यदि हम हनुमान जी के अष्टोत्तर शतनाम की बात करें तो अनेकों पुराणादि में मिलते हैं और यहां प्रमुख ४ हनुमान अष्टोत्तर शतनाम स्तोत्र (hanuman ashtottara shatanama stotram) संस्कृत में दिये गये हैं जो इस प्रकार हैं : पद्मपुराणोक्त अष्टोत्तर शतनाम, ब्रह्मवैवर्त पुराणोक्त हनुमदष्टोत्तरशतनामस्तोत्रम्, पराशर संहितोक्त श्रीहनुमदष्टोत्तरशतनामस्तोत्रम् और श्रीरामरहस्योक्त श्रीहनुमदष्टोत्तरशतनामस्तोत्रम्।
हनुमान अष्टोत्तर शतनाम स्तोत्र – hanuman ashtottara shatanama stotram
नारद उवाच
सर्वशास्त्रार्थतत्त्वज्ञ सर्वदेवनमस्कृत ।
यत्त्वया कथितं पूर्वं रामचन्द्रेण धीमता ॥१॥
स्तोत्रं समस्तपापघ्नं श्रुत्वा धन्योऽस्मि पद्मज ।
इदानीं श्रोतुमिच्छामि लोकानां हितकाम्यया ॥२॥
वायोरंशावतरणमाहात्म्यं सर्वकामदम् ।
वद मे विस्तराद्ब्रह्मन् देवगुह्यमनुत्तमम् ॥३॥
इति पृष्टो नारदेन ब्रह्मा लोकपितामहः ।
नमस्कृत्य जगन्नाथं लक्ष्मीकान्तं परात्परम् ॥४॥
प्रोवाच वायोर्माहात्म्यं नारदाय महात्मने ।
यच्छ्रुत्वा सर्वसौभाग्यं प्राप्नुवन्ति जनाः सदा ॥५॥
ब्रह्मोवाच
इदं रहस्यं पापघ्नं वायोरष्टोत्तरं शतम् ।
विष्णुना लोकनाथेन रमायै कथितं पुरा ॥६॥
रमा मामाह यद्दिव्यं तत्ते वक्ष्यामि नारद ।
इदं पवित्रं पापघ्नं श्रद्धया हृदि धारय ॥७॥
ॐ हनुमानञ्जनापुत्रो वायुसूनुर्महाबलः ।
रामदूतो हरिश्रेष्ठः सूरी केसरीनन्दनः ॥८॥
सूर्यश्रेष्ठो महाकायो वज्री वज्रप्रहारवान् ।
महासत्त्वो महारूपो ब्रह्मण्यो ब्राह्मणप्रियः ॥९॥
मुख्यप्राणो महाभीमः पूर्णप्रज्ञो महागुरुः ।
ब्रह्मचारी वृक्षधरः पुण्यः श्रीरामकिङ्करः ॥१०॥
सीताशोकविनाशी च सिंहिकाप्राणनाशकः ।
मैनाकगर्वभङ्गश्च छायाग्रहनिवारकः ॥११॥
लङ्कामोक्षप्रदो देवः सीतामार्गणतत्परः ।
रामाङ्गुलिप्रदाता च सीताहर्षविवर्धनः ॥१२॥
महारूपधरो दिव्यो ह्यशोकवननाशकः ।
मन्त्रिपुत्रहरो वीरः पञ्चसेनाग्रमर्दनः ॥१३॥
दशकण्ठसुतघ्नश्च ब्रह्मास्त्रवशगोऽव्ययः ।
दशास्यसल्लापपरो लङ्कापुरविदाहकः ॥१४॥
तीर्णाब्धिः कपिराजश्च कपियूथप्ररञ्जकः ।
चूडामणिप्रदाता च श्रीवश्यः प्रियदर्शकः ॥१५॥
कौपीनकुण्डलधरः कनकाङ्गदभूषणः ।
सर्वशास्त्रसुसम्पन्नः सर्वज्ञो ज्ञानदोत्तमः ॥१६॥
मुख्यप्राणो महावेगः शब्दशास्त्रविशारदः ।
बुद्धिमान् सर्वलोकेशः सुरेशो लोकरञ्जकः ॥१७॥
