भाद्र शुक्ल अष्टमी से लेकर आश्विन कृष्ण अष्टमी तक 16 दिन महालक्ष्मी व्रत किया जाता है। महालक्ष्मी व्रत की पूजा विधि पूर्व आलेख में दी गयी थी। पूजा करने के बाद प्रतिदिन कथा भी श्रवण करनी चाहिये। कथा श्रवण के विषय में जो महत्वपूर्ण तथ्य है वो यह है कि हिन्दी आदि अन्य स्थानीय भाषाओं में भाव समझने के लिये तो सुना जा सकता है किन्तु फलदायकता हेतु संस्कृत में ही श्रवण करनी चाहिये। यहाँ भविष्योत्तरोक्त कथा संस्कृत में दी गयी है।
महालक्ष्मी व्रत कथा – Mahalaxmi Vrat Katha
युधिष्ठिर उवाच
स्वस्थानलाभपुत्रायुः सर्वैश्वर्यं सुखप्रदम् । व्रतमेकं समाचक्ष्व विचार्य पुरुषोत्तम ॥१॥
श्रीकृष्ण उवाच
दुर्वारवृत्तदैत्येन्द्र परिव्याप्तत्रिविष्टपे । एतदेव कृतस्यादौ देवेन्द्रः प्राह नारदम् ॥२॥
तस्य श्रुत्वा ततो वाक्यं स मुनिः प्रत्यभाषत । पुरन्दर पुरा रम्यं पुरमासीच्छुभान्वितम् ॥३॥
रत्नगर्भाऽभवद् भूमिर्यत्र रत्नाढ्य भूधराः । यत्राङ्गनार्थनापाङ्ग भङ्गलोचनसायकैः ॥४॥
त्रैलोक्यं स्ववशं चक्रे देवः कुसुमसायकः । चतुर्वेदध्वनिर्यत्र यच्च विश्वविभूषणम् ॥५॥
विश्वकर्मापि यद्वीक्ष्य कल्पयत्यनिशं शिरः । तत्राभवन्महीपालो मङ्गलो मङ्गलामयः ॥६॥
चिल्ला देवी प्रिया नस्य दुर्भगैका बभूव ह। अन्या तु चोलदेवी या महिषी सा यशस्विनी ॥७॥
कदाचिन् मङ्गलो राजा चोलदेवी सहायवान् । प्रासादशिखरारूढः स्थलीमेकां ददर्श सः ॥८॥
तामालोक्य महीपालः स्मेराननसरोरुहः । चोलदेवीं प्रति प्राह दन्तद्योतितदिङ्मुखः ॥९॥
चञ्चलाक्षि तवोद्यानं कान्तिनिन्दितचन्दनम् । कारयामि तदाष्टिस्तत्रोद्यानमकारयत् ॥१०॥
सम्पन्नं च तदुद्यानं नानाद्रुमलतान्वितम् । नानारक्षकसंयुक्तं नानाभित्तिसमावृतम् ॥११॥
तत्रागत्य महाकालस्तनुन्यस्तनभस्थलः । पङ्काप्लावितसर्वाङ्गश्चक्षुराक्षिप्तचञ्चलः ॥१२॥
दंष्ट्राविशिष्टश्चन्द्रार्कः प्रलयाम्भोधरध्वनिः । तद्भुनक्तीति विज्ञाय सहसोद्यानपालकाः ॥१३॥
सभयन्तस्य वृत्तान्तमूचिरे नृपतेः पुरः । तदाकर्ण्य ततो राजा क्रोधारुणितलोचनः ॥१४॥
वधाय दंष्ट्रिणस्तस्य सन्ददेशाखिलं बलम् । ततश्चचाल भूपालस्त्रिगण्डगलितैर्गजैः ॥१५॥
आप्लावयन् महीं सर्वां वाजिवृन्दैः समन्ततः । चालयन्नखिलान् शैलान् स्यन्दनौघमरुद्भवैः ॥१६॥
