हम सभी जानते हैं कि भगवान शिव और भगवान विष्णु में भेदबुद्धि नहीं रखनी चाहिये और यदि ऐसा करते हैं तो यह एक अपराध है ऐसा शास्त्रों में कहा गया है। शास्त्रों में भगवान विष्णु और शिव दोनों ने ही परस्पर अभेदता का उपदेश दिया है। हरि हर की अभेदता का विशेष वर्णन हरिवंश पुराण में मार्कण्डेय मुनि ने एक स्तोत्र करके किया है जिसे हरिहराभिन्नतावर्णन स्तोत्रम् (Hariharabhinnatavarnana Stotram) कहते हैं। यहां मार्कण्डेयप्रोक्तं हरिहराभिन्नतावर्णन स्तोत्रम् संस्कृत में दिया गया है।
मार्कण्डेयप्रोक्तं हरिहराभिन्नतावर्णन स्तोत्रम् – Hariharabhinnatavarnana Stotram
मार्कण्डेय उवाच
शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे ।
यथान्तरं न पश्यामि तेन तौ दिशतः शिवम् ॥१॥
अनादिमध्यनिधनमेतदक्षरमव्ययम् ।
तदेव ते प्रवक्ष्यामि रूपं हरिहरात्मकम् ॥२॥
यो वै विष्णुः स वै रुद्रो यो रुद्रः स पितामहः ।
एका मूर्तिस्त्रयो देवा रुद्रविष्णुपितामहाः ॥३॥
वरदा लोककर्तारो लोकनाथाः स्वयंभुवः ।
अर्धनारीश्वरास्ते तु व्रतं तीव्रं समाश्रिताः ॥४॥
यथा जले जलं क्षिप्तं जलमेव तु तद्भवेत् ।
रुद्रं विष्णुः प्रविष्टस्तु तथा रुद्रमयो भवेत् ॥५॥
अग्निमग्निः प्रविष्टस्तु अग्निरेव यथा भवेत् ।
तथा विष्णुं प्रविष्तस्तु रुद्रो विष्णुमयो भवेत् ॥६॥
रुद्रमग्निमयं विद्याद्विष्णुः सोमात्मकः स्मृतः ।
अग्निष्टोमात्मकं चैव जगत्स्थावरजंगमम् ॥७॥
कर्तारौ चापहर्तारौ स्थावरस्य चरस्य च ।
जगतः शुभकर्तारौ प्रभू विष्णुमहेश्वरौ ॥८॥
कर्तृकारणकर्तारौ कर्तृकारणकारकौ ।
भूतभव्यभवौ देवौ नारायणमहेश्वरौ ॥९॥
एतौ तौ च प्रवक्तारावेतौ तौ च प्रभामयौ ।
जगतः पालकावेतावेतौ स्षृटिकरौ स्मृतौ ॥१०॥
एते चैव प्रवर्षन्ति भान्ति वान्ति सृजन्ति च ।
एतत्परतरं गुह्यं कथितं ते पितामह ॥११॥
यश्चैनं पठते नित्यं यश्चैनं शृणुयान्नरः ।
प्राप्नोति परमं स्थानं विष्णुरुद्रप्रसादजम् ॥१२॥
देवौ हरिहरौ स्तोष्ये ब्रह्मणा सह संगतौ ।
एतौ च परमौ देवौ जगतः प्रभवाप्यायौ ॥१३॥
रुद्रस्य परमो विष्णुर्विष्णोश्च परमः शिवः ।
एक एव द्विधा भूतो लोके चरति नित्यशः ॥१४॥
न विना शंकरं विष्णुर्न विना केशवं शिवः ।
तस्मादेकत्वमयातौ रुद्रोपेन्द्रौ तु तौ पुरा ॥१५॥
नमो रुद्राय कृष्णाय नमः संहतचारिणे ।
