॥ चमकः ॥
नमो नमस्ते गिरिजा सहाय नमो नमस्ते सुकृत स्वरूप ।
नमो नमस्तेऽन्नपते महेश नमो नमस्तेऽस्तु नमो नमस्ते ॥१॥
त्वत्पादांबुजभक्तिर्मे निश्चला भवतु प्रभो ।
त्वमेव शरणं शंभो गतिस्त्वं जगतां प्रभो ॥२॥
कर्माण्यस्य फलोन्मुखानि भगवंस्त्वत्पादपद्म यतो
दृष्टं दोषविवर्जितं सुखयुतं तावत्करोति स्वतः ।
तत्तावन्मुनिवृंदमानसमनः पद्मप्रविष्टं प्रभो
तन्मे मानस पंकजे क्षणमिति स्वामिन्मुदे जायताम् ॥३॥
वाजश्चमेऽस्तु प्रसवश्चमेऽस्तु त्वत्पूजया सा प्रयतिश्च मेऽस्तु।
महेश्वराशु-प्रसितिश्च-मेऽस्तु ध्वीतिश्चमेऽस्तु-ऋतुरस्तु-शंभु ॥४॥
स्वरश्च मेऽस्तु वरदेश शंभो श्लोकश्चमेऽस्तु श्रुतिगीतकीर्ते ।
श्रावश्च-मेऽस्तु-श्रुतिरस्तु-शंभो शिवभिधानश्रवणाय-नित्यम्॥५॥
ज्योतिश्चमेऽस्तु ज्वलन स्वरूप स्रुवश्चमेऽस्तु त्रिपुरासुरारे ।
प्राणश्चमे तावदपानयुक्तो व्यानश्चमेऽसुश्च तथैव चित्तम् ॥६॥
अधीतं च तथा वाक्च मनश्चक्षुश्च मे प्रभो ।
श्रोत्रं दक्षो बलं चोजः सहश्चायुश्च मे प्रभो ॥७॥
जरा चात्मा च मे शंभो तनूश्शर्म च वर्म च ।
अंगान्यस्थीनि भगवन् परूंषि च भवन्तु मे ॥८॥
शरीराणि भवन्त्वीश तानि रम्याणि मे प्रभो ।
ज्येष्ठ्यं च मेऽधिपत्यं च मनुर्भामश्च मे प्रभो ॥९॥
अमश्चांबश्च जेमा च महिमा वरिमा च मे ।
प्रथिमा चास्तु गौरीश वर्मा च द्राघुया च मे ॥१०॥
वृद्धं वृद्धिश्च सत्यं च श्रद्धा चास्तु जगच्च मे ।
धनं वशास्त्वहिश्चास्तु क्रीडा मोदश्च मे प्रभो ॥११॥
जातं जनिष्यमाणं च सूक्तं मे सुकृतं च मे ।
वित्तं वेद्यं च भूतं च भविष्यं च सुगं च मे ॥१२॥
सुपथं ऋद्धमृद्धिश्च क्लुप्तं क्लुप्तिश्च मे मतिः ।
सुमतिः शं मयश्चास्तु प्रियं चास्तु शिवाशु मे ॥१३॥
अनुकामश्च कामश्च शंभो सौमनसं च मे ।
भद्रं श्रेयश्च वस्यश्च यशो मे सुभगश्च मे ॥१४॥
द्रविणं चास्तु यन्ता च धर्ता क्षेमश्च मे धृतिः ।
विश्वं महश्च संविच्च ज्ञात्रं सूश्च प्रसूश्च मे ॥ १५॥
शीरं रयो ऋतं चास्तु भगवन्नमृतं च मे ।
अयक्ष्मं चानामयच्च जीवातु श्वास्तु मे सदा ॥१६॥
दीर्घायुत्वानमित्रं च सर्वदाप्यभयं च मे ।
सुगं च शयनं सूषा सुदिनं चास्तु मे सदा ॥१७॥
ऊर्क्च मे सूनृता चास्तु पयश्चास्तु रसश्च मे ।
घृतं मधु च सग्धिश्च सपीतिश्च कृषिश्च मे ॥१८॥
वृष्टिश्च चैत्रमौद्भिद्यं रयिश्चास्तु सदापि मे ।
रायः पुष्टं च पुष्टिश्च विभु च प्रभु च प्रभो ॥१९॥
बहु भूयश्च पूर्णं च तथा पूर्णतरं च मे ।