लोकनाथो महादर्पः सर्वभूतभयापहः ।
रामवाहनरूपश्च सञ्जीवाचलभेदकः ॥१८॥
कपीनां प्राणदाता च लक्ष्मणप्राणरक्षकः ।
रामपादसमीपस्थो लोहितास्यो महाहनुः ॥१९॥
रामसन्देशकर्ता च भरतानन्दवर्धनः ।
रामाभिषेकलोलश्च रामकार्यधुरन्धरः ॥२०॥
कुन्तीगर्भसमुत्पन्नो भीमो भीमपराक्रमः ।
लाक्षागृहाद्विनिर्मुक्तो हिडिम्बासुरमर्दनः ॥२१॥
धर्मानुजः पाण्डुपुत्रो धनञ्जयसहायवान् ।
बकासुरवधोद्युक्तस्तद्ग्रामपरिरक्षकः ॥२२॥
भिक्षाहाररतो नित्यं कुलालगृहमध्यगः ।
पाञ्चाल्युद्वाहसञ्जातसम्मोदो बहुकान्तिमान् ॥२३॥
विराटनगरे गूढचरः कीचकमर्दनः ।
दुर्योधननिहन्ता च जरासन्धविमर्दनः ॥२४॥
सौगन्धिकापहर्ता च द्रौपदीप्राणवल्लभः ।
पूर्णबोधो व्यासशिष्यो यतिरूपो महामतिः ॥२५॥
दुर्वादिगजसिंहस्य तर्कशास्त्रस्य खण्डकः ।
बौद्धागमविभेत्ता च साङ्ख्यशास्त्रस्य दूषकः ॥२६॥
द्वैतशास्त्रप्रणेता च वेदव्यासमतानुगः ।
पूर्णानन्दः पूर्णसत्वः पूर्णवैराग्यसागरः ॥२७॥
इति श्रुत्वा नारदस्तु वायोश्चरितमद्भुतम् ।
मुदा परमया युक्तः स्तोतुं समुपचक्रमे ॥२८॥
रामावतारजाताय हनुमद्रूपिणे नमः ।
वासुदेवस्य भक्ताय भीमसेनाय ते नमः ॥२९॥
वेदव्यासमतोद्धारकर्त्रे पूर्णसुखाय च ।
दुर्वादिध्वान्तचन्द्राय पूर्णबोधाय ते नमः ॥३०॥
गुरुराजाय धन्याय कञ्जनेत्राय ते नमः ।
दिव्यरूपाय शान्ताय नमस्ते यतिरूपिणे ॥ ३१॥
स्वान्तस्थवासुदेवाय सच्चित्ताय नमो नमः ।
अज्ञानतिमिरार्काय व्यासशिष्याय ते नमः ॥३२॥
अथाभिवन्द्य पितरं ब्रह्माणं नारदो मुनिः ।
परिक्रम्य विनिर्यातो वासुदेवं हरिं स्मरन् ॥३३॥
अष्टोत्तरशतं दिव्यं वायुसूनोर्महात्मनः ।
यः पठेच्छ्रद्धया नित्यं सर्वबन्धात् प्रमुच्यते ॥३४॥
सर्वरोगविनिर्मुक्तः सर्वपापैर्न लिप्यते ।
राजवश्यं भवेन्नित्यं स्तोत्रस्यास्य प्रभावतः ॥३५॥
भूतग्रहनिवृत्तिश्च प्रजावृद्धिश्च जायते ।
आयुरारोग्यमैश्वर्यं बलं कीर्तिं लभेत् पुमान् ॥३६॥
यः पठेद्वायुचरितं भक्त्या परमया युतः ।
सर्वज्ञानसमायुक्तः स याति परमं पदम् ॥३७॥
॥ इति श्रीपद्मोत्तरखण्डतः श्रीहनुमदष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
ब्रह्मवैवर्त पुराणोक्त हनुमदष्टोत्तरशतनामस्तोत्रम्
अतिपाटलवक्त्राब्जं धृतहेमाद्रिविग्रहम् ।
आञ्जनेयं शङ्खचक्रपाणिं चेतसि धीमहि ॥१॥
ॐ पारिजातप्रियो योगी हनूमान् नृहरिप्रियः ।