पदातिभिर्महोदारैः पूरयन्नखिला दिशः । ततो गाढं समावृत्य तदुद्यानं नरेश्वरः ॥१७॥
उवाचोच्चैरतिक्रुद्धो दिशो मुखरयन् दश । पथि यस्य वराहोऽयं प्रयात्युपवनान्तिकम् ॥१८॥
तस्यावश्यं शिरश्छेदं विदधामि रिपोरिव । तस्य भूपस्य तद्वाक्यं समाकर्ण्य स सूकरः ॥१९॥
जगामान्येन मार्गेण प्राणिनाञ्चेष्टितं यथा । ततः स सूकरासक्तः कशयाऽश्वं प्रताड्य च ॥२०॥
व्रीडाक्लडितः सार्द्धं मार्गेणास्यैव सोऽगमत् । गत्वाऽथ विपिनं घोरं सिंहशार्दूलसंकुलम् ॥२१॥
झिल्लीझङ्कारसंभार वाचालचलकुञ्जरम् । शल्येन सोऽवधीत् कोलं वज्रेणाद्रिं यथा हरिः ॥२२॥
अथ व्योम्नि विमानस्थः सुरसुन्दरविग्रहः । कोलरूपं परित्यज्य सोऽब्रवीन् मङ्गलं नृपम् ॥२३॥
स्वस्त्यस्तु ते महीपाल त्वया मुक्तिः कृता मम । ममाकर्णय वृत्तान्तं येनाहं जात ईदृशः ॥२४॥
एकदा देवतावृन्द संवृत्तः कमलासनः । चञ्चत्पटादिभिस्तालेः षड्जाद्यैः सप्तभिः स्वरैः ॥२५॥
मन्द्रादिभिस्त्रिभिर्मानैर्गीयमानं मया नृप । नानास्थानगुणोपेतमश्रौषीद्गीतमुत्तमम् ॥२६॥
गीयमानश्च्युतः तालात्ततोऽहं कर्मपातकी। शप्तश्चित्ररथस्तेन ब्रह्मणा लोककर्तृणा ॥२७॥
कोलो भव त्वं मेदिन्यां मुक्तिस्ते तु तदा भवेत् । निर्जिताखिलभूपालो मङ्गलस्त्वां हनिष्यत्ति ॥२८॥
तदद्य घटितं सर्वं त्वत्प्रसादान्महीपते । तद् गृहाण वरं भूप यद् देवस्यापि दुर्लभम् ॥२९॥
महालक्ष्मीव्रतं दिव्यं चतुर्वर्गफलप्रदम् । लभस्व सार्वभौमत्वं गच्छ राज्यं निजं द्रुतम् ॥३०॥
चित्ररथोऽथ गन्धर्वं उक्त्वेत्थं भूपतिं प्रति । अन्तर्द्धानं गतस्तुष्टः शरत्काल इवाम्बुदः ॥३१॥
अथ मङ्गलभूपालः पार्श्वस्थं द्विजमागतम् । विलोक्य बटुकं किञ्चित् कक्षानिक्षिप्तशम्बलम् ॥३२॥
उवाच मधुरां वाचं स्मितपूर्वां शुचिस्मिताम् । देवस्त्वं दानवस्त्वं वा गन्धर्वो वाऽथ राक्षसः ॥३३॥
तथ्यं वद बटो कस्मात् किमर्थं त्वमिहागतः । दत्त्वाशिषं ततो विप्रः प्राह त्वद्देशसंभवः ॥३४॥
अहं सार्द्धं त्वयाऽऽयातस्तदादिश यथोचितम । राजा च तमुवाचेदं त्वं बटो नूतनाह्वयः ॥३५॥
अपर्याणं विधायाश्वं पूर्णं तोयं च पायस । अथ विश्राम्य भूपालं बटुको बहुशस्तदा ॥३६॥
तथा कृत्वा तुरंगे च समारुह्य महामतिः । जगाम पक्षिघोषेण यत्रास्ते सुन्दरः सरः ॥३७॥