अक्षितिश्चास्तु भगवन्नूयवाश्च भवन्तु मे ॥२०॥
अन्नमन्नपते मेस्तु केनास्तु क्षुश्च मे प्रभो ।
मे व्रीहयश्च यवा माषास्तिलामुद्राश्च मे शिव ॥२१॥
खल्वाश्च सन्तु गोधूमा मसूराश्च प्रियंगवः ।
अणवः सन्तु मे नित्यं श्यामाकाः सन्तु मे प्रभो ॥२२॥
नीवाराद्याश्च मे सन्तु गृहे सर्वान्ननायक ।
अश्मा च मृत्तिका चास्तु गिरयः पर्वताश्च मे ॥२३॥
सिकताः सन्तु भगवन्मे वनस्पतयश्च मे ।
हिरण्यमस्त्वयश्चास्तु तथा सीसं त्रपुश्च मे ॥२४॥
श्यामं लोहं च मेग्निश्च गृहे तिष्ठन्तु सर्वदा ।
आपश्च वीरुधः संतु तथैवोषधयोऽपि मे ॥२५॥
कृष्टवच्यं च बहुधा मम तिष्ठतु वेश्मनि ।
तथैवाकृष्टपच्यं च वनसंभवमस्तु मे ॥२६॥
गोमहिष्यादयो ग्राम्याः पशवः सन्तु मे गृहे ।
सदा यज्ञेन कल्पन्तामारण्याः पशवश्च मे ॥२७॥
वित्तं वित्तिश्च भूतं च भूतिश्च वसतिर्वसु।
शिवपूजादिकं कर्म शक्तिश्च शिवपूजने ॥२८॥
एमश्चास्तु ममेतिश्च गतिश्चास्तु शिवार्चने ।
अग्निरिन्दुश्च मे सोमः सविता च सरस्वती ॥२९॥
पूषा बृहस्पतिर्मित्रस्त्वष्टा च वरुणश्च मे ।
धाता विष्णुरप्यस्तु मे गृहकर्मरस्तुश्च मे ॥३०॥
अश्विनौचममेशान तिष्ठतां सर्वदा गृहे ।
प्रसर्पत विश्वेदेवाश्च मे मरुतश्च मे गृहे ॥३१॥
त्वदाज्ञावशगानेतानग्नींद्रादिसुरान् शिव।
मद्वशान्कुरु विश्वेश दक्षान्महकर्मणि ॥३२॥
अन्तरिक्षं च पृथिवी द्यौरप्यस्तु दिशश्च मे ।
मूर्धा प्रजापतिश्चास्तु मे भवत्कृपया भव ॥३३॥
अंशुश्च रश्मिरप्यस्तु मेधाभ्योऽधिपतिश्च मे ।
उपांशुरन्तर्यामश्व ममस्यादैन्द्रवायवः ॥३४॥
मे मैत्रावरुणश्चास्तु तथैवास्तु ममाश्विनः ।
प्रतिप्रस्थानशुक्रौ च मंथी चाग्रयणश्च मे ॥३५॥
वैश्वदेवो ध्रुवश्चापि तथा वैश्वानरश्च मे ।
मे ऋतुग्रहाश्च मे सन्तु सातिग्राह्याश्च शंकर ॥३६॥
ऐन्द्राग्नौ वैश्वदेवश्च ग्रहाः सोमोपयोगिनः ।
तथा मरुत्वतीयाश्च ग्रहाः सन्तु सदापि मे ॥३७॥
माहेन्द्रश्च तथादित्यः सावित्रश्चास्तु मे ग्रहाः ।
सारस्वतश्च पौष्णश्च तथा पानीवतश्च मे ॥३८॥
स हारियोजनश्चास्तु ममेध्मश्चास्तु सर्वदा ।
बर्हिर्वेदिश्च धिष्णियाश्च स्रुचश्च चमसाश्च मे ॥३९॥
ग्रावाणः स्वरवः सन्तु तथैवोपरवाश्च मे ।
ते मे धिषवणे सन्तु ते द्रोणकलशश्च मे ॥४०॥
वायुव्यानि च मे सन्तु पूताभृच्चास्तु मे प्रभो ।
तथैवाधवनीयश्च तदाग्नीत्रं च मे प्रभो ॥४१॥
हविर्दानं च मे स्वामिन्गृहाश्चैव सदश्च मे ।
पुरोडाशाश्च मे स्वामिन्पचताश्च भवन्तु मे ॥४२॥
तथैवावभृतः सन्तु स्वगाकारश्च मे प्रभो ।