प्लवगेन्द्रः पिङ्गलाक्षः शीघ्रगामी दृढव्रतः ॥२॥
शङ्खचक्रवराभीतिपाणिरानन्ददायकः ।
स्थायी विक्रमसम्पन्नो रामदूतो महायशाः ॥३॥
सौमित्रिजीवनकरो लङ्काविक्षोभकारकः ।
उदधिक्रमणः सीताशोकहेतुहरो हरिः ॥४॥
बली राक्षससंहर्ता दशकण्ठमदापहः ।
बुद्धिमान् नैरृतवधूकण्ठसूत्रविदारकः ॥५॥
सुग्रीवसचिवो भीमो भीमसेनसहोदरः ।
सावित्रविद्यासंसेवी चरितार्थो महोदयः ॥६॥
वासवाभीष्टदो भव्यो हेमशैलनिवासवान् ।
किंशुकाभोऽग्रयतनू ऋजुरोमा महामतिः ॥७॥
महाक्रमो वनचरः स्थिरबुद्धिरभीशुमान् ।
सिंहिकागर्भनिर्भेत्ता भेत्ता लङ्कानिवासिनाम् ॥८॥
अक्षशत्रुविनिघ्नश्च रक्षोऽमात्यभयावहः ।
वीरहा मृदुहस्तश्च पद्मपाणिर्जटाधरः ॥९॥
सर्वप्रियः सर्वकामप्रदः प्रांशुमुखश्शुचिः ।
विशुद्धात्मा विज्वरश्च सटावान् पाटलाधरः ॥१०॥
भरतप्रेमजनकश्चीरवासा महोक्षधृक् ।
महास्त्रबन्धनसहो ब्रह्मचारी यतीश्वरः ॥११॥
महौषधोपहर्ता च वृषपर्वा वृषोदरः ।
सूर्योपलालितः स्वामी पारिजातावतंसकः ॥१२॥
सर्वप्राणधरोऽनन्तः सर्वभूतादिगो मनुः ।
रौद्राकृतिर्भीमकर्मा भीमाक्षो भीमदर्शनः ॥१३॥
सुदर्शनकरोऽव्यक्तो व्यक्तास्यो दुन्दुभिस्वनः ।
सुवेलचारी मैनाकहर्षदो हर्षणप्रियः ॥१४॥
सुलभः सुव्रतो योगी योगिसेव्यो भयापहः ।
वालाग्निमथितानेकलङ्कावासिगृहोच्चयः ॥१५॥
वर्धनो वर्धमानश्च रोचिष्णू रोमशो महान् ।
महादंष्ट्रो महाशूरः सद्गतिः सत्परायणः ॥१६॥
सौम्यदर्शी सौम्यवेषो हेमयज्ञोपवीतिमान् ।
मौञ्जीकृष्णाजिनधरो मन्त्रज्ञो मन्त्रसारथिः ।
जितारातिः षडूर्मिश्च सर्वप्रियहिते रतः ॥१७॥
एतैर्नामपदैर्दिव्यैर्यः स्तौति तव सन्निधौ ।
हनुमंस्तस्य किं नाम नो भवेद्भक्तिशालिनः ॥१८॥
प्रणवं च पुरस्कृत्य चतुर्थ्यन्तैर्नमोऽन्तकैः ।
एतैर्नामभिरव्यग्रैरुच्यते हनुमान् भवान् ॥१९॥
ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः ।
विनश्यन्ति हनुमंस्ते नामसङ्कीर्तनक्षणे ॥२०॥
भगवन् हनुमन् नित्यं राजवश्यं तथैव च ।
लक्ष्मीवश्यं च श्रीवश्यमारोग्यं दीर्घमायुषम् ॥२१॥
प्राधान्यं सकलानां च ज्ञातिप्राधान्यमेव च ।
वीर्यं तेजश्च भक्तानां प्रयच्छसि महामते ॥२२॥
पराशर संहितोक्त श्रीहनुमदष्टोत्तरशतनामस्तोत्रम्
श्रीपराशर उवाच
शृणु मैत्रेय! मन्त्रज्ञ अष्टोत्तरशतसंज्ञिकः ।
नाम्नां हनूमतश्चैव स्तोत्राणां शोकनाशनम् ॥
