क्या आप भगवान श्री कृष्ण के अनेकों स्तोत्र ढूंढ रहे हैं ? यदि आप भगवान श्री कृष्ण के अनेकों पुराणों में वर्णित स्तोत्र एक साथ अवलोकन करना चाहते हैं तो यहां आपको एक साथ ही अनेकों श्री कृष्ण स्तोत्र (shri krishna stotra) मिलेंगे; यथा : विष्णुधर्मोक्त अर्जुन कृत कृष्ण स्तोत्र, कूर्म पुराणोक्त अदिति कृत कृष्ण स्तोत्र, ब्रह्मवैवर्त पुराणोक्त धर्म कृत कृष्ण स्तोत्र, ब्रह्म पुराणोक्त अक्रूर कृत कृष्ण स्तोत्र, विष्णु पुराणोक्त कालिय कृत कृष्ण स्तोत्र, हरिवंश पुराणोक्त नारद कृत कृष्ण स्तोत्र, भविष्य पुराणोक्त मदालस कृत कृष्ण स्तोत्र।
यहां पढ़ें श्री कृष्ण स्तोत्र – shri krishna stotra
पुलस्त्य उवाच
एवमुक्तोऽर्जुनः सम्यक् प्रणिपत्य जनार्दनम् ।
तुष्टाव वाग्भिरिष्टाभिरुद्भूतपुलकस्ततः ॥१९॥
अर्जुन उवाच
नमोऽस्तु ते चक्रधरोग्ररूप नमोऽस्तु ते शार्ङ्गधरारुणाक्ष ।
नमोऽस्तु तेऽभ्युद्यतखड्ग रौद्र नमोऽस्तु विभ्रान्तगदान्तकारिन् ॥२०॥
भयेन सन्नोऽस्मि सवेपथेन नाङ्गानि मे देव वशं प्रयान्ति ।
वाचः समुच्चारयतः स्खलन्ति केशा हृषीकेश समुच्छ्वसन्ति ॥२१॥
कालो भवान्कालकरालकर्मा येनैतदेवं क्षयमक्षयात्मन् ।
क्षत्रं समुद्भूतरुषा समस्तं नीतं भुवो भारविरेचनाय ॥२२॥
प्रसीद कर्तर्जय लोकनाथ प्रसीद सर्वस्य च पालनाय ।
स्थितौ समस्तस्य च कालरूप कृतोद्यमेशान जयाव्ययात्मन् ॥२३॥
न मे दृगेषा तव रूपमेतद्द्रष्टुं समर्था क्षुभितोऽस्मि चान्तः ।
पूर्वस्वभावस्थितविग्रहोऽपि संलक्ष्यसेऽत्यन्तमसौम्यरूप ॥२४॥
स्मरामि रूपं तव विश्वरूपं यद्दर्शितं पूर्वमभून्ममैव ।
यस्मिन्मया विश्वमशेषमासीद्दृष्टं सयक्षोरगदेवदैत्यम् ॥२५॥
सा मे स्मृतिर्दर्शनभाषणादि प्रकुर्वतो नाथ गता प्रणाशम् ।
कालोऽहमस्मीत्युदिते त्वया तु समागतेयं पुनरप्यनन्त ॥२६॥
कर्ता भवान्कारणमप्यशेषं कार्यं च निष्कारण कर्तृरूप ।
आदौ स्थितौ संहरणे च देव विश्वस्य विश्वं स्वयमेव च त्वम् ॥२७॥
ब्रह्मा भवान्विश्वसृगादिकाले विश्वस्य रूपोऽसि तथा विसृष्टौ ।
विष्णुः स्थितौ पालनबद्धकक्षो रुद्रो भवान्संहरणे प्रजानाम् ॥२८॥
एभिस्त्रिभिर्नाथ विभूतिभेदैर्यश्चिन्त्यते कारणमात्मनोऽपि ।
वेदान्तवेदोदितमस्ति विष्णोः पदं ध्रुवं तत्परमं त्वमेव ॥२९॥
यन्निर्गुणं सर्वविकल्पहीनमनन्तमस्थूलमरूपगन्धम् ।
परं पदं वेदविदो वदन्ति त्वमेव तच्छब्दरसादिहीनम् ॥३०॥
यथा हि मूले विटपी महाद्रुमः प्रतिष्टितस्कन्धवरोग्रशाखः ।
