भगवान श्री कृष्ण के भी कई कवच स्तोत्र हैं जो पुराणों में मिलते हैं और इनमें से एक विशेष महत्वपूर्ण कवच है महादेव द्वारा परशुराम जी को दिया गया श्री कृष्ण कवच (krishna kavach) जो ब्रह्मवैवर्त्त पुराण में वर्णित है। इस कवच स्तोत्र का एक नाम श्री कृष्ण त्रैलोक्य विजय कवच भी है। यहां श्री कृष्ण त्रैलोक्य विजय कवच तो दिया ही गया है इसके साथ ही एक अन्य कृष्ण कवच भी दिया गया है।
श्री कृष्ण त्रैलोक्य विजय कवच | श्री कृष्ण कवच – krishna kavach
नारद उवाच
भगवञ्छ्रोतुमिच्छामि किं मन्त्रं भगवान्हरः ।
कृपयाऽदात् परशुरामाय स्तोत्रं च वर्म च ॥१॥
कोवाऽस्य मन्त्रस्याराध्यः किं फलं कवचस्य च ।
स्तवनस्य फलं किं वा तद्भवान्वक्तुमर्हसि ॥२॥
नारायण उवाच
मन्त्राराध्यो हि भगवान् परिपूर्णतमः स्वयम् ।
गोलोकनाथः श्रीकृष्णो गोप-गोपीश्वरः प्रभुः ॥३॥
त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ।
स्तवराजं महापुण्यं भूतियोग-समुद्भवम् ॥४॥
मन्त्रं कल्पतरुं नाम सर्वकाम-फलप्रदम् ।
ददौ परशुरामाय रत्नपर्वत-सन्निधौ ॥५॥
स्वयंप्रभा नदीतीरे पारिजात-वनान्तरे ।
आश्रमे लोकदेवस्य माधवस्य च सन्निधौ ॥६॥
महादेव उवाच
वत्सागच्छ महाभाग भृगुवंश-समुद्भव ।
पुत्राधिकोऽसि प्रेम्णा मे कवचग्रहणं कुरु ॥७॥
शृणु राम प्रवक्ष्यामि ब्रह्माण्डे परमाद्भुतम् ।
त्रैलोक्यविजयं नाम श्रीकृष्णस्य जयावहम् ॥८॥
श्रीकृष्णेन पुरा दत्तं गोलोके राधिकाश्रमे ।
रासमण्डल-मध्ये च मह्यं वृन्दावने वने ॥९॥
अतिगुह्यतरं तत्त्वं सर्व-मन्त्रौघविग्रहम् ।
पुण्यात्पुण्यतरं चैव परं स्नेहाद्वदामि ते ॥१०॥
यद्धृत्वा पठनाद्देवी मूलप्रकृतिरीश्वरी ।
शुंभं निशुंभं महिषं रक्तबीजं जघान ह ॥११॥
यद्धृत्वाऽहं च जगतां संहर्ता सर्वतत्ववित् ।
अवध्यं त्रिपुरं पूर्वं दुरन्तमपि लीलया ॥१२॥
यद्धृत्वा पठनाद्ब्रह्मा ससृजे सृष्टिमुत्तमाम् ।
यद्धृत्वा भगवाञ्छेषो विधत्ते विश्वमेव च ॥१३॥
यद्धृत्वा कूर्मराजश्च शेषं धत्ते हि लीलया ।
यद्धृत्वा भगवान्वायुः विश्वाधारो विभुः स्वयम् ॥१४॥
यद्धृत्वा वरुणः सिद्धः कुबेरश्च धनेश्वरः ।
यद्धृत्वा पठनादिन्द्रो देवानामधिपः स्वयम् ॥१५॥
यद्धृत्वा भाति भुवने तेजोराशिः स्वयं रविः ।
यद्धृत्वा पठनाच्चन्द्रो महाबल-पराक्रमः ॥१६॥
अगस्त्यः सागरान्सप्त यद्धृत्वा पठनात्पपौ ।
चकार तेजसा जीर्णं दैत्यं वातापिसंज्ञकम् ॥१७॥
यद्धृत्वा पठनाद्देवी सर्वाधारा वसुन्धरा ।
यद्धृत्वा पठनात्पूता गङ्गा भुवनपावनी ॥१८॥
यद्धृत्वा जगतां साक्षी धर्मो धर्मभृतां वरः ।
सर्व-विद्याधिदेवी सा यच्च धृत्वा सरस्वती ॥१९॥
यद्धृत्वा जगतां लक्ष्मी-रन्नदात्री परात्परा ।
यद्धृत्वा पठनाद्वेदान् सावित्री सा सुषाव च ॥२०॥
वेदाश्च धर्मवक्तारो यद्धृत्वा पठनाद् भृगो ।
यद्धृत्वा पठनाच्छुद्धस्तेजस्वी हव्यवाहनः ।
सनत्कुमारो भगवान्यद्धृत्वा ज्ञानिनां वरः ॥२१॥
दातव्यं कृष्ण-भक्ताय साधवे च महात्मने ।