पूर्वं शिवेन पार्वत्याः कथितं पापनाशनम् ।
गोप्याद्गोपतरं चैव सर्वेप्सितफलप्रदम् ॥
विनियोग : ॐ अस्य श्रीहनुमदष्टोत्तरशतनामस्तोत्रमन्त्रस्य सदाशिव ऋषिः । अनुष्टुप् छन्दः । श्रीहनुमान् देवता । ह्रां बीजम् । ह्रीं शक्तिः । ह्रूं कीलकम् । श्रीहनुमद्देवता प्रसादसिद्ध्यर्थे जपे विनियोगः ॥
॥ ध्यानम् ॥
ध्यायेद्बालदिवाकरद्युतिनिभं देवारिदर्पापहम्
देवेन्द्रप्रमुखैः प्रशस्तयशसं देदीप्यमानं ऋचा ।
सुग्रीवादिसमस्तवानरयुतं सुव्यक्ततत्त्वप्रियं
संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम् ॥
॥ इति ध्यानम् ॥
ॐ हनुमान् स्थिरकीर्तिश्च तृणीकृतजगत्त्रयः ।
सुरपूज्यस्सुरश्रेष्ठो सर्वाधीशस्सुखप्रदः ॥
ज्ञानप्रदो ज्ञानगम्यो विज्ञानी विश्ववन्दितः ।
वज्रदेहो रुद्रमूर्ती दग्धलङ्का वरप्रदः ॥
इन्द्रजिद्भयकर्ता च रावणस्य भयङ्करः ।
कुम्भकर्णस्य भयदो रमादासः कपीश्वरः ॥
लक्ष्मणानन्दकरो देवः कपिसैन्यस्य रक्षकः ।
सुग्रीवसचिवो मन्त्री पर्वतोत्पाटनो प्रभुः ॥
आजन्मब्रह्मचारी च गम्भीरध्वनिभीतिदः ।
सर्वेशो ज्वरहारी च ग्रहकूटविनाशकः ॥
ढाकिनीध्वंसकस्सर्वभूतप्रेतविदारणः ।
विषहर्ता च विभवो नित्यस्सर्वजगत्प्रभुः ॥
भगवान् कुण्डली दण्डी स्वर्णयज्ञोपवीतधृत् ।
अग्निगर्भः स्वर्णकान्तिः द्विभुजस्तु कृताञ्जलिः ॥
ब्रह्मास्त्रवारणश्शान्तो ब्रह्मण्यो ब्रह्मरूपधृत् ।
शत्रुहन्ता कार्यदक्षो ललाटाक्षोऽपरेश्वरः ॥
लङ्कोद्दीपो महाकायः रणशूरोऽमितप्रभः ।
वायुवेगी मनोवेगी गरुडस्य समोजसे ॥
महात्मा विष्णुभक्तश्च भक्ताभीष्टफलप्रदः ।
सञ्जीविनीसमाहर्ता सच्चिदानन्दविग्रहः ॥
त्रिमूर्ती पुण्डरीकाक्षो विश्वजिद्विश्वभावनः ।
विश्वहर्ता विश्वकर्ता भवदुःखैकभेषजः ॥
वह्नितेजो महाशान्तो चन्द्रस्य सदृशो भवः ।
सेतुकर्ता कार्यदक्षो भक्तपोषणतत्परः ॥
महायोगी महाधैर्यो महाबलपराक्रमः ।
अक्षहन्ता राक्षसघ्नो धूम्राक्षवधकृन्मुने ॥
ग्रस्तसूर्यो शास्त्रवेत्ता वायुपुत्रः प्रतापवान् ।
तपस्वी धर्मनिरतो कालनेमिवधोद्यमः ॥
छायाहर्ता दिव्यदेहो पावनः पुण्यकृत्शिवः ।
लङ्काभयप्रदो धीरो मुक्ताहारविभूषितः ॥
मुक्तिदो भुक्तिदश्चैव शक्तिद शङ्करस्तथा ।
हरिर्निरञ्जनो नित्यो सर्वपुण्यफलप्रदः ॥
इतीदं श्रीहरेः पुण्यनामाष्टोत्तरशतम् ।
पठनाच्श्रवणान्मर्त्यः जीवन्मुक्तो भवेद्धृवम् ॥