तथा समस्तामरमर्त्यतिर्यग्व्योमादिशब्दादिमयं त्वयीदम् ॥३१॥
मुञ्चामि यावत्परमायुधानि वैरिष्वनन्ताहवदुर्मदेषु ।
दृष्ट्वा हि तावत्सहसा पतन्तो नूनं तवैवाच्युत स प्रभावः ॥३२॥
हता हतास्ते भवतो दृशैव मया पुनः केशव शस्त्रपूगैः ।
काः कर्णभीष्मप्रमुखान्विजेतुं युष्मत्प्रसादेन विना समर्थः ॥३३॥
त्रिशूलपाणिर्मम यः पुरस्तान्निषूदयन्वैरिबलं जगाम ।
ज्ञातं मया साम्प्रतमेतदीश तव प्रसादस्य हि सा विभूतिः ॥३४॥
यमेन्द्रवित्तेशजलेशवह्निसूर्यात्मको यश्च ममास्त्रपूगः ।
नाशाय नाभूत्पतितोऽपि काये त्वत्सन्निधानस्य हि सोऽनुभावः ॥३५॥
बाल्ये भवान्यानि चकार देव कर्माण्यसह्यानि सुरासुराणाम् ।
तैरेव जानीम न यत्परं त्वां दोषः स निर्दोषमनुष्यतायाः ॥३६॥
तालोच्छ्रिताग्रं गुरुभारसारमायामविस्तारवदद्य जातः ।
पादाग्रविक्षेपविभिन्नभाण्डं चिक्षेप कोऽन्यः शकटं यथा त्वम् ॥३७॥
अन्येन केनाच्युत पूतनायाः प्राणैः समं पीतमसृग्विमिश्रम् ।
त्वया यथा स्तन्यमतीव बाल्ये गोष्ठे च भग्नौ यमलार्जुनौ तौ ॥३८॥
विषानलोष्णाम्बुनिपातभीममास्फोट्य को वा भुवि मानुषोऽन्यः ।
ननर्त पादाब्जनिपीडितस्य फणं समारुह्य च कालियस्य ॥३९॥
सुरेशसन्देशविरोधवत्सु वर्षत्सु मेघेषु गवान्निमित्तम् ।
दिनानि सप्तास्ति च कस्य शक्तिर्गोवर्धनं धारयितुं करेण ॥४०॥
प्रलम्बचाणूरमुखान्निहत्य कंसासुरं यस्य बिभेति शक्रः ।
तमष्टवर्षो निजघान कोऽन्यो निरायोधो नाथ मनुष्यजन्मा ॥४१॥
बाणार्थमभ्युद्यतमुग्रशूलं निर्जित्य सङ्ख्ये त्रिपुरारिमेकः ।
सकार्त्तिकेयज्वरमस्त्रबाहुं करोति को बाणमनच्युतोऽन्यः ॥४२॥
कः पारिजातं सुरसुन्दरीणां सदोपभोग्यं विजितेन्द्रसैन्यः ।
स्वर्गान्महीमुच्छ्रितवीर्यधैर्यः समानयामास यथा प्रभो त्वम् ॥४३॥
हत्वा हयग्रीवमुदारवीर्यं निशुम्भशुम्भौ नरकं च कोऽन्यः ।
जग्राह कन्यापुरमात्मनोऽर्थं प्राग्ज्योतिषाख्ये नगरे महात्मन् ॥४४॥
स्थितौ स्थितस्त्वं परिपासि विश्वं तैस्तैरुपायैरविनीतभीतैः ।
मैत्री न येषां विनयाय तांस्तान्सर्वान्भवान्संहरतेऽव्ययात्मन् ॥४५॥
हिताय तेषां कपिलादिरूपिणा त्वयानुशस्ता बहवोऽनुजीवाः ।
येषां न मैत्री हृदि ते न नेया विश्वोपकारी वध एव तेषाम् ॥४६॥
इत्थं भवान्दुष्टवधेन नूनं विश्वोपकाराय विभो प्रवृत्तः ।
स्थितौ स्थितं पालनमेव विष्णुः करोति हन्त्यन्तगतोऽन्तरुद्रः ॥४७॥
एतानि चान्यानि च दुष्कराणि दृष्टानि कर्माणि तथापि सत्यम् ।
मन्यामहे त्वां जगतः प्रसूतिं किं कुर्म माया तव मोहनीयम् ॥४८॥
