माता मातंगी का वर्ण श्याम है और चंद्रमा को मस्तक पर धारण किए हुए हैं। यह वाग्देवी हैं इनकी चार भुजाएं हैं, मां मातंगी वैदिकों की सरस्वती है। पलास और मल्लिका पुष्पों से युक्त बेलपत्रों की पूजा करने से व्यक्ति के अंदर आकर्षण और स्तंभन शक्ति का विकास होता है। देवी मातंगी को उच्छिष्टचांडालिनी या महापिशाचिनी भी कहा जाता है। मातंगी के विभिन्न प्रकार के भेद हैं उच्छिष्टमातंगी, राजमांतगी, सुमुखी, वैश्यमातंगी, कर्णमातंगी आदि। यहां रुद्रयामलोक्त मातंगी कवच सहित दो अन्य मातंगी कवच (matangi kavach) भी संस्कृत में दिया गया है।
यहां पढ़ें मां मातंगी कवच स्तोत्र संस्कृत में – matangi kavach
श्रीदेव्युवाच
साधु साधु महादेव कथयस्व सुरेश्वर ।
मातङ्गीकवचन्दिव्यं सर्वसिद्धिकरन्नृणाम् ॥१॥
श्री ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि मातङ्गीकवचं शुभम् ।
गोपनीयं महादेवि मौनी जापं समाचरेत् ॥२॥
अस्य श्रीमातङ्गीकवचस्य दक्षिणामूर्तिरृषिर्विराट्
छन्दो मातङ्गी देवता चतुर्वर्गसिद्धये विनियोगः ॥
ॐ शिरो मातङ्गिनी पातु भुवनेशी तु चक्षुषी ।
तोडला कर्णयुगलन्त्रिपुरा वदनं मम ॥३॥
पातु कण्ठे महामाया हृदि माहेश्वरी तथा ।
त्रिपुष्पा पार्श्वयोः पातु गुदे कामेश्वरी मम ॥४॥
ऊरुद्वये तथा चण्डी जङ्घयोश्च हरप्रिया ।
महामाया पादयुग्मे सर्वाङ्गेषु कुलेश्वरी ॥५॥
अङ्गम्प्रत्यङ्गकञ्चैव सदा रक्षतु वैष्णवी ।
ब्रह्मरन्ध्रे सदा रक्षेन्मातङ्गी नाम संस्थिता ॥६॥
ललाटे रक्षयेन्नित्यं महापिशाचिनीति च ।
नेत्राभ्यां सुमुखी रक्षेद्देवी रक्षतु नासिकाम् ॥७॥
महापिशाचिनी पायान्मुखे रक्षतु सर्वदा ।
लज्जा रक्षतु मान्दन्ते चोष्ठौ संमार्जनीकरी ॥८॥
चिबुके कण्ठदेशे तु चकारत्रितयम्पुनः ।
सविसर्गं महादेवी हृदयम्पातु सर्वदा ॥९॥
नाभिं रक्षतु मा लोला कालिकावतु लोचने ।
उदरे पातु चामुण्डा लिङ्गे कात्यायनी तथा ॥१०॥
उग्रतारा गुदे पातु पादौ रक्षतु चाम्बिका ।
भुजौ रक्षतु शर्वाणी हृदयञ्चण्डभूषणा ॥११॥
जिह्वायां मातृका रक्षेत्पूर्वे रक्षतु पुष्टिका ।
विजया दक्षिणे पातु मेधा रक्षतु वारुणे ॥१२॥
नैर्ऋत्यां सुदया रक्षेद्वायव्याम्पातु लक्ष्मणा ।
ऐशान्यां रक्षयेद्देवी मातङ्गी शुभकारिणी ॥१३॥
रक्षेत्सुरेशा चाग्नेये बगला पातु चोत्तरे ।
ऊर्द्ध्वम्पातु महादेवी देवानां हितकारिणी ॥१४॥
पाताले पातु मा नित्यँ वशिनी विश्वरूपिणी ।
प्रणवञ्च तता माया कामबीजञ्च कूर्च्चकम् ॥१५॥
मातङ्गिनी ङेयुतास्त्रँ वह्निजायावधिर्मनुः ।
सार्द्धैकादशवर्णा सा सर्वत्र पातु मां सदा ॥१६॥
इति ते कथितन्देवि गुह्याद्गुह्यतरम्परम् ।
त्रैलोक्यमङ्गलन्नाम कवचन्देवदुर्लभम् ॥१७॥
य इदम्प्रपठेन्नित्यञ्जायते सम्पदालयम् ।
