यहां रुद्रयामलोक्त श्रीमातङ्गी शतनाम स्तोत्र एवं कालीविलासतन्त्रोक्त श्रीमातङ्गी शतनाम स्तोत्र दोनों मातंगी शतनाम स्तोत्र (matangi shatanama stotram) संस्कृत में दिया गया है।
यहां पढ़ें मां मातंगी शतनाम स्तोत्र संस्कृत में – matangi shatanama stotram
श्रीभैरव्युवाच
भगवञ्छ्रोतुमिच्छामि मातङ्ग्याः शतनामकम् ।
यद्गुह्यं सर्वतन्त्रेषु केनापि न प्रकाशितम् ॥१॥
भैरव उवाच
शृणु देवि प्रवक्ष्यामि रहस्यातिरहस्यकम् ।
नाख्येयं यत्र कुत्रापि पठनीयं परात्परम् ॥२॥
यस्यैकवारपठनात्सर्वे विघ्ना उपद्रवाः ।
नश्यन्ति तत्क्षणाद्देवि वह्निना तूलराशिवत् ॥३॥
प्रसन्ना जायते देवी मातङ्गी चास्य पाठतः ।
सहस्रनामपठने यत्फलं परिकीर्तितम् ।
तत्कोटिगुणितं देवीनामाष्टशतकं शुभम् ॥४॥
विनियोग : अस्य श्रीमातङ्गीशतनामस्तोत्रस्य भगवान्मतङ्ग ऋषिः अनुष्टुप् छन्दः मातङ्गी देवता मातङ्गीप्रीतये जपे विनियोगः ॥
ॐ महामत्तमातङ्गिनी सिद्धिरूपा तथा योगिनी भद्रकाली रमा च ।
भवानी भवप्रीतिदा भूतियुक्ता भवाराधिता भूतिसम्पत्करी च ॥१॥
धनाधीशमाता धनागारदृष्टिर्धनेशार्चिता धीरवापीवराङ्गी ।
प्रकृष्टप्रभारूपिणी कामरूपप्रहृष्टा महाकीर्तिदा कर्णनाली ॥२॥
कराली भगा घोररूपा भगाङ्गी भगाह्वा भगप्रीतिदा भीमरूपा ।
भवानी महाकौशिकी कोशपूर्णा किशोरीकिशोरप्रियानन्द ईहा ॥३॥
महाकारणाकारणा कर्मशीला कपालिप्रसिद्धा महासिद्खण्डा ।
मकारप्रिया मानरूपा महेशी महोल्लासिनीलास्यलीलालयाङ्गी ॥४॥
क्षमाक्षेमशीला क्षपाकारिणी चाक्षयप्रीतिदा भूतियुक्ता भवानी ।
भवाराधिता भूतिसत्यात्मिका च प्रभोद्भासिता भानुभास्वत्करा च ॥५॥
धराधीशमाता धरागारदृष्टिर्धरेशार्चिता धीवराधीवराङ्गी ।
प्रकृष्टप्रभारूपिणी प्राणरूपप्रकृष्टस्वरूपा स्वरूपप्रिया च ॥६॥
चलत्कुण्डला कामिनी कान्तयुक्ता कपालाचला कालकोद्धारिणी च ।
कदम्बप्रिया कोटरीकोटदेहा क्रमा कीर्तिदा कर्णरूपा च काक्ष्मीः ॥७॥
क्षमाङ्गी क्षयप्रेमरूपा क्षपा च क्षयाक्षा क्षयाह्वा क्षयप्रान्तरा च ।
क्षवत्कामिनी क्षारिणी क्षीरपूर्णा शिवाङ्गी च शाकम्भरी शाकदेहा ॥८॥
महाशाकयज्ञा फलप्राशका च शकाह्वा शकाह्वाशकाख्या शका च ।
शकाक्षान्तरोषा सुरोषा सुरेखा महाशेषयज्ञोपवीतप्रिया च ॥९॥
जयन्ती जया जाग्रतीयोग्यरूपा जयाङ्गा जपध्यानसन्तुष्टसंज्ञा ।
जयप्राणरूपा जयस्वर्णदेहा जयज्वालिनी यामिनी याम्यरूपा ॥१०॥
जगन्मातृरूपा जगद्रक्षणा च स्वधावौषडन्ता विलम्बाविलम्बा ।
षडङ्गा महालम्बरूपासिहस्ता पदाहारिणीहारिणी हारिणी च ॥११॥
महामङ्गला मङ्गलप्रेमकीर्तिर्निशुम्भच्छिदा शुम्भदर्पत्वहा च ।
तथाऽऽनन्दबीजादिमुक्तस्वरूपा तथा चण्डमुण्डापदामुख्यचण्डा ॥१२॥