त्वं सर्वमेतत्त्वयि सर्वमेतत्त्वत्तस्तथैतत्तव चैतदीश ।
एतत्स्वरूपं तव सर्वभूतं विभूतिभेदैर्बहुभिः स्थितस्य ॥४९॥
प्रसीद कृष्णाच्युत वासुदेव जनार्दनानन्त नृसिंह विष्णो ।
मनुष्यसामान्यधिया यदीश दृष्टो मया तत्क्षमस्वादिदेव ॥५०॥
न वेद्मि सद्भावमहं तवाद्य सद्भावभूतस्य चराचरस्य ।
यो वै भवान्कोऽपि नतोऽस्मि तस्मै मनुष्यरूपाय चतुर्भुजाय ॥५१॥
देवदेव जगन्नाथ सर्वपापहरो भव ।
हेतुमात्रस्त्वहं तत्र त्वयैतदुपसंहृतम् ॥५२॥
प्रसीदेश हृषीकेश अक्षौहिण्या दशाष्ट च ।
त्वया ग्रस्ता भुवो भूत्यै हेतुभूता हि मद्विधाः ॥५३॥
वयमन्ये च गोविन्द नराः क्रीडनकास्तव ।
मद्विधैः करणैर्देव करोषि स्थितिपालनम् ॥५४॥
यदत्र सदसद्वापि किञ्चिदुच्चारितं मया ।
भक्तिमानिति तत्सर्वं क्षन्तव्यं मम केशव ॥५५॥
॥ इति विष्णुधर्मेषु पञ्चत्रिंशोऽध्यायान्तर्गतं अर्जुनप्रोक्तं श्रीकृष्णस्तोत्रं सम्पूर्णम् ॥
कूर्म पुराणोक्त अदिति कृत कृष्ण स्तोत्र
अदितिरुवाच
जयाशेषदुःखौघनाशैकहेतो
जयानन्तमाहात्म्ययोगाभियुक्त ।
जयानादिमध्यान्तविज्ञानमूर्त्ते
जयाशेषकल्पामलानन्दरूप ॥१॥
नमो विष्णवे कालरूपाय तुभ्यं
नमो नारसिंहाय शेषाय तुभ्यम् ।
नमः कालरुद्राय संहारकर्त्रे
नमो वासुदेवाय तुभ्यं नमस्ते ॥२॥
नमो विश्वमायाविधानाय तुभ्यं
नमो योगगम्याय सत्याय तुभ्यम् ।
नमो धर्मविज्ञाननिष्ठाय तुभ्यं
नमस्ते वराहाय भूयो नमस्ते ॥३॥
नमस्ते सहस्रार्कचन्द्राभमूर्त्ते
नमो वेदविज्ञानधर्माभिगम्य ।
नमो देवदेवादिदेवाय तुभ्यं
प्रभो विश्वयोनेऽथ भूयो नमस्ते ॥४॥
नमः शम्भवे सत्यनिष्ठाय तुभ्यं
नमो हेतवे विश्वरूपाय तुभ्यम् ।
नमो योगपीठान्तरस्थाय तुभ्यं
शिवायैकरूपाय भूयो नमस्ते ॥५॥
एवं स भगवान् कृष्णो देवमात्रा जगन्मयः ।
तोषितश्छन्दयामास वरेण प्रहसन्निव ॥६॥
॥ इति कूर्मपुराणे पूर्वभागे सप्तदशाध्यायान्तर्गतं अदितिकृतं कृष्णस्तोत्रं सम्पूर्णम् ॥
ब्रह्मवैवर्त पुराणोक्त धर्म कृत कृष्ण स्तोत्र
श्रीधर्म उवाच
कृष्णं विष्णुं वासुदेवं परमात्मानमीश्वरम् ।
गोविन्दं पर्मानन्दमेकमक्षरमच्युतम् ॥१॥
गोपेश्वरं च गोपीशं गोपं गोरक्षकं विभुम् ।
गवामीशं च गोष्ठस्थं गोवत्सपुच्छधारिण्म् ॥२॥
गोगोपगोपीमध्यस्थं प्रधानं पुरुषोत्तमम् ।
वन्देऽनवद्धमनघं श्यामं शान्तं मनोहरम् ॥३॥
इत्युच्चार्य समुत्तिष्ठन् रत्नसिंहासने वरे ।
ब्रह्मविष्णुमहेशांस्तान्संभाष्य स उवास ह ॥४॥
चतुर्विशतिनामानि धर्मवक्त्रोद्गतानि च ।
