केतु कवच
ध्यानम्
धूम्रवर्णं ध्वजाकारं द्विभुजं वरदांगदम्।
चित्राम्बरधरं केतुं चित्रगन्धानुलेपनम् ॥
वैदूर्याभरणं चैव वैदूर्य मकुटं फणिम्।
चित्रंकफाधिकरसं मेरुं चैवाप्रदक्षिणम् ॥
केतुं करालवदनं चित्रवर्णं किरीटिनम् ।
प्रणमामि सदा देवं ध्वजाकारं ग्रहेश्वरम् ॥
॥ अथ केतु कवचं ॥
चित्रवर्णः शिरः पातु फालं मे धूम्रवर्णकः ।
पातु नेत्रे पिङ्गलाक्षः श्रुती मे रक्तलोचनः ॥
घ्राणं पातु सुवर्णाभो द्विभुजं सिंहिकासुतः ।
पातु कण्ठं च मे केतुः स्कन्धौ पातु ग्रहाधिपः ॥
बाहू पातु सुरश्रेष्ठः कुक्षिं पातु महोरगः ।
सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥
ऊरू पातु महाशीर्षो जानुनी च प्रकोपनः ।
पातु पादौ च मे रौद्रः सर्वाङ्गं रविमर्दकः ॥
इदं च कवचं दिव्यं सर्वरोगविनाशनम् ।
सर्वदुःखविनाशं च सत्यमेतन्नसंशयः ॥
॥ इति पद्मपुराणे केतु कवचम् ॥
केतु स्तोत्र
विनियोग : ॐ अस्य श्रीकेतुस्तोत्रमहामन्त्रस्य वामदेव ॠषिः, अनुष्टुप्छन्दः, केतुर्देवता, केतुप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
गौतम उवाच
मुनीन्द्र सूत तत्त्वज्ञ सर्वशास्त्रविशारद ।
सर्वरोगहरं ब्रूहि केतोः स्तोत्रमनुत्तमम् ॥१॥
सूत उवाच
शृणु गौतम वक्ष्यामि स्तोत्रमेतदनुत्तमम् ।
गुह्याद्गुह्यतमं केतोः ब्रह्मणा कीर्तितं पुरा ॥२॥
आद्यः करालवदनो द्वितीयो रक्तलोचनः ।
तृतीयः पिङ्गलाक्षश्च चतुर्थो ज्ञानदायकः ॥३॥
पञ्चमः कपिलाक्षश्च षष्ठः कालाग्निसन्निभः ।
सप्तमो हिमगर्भश्च धूम्रवर्णोष्टमस्तथा ॥४॥
नवमः कृत्तकण्ठश्च दशमः नरपीठगः ।
एकादशस्तु श्रीकण्ठः द्वादशस्तु गदायुधः ॥५॥
द्वादशैते महाक्रूराः सर्वोपद्रवकारकाः ।
पर्वकाले पीडयन्ति दिवाकरनिशाकरौ ॥६॥
नामद्वादशकं स्तोत्रं केतोरेतन्महात्मनः ।
पठन्ति येऽन्वहं भक्त्या तेभ्यः केतुः प्रसीदति ॥७॥
कुलुक्थधान्ये विलिखेत् षट्कोणं मण्डलं शुभम् ।
पद्ममष्टदलं तत्र विलिखेच्च विधानतः ॥८॥
नीलं घटं च संस्थाप्य दिवाकरनिशाकरौ ।
केतुं च तत्र निक्षिप्य पूजयित्वा विधानतः ॥९॥
स्तोत्रमेतत्पठित्वा च ध्यायन् केतुं वरप्रदम् ।
ब्राह्मणं श्रोत्रियं शान्तं पूजयित्वा कुटुम्बिनम् ॥१०॥
केतोः करालवक्त्रस्य प्रतिमां वस्त्रसंयुताम् ।
कुम्भादिभिश्च संयुक्तां चित्रातारे प्रदापयेत् ॥११॥
दानेनानेन सुप्रीतः केतुः स्यात्तस्य सौख्यदः ।
वत्सरं प्रयतो भूत्वा पूजयित्वा विधानतः ॥१२॥
मूलमष्टोत्तरशतं ये जपन्ति नरोत्तमाः ।
तेषां केतुप्रसादेन न कदाचिद्भयं भवेत् ॥१३॥
॥ इति केतुस्तोत्रं सम्पूर्णम् ॥
॥ केतु पंचविंशति नाम स्तोत्रं ॥
केतुः कालः कलयिता धूम्रकेतुर्विवर्णकः।
लोककेतुर्महाकेतुः सर्वकेतुर्भयप्रदः ॥१॥
रौद्रो रूद्रप्रियो रूद्रः क्रूरकर्मा सुगन्ध्रक।
फलाशधूम्रसंकाशश्चित्रयज्ञोपवीतधृक् ॥२॥
तारागणविमर्दो च जैमिनेयो ग्रहाधिपः।
पंचविंशति नामानि केतुर्यः सततं पठेत् ॥३॥
तस्य नश्यंति बाधाश्चसर्वाः केतुप्रसादतः।
धनधान्यपशूनां च भवेद् सद्भिर्नसंशय: ॥४॥
॥ इति पद्मपुराणे केतु पंचविंशति नाम स्तोत्रं ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।