भगवान विष्णु का ही एक महत्वपूर्ण नाम हरि है और भगवान विष्णु के हरि नाम से भी पुराणों में अनेकानेक स्तोत्र हैं। क्या आप भगवान हरि के अनेकों स्तोत्रों का अवलोकन करना चाहते हैं यदि हां तो यहां आपको अनेकों हरि स्तोत्र (Hari stotra) मिलेंगे यथा : कालिका पुराणोक्त पृथ्वी कृत हरि स्तोत्र, ब्रह्मवैवर्त पुराणोक्त ब्रह्मा कृत हरि स्तोत्र, कालिका पुराणोक्त मनु कृत हरि स्तोत्र, ब्रह्मवैवर्त पुराणोक्त महालक्ष्मी कृत हरि स्तोत्र।
हरि स्तोत्र संस्कृत में – Hari stotra
पृथिव्युवाच
नमस्ते जगदव्यक्तरूप कारणकारण ।
प्रधान पुरुषातीत स्थित्युत्पत्तिलयात्मक ॥
जगन्नियोजनपर स्वाहाभोगधरोत्तम ।
जगदानन्दनन्दात्मन् भगवन् जगदीश्वर ॥
नियोजको नियोज्यश्च विभ्राजन् विष्णुरव्ययः ।
नमस्तुभ्यं जगद्धातस्त्रिलोकालय विश्वकृत् ॥
यः पालयति नित्यानि स्थापयत्येव तत्परः ।
तं त्वां नियमरूपेण नमामि जगदीश्वर ॥
त्वं माधवः प्रवेकश्च कामः कामालयो लयः ।
प्रसूतिच्युतिहेत्वर्थत्राणकारणमीश्वरः ॥
न यस्य ते क्लेदाय स्युरापो नोष्मा तथोष्मणे ।
न शीताय भवेच्छीतं तस्मै तुभ्यं नमो नमः ॥
न समुद्रः प्लवकरो न शोषाय दहात्मकः ।
न मृत्यवे यस्य यमस्तस्मै तुभ्यं नमो नमः ॥
यच्चिद्धार्यं योगिभिः शान्तदेहै-
रुन्मार्गाणां यात्यरिध्येयकृत्यम् ।
नित्यं यत्तद्रूपमार्गावसक्तं
स त्वं त्राहि त्राणमिच्छन् धरित्रीम् ॥
॥ इति कालिकापुराणे षट्त्रिंशाध्यायान्तर्गतं पृथिवीकृतं हरिस्तोत्रम् ॥
ब्रह्मवैवर्त पुराणोक्त ब्रह्मा कृत हरि स्तोत्र
ब्रह्मोवाच
रक्ष रक्ष हरे मां च निमग्नं कामसागरे ।
दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसङ्कटे ॥
भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे ।
अतीव निर्मलज्ञानचक्षुःप्रछन्नकारणे ॥
जन्मोर्मिसङ्घसहिते योषिन्नक्रौघसङ्कुले ।
रतिस्रोतःसमायुक्ते गम्भीरे घोर एव च ॥
प्रथमामृतरूपे च परिणामविषालये ।
यमालयप्रदेशाय मुक्तिद्वारातिविस्मृते ॥
बुद्ध्या तरण्या विज्ञानैरुद्धरास्मानतः स्वयम् ।
स्वयं च त्वं कर्णधारः प्रसीद मधुसूदन ॥
मद्विधाः कतिचिन्नाथ नियोज्या भवकर्मणि ।
सन्ति विश्वेश विधयो हे विश्वेश्वर माधव ॥
न कर्मक्षेत्रमेवेदं ब्रह्मलोकोऽयमीप्सितः ।
तथापि नः स्पृहा कामे त्वद्भक्तिव्यवधायके ॥
हे नाथ करुणासिन्धो दीनबन्धो कृपां कुरु ।
त्वं महेश महाज्ञाता दुःस्वप्नं मां न दर्शय ॥
