जब देवताओं को प्रसन्न करने वाले स्तोत्रों की बात की जाती है तो उसमें एक प्रकार गाये जाने वाले स्तोत्र भी होते हैं जिन्हें गीत कहा जाता है। ये गीत संस्कृत में ही होते हैं यहां माता सरस्वती को प्रसन्न करने में विशेष महत्वपूर्ण 3 सरस्वती गीत (saraswati geet) दिये गये हैं।
यहां पढ़ें शारदा गीत अर्थात सरस्वती गीत संस्कृत में – saraswati geet
यहां सर्वप्रथम रुद्रयामलोक्त वाणीगीत दिया गया है और तदनंतर सरस्वतीगीतिः और तदनंतर शारदापीठाधिपति शङ्कराचार्य श्री चन्द्रशेखर भारती विरचित शारदा गीत दिया गया है जो संस्कृत में हैं।
रुद्रयामलोक्त वाणीगीत
श्रूयतां कोमलाम्भोजस्थितवक्त्रविराजिते ।
अत्यद्भुतं महागीतं शृणोति साधको हि यत् ॥१॥
ध्वनिरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः ।
तन्मनो विलयं याति ध्वनिषु ज्ञानकोटिषु ॥२॥
तद् ध्वनिज्ञानसंज्ञानं शृण्वन्ति योगिनो जनाः ॥३॥
परमगुणगभीरे धीरनीरे शरीरे
भवनवभवकान्तौ संप्रशात्मा नितान्तम् ।
विमलमधुरवाक्यालङ्कृतज्ञानसिन्धौ
सकलवचनरत्नं स्थापयामास वाणी ॥४॥
ॐ तुण्डोग्रस्थिरवचनगा मोहयञ्जीववर्णं
शङ्कातङ्कारहितचरिता मोहिता ज्ञानतन्द्रे ।
सालङ्कारा खरतरकरा वाक्यमालां वहन्ती
सा पश्यन्ती विमलकरुणा राध्यतां मूलचक्रे ॥५॥
संसारे सारभागे सयुवतिसुकृपालक्षणैर्लक्षिताङ्गे
सिद्धान्तज्ञानजीवं चरमसमगुणं भूपतेर्योगिनो वा ।
विप्रेन्द्राणामनन्तं ध्वनिगुरुमधुरं व्यापितं पार्वतीशे
हे हे कालप्रकालप्रियतनुशिखरे वेशमासं चयत्वम् ॥६॥
सञ्चारे परमस्थिरे हरिहरे विद्याधरे भूधरे
साकारे करुणाकरे स्वविलये ते पादपङ्केरुहे ।
नित्यज्ञानमयं जयं सुरतरुच्छायालयं पूजये
मातः कालि कलाधरे गलबिले शाकम्भरि शाकिनि ॥७॥
भास्वत्कोटिरविच्छटाभरसुखश्रीकण्ठवीरालये
हृत्पङ्केरुहमध्यसारघटितं सारस्वतोत्पत्तिदम् ।
श्रीदेवीगुरुरूपिणीचरणपद्मान्तःप्रभामण्डलं
शैलेन्द्रोदयकारिणीमणिगृहं मापद्मनाभेरधः ॥८॥
वाञ्छाकल्पद्रुमस्था स्थितिलयफलदा योगिनी योगमाता
सूक्ष्मानन्दप्रशंसा तरुणरविकला कोकिलालापमुग्धा ।
स्निग्धा स्निग्धाङ्गसङ्गा नवशशिमुकुटा चारुवर्णा विशाला
सा दुर्गा दुःखहन्त्री भवतु शिवगृहे कामनासिद्धिदात्री ॥९॥
निराश्रयमहं पदं भवति कालि भक्त्याश्रये
श्रिये विमलभावदे सकलभावगो गोगणः ।
मयि प्रियधनं मुदा वितर चारुदृष्ट्या सुखं
तदैव गलभागकृद्गगनपद्ममध्यस्थले ॥१०॥
नित्ये निष्फलरूपभूतिनिकरे त्रैलोक्यरक्षाकरे
धर्मध्वान्तनिकेतने गणयति ज्ञानप्रयोगान्तरम् ।
ते पादाम्बुजसम्भवः प्रियगणः प्राणाश्रितः पार्थिवो
मातः पर्वतराजराजदुहिते पुण्यं पवित्राप्तये ॥११॥
भीभर्गो भारसर्गो भवरवविभवो भूतिभारावलम्बी
भावाभावः प्रभावः प्रभवति भुवने भीमभक्तिप्रकाशः ।
भूभूतोद्भूतभीतिप्रभृतिभयभवासम्भवानन्दभावो
मातस्ते पादपङ्केरुहविमलतलानन्दसेवाभिवृद्ध्या ॥१२॥
नित्यं पातु गणेश्वरी गणपतेर्माता रमे मातरं