यः पठेत्प्रातरुत्थाय स सुखी सर्वतो जयी ॥५॥
मृत्युकाले हरेनमि तस्य साध्यं भवेद्ध्रुवम् ।
स यात्यन्ते हरेः स्थानं हरिदास्यं भवेद्ध्रुवम् ॥६॥
नित्यं धर्मस्तं घटते नाधर्मे तद्रतिर्भवेत् ।
चतुर्वर्गफलं तस्य शश्वत्करगतं भवेत् ॥७॥
तं दृष्ट्वा सर्वपापानि पलायन्ते भयेन च ।
भयानि चैव दुःखानि वैनतेयमिवोरेगाः ॥८॥
॥ इति ब्रह्मावैवर्ते धर्मकृतं श्रीकृष्णस्तोत्रम् सम्पूर्णम् ॥
ब्रह्म पुराणोक्त अक्रूर कृत कृष्ण स्तोत्र
अक्रूर उवाच
तन्मात्ररूपिणेऽचिन्त्यमहिम्ने परमात्मने ।
व्यापिने नैकरूपैकस्वरूपाय नमो नमः ॥
शब्दरूपाय तेऽचिन्त्यहविर्भूताय ते नमः ।
नमो विज्ञानरूपाय पराय प्रकृतेः प्रभो ॥
भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् ।
आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः ॥
प्रसीद सर्वधर्मात्मन् क्षराक्षर महेश्वर ।
ब्रह्मविष्णुशिवाद्याभिः कल्पनाभिरुदीरितः ॥
अनाख्येयस्वरूपात्मन्ननाख्येयप्रयोजन ।
अनाख्येयाभिधान त्वां नतोऽस्मि परमेश्वरम् ॥
न यत्र नाथ विद्यन्ते नामजात्यादिकल्पनाः ।
तद्ब्रह्म परमं नित्यमविकारि भवानजः ॥
न कल्पनामृतेऽर्थस्य सर्वस्याधिगमो यतः ।
ततः कृष्णाच्युतानन्त विष्णुसंज्ञाभिरीड्यसे ॥
सर्वात्मंस्त्वमज विकल्पनाभिरेतै-
र्देवास्त्वं जगदखिलं त्वमेव विश्वम् ।
विश्वात्मंस्त्वमतिविकारभेदहीनः
सर्वस्मिन्न हि भवतोऽस्ति किञ्चिदन्यत् ॥
त्वं ब्रह्मा पशुपतिरर्यमा विधाता
त्वं धाता त्रिदशपतिः समीरणोऽग्निः ।
तोयेशो धनपतिरन्तकस्त्वमेको
भिन्नात्मा जगदपि पासि शक्तिभेदैः ॥
विश्वं भवान्सृजति हन्ति गभस्तिरूपो
विश्वं च ते गुणमयोऽयमज प्रपञ्चः ।
रूपं परं सदितिवाचकमक्षरं य-
ज्ज्ञानात्मने सदसते प्रणतोऽस्मि तस्मै ॥
ॐ नमो वासुदेवाय नमःसङ्कर्षणाय च ।
प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥
॥ इति ब्रह्मपुराणे द्विनवत्यधिकशततमाध्यायान्तर्गतं अक्रूरकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ॥
विष्णु पुराणोक्त कालिय कृत कृष्ण स्तोत्र
कालिय उवाच
यस्माद्ब्रह्मा च रुद्रश्व चन्द्रेन्द्रमरुतोऽश्विनौ ।
वसवश्व सहादित्यैस्तस्य स्तोष्यामि किं न्वहम् ॥
एकावयवसूक्ष्मांशो यस्यैतदखिलं जगत् ।
कल्पनावयवस्त्वेष तं स्तोष्यामि कथं न्वहम् ॥
सदसद्रूपिणो यस्य ब्रह्माद्यास्त्रिदशोत्तमाः ।
परमार्थं न जानन्ति तस्य स्तोष्यामि किं न्वहम ॥
ब्रह्माद्यैरर्च्यते दिव्यैर्यश्च पुष्पानुलेपनैः ।