इत्युक्त्वा जगतां धाता विरराम सनातनः ।
ध्यायं ध्यायं मत्पदाब्जं शश्वत्सस्मार मामिति ॥
ब्रह्मणा च कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ।
स चैवाकर्ण्य विषये न निमग्नो भवेद्ध्रुवम् ॥
मम मायां विनिर्जित्य संज्ञानं लभते ध्रुवम् ।
इह लोके भक्तियुक्तो मद्भक्तप्रवरो भवेत् ॥
॥ इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे पूर्वे द्वात्रिंशाध्यायान्तर्गतं ब्रह्मकृतं हरिस्तोत्रं सम्पूर्णं ॥
कालिका पुराणोक्त मनु कृत हरि स्तोत्र
मनुरुवाच
नमस्ते जगदव्यक्तपरापरपते हरे ।
पावकादित्यशीतांशुनेत्रत्रयधराव्यय ॥
जगत्कारणसर्वज्ञ जगद्धाम हरे पर ।
परापरात्मरूपात्मन् पारिणां पारकारण ॥
आत्मानमात्मना धृत्वा धरारूपधरो हरे ।
विभर्षि सकलान् लोकानाधारात्मंस्त्रिविक्रम ॥
सर्ववेदमयश्रेष्ठ धामधारणकारण ।
सुरौघपरमेशान नारायण सुरेश्वर ॥
अयोनिस्त्वं जगद्योनिरपादस्त्वं सदागतिः ।
त्वं तेजः स्पर्शहीनश्च सर्वेशस्त्वमनीश्वर ॥
त्वमनादिः समस्तादिस्तं नित्यानन्तरोऽन्तरः ।
यद्धैममण्डं जगतां बीजं ब्रह्माण्डसंज्ञितम् ॥
तद्बीजं भवतस्तेजस्त्वयोक्तं सलिलेषु च ।
सर्वाधारो निराधारो निर्हेतुः सर्वकारणम् ॥
नमो नमस्ते विश्वेश लोकानां प्रभव प्रभो ।
सृष्टिस्थित्यन्तहेतुस्त्वं विधिविष्णुहरात्मधृक् ॥
यस्य ते दशधा मूर्तिरूर्मिषट्कादिवर्जिता ।
ज्योतिः पतिस्त्वमम्भोधिस्तस्मै तुभ्यं नमो नमः ॥
कस्ते भावं वक्तुमीशः परेश
स्थूलात्स्थूलो योऽनुरूपोऽर्थवर्गात् ।
तस्मै नित्यं मे नमोऽस्त्वद्य योऽभू-
दादित्यवर्णं तमसः परस्तात् ॥
सहस्रशीर्षा पुरुषः सहस्रपात्
सहस्रचक्षुः पृथिवीं समन्ततः ।
दशाङ्गुलं यो हि समत्यतिष्ठत्
स मे प्रसीदत्विह विष्णुरुग्रः ॥
नमस्ते मीनमूर्ते हे नमस्ते भगवन् हरे ।
नमस्ते जगदानन्द नमस्ते भक्तवत्सल ॥
॥ इति कालिकापुराणे त्रयस्त्रिंशाध्यायान्तर्गतं मनुकृतं हरिस्तोत्रं सम्पूर्णम् ॥
ब्रह्मवैवर्त पुराणोक्त महालक्ष्मी कृत हरि स्तोत्र
महालक्ष्मी उवाच
सत्यस्वरूपं सत्येशं सत्यबीजं सनातनम् ।
सत्याधारं च सत्यज्ञं सत्यमूलं नमाम्यहम् ॥
इत्युक्त्वा श्रीहरिं नत्वा सा चोवास सुखासने ।
तप्तकाञ्चनवर्णाभा भासयन्ती दिशस्त्विषा ॥
॥ इति ब्रह्मवैवर्तपहराणे ब्रह्मखण्डे तृतीयाध्यायान्तर्गतं महालक्ष्मिकृतं हरिस्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।