परमैश्वर्यमतुलम्प्राप्नुयान्नात्र संशयः ॥१८॥
गुरुमभ्यर्च्च्य विधिवत्कवचम्प्रपठेद्यदि ।
ऐश्वर्यं सुकवित्वञ्च वाक्सिद्धिँ लभते ध्रुवम् ॥१९॥
नित्यन्तस्य तु मातङ्गी महिला मङ्गलञ्चरेत् ।
ब्रह्मा विष्णुश्च रुद्रश्च ये देवाः सुरसत्तमाः ॥२०॥
ब्रह्मराक्षसवेताला ग्रहाद्या भूतजातयः ।
तन्दृष्ट्वा साधकन्देवि लज्जायुक्ता भवन्ति ते ॥२१॥
कवचन्धारयेद्यस्तु सर्वसिद्धिँलभेद्ध्रुवम् ।
राजानोऽपि च दासत्वं षट्कर्माणि च साधयेत् ॥२२॥
सिद्धो भवति सर्वत्र किमन्यैर्बहु भाषितैः ।
इदं कवचमज्ञात्वा मातङ्गीँ यो भजेन्नरः ॥२३॥
अल्पायुर्निर्द्धनो मूर्खो भवत्येव न संशयः ।
गुरौ भक्तिः सदा कार्या कवचे च दृढा मतिः ॥२४॥
तस्मै मातङ्गिनी देवी सर्वसिद्धिम्प्रयच्छति ॥२५॥
॥ इति नन्द्यावर्ते उत्तरखण्डे त्वरितफलदायिनी मातङ्गिनीकवचं सम्पूर्णम् ॥
मातंगी कवच ~ 2
विनियोग : अस्य श्रीमातङ्गीकवचमन्त्रस्य महायोगीश्वरऋषिः अनुष्टुप् छन्दः श्रीराजमातङ्गीश्वरी श्रीमनङ्गीप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
नीलोत्पलप्रतीकाशामञ्जनाद्रिसमप्रभाम् ।
वीणाहस्तां गानरतां मधुपात्रं च बिभ्रतीम् ॥१॥
सर्वालङ्कारसंयुक्तां श्यामलां मदशालिनीम् ।
नमामि राजमातङ्गीं भक्तानामिष्टदायिनीम् ॥२॥
एवं ध्यात्वा जपेन्नित्यं कवचं सर्वकामदम् ।
शिखां मे श्यामला पातु मातङ्गी मे शिरोऽवतु ॥३॥
ललाटं पातु चण्डाली भ्रुवौ मे मदशालिनी ।
कर्णौ मे पातु मातङ्गी शङ्खौ कुण्डलशोभिता ॥४॥
नेत्रे मे पातु रक्ताक्षी नासिकां पातु मे शिवा ।
गण्डौ मे पातु देवेशी ओष्ठौ बिम्बफलाधरा ॥५॥
जिह्वां मे पातु वागीशी दन्तान् कल्याणकारिणी ।
पातु मे राजमातङ्गी वदनं सर्वसिद्धिदा ॥६॥
कण्ठं मे पातु हृद्याङ्गी वीणाहस्ता करौ मम ।
हृदयं पातु मे लक्ष्मीर्नाभिं मे विशवनायिका ॥७॥
मम पार्श्वद्वयं पातु सूक्ष्ममध्या महेश्वरी ।
शुकश्यामा कटिं पातु गुह्यं मे लोकमोहिनी ॥८॥
ऊरू मे पातु भद्राङ्गी जानुनी पातु शाङ्करी ।
जङ्घाद्वयं मे लोकेशी पादौ मे परमेश्वरी ॥९॥
प्रागादिदिक्षु मां पातु सर्वैश्वर्यप्रदायिनी ।
रोमाणि पातु मे कृष्णा भार्यां मे भववल्लभा ॥१०॥
शङ्करी सर्वतः पातु मम सर्ववशङ्करी ।
महालक्ष्मीर्मम धनं विश्वमाता सुतान् मम ॥११॥
श्रीमातङ्गीश्वरी नित्यं मां पातु जगदीश्वरी ।
मातङ्गी कवचं नित्यं य एतत्प्रपठेन्नरः ॥१२॥
सुखित्वं सकलान् लोकान् दासीभूतान्करोत्यसौ ।
प्राप्नोति महतीं कान्तिं भवेत्काम शतप्रभः ॥१३॥
लभते महतीं लक्ष्मीं त्रैलोक्ये चापि दुर्लभाम् ।
अणिमाद्यष्टसिद्धं यं सञ्चरत्येष मानवः ॥१४॥
सर्वविद्यानिधिरयं भवेद्वागीश्वरेश्वरः ।
ब्रह्मराक्षसवेतालभूतप्रेत पिशाचकैः ॥१५॥