अग्निर्घर्मश्च मेर्कश्च प्राणश्च मे प्रभो ॥४३॥
अश्वमेधश्च पृथिवी द्यौरप्यदिरस्तु मे ।
मे शक्वरीरंगुलयो दिशश्च विदिशश्च मे ॥४४॥
तथा यज्ञेन कल्पंतां ऋक्च साम च मे प्रभो ।
स्तोम यजुश्च दीक्षा च तपश्चास्तु ऋतुश्च मे ॥४५॥
व्रतं चाहोरात्रयोर्यदृष्ट्या तु नियमात्मकं ।
बृहद्रथन्तरे यज्ञे कल्पेतां फाललोचन ॥४६॥
गर्भा वत्सश्च भगवन्त्र्यविश्वास्तु महेश्वर।
त्र्यवी-च-मे-दित्यवाट्च दित्याही च सदाशिव ॥४७॥
पंचाविश्च महादेव पंचावी च त्रिलोचन ।
त्रिवत्सश्च त्रिवत्सा च तुर्यवाट्चैव मे प्रभो ॥४८॥
तुर्यौही षष्ठवाच्चास्तु षष्ठौही च महेश्वर।
उक्षा वंशा च ऋषभो वेहन्नड्वान् च मे प्रभो ॥४९॥
तथास्तु धेनुरप्यस्तु भगवन्क्षीरायाति मनोहर ।
यज्ञेन कल्पतामायुः प्राणो यज्ञेन कल्पताम् ॥५०॥
अपानोऽपि स यज्ञेन व्यानेन सह कल्पतां ।
चक्षुः श्रोत्रं च यज्ञेन मनसा सह कल्पताम् ॥५१॥
वागात्मापि तथा यज्ञोप्येवं यज्ञेन कल्पतां ।
त्वदधीनमिदं सर्वं तवेति प्रार्थितं मया ॥५२॥
सर्वस्वतंत्रोऽसि महेश यस्मा त्त्वमेव दातासि तवापि देयाः ।
उक्ताश्च तावच्चमकेन देहि तान स्वतन्त्रांच्छिवपूजकाय ॥५३॥
तेषां प्रदेयत्वविनिश्चयेन तां देहि मह्यं शिवपूजकाय ।
ते तावतस्मद्गृहकर्मयोग्याः योग्येन योगस्य किलान्वयोपि ॥५४॥
एते पदार्थाः प्रथितास्त्वदीयास्ते शर्वदेयास्तव दानयोग्याः ।
अहं शिवाराधन सक्तचित्तः कोऽवा मदन्योस्ति स दानयोग्यः ॥५५॥
दातापि देये सति दानयोग्यं विहाय कस्मैप्रददाति भक्त्या ।
विद्वानतो देहि महेश तान्मे लोके मदन्यस्तु न कोऽपि पात्रम् ॥५६॥
त्वद्दत्तमेतादृशभाग्यमेत्य त्वत्पादपूजानिरतो भवानि ।
प्रमादलेशोऽपि तदा न बावि भवे भवे त्वत्पदपूजकस्य ॥५७॥
महाप्रभुः शंभुरुमासहायो दयामयो भूतिमयोऽपिदाता ।
माता पिता मे स हित प्रदाता धाता विधाता परमोतसंदृक् ॥५८॥
मन्ये शंकर देवदेव तव तद्दातृत्वमव्याहतं
तेनाग्निप्रमुखान्सुरानपि सदा तान्न स्वतंत्रान्स्वतः।
मह्यं देहि मदिच्छया परमिमा कुर्वन्तु कृत्यानि मे।
शक्तिर्यस्य यथा यथास्ति भगवन्सर्वस्वतन्त्र प्रभो ॥५९॥
देयत्वेन विनिश्चितास्तवसुराः सर्वेऽपि वेदैरपि।
दाता त्वं तव भाग्यमप्यविलयं भूयः समुज्जृंभते ।
अस्माकं तु महाप्रभुर्भवानैवेति चित्तं मुहुः।
स्वानंदांबुधिवीचिकातिचपला लीलाविलासास्पदम् ॥६०॥

॥ स्वस्ति श्री शिवरहस्ये हराख्ये तृतीयांशे पूर्वार्धे शिलादकृत चमक विधान प्रार्थनं चतुस्त्रिंशः ॥ साम्बसदाशिवार्पणमस्तु ॥