नन्दनादिसमुद्भूतैः सोऽर्च्यते वा कथं मया ॥
यस्यावताररूपाणि देवराजः सदार्चति ।
न वेत्ति परमं रूपं सोऽर्च्च्यते वा कथं मया ॥
विषयेभ्यः समावृत्य सर्वाक्षाणि च योगिनः ।
समर्चयति ध्यानेन सोऽर्च्च्यते वा कथं मया ॥
हृदि सङ्कल्प्य यद्रूपं ध्यानेनार्चन्ति योगिनः ।
भावपुष्पादिना नाथ! सोऽर्च्च्यते वा कथं मया ॥
सोऽहं ते देवदेवेश! नार्चनायां स्तुतौ न च ।
सामर्थ्यवान् कृपामात्र-मनोवृत्तिः प्रसीद मे ॥
सर्पजातिरियं क्रूरा यस्यां जातोऽस्मि केशव ।
तत्स्वभावोऽयमत्रास्ति नापराधो ममाच्युत ॥
सृज्यते भवता सर्वं तथा संह्रियते जगत् ।
जाति-रूपृ-स्वभावाश्च सृज्यन्ते सृजता त्वया ॥
यथाहं भवता सृष्टो जात्या रूपेण चेश्वर ।
स्वभावेन च संयुक्तस्तथेदं चेष्टितं मया ॥
यदन्यथा प्रवर्त्तेयं देवदेव ! ततो मयि ।
न्याय्यो दण्डनिपातो वै तवैव वचनं यथा ॥
तथापि यज्जगत्स्वामी दण्डं पातितवान् मयि ।
स श्लाघ्योऽयं वरं दण्डस्त्वत्तो नान्यत्र मे वरः ॥
हतवीर्यो हतविषो दमितोऽहं त्वयाच्युत ।
जीवितं दीयतामेकमाज्ञापय करोमि किम् ॥
श्रीकृष्ण उवाच
नात्र स्थेयं त्वया सर्प! कदाचिद्यमुनाजले ।
सभृत्यपरिवारस्त्वं समुद्रसलिलं व्रज ॥
॥ इति विष्णुपुराणे पञ्चमभागे सप्तमाध्यायान्तर्गतं कालियकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ॥
हरिवंश पुराणोक्त नारद कृत कृष्ण स्तोत्र
नारद उवाच
नमः कृष्णाय हरये वेधसे भूतधारिणे ।
देवदेव जगन्नाथ नमस्ते चक्रधारिणे ॥१॥
नमस्ते नरसिंहाय दैत्यवक्षःप्रदारिणे ।
नमस्ते सकलेशाय निर्गुणाय गुणात्मने ॥२॥
नमो वामनरूपाय मायालोकविहारिणे ।
नमस्ते क्रोडरूपाय दंष्ट्रया क्षितिधारणे ॥३॥
नमोऽश्वशिरसे तुभ्यं वेदाहरणरूपिणे ।
त्रिविक्रम नमस्तुभ्यं त्रयीरूप जनार्दन ॥४॥
नम ओंकारमात्राय त्रयीरूपाय विष्णवे ।
निर्मलज्ञानरूपाय विज्ञाननिलयाय च ॥५॥
उद्गीथाय नमस्तुभ्यं रथंतर नमोऽस्तु ते ।
यं विदुर्वेदतत्त्वज्ञा ब्रह्माद्याः सनकादायः ॥६॥
विचिन्वन्तः प्रदीपेन विज्ञानाख्येन केशव ।
सोऽसि देव जगन्नाथ यो दृष्टो ब्रह्मवादिभिः ॥७॥
यं प्राप्य न निवर्तन्ते योगिनो यतचेतसः ।
सोऽसि देव पुराणात्मंस्तुभ्यं देव नमो नमः ॥८॥
त्वामहुः सकला वेदा ब्रह्मेति ज्ञाननिश्चये ।
त्वमेवेदं जगत्सर्वं त्वयि सर्वं प्रतिष्ठितम् ॥९॥
त्वन्मायापटलच्छन्नाः प्राणिनः सर्व एव हि ।
अहं मानकृता भ्रष्ट्राः पतन्ति नरकेषु च ॥१०॥
ये च त्वां विष्णुरित्याहुस्ते च त्वां यान्ति यत्नतः ।