नमः षडर्धनेत्राय द्विनेत्राय च वै नमः ॥१६॥
नमः पिङ्गलनेत्राय पद्मनेत्राय वै नमः ।
नमः कुमारगुरवे प्रद्युम्नगुरवे नमः ॥१७॥
नमो धरणीधराय गङ्गाधराय वै नमः ।
नमो मयूरपिच्छाय नमः केयूरधारिणे ॥१८॥
नमः कपालमालाय वनमालाय वै नमः ।
नमस्त्रिशूलहस्ताय चक्रहस्ताय वै नमः ॥१९॥
नमः कनकदण्डाय नमस्ते व्रतदण्डिने ।
नमश्चर्मनिवासाय नमस्ते पीतवाससे ॥२०॥
नमोऽस्तु लक्ष्मीपतये उमायाः पतये नमः ।
नमः खट्वाङ्गधाराय नमो मुसलधारिणे ॥२१॥
नमो भस्माङ्गरागाय नमः कृष्णाङ्गधारिणे ।
नमः श्मशानवासाय नमोऽस्त्वाश्रमवासिने ॥२२॥
नमो वृषभवाहाय नमो गरुडवाहिने ।
नमोऽस्त्वनेकरूपाय बहुरूपाय वै नमः ॥२३॥
नमः प्रलयकर्त्रे च नमः सृष्टिकराय च ।
नमोऽस्तु बहुरूपाय नमो भैरवरूपिणे ॥२४॥
विरूपाक्षाय देवाय नमः सौम्येक्षणाय च ।
दक्षयज्ञविनाशाय बलेर्नियमनाय च ॥२५॥
नमः पर्वतवासाय नमः सागरवासिने ।
नमः सुररिपुघ्नाय त्रिपुरघ्नाय वै नमः ॥२६॥
नमोऽस्तु नरकघ्नाय नमः कामाङ्गनाशिने ।
पुष्पदन्तविनाशाय नमो मधुविघातिने ॥२७॥
नमोऽस्त्वन्धकनाशाय नमः कैटभघातिने ।
नमः सहस्रहस्ताय नमोऽसंख्येयबाहवे ॥२८॥
नमः सहस्रशीर्षाय बहुशीर्षाय वै नमः ।
दामोदराय देवाय मुञ्जमेखलिने नमः ॥२९॥
नमस्ते भगवन् विष्णो नमस्ते भगवन् शिव ।
नमस्ते भगवन् देव नमस्ते देवपूजित ॥३०॥
नमस्ते सामभिर्गीत नमस्ते यजुर्भिः सह ।
नमस्ते सुरशत्रुघ्न नमस्तेऽसुरपूजित ॥३१॥
नमस्ते कर्मिणां कर्म नमोऽमितपराक्रम ।
हृषीकेश नमस्तेऽस्तु स्वर्णकेश नमोऽस्तु ते ॥३२॥
इमं स्तवं यो रुद्रस्य विष्णोश्चैव महात्मनः ।
समेत्य ऋषिभिः सर्वैः स्तुतौ तौ सुमहात्मभिः ॥३३॥
व्यासेन देवविदुषा नारदेन च धीमता ।
भारद्वाजेन गार्ग्येण विश्वामित्रेण वै तथा ॥३४॥
विश्वामित्रेण वात्स्येन तथा चैव सुमन्तुना ।
अगस्त्येन पुलस्त्येन धौम्येन च महात्मना ॥३५॥
यश्चेदं पठते स्तोत्रं नित्यं हरिहरात्मकम् ।
अरोगो बलवांश्चैव जायते नात्र संशयः ॥३६॥
श्रियं च लभते नित्यं न च स्वर्गान्निवर्तते ।
अपुत्रो लभते पुत्रं कन्या विन्दति सत्पतिम् ॥३७॥
गुर्विणी शृणुते या तु वरं पुत्रं प्रसूयते ।
राक्षसाश्च पिशाचाश्च भूतानि च विनायकाः ।
भयं तत्र न कुर्वन्ति यत्रायं पठ्यते स्तवः ॥३८॥
॥ इति हरिवंशान्तर्गतं मार्कण्डेयप्रोक्तं हरि-हराभिन्नतावर्णनस्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।