ज्वलन्वह्निरिव शस्यैर्वेश्यते भूतपूर्वकैः ।
परमं योगमाप्नोति दिव्यज्ञानं समश्नुते ॥१६॥
पुत्रान् पौत्रानवाप्नोति श्रीर्विद्याकान्ति संयुतान् ।
तद्भार्या दुर्भगा चापि कान्त्या रतिसमाभवेत् ॥१७॥
सर्वान् कामानवाप्नोति महाभोगांश्च दुर्लभान् ।
भुक्तिमन्ते समाप्नोति साक्षात्परशिवो भवेत् ॥१८॥
॥ इति श्री महाऽऽगमरहस्ये दत्तात्रेय वामदेव संवादे सप्तमपरिच्छेदे श्रीमातङ्गी कवचं सम्पूर्णम् ॥
रुद्रयामलोक्त मातंगी कवच ~ 3
श्रीपार्वत्युवाच
देवदेव महादेव सृष्टिसंहारकारक ।
मातङ्ग्याः कवचं ब्रूहि यदि स्नेहोऽस्ति ते मयि ॥१॥
शिव उवाच
अत्यन्तगोपनं गुह्यं कवचं सर्वकामदम् ।
तव प्रीत्या मयाऽऽख्यातं नान्येषु कथ्यते शुभे ॥२॥
शपथं कुरु मे देवि यदि किञ्चित्प्रकाशसे ।
अनया सदृशी विद्या न भूता न भविष्यति ॥३॥
शवासनां रक्तवस्त्रां युवतीं सर्वसिद्धिदाम् ।
एवं ध्यात्वा महादेवीं पठेत्कवचमुत्तमम् ॥४॥
उच्छिष्टं रक्षतु शिरः शिखां चण्डालिनी ततः ।
सुमुखी कवचं रक्षेद्देवी रक्षतु चक्षुषी ॥५॥
महापिशाचिनी पायान्नासिकां ह्रीं सदाऽवतु ।
ठः पातु कण्ठदेशं मे ठः पातु हृदयं तथा ॥६॥
ठो भुजौ बाहुमूले च सदा रक्षतु चण्डिका ।
ऐं च रक्षतु पादौ मे सौः कुक्षिं सर्वतः शिवा ॥७॥
ऐं ह्रीं कटिदेशं च आं ह्रीं सन्धिषु सर्वदा ।
ज्येष्ठमातङ्ग्यङ्गुलिर्मे अङ्गुल्यग्रे नमामि च ॥८॥
उच्छिष्टचाण्डालि मां पातु त्रैलोक्यस्य वशङ्करी ।
शिवे स्वाहा शरीरं मे सर्वसौभाग्यदायिनी ॥९॥
उच्छिष्टचाण्डालि मातङ्गि सर्ववशङ्करि नमः ।
स्वाहा स्तनद्वयं पातु सर्वशत्रुविनाशिनी ॥१०॥
अत्यन्तगोपनं देवि देवैरपि सुदुर्लभम् ।
भ्रष्टेभ्यः साधकेभ्योऽपि द्रष्टव्यं न कदाचन ॥११॥
दत्तेन सिद्धिहानिः स्यात्सर्वथा न प्रकाश्यताम् ।
उच्छिष्टेन बलिं दत्वा शनौ वा मङ्गले निशि ॥१२॥
रजस्वलाभगं स्पृष्ट्वा जपेन्मन्त्रं च साधकः ।
रजस्वलाया वस्त्रेण होमं कुर्यात्सदा सुधीः ॥१३॥
सिद्धविद्या इतो नास्ति नियमो नास्ति कश्चन ।
अष्टसहस्रं जपेन्मन्त्रं दशांशं हवनादिकम् ॥१४॥
भूर्जपत्रे लिखित्वा च रक्तसूत्रेण वेष्टयेत् ।
प्राणप्रतिष्ठामन्त्रेण जीवन्यासं समाचरेत् ॥१५॥
स्वर्णमध्ये तु संस्थाप्य धारयेद्दक्षिणे करे ।
सर्वसिद्धिर्भवेत्तस्य अचिरात्पुत्रवान्भवेत् ॥१६॥
स्त्रीभिर्वामकरे धार्यं बहुपुत्रा भवेत्तदा ।
वन्द्या वा काकवन्द्या वा मृतवत्सा च साङ्गना ॥१७॥
जीवद्वत्सा भवेत्सापि समृद्धिर्भवति ध्रुवम् ।
शक्तिपूजां सदा कुर्याच्छिवाबलिं प्रदापयेत् ॥१८॥
इदं कवचमज्ञात्वा मातङ्गी यो जपेत्सदा ।
तस्य सिद्धिर्न भवति पुरश्चरणलक्षतः ॥१९॥
॥ इति श्रीरुद्रयामले तन्त्रे मातङ्गीसुमुखीकवचं समाप्तम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।