कमलैकविलासेन रथाङ्गाभरणेन च । वनमालालयत्वेन सरो नारायणीं तनुम् ॥३८॥
भग्नवायुशतोद्योगमक्षारं विषवर्जितम् । नाशिताऽगस्त्यतृष्णाति प्रसन्नं सागराधिकम् ॥३९॥
पङ्के मग्नश्च तत्राऽश्वः पृष्ठादुत्तीर्य्य तस्य सः । चतुदिशं निरीक्ष्याच तस्यैव सरसस्तटे ॥४०॥
दिव्यवस्त्रपरीधानं दिव्याभरणभूषितम् । कथयन्तं कथां दिव्यां स्त्रीणां सार्थं ददर्श सः ॥४१॥
उपसृत्याथ तं सार्थं तद्वृत्तान्तं निवेद्य च । कृताञ्जलिरिति प्राह बटुर्मधुरया गिरा ॥४२॥
एतत् किं क्रियते सार्थं त्वया भक्तिपरेण वै । को विधिः किं फलं चास्य तन्मे ब्रूहि यथा तथम् ॥४३॥
श्रुत्वेति तमुवाचेदं सार्थः करुणयाऽन्वितः । शृणु विप्रैकचित्तेन श्रद्धाभक्तिसमन्वितः ॥४४॥
मायायाः प्रकृतिः शक्तिस्त्रैलोक्येष्ववधीयते । व्रतमेतन्महालक्ष्म्याः तस्याः सर्वफलप्रदम् ॥४५॥
आकर्णय विधिं चास्य कथ्यमानं मया वटो। भाद्रे मासि सिताष्टम्यामारम्भोऽस्य विधीयते ॥४६॥
प्रातः षोडशकृत्वस्तु प्रक्षाल्यांघ्रिं करौ मुखम् । तंतु षोडशसंयुक्तं षोडशग्रन्थिसंयुतम् ॥४७॥
मालतीपुष्पकर्पूर चन्दनागरुचर्चितम् । लक्ष्म्यै नमोऽथ मन्त्रेण प्रतिपूज्याभिमन्त्र्य च ॥४८॥
धनं धान्यं धरां धर्मं कीर्तिमायुर्यशः श्रियम् । तुरङ्गान् दन्तिनः पुत्रान् महालक्ष्मि प्रयच्छ मे ॥४९॥
मन्त्रेणानेन बद्ध्वाथ दौरकं दक्षिणे भुजे । काण्डानि षोडशादाय दूर्वायाः साक्षतानि च ॥५०॥
एकचित्तः कथां श्रुत्वा पूजयेत्तैस्तु दोरकम् । ततस्तु प्रातरारभ्य यावदस्त्यसिताष्टमी ॥५१॥
तावत् प्रक्षाल्य पादौ च मुखं हस्तौ कथां तदा । शृणुयात् प्रत्यहं विप्र तत्संख्यैरक्षतादिभिः ॥५२॥
अथ कृष्णाष्टमी प्राप्य नक्तकाले जितेन्द्रियः । स्नातः शुक्लाम्बरधरो व्रती पूजागृहं विशेत् ॥५३॥
तत्रोपविश्य पूर्वास्यश्चारुधौतासनोपरि । श्वेतपत्रं लिखेदष्टल दलं कमलमुत्तमम् ॥५४॥
ऐन्द्रादिशक्तिसंयुक्तं पार्श्वे पत्रं सकेसरम् । कर्णिकायां ततो लक्ष्मीं कर्पूरक्षोदपाण्डुराम् ॥५५॥
शुभ्रवस्त्रपरीधानां मुक्ताभरणभूषिताम् । पङ्कजासनसंस्थानां स्मेराननसरोरुहाम् ॥५६॥
शारदेन्दु कलाकान्तिं मृगनेत्रां चतुर्भुजाम् । पद्मयुग्मामभयदां वरव्यग्रकराम्बुजाम् ॥५७॥
अभितो गजयुग्मेन सिच्यमानां कराम्बुना । संचिन्त्यैवं लिखेद् देवीं कर्पूरागरुचन्दनैः ॥