॥ इति श्रीपराशरसंहितायान्तर्गते श्रीपराशरमैत्रेयसंवादे हनुमदष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
श्रीरामरहस्योक्त श्रीहनुमदष्टोत्तरशतनामस्तोत्रम्
ॐ हनुमानञ्जनासूनुर्धीमान् केसरिनन्दनः ।
वातात्मजो वरगुणो वानरेन्द्रो विरोचनः ॥१॥
सुग्रीवसचिवः श्रीमान् सूर्यशिष्यस्सुखप्रदः ।
ब्रह्मदत्तवरो ब्रह्मभूतो ब्रह्मर्षिसन्नुतः ॥२॥
जितेन्द्रियो जिताराती रामदूतो रणोत्कटः ।
सञ्जीविनीसमाहर्ता सर्वसैन्यप्रहर्षकः ॥३॥
रावणाकम्प्यसौमित्रिनयनस्फुटभक्तिमान् ।
अशोकवनिकाच्छेदी सीतावात्सल्यभाजनम् ॥४॥
विषीदद्भूमितनयार्पितरामाङ्गुलीयकः ।
चूडामणिसमानेता रामदुःखापहारकः ॥५॥
अक्षहन्ता विक्षतारिस्तृणीकृतदशाननः ।
कुल्याकल्पमहाम्भोधिस्सिंहिकाप्राणनाशनः ॥६॥
सुरसाविजयोपायवेत्ता सुरनरार्चितः ।
जाम्बवन्नुतमाहात्म्यो जीविताहतलक्ष्मणः ॥७॥
जम्बुमालिरिपुर्जम्भवैरिसाध्वसनाशनः ।
अस्त्रावध्यो राक्षसारिस्सेनापतिविनाशनः ॥८॥
लङ्कापुरप्रदग्धा च वालानलसुशीतलः ।
वानरप्राणसन्दाता वालिसूनुप्रियङ्करः ॥९॥
महारूपधरो मान्यो भीमो भीमपराक्रमः ।
भीमदर्पहरो भक्तवत्सलो भर्त्सिताशरः ॥१०॥
रघुवंशप्रियकरो रणधीरोरयाकरः ।
भरतार्पितसन्देशो भगवच्छिलष्टविप्रग्रहः ॥११॥
अर्जुनध्वजवासी च तर्जिताशरनायकः ।
महान् महामधुरवाङ्महात्मा मातरिश्वजः ॥१२॥
मरुन्नुतो महोदारगुणो मधुवनप्रियः ।
महाधैर्यो महवीर्यो मिहिराधिककान्तिमान् ॥१३॥
अन्नदो वसुदो वाग्मी ज्ञानदो वत्सलो वशी ।
वशीकृताखिलजगद्वरदो वानराकृतिः ॥१४॥
भिक्षुरूपप्रतिच्छन्नोऽभीतिदो भीतिवर्जितः ।
भूमीधरहरोभूतिदायको भूतसन्नुतः ॥१५॥
भुक्तिमुक्तिप्रदो भूमा भुजनिर्जितराक्षसः ।
वाल्मीकिस्तुतमाहात्म्यो विभीषणसुहृद्विभुः ॥१६॥
अनुकम्पानिधिः पम्पातीरचारी प्रतापवान् ।
बह्मास्त्रहतरामादिजीवनो ब्रह्मवत्सलः ॥१७॥
जयवार्ताहरो जेता जानकीशोकनाशनः ।
जानकीरामसाहित्यकारी जनसुखप्रदः ॥१८॥
बहुयोजनगन्ता च बलवीर्यगुणाधिकः ।
रावणालयमर्दी च रामपादाब्जवाहकः ॥१९॥
रामनामलसद्वक्तो रामायणकथादृतः ।
रामस्वरूपविलसन्मानसो रामवल्लभः ॥२०॥
इत्थमष्टोत्तरशतं नाम्नां वातात्मजस्य यः ।
अनुसन्ध्यं पठेत्तस्य मारुतिस्संप्रसीदति ॥२१॥
प्रसन्ने मारुतौ रामो भुक्तिमुक्ती प्रयच्छति ।
॥ इति श्रीरामरहस्योक्तं श्रीहनुमदष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।