धरां त्वं
गोवर्द्धनोद्धरण उद्धर धर्मधाराम् ॥८॥
॥ इति गर्गसंहितायां गोलोकख्ण्डे तृतीयाध्यायान्तर्गता गोलोके देवानां श्रीकृष्णस्तुतिः समाप्ता ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।