शठाय परशिष्याय दत्वा मृत्युमवाप्नुयात् ॥२२॥
त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः ।
ॠषिश्छन्दश्च गायत्री देवो रासेश्वरः स्वयम् ॥२३॥
त्रैलोक्यविजय-प्राप्तौ विनियोगः प्रकीर्तितः ।
परात्परं च कवचं त्रिषु लोकेषु दुर्लभम् ॥२४॥
ॐ प्रणवो मे शिरः पातु श्रीकृष्णाय नमः सदा ।
पायात्कपालं कृष्णाय स्वाहा पञ्चाक्षरः स्मृतः ॥२५॥
कृष्णेति पातु नेत्रे च कृष्ण स्वाहेति तारकम् ।
हरये नम इत्येवं भ्रूलतां पातु मे सदा ॥२६॥
ॐ गोविन्दाय स्वाहेति नासिकां पातु सन्ततम् ।
गोपालाय नमो गण्डौ पातु मे सर्वतः सदा ॥२७॥
ॐ नमो गोपाङ्गनेशाय कर्णौ पातु सदा मम ।
ॐ कृष्णाय नमः शश्वत्पातु मेऽधर-युग्मकम् ॥२८॥
ॐ गोविन्दाय स्वाहेति दन्तौघं मे सदाऽवतु ।
पातु कृष्णाय दन्ताधो दन्तोर्ध्वं क्लीं सदाऽवतु ॥२९॥
ॐ श्रीकृष्णाय स्वाहेति जिह्विकां पातु मे सदा ।
रासेश्वराय स्वाहेति तालुकं पातु मे सदा ॥३०॥
राधिकेशाय स्वाहेति कण्ठं पातु सदा मम ।
नमो गोपाङ्गनेशाय वक्षः पातु सदा मम ॥३१॥
ॐ गोपेशाय स्वाहेति स्कन्धं पातु सदा मम ।
नमः किशोर-वेषाय स्वाहा पृष्टं सदाऽवतु ॥३२॥
उदरं पातु मे नित्यं मुकुन्दाय नमः सदा ।
ॐ ह्रीं क्लीं कृष्णाय स्वाहेति करौ पातु सदा मम ॥३३॥
ॐ विष्णवे नमो बाहुयुग्मं पातु सदा मम ।
ॐ ह्रीं भगवते स्वाहा नखं पातु मे सदा ॥३४॥
ॐ नमो नारायणायेति नखरन्ध्रं सदाऽवतु ।
ॐ श्रीं क्लीं पद्मनाभाय नाभिं पातु सदा मम ॥३५॥
ॐ सर्वेशाय स्वाहेति कङ्कालं पातु मे सदा ।
ॐ गोपीरमणाय स्वाह नितम्बं पातु मे सदा ॥३६॥
ॐ गोपीरमणनाथाय पादौ पातु सदा मम ।
ॐ ह्रीं श्रीं रसिकेशाय स्वाहा सर्वं सदाऽवतु ॥३७॥
ॐ केशवाय स्वाहेति मम केशान्सदाऽवतु ।
नमः कृष्णाय स्वाहेति ब्रह्मरन्ध्रं सदाऽवतु ॥३८॥
ॐ माधवाय स्वाहेति मे लोमानि सदाऽवतु ।
ॐ ह्रीं श्रीं रसिकेशाय स्वाहा सर्वं सदाऽवतु ॥३९॥
परिपूर्णतमः कृष्णः प्राच्यां मां सर्वदाऽवतु ।
स्वयं गोलोकनाथो मामाग्नेयां दिशि रक्षतु ॥४०॥
पूर्णब्रह्मस्वरूपश्च दक्षिणे मां सदाऽवतु ।
नैरॄत्यां पातु मां कृष्णः पश्चिमे पातु मां हरिः ॥४१॥
गोविन्दः पातु मां शश्वद्वायव्यां दिशि नित्यशः ।
उत्तरे मां सदा पातु रसिकानां शिरोमणिः ॥४२॥
ऐशान्यां मां सदा पातु वृन्दावन-विहारकृत् ।
वृन्दावनी-प्राणनाथः पातु मामूर्ध्वदेशतः ॥४३॥
सदैव माधवः पातु बलिहारी महाबलः ।
जले स्थले चान्तरिक्षे नृसिंहः पातु मां सदा ॥४४॥
स्वप्ने जागरणे शश्वत्पातु मां माधवः सदा ।
सर्वान्तरात्मा निर्लिप्तः पातु मां सर्वतो विभुः ॥४५॥
इति ते कथितं वत्स सर्वमन्त्रौघ विग्रहम् ।
त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ॥४६॥
मया श्रुतं कृष्णवक्त्रात् प्रवक्तव्यं न कस्यचित् ।
गुरुमभ्यर्च्य विधिवत् कवचं धारयेत् यः ॥४७॥
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ।
स च भक्तो वसेद्यत्र लक्ष्मीर्वाणी वसेत्ततः ॥४८॥