प्रचण्डाप्रचण्डा महाचण्डवेगा चलच्चामरा चामराचन्द्रकीर्तिः ।
सुचामीकराचित्रभूषोज्ज्वलाङ्गी सुसङ्गीतगीता च पायादपायात् ॥१३॥
इति ते कथितं देवि नाम्नामष्टोत्तरं शतम् ।
गोप्यञ्च सर्वतन्त्रेषु गोपनीयञ्च सर्वदा ॥१४॥
एतस्य सतताभ्यासात्साक्षाद्देवो महेश्वरः ।
त्रिसन्ध्यञ्च महाभक्त्या पठनीयं सुखोदयम् ॥१५॥
न तस्य दुष्करं किञ्चिज्जायते स्पर्शतः क्षणात् ।
स्वकृतं यत्तदेवाप्तं तस्मादावर्तयेत्सदा ॥१६॥
सदैव सन्निधौ तस्य देवी वसति सादरम् ।
अयोगा ये तवैवाग्रे सुयोगाश्च भवन्ति वै ॥१७॥
त एवमित्रभूताश्च भवन्ति तत्प्रसादतः ।
विषाणि नोपसर्पन्ति व्याधयो न स्पृशन्ति तान् ॥१८॥
लूताविस्फोटकास्सर्वे शमं यान्ति च तत्क्षणात् ।
जरापलितनिर्मुक्तः कल्पजीवी भवेन्नरः ॥१९॥
अपि किं बहुनोक्तेन सान्निध्यं फलमाप्नुयात् ।
यावन्मया पुरा प्रोक्तं फलं साहस्रनामकम् ।
तत्सर्वं लभते मर्त्यो महामायाप्रसादतः ॥२०॥
॥ इति श्रीरुद्रयामले मातङ्गीशतनामस्तोत्रं सम्पूर्णम् ॥
कालीविलासतन्त्रोक्त श्रीमातङ्गी शतनाम स्तोत्र
श्रीतामस उवाच
मातङ्गी शतनामानीदानीं कलिमते शृणु ।
यस्य प्रसादा दीशोहं पार्वति प्राणवल्लभे ॥१॥
विनियोग : अस्य श्रीमातङ्गी शतनामस्तोत्रस्य श्री कृष्णऋषिर्गायत्रीच्छन्दः श्रीमातङ्गी देवता चतुर्वर्ग सिद्धये विनियोगः॥
ॐ माधवी मथुरा मत्ता माननीया मदोद्धता ।
मान्या च मानदात्री च मनीषा मानमोहिनी ॥२॥
मथुरा माधवी मध्या मानसी मनमोहिनी ।
माधुरा मानयोग्या च मत्तमातङ्गगामिनी ॥३॥
मेनका मानवी मेधा मदना मदनोत्तरा ।
मत्ता प्रमत्ता मदना मोदना मदनोद्धता ॥४॥
माननी मानयोग्या च मेखला मरमोहिनी ।
मनोरूपा उन्मनी च माषामेधामदोद्धता ॥५॥
निमेषा निर्निमेषा च मानगी मथुरा तथा ।
मदमत्ता महामत्ता मानदा मधुसूदनी ॥६॥
मतिर्माता महालक्ष्मीर्नित्या मदनपीडिता ।
मेघविद्युत्प्रभाकाशा मेघानन्दप्रवर्द्धिनी ॥७॥
मदना मदरूपा च मुनिगुह्या मुनिस्तुता ।
अर्थरूपा महामेधा माया मत्ता स्वरूपिणी ॥८॥
मुकुन्दपूजिता मौनी मौनव्रतपरायणा ।
मेधा मेधावती मध्या मदना मदनातुरा ॥९॥
मानुषी च मनोरूपा महामोहस्वरूपिणी ।
तरणी तरुणी तारा तारिणी तरलेक्षणा ॥१०॥
तुरोया च तथा तुथ्या तुल्या च तामसी तिथिः ।
तीर्थातीर्थ मयी तीर्थरूपिणी तामसान्तरा ॥११॥
तपस्या तापसी तापा तपना तुलना इति ।
गोलोकवासिनी गम्या गुणज्ञा गुणरूपिणी ॥१२॥
गौरी च गोपिनी गौरा गानागानस्वरूपिणी ।
गिरीशा गिरिशा गन्धा गगणा गगणेश्वरी ॥१३॥
ईकाररूपिणी नित्या ईश्वरी ईश्वरप्रिया ।
सङ्गृह्य इति ते देवि शतनाम इतीरितम् ॥१४॥
त्रिसन्ध्य यः पठेन्नित्यं तस्य सिद्धिर्न संशयः ॥१५॥
॥ इति श्रीकालीविलासतन्त्रे श्रीमातङ्गीशतनामस्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।