ये तु ज्ञानसहा मर्त्या वेदान्तज्ञानबृंहिताः ॥११॥
ते तु त्वां देवदेवेश प्रविशन्ति पुरातनम् ।
तवैषा भगवन्माया यामश्रित्य जगन्मयीम् ॥१२॥
प्राणिनो निःश्वसन्ति स्म दुःसहा सा हि नित्यशः ।
विहारः सर्व एवैष प्राणिनामुदयाय हि ॥१३॥
पूर्वमासीज्जगन्नाथ वाराह इति संज्ञितः ।
अदधा भूतधात्रीं त्वं प्राणिनां च हिताय हि ॥१४॥
पुनरश्वशिरा भूत्वा वेदानाहृत्य तिष्ठसि ।
आसीर्वामनरूपस्त्वमबध्ना बलिमध्वरे ॥१५॥
आहृत्य राज्यं तस्मात्त्वमिन्द्राय प्राहिणोर्विभो ।
अभूस्त्वं नारसिंहश्च हतवान् दैत्यपुंगवम् ॥१६॥
रघोरथ जगन्नाथ वंशे वंशवतां वर ।
आसीश्च रामसंज्ञस्त्वं रावणं हतवान् विभो ॥१७॥
निष्कण्टकमिमं लोकमकरोर्देवसत्तम ।
अभूश्च जामदग्न्यस्त्वं गृहीत्वा परशुं प्रभो ॥१८॥
हतवांस्त्वं महावीर्यं कृतवीर्यसुतं रणे ।
निःक्षत्रियमिमं लोकमददाः काश्यपाय वै ॥१९॥
इदानीमपि गोविन्द लोकानां हितकाम्यया ।
मानुषं वपुरास्थाय द्वारवत्यां प्रतिष्ठसि ॥२०॥
हतवान् पूतनां बाल्ये गोकुले विहरन् प्रभो ।
अर्जुनौ हतवान् भूयो बद्धोलूखलसंपुटः ॥२१॥
पुनश्च क्रीडता विष्णो त्वयैव निहतो हयः ।
अदधास्त्वं पुनः शैलं गवां संरक्षणाय हि ॥२२॥
गोवर्धनं महाशैलं सर्वगोपस्य पश्यतः ।
ननर्त भगवान् भूयो यमुनाया ह्रदे हरे ॥२३॥
अकरोः कालियं विष्णो विमदं यमुनातटे ।
रङ्गमध्ये हतौ विष्णो त्वया चाणूरमुष्टिकौ ॥२४॥
दुःसहं लोकविद्विष्टं हतवान् कंसमोजसा ।
उग्रसेनोऽभिषिक्तश्च राज्ये निहतकण्टके ॥२५॥
स इदानीं स्थितो राज्ये त्वामाश्रित्येन्द्रवद्दिवि ।
किमनेन जगन्नाथ सर्वं त्वद्वशगं जगत् ॥२६॥
सर्वात्मन् सर्वभूतेश सर्वभावन भावन ।
नमस्ते देवदेवेश नमो भूयो नमो नमः ॥२७॥
॥ इति हरिवंशान्तर्गतं नारदकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ॥
भविष्य पुराणोक्त मदालस कृत कृष्ण स्तोत्र
मदनालस उवाच
नमस्ते दयासिन्धवे कृष्णदेव
त्वयेदं ततं विश्वमम्भोधिरूपम् ।
त्वयैकेन लीलार्थतो देवदेव
प्रियाराधया सार्द्धमेतद्धि गुप्तम् ॥
जगत्यन्तकाले त्वया कालमूर्त्या
जगत्संहृतं वै नमस्ते नमस्ते ।
मदीया च बुद्धिर्हृषीकेश शुद्धा
यथा स्यात्तथैवेश शीघ्रं कुरु त्वम् ॥
इति स्तोत्रप्रभावेन देवदेवेन मोचिता ।
कामपाशात्तस्य बुद्धिः स क्षत्री गृहमाययौ ॥
॥ इति भविष्यपुराणे प्रतिसर्गपर्वणि द्वितीयखण्डे चतुर्दशाध्यायान्तर्गतं मदालसकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।