यदि स्यात्सिद्धकवचो जीवन्मुक्तो भवेत्तु सः ।
निश्चितं कोटिवर्षाणां पूजायाः फलमाप्नुयात् ॥४९॥
राजसूय-सहस्राणि वाजपेय-शतानि च ।
अश्वमेधायुतान्येव नरमेधायुतानि च ॥५०॥
महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा ।
त्रैलोक्यविजयस्यास्य कलां नार्हन्ति षोडशीम् ॥५१॥
व्रतोपवास-नियमं स्वाध्यायाध्ययनं तपः ।
स्नानं च सर्वतीर्थेषु नास्यार्हन्ति कलामपि ॥५२॥
सिद्धत्वममरत्वं च दासत्वं श्रीहरेरपि ।
यदि स्यात्सिद्धकवचः सर्वं प्राप्नोति निश्चितम् ॥५३॥
स भवेत्सिद्धकवचो दशलक्षं जपेत्तु यः ।
यो भवेत्सिद्धकवचः सर्वज्ञः स भवेद्ध्रुवम् ॥५४॥
इदं कवचमज्ञात्वा भजेत्कृष्णं सुमन्दधीः ।
कोटिकल्पं प्रजप्तोऽपि न मन्त्रः सिद्धि-दायकः ॥५५॥
गृहीत्वा कवचं वत्स महीं निःक्षत्रियं कुरु ।
त्रिस्सप्तकृत्वो निश्शंकः सदानन्दो हि लीलया ॥५६॥
राज्यं देयं शिरो देयं प्रणा देयाश्च पुत्रक ।
एवंभूतं च कवचं न देयं प्राणसंकटे ॥५७॥
॥ इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारद-नारायणसंवादे परशुरामाय श्रीकृष्णकवच-प्रदानं नाम एकत्रिंशत्तमोऽध्ययः ॥
कृष्ण कवच – krishna kavach
प्रणम्य देवं विप्रेशं प्रणम्य च सरस्वतीम् ।
प्रणम्य च मुनीन् सर्वान् सर्वशास्त्रविशारदान् ॥१॥
श्रीकृष्णकवचं वक्ष्ये श्रीकीर्तिविजयप्रदम् ।
कान्तारे पथि दुर्गे च सदा रक्षाकरं नृणाम् ॥२॥
स्मृत्वा नीलाम्बुदश्यामं नीलकुञ्चितकुन्तलम् ।
बर्हिपिञ्छलसन्मौलिं शरच्चन्द्रनिभाननम् ॥३॥
राजीवलोचनं राजद्वेणुना भूषिताधरम् ।
दीर्घपीनमहाबाहुं श्रीवत्साङ्कितवक्षसम् ॥४॥
भूभारहरणोद्युक्तं कृष्णं गीर्वाणवन्दितम् ।
निष्कलं देवदेवेशं नारदादिभिरर्चितम् ॥५॥
नारायणं जगन्नाथं मन्दस्मितविराजितम् ।
जपेदेवमिमं भक्त्या मन्त्रं सर्वार्थसिद्धये ॥६॥
सर्वदोषहरं पुण्यं सकलव्याधिनाशनम् ।
वसुदेवसुतः पातु मूर्धानं मम सरर्वदा ॥७॥
ललाटं देवकीसूनुः भ्रूयुग्मं नन्दनन्दनः ।
नयनौ पूतनाहन्ता नासां शकटमर्द्दनः ॥८॥
यमलार्जुनहृत्कर्णौकि कपोलौ नगमर्द्दनः ।
दन्तान् गोपालकः पोतु जिह्वां हय्यङ्गवीनभुक् ॥९॥
ओष्ठं धेनुकजित्पायादधरं केशिनाशनः ।
चिबुकं पातु गोविन्दो बलदेवानुजो मुखम् ॥१०॥
अक्रूरसहितः कण्ठं कक्षौ दन्तिवरान्तकः ।
भुजौ चाणूरहारिर्मे करौ कंसनिषूदनः ॥११॥
वक्षो लक्ष्मीपतिः पातु हृदयं जगदीश्वरः ।
उदरं मधुरानाथो नाभिं द्वारवतीपतिः ॥१२॥
रुग्मिणीवल्लभः पृष्ठं जघनं शिशुपालहा ।
ऊरू पाण्डवदूतो मे जानुनी पार्थसारथिः ॥१३॥
विश्वरूपधरो जङ्घे प्रपदे भूमिभारहृत् ।
चरणौ यादवः पातु पातु विघ्नोऽखिलं वपुः ॥१४॥
दिवा पायाज्जगन्नाथो रात्रौ नारायणः स्वयम् ।
सरर्वकालमुपासीरिस्सर्वकामार्थसिद्धये ॥१५॥
इदं कृष्णबलोपेतं यः पठेत् कवचं नरः ।
सर्वदाऽऽर्तिभयान्मुक्तः कृष्णभक्तिं समाप्नुयात् ॥१६॥
॥ इति श्रीकृष्णकवचं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।