प्राणं प्रत्यय पूर्वसिद्धिकरणी सिद्धासने रक्षतु ।
आनन्दाम्बुधिमज्जनैकसुखदा भालस्थलस्थापिनी
कण्ठाम्भोरुहकर्णिका सुरगणान् गीता परा सुस्वरान् ॥१३॥
कृपापारावारा विमलपुरुषं गौरिवपुषं
धरावक्षे मुख्ये धरणिसुतबुद्ध्याऽधमनरम् ।
न जाने त्वत्कामं तनुविरहचिन्तामणिमयं
तव स्नेहाध्वीनां गमयति न पारं सुरवरः ॥१४॥
जयति जय जयाज्योतिराधारजेता
सुरनरगणपूज्यः खेटचक्रस्य मध्ये ।
भवकमलकराढ्यं नम्रभावं प्रतापं
गमयति तव पादाम्भोजसेवाबलेन ॥१५॥
इत्येतैः श्लोकमुख्यैस्तु स्तुत्वा गीतरसान्तरैः ।
परब्रह्ममयीं ध्यात्वा स्वयं ब्रह्मतनुं गतः ॥१६॥
अकस्माद् भोगसम्पत्तिर्मोक्षपद्धतयः शुभाः ।
प्रभवन्ति स्वयं विद्या अष्टादश गुणोदयाः ॥१७॥
नीलजीमूतसङ्काशं चन्द्रशेखरमीश्वरम् ।
सदाशिवं महाशक्तिशाकिनीवामसंस्थितम् ॥१८॥
चतुर्भुजं देवदेवमनन्तमक्षरं हरम् ।
भावगीतं पुनर्गीत्वा परं ब्रह्मसमो भवेत् ॥१९॥
कण्ठषोडशसम्पूर्णमध्ये योगी स्थिराशयः ।
अष्टसिद्धीश्वरो भूत्वा भावसिद्धिं लभेद् ध्रुवम् ॥२०॥
त्वया सह समाह्लाददर्शनं सिद्धिमाप्नुयात् ॥२१॥
॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे वाणीगीतविन्यासो नाम त्रिसप्ततितमः पटलः ॥
सरस्वतीगीतिः
एहि लसत्सितशतदलवासिनि भारति मामकमास्यम् ।
देहि च मे त्वदमरनिकरार्चितपादतले निजदास्यम् ॥ ध्रुवम् ॥ ॥१॥
जगदघहारिणि मधुरिपुजाये हिमगिरिजित्वरसिततमकाये ।
श्रुतिततिसंस्कृतपदकमलादृतमिह भुवि नान्यदुपास्यम् ।
भारति मामकमास्यम् ॥२॥
जडतरजीवनमहह मदीयं श्रुतिविरहान्न हि नृषु गणनीयम् ।
निरवधि कृपां कुरुष्व दयामयि व्यपगच्छेन्मम दास्यम् ।
भारति मामकमास्यम् ॥३॥
विकसितनीलजलजकुलवासे विहितबृहस्पतिसमनिजदासे ।
जननि कृशोदरि मम रसनोपरि विरचय शाश्वतहास्यम् ।
भारति मामकमास्यम् ॥४॥
भवमुखभावितभवदवदानं रचयतु मानसमविरतगानम् ।
निपततु ते मयि दृगयि दयामयि किमपरमात्मजभाष्यम् ।
भारति मामकमास्यम् ॥५॥
॥ इति श्रीसरस्वतीगीतिः सम्पूर्णम् ॥
शारदापीठाधिपति शङ्कराचार्य श्री चन्द्रशेखर भारती विरचित शारदा गीत
कल्याणानि तनोतु काऽपि तरुणी शृङ्गाद्रिभूषायिता
श्रीमच्छङ्करदेशिकेन्द्रकलितं चक्रं सदाधिष्ठिता ।
दूरस्थामपि पादनम्रजनतां विद्यायुरारोग्य सत्
सन्तत्यादिमनोरथाप्तिसहितां सन्तन्वती सत्वरम् ॥
शारदाम्ब शरदिन्दुनिभानन भासित निखिल दिगन्ते ।
पारदे भवमहाजलराशेः पावयमां विधिकान्ते ॥
दन्तकान्तिजित कुन्दसुमे वरकुन्तल निर्धुतभृङ्गे ।
शान्तचित्तजन सन्तत चिन्तित कोटिचन्द्रसदृशाङ्गे ॥
पादनम्रजन वाञ्छितपूरण निर्जित नन्दनवल्लिके ।
मादनेष्वसन गर्व निबर्हण दक्ष मनोहर चिल्लिके ॥
ऋष्यशृङ्गपुर वासविलोले वश्ययन्त्र सदृशास्ये ।
पश्वदङ्घ्रि शुकदेवहूतिसुत कश्यपादि समुपास्ये ॥
॥ इति दक्षिणाम्नाय शृङ्गेरी श्रीशारदापीठाधिपति शङ्कराचार्य जगद्गुरुवर्यो श्री चन्द्रशेखर भारती महास्वामिभिः विरचितम् श्री शारदा गीतं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।