हम भगवान राम की आराधना विष्णु अवतार रूप में करते हैं। भगवान श्री राम की उपासना में हमें उनके स्तुतियों की भी आवश्यकता होती है जिसके द्वारा उन्हें प्रसन्न करने का प्रयास कर सकें। इसीलिये यहां अनेकों महत्वपूर्ण श्री राम स्तुति (ram stuti) संस्कृत में दिये गए हैं जो आपके लिये उपयोगी हो सकते हैं।
पढ़िये श्री राम स्तुति संस्कृत में – ram stuti
यहां भगवान श्री राम की अनेकों स्तुतियां संस्कृत में दी गयी है जो इस प्रकार है : अध्यात्म रामायणोक्त श्री राम स्तुति, स्कन्दपुराणोक्त श्री राम स्तुति, वराहपुराणोक्त श्री राम स्तुति और बाल्मीकि रामायणोक्त श्री राम स्तुति।
अध्यात्म रामायणोक्त श्री राम स्तुति
ब्रह्मोवाचः
वन्दे देवं विष्णुमशेषस्थितिहेतुं त्वामध्यात्मज्ञानिभिरन्तर्हृदि भाव्यम् ।
हेयाहेयद्वन्द्वविहीनं परमेकं सत्तामात्रं सर्वहृदिस्थं दृशिरूपम् ॥१॥
प्राणापानौ निश्चयबुद्ध्या हृदि रुद्ध्वा छित्वा सर्वं संशयबन्धं विषयौघान् ।
पश्यन्तीशं यं गतमोहा यतयस्तं वन्दे रामं रत्नकिरीटं रविभासम् ॥२॥
मायातीतं माधवमाद्यं जगदादिं मानातीतं मोहविनाशं मुनिवन्द्यम् ।
योगिध्येयं योगविधानं परिपूर्णं वन्दे रामं रञ्जितलोकं रमणीयम् ॥३॥
भावाभावप्रत्ययहीनं भवमुख्यैर्भोगासक्तैरर्चितपादाम्बुजयुग्मम् ।
नित्यं शुद्धं बुद्धमनन्तं प्रणवाख्यं वन्दे रामं वीरमशेषासुरदावम् ॥४॥
त्वं मे नाथो नाथितकार्याखिलकारी मानातीतो माधवरूपोऽखिलधारी ।
भक्त्या गम्यो भावितरूपो भवहारी योगाभ्यासैर्भावितचेतःसहचारी ॥५॥
त्वामाद्यन्तं लोकततीनां परमीशं लोकानां नो लौकिकमानैरधिगम्यम् ।
भक्तिश्रद्धाभावसमेतैर्भजनीयं वन्दे रामं सुन्दरमिन्दीवरनीलम् ॥६॥
को वा ज्ञातुं त्वामतिमानं गतमानं मानासक्तो माधवशक्तो मुनिमान्यम् ।
वृन्दारण्ये वन्दितवृन्दारकवृन्दं वन्दे रामं भवमुखवन्द्यं सुखकन्दम् ॥७॥
नानाशास्त्रैर्वेदकदम्बैः प्रतिपाद्यं नित्यानन्दं निर्विषयज्ञानमनादिम् ।
मत्सेवार्थं मानुषभावं प्रतिपन