ततस्त्वावाहनं कुर्यान्मन्त्रेणानेन स व्रती ॥५८॥
महालक्ष्मि समागच्छ पद्मनाभपदादिह । पञ्चोपचारपूजेयं त्वदर्थं देवि कल्पिता ॥५९॥
षोडशाब्दे तु सम्पूर्णे तदुद्यापनमाचरेत । विधिना येन विप्रेन्द्र शृणु श्रद्धासमन्वितः ॥६०॥
दातव्या धेनुरेकैव स्वर्णशृङ्गादिसंयुता । आचार्याय सुवर्णं च तथान्नं वसनानि च ॥६१॥
यथाशक्ति सुवर्णं वा दत्त्वा पूर्णं भवेद् व्रतम् ।
सार्थ उवाच
एतत्ते कथितं विप्र व्रतानां व्रतनुत्तमम् ॥६२॥
यद्विधानाद्विनायासाल्लभ्यते वाञ्छितं फलम् । कृत्वा त्वं सद्व्रतं विप्र राजानमपि कारय ॥६३॥
व्रतमेतत् त्वया विप्र देयं श्रद्धावते परम् । नास्तिकानां पुरस्तात्तु न प्रकाश्यं कथंचन ॥६४॥
नमस्कृत्याथ तं सार्थं पङ्कादुत्थाप्य वाजिनम् । सरसोम्भस्तदादाय पद्मिनीपत्रसञ्चितम् ॥६५॥
आरुह्य तुरगं विप्रो राजान्तिकमुपागमत् । निवेद्य तद् व्रतं विप्रो भूपति तमकारयत् ॥६६॥
नानोपकारसम्भारमाकुलं बटुकस्य च । व्रतप्रभावादभवत् स भूभृद् भूभृतां वरः ॥६७॥
अथारुह्य महीपालो बद्धपर्याणिनं हयम् । तूर्णन्तस्य प्रभावेण व्रतस्य पुरमागतः ॥६८॥
तमायान्तं समालोक्य राजानं भूपुरन्दरम् । उत्सवं चक्रिरे पौरास्तौर्यादिकपुरस्सरम् ॥६९॥
चलत्पताकदोर्मालं राजत्कनकमौलिकम् । पुरं नृत्यदिवाभाति चलद्धण्टौघघर्घरैः ॥७०॥
अथोत्कलिकया काचिद्धावतिस्म वराङ्गना । स्खलन्-मुक्तालताजालैश्चतुष्कमिव कुर्वती ॥७१॥
काचिद्विमुक्तकेशैव वरैकनयनाञ्जना । काचिन्नितम्बभारार्ता काचित् पीनकुचाश्रया ॥७२॥
अथाविशन् महीपालो बटुना सहितो गृहम् । पौरनारीजनाक्षिप्त-लाजैः पूरितविग्रहैः ॥७३॥
अथोत्तीर्य्य हयात्तस्माद् बटुबाह्ववलम्बितः । जगाम मङ्गलो राजा चोलदेवी तु यत्र वे ॥७४॥
दृष्ट्वाऽथ चोलदेवी सा डोरकं राजबाहुके । विमृश्य मनसा क्रुद्धा शङ्कां चक्रे ततस्त्विमाम् ॥७५॥
आखेटकस्य व्याजेन गतोऽन्यां वल्लभां प्रति । सौभाग्याय तया बद्धं डोरकं भूभुजो भुजे ॥७६॥
तथैव बटुकश्चायं मां द्रष्टुं प्रेषितो ध्रुवम् । ततो दुर्दैवदुष्टा सा कोपादाच्छिद्य डोरकम् ॥७७॥
निश्चिक्षेप महीपृष्ठे स्वसौभाग्यसुखैः सह। न बुबोध च तां राजा निःक्षिपन्तीं तु डोरकम् ॥७८॥
सामन्तमन्त्रिभृत्याद्यैः कुर्वन् वार्तां वनोद्भवाम् । चिल्लादेव्यास्ततः काचिद् दासी तत्र समागता ॥७९॥
तया डोरकमादाय बटुमापृच्छ्य तद् व्रतम् । तद्व्रतस्य निदानं तु स्वस्वामिन्यै निवेदितम् ॥८०॥
ततो नूतनमादाय चिल्लादेव्य करोद् व्रतम् । अथ संवत्सरेऽतीते लक्ष्मीपूजादिने नृपः ॥८१॥
तौर्यत्रिकस्य निस्वानं चिल्लादेवीगृहेऽशृणोत् । तमाकर्ण्य महीपालो नूतनं बटुमब्रवीत् ॥८२॥
अहहाद्य दिनं लक्ष्म्या व्रतस्य क्व नु डोरकः । इति पृष्टो नृपं प्राह डोरकत्रोटकक्रमम् ॥८३॥
तच्छ्रुत्वा मङ्गलो राजा चोलदेव्यै प्रकुप्य च । मयाद्य पूजनं कार्यं चिल्लादेवी गृहेऽब्रवीत् ॥८४॥
अथ मङ्गलभूपालो बटुबाह्ववलम्बितः । जगाम कमलार्चायै चिल्लादेवीगृहं प्रति ॥८५॥
अत्रान्तरे महालक्ष्मीर्वृद्धारूपं विधाय सा । जिज्ञासार्थं गृहं तस्याश्चोलदेव्याः समागता ॥८६॥
तया दुराशयाऽत्यर्थ लक्ष्मीः साप्यवमानिता । शशापाथ महालक्ष्मीश्चोलदेवीमिति क्रुधा ॥८७॥
कोलास्या भव दुष्टे त्वं ययाहमपमानिता । चोलदेवी श्रियः शापात् कोलास्या तत्र साऽभवत् ॥८८॥
कोलापुरमिति ख्यातं क्षितौ तन्मङ्गलं पुरम् । अथायाता महालक्ष्मीश्चिल्लादेवीनिकेतनम् ॥८९॥
चिल्लादेव्या च बहुधा लक्ष्मीः सम्मानिताऽर्चिता । वृद्धारूपं परित्यज्य प्रत्यक्षा साऽभवत्तदा ॥९०॥
पञ्चोपचारपूजाभिः श्रियं राज्ञी तदाऽर्चयत् ।
श्रीरुवाच
प्रसन्नाभ्यर्चनैरेभिः चिल्लादेवि वरं वृणु ॥९१॥
वरं वब्रे ततो राज्ञी चिल्लादेवी शुभाशया । ये करिष्यन्ति ते देवि व्रतमेतत् सुरेश्वरि ॥९२॥
तद्वेश्म न त्वया त्याज्यं यावच्चन्द्रदिवाकरौ । अद्यारभ्य कथा ह्येषा भूपसम्बन्धिनी तु या ॥९३॥
ख्यातिं यातु क्षितौ देवि भक्तिर्भवतु मे त्वयि । सद्भावेन कथामेनां ये शृण्वन्ति पठन्ति च ॥९४॥
तेषां हि वाञ्छितं सर्वं त्वया कार्यं सदैव हि । तथेत्युक्त्वा महालक्ष्मीस्तत्रैवान्तरधीयत ॥९५॥
अथ मङ्गलभूपालस्तत्रागत्य श्रियोऽर्चनम् । चक्रे परमया भक्त्या चिल्लादेवीसमन्वितः ॥९६॥
अथेर्ष्यया दुराचारा चिल्लादेवीगृहं प्रति । चोलदेवी समायाता द्वारस्थैर्वारिता जनैः ॥९७॥
जगाम विपिनं घोरं यत्रासीदङ्गिरा मुनिः। अथालोक्याद्भुताकारां ज्ञानदृष्टया विचिन्त्य च ॥९८॥
स मुनिः श्रीव्रतं दिव्यं चोलदेवीमकारयत् । व्रते कृतेऽथ सञ्जाता चोलदेवी शुभानना ॥९९॥
दाक्षिण्यकेलिलीलाभिर्लावण्यैकनिकेतना । ततः कदाचिदागत्य वनमाखेटके नृपः ॥१००॥
