यहां दक्षिणामूर्तिसंहितोक्त मातंगी हृदय स्तोत्र (matangi hridaya stotra) संस्कृत में दिया गया है।
यहां पढ़ें मां मातंगी हृदय स्तोत्र संस्कृत में – matangi hridaya stotra
एकदा कौतुकाविष्टा भैरवं भूतसेवितम् ।
भैरवी परिपप्रच्छ सर्वभूतहिते रता ॥१॥
श्रीभैरव्युवाच
भगवन्सर्वधर्मज्ञ भूतवात्सल्यभावन ।
अहं तु वेत्तुमिच्छामि सर्वभूतोपकारम् ॥२॥
केन मन्त्रेण जप्तेन स्तोत्रेण पठितेन च ।
सर्वथा श्रेयसां प्राप्तिर्भूतानां भूतिमिच्छताम् ॥३॥
श्रीभैरव उवाच
शृणु देवि तव स्नेहात्प्रायो गोप्यमपि प्रिये ।
कथयिष्यामि तत्सर्वं सुखसम्पत्करं शुभम् ॥४॥
पठतां शृण्वतां नित्यं सर्वसम्पत्तिदायकम् ।
विद्यैश्वर्यसुखावाप्तिमङ्गलप्रदमुत्तमम् ॥५॥
मातंग्या हृदयं स्तोत्र दुःखदारिद्र्यभञ्जनम् ।
मङ्गलं मङ्गलानां च ह्यस्ति सर्वसुखप्रदम् ॥६॥
विनियोग : ॐ अस्य श्रीमातङ्गीहृदयस्तोत्रमन्त्रस्य दक्षिणामूर्तिरृषिः । विराट् छन्दः । मातङ्गी देवता । ह्रीं बीजम् । हूं शक्तिः । क्लीं कीलकम् । सर्ववाञ्छितार्थसिद्धये पाठे विनियोगः ॥
॥ ऋष्यादिन्यासः ॥
दक्षिणामूर्तिऋषये नमः शिरसि ॥
विराट्छन्दसे नमः मुखे ॥
मातङ्गीदेवतायै नमः हृदि ॥
ह्रीं बीजाय नमः गुह्ये ॥
हूं शक्तये नमः पादयोः ॥
क्लीं कीलकाय नमः नाभौ ॥
विनियोगाय नमः सर्वाङ्गे ॥
॥ इति ऋष्यादिन्यासः ॥
॥ हृदयादिषडङ्गन्यासः ॥
ॐ ह्रीं हृदयाय नमः ॥
ॐ क्लीं शिरसे स्वाहा ॥
ॐ हूं शिखायै वषट् ॥
ॐ ह्रीं नेत्रत्रयाय वौषट् ॥
ॐ क्लीं कवचाय हुम् ॥
ॐ हूं अस्त्राय फट् ॥
॥ इति हृदयादिषडङ्गन्यासः ॥
॥ करन्यासः ॥
ॐ ह्रीं अङ्गुष्ठाभ्यां नमः ॥
ॐ क्लीं तर्जनीभ्यां नमः ॥
ॐ हूं मध्यमाभ्यां नमः ॥
ॐ ह्रीं अनामिकाभ्यां नमः ॥
ॐ क्लीं कनिष्ठिकाभ्यां नमः ॥
ॐ हूं करतलकरपृष्ठाभ्यां नमः ॥
॥ इति करन्यासः ॥
॥ अथ ध्यानम् ॥
ॐ श्यामां शुभ्रांशुभालां त्रिकमलनयनां रत्नसिंहासनस्थां
भक्ताभीष्टप्रदात्रीं सुरनिकरकरासेव्यकञ्जांघ्रियुग्माम् ।
नीलाम्भोजांशुकान्तिं निशिचरनिकरारण्यदावाग्निरूपां
पाशं खड्गं चतुर्भिर्वरकमलकरैः खेटकं चाङ्कुशं च
(मातङ्गीमावहन्तीमभिमतफलदां मोदिनीं चिन्तयामि ) ॥७॥
॥ इति ध्यानम् ॥
नमस्ते मातंग्यै मृदुमुदिततन्वै तनुमतां
परश्रेयोदायै कमलचरणध्यानमनसाम् ।
सदा संसेव्यायै सदसि विबुधैर्दिव्यधिषणै-
र्दयार्द्रायै देव्यै दुरितदलनोद्दण्डमनसे ॥८॥
परं मातस्ते यो जपति मनुमव्यग्रहृदयः
कवित्वं कल्पानां कलयति सुकल्पः प्रतिपदम् ।
अपि प्रायो रम्यामृतमयपदा तस्य ललिता
नटींमन्या वाणी नटति रसनायां चपलिता ॥९॥
तव ध्यायन्तो ये वपुरनुजपन्ति प्रवलितं
सदा मन्त्रं मातर्नहि भवति तेषां परिभवः ।
कदम्बानां मालाः शिरसि तव युञ्जन्ति सदये
भवन्ति प्रायस्ते युवतिजनयूथस्ववशगाः ॥१०॥
सरोजैः साहस्रैः सरसिजपदद्वन्द्वमपि ये
सहस्रं नामोक्त्वा तदपि तव ङेऽन्तं मनुमितम् ।
पृथङ्नाम्नां तेनायुतकलितमर्चन्ति खलु ते
सदा देवव्रातप्रणमितपदाम्भोजयुगलाः ॥११॥
तव प्रीत्यै मातर्द्ददति बलिमाधाय बलिना
समत्स्यं मांसं वा सुरुचिरसितं राजरुचितम् ।
सुपुण्या ये स्वान्तस्तवचरणमोदैकरसिका
अहो भाग्यं तेषां त्रिभुवनमलं वश्यमखिलम् ॥१२॥
लसल्लोलश्रोत्राभरणकिरणक्रान्तिकलितं
मितस्मित्यापन्नप्रतिभितममन्नं विकरितम् ।
मुखाम्भोजं मातस्तव परिलुठद्भ्रूमधुकरं
रमा ये ध्यायन्ति त्यजति न हि तेषां सुभवनम् ॥१३॥
परः श्रीमातंग्या जयति हृदयाख्यः सुमनसाम्-
अयं सेव्यः सुद्योऽभिमतफलदश्वातिललितः ।
नरा ये शृण्वन्ति स्तवमपि पठन्तीममनिशं
न तेषां दुःप्राप्यं जगति यदलभ्यं दिविषदाम् ॥१४॥
धनार्थी धनमाप्नोति दारार्थी सुन्दरीं प्रियाम् ।
सुतार्थी लभते पुत्रं स्तवस्यास्य प्रकीर्त्तनात् ॥१५॥
विद्यार्थी लभते विद्यां विविधां विभवप्रदाम् ।
जयार्थी पठनादस्य जयं प्राप्नोति निश्चितम् ॥१६॥
नष्टराज्यो लभेद्राज्यं सर्वसम्पत्समाश्रितम् ।
कुबेरसमसम्पत्तिः स भवेधृदयं पठन् ॥१७॥
किमत्र बहुनोक्तेन यद्यदिच्छति मानवः ।
मातङ्गी हृदयस्तोत्रपाठात्तत्सर्वमाप्नुयात् ॥१८॥
॥ इति श्रीदक्षिणामूर्तिसंहितायां श्रीमातङ्गीहृदयस्तोत्रं समाप्तम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।