मुनेर्वेश्मनि तां राजां ददर्श वामलोचनाम् । अथ राजा मुनि प्राह केयं धन्येति कथ्यताम् ॥१०१॥
तद् वृत्तान्तं समाख्याय राज्ञे तामर्पयन् मुनिः । अथागत्य निजं राज्यं चोलदेवीसमन्वितः ॥१०२॥
चिल्लादेवी वरं वब्रे चोलदेवीसमागमम् । समुद्रस्य यथा गङ्गायमुने मर्त्यमण्डले ॥१०३॥
तथा मङ्गलभूपस्य जाते ते वामलोचने । परस्पराधिकप्रीते तस्य राज्ञो बभूवतुः ॥१०४॥
चिल्लादेव्या समञ्चोलदेव्या च सहितश्चिरम् । सप्तद्वीपवती पृथ्वीं बुभुजे मङ्गलो नृपः ॥१०५॥
व्रतस्यास्यैव माहात्म्याद् बटुकः सोऽपि नूतनः । अभून्मङ्गलभूपस्य मन्त्री तव यथा गुरुः ॥१०६॥
भुक्त्वा तु सकलान् भोगान् मङ्गलो भूभृतां वरः । स पुनः स्वर्गमेत्याभून्नक्षत्रं विष्णुदैवतम् ॥१०७॥
एतत्ते कथितं शक्र व्रतानां व्रतमुत्तमम् । यत्कथाश्रवणेनापि लभते वाञ्छितं फलम् ॥१०८॥
प्रयाग इव तीर्थेषु देवेषु च यथा हरिः । नदीषु च यथा गङ्गा एतेष्वेतत्तथा व्रतम् ॥१०९॥
धर्मं चार्थं च कामञ्च मोक्षं च यदि वाञ्छसि । तदेतत् त्वं व्रतं शक्र कुरु श्रद्धासमन्वितः ॥११०॥
व्रतमिदमथ चक्रे नारदेनोपदिष्टं सुरपतिरथ तस्माद्वान्छितार्थं स लेभे ।
त्वमपि कुरु तदेतद्धर्मसूनो यथा स्यादभिमतफलसिद्धिः पुत्रपौत्रादिवृद्धिः ॥१११॥
॥ इति श्रीभविष्योत्तरे कृष्णयुधिष्ठिरसंवादे महालक्ष्मीव्रतकथा समाप्ता ॥
F & Q :
प्रश्न : महालक्ष्मी व्रत का शुभ मुहूर्त कब है?
उत्तर : 2024 में महालक्ष्मी व्रत 11 सितम्बर बुधवार से आरंभ होकर 24 सितम्बर मंगलवार तक है एवं पारण 25 अगस्त 2024 बुधवार को। व्रत निर्णय संबंधी चर्चा महालक्ष्मी व्रत कथा वाले आलेख में की जायेगी।
प्रश्न : महालक्ष्मी व्रत कैसे शुरू करें?
उत्तर : महालक्ष्मी व्रत सोलह दिनों तक किया जाता है जो भाद्रशुक्ल अष्टमी को प्रारम्भ होता है। भाद्रशुक्ल अष्टमी को सायाह्न काल में संकल्प करके सोलह बार हाथ-मुंह और पैर धोये। फिर सोलह तंतु वाले डोर में सोलह गांठ लगाकर मालती पुष्प, सोलह दूर्वा आदि चढ़ाकर धारण करे, हाथी पर बैठी महालक्ष्मी की प्रतिमा की पूजा करके व्रत आरंभ करे।
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।
Discover more from संपूर्ण कर्मकांड विधि
Subscribe to get the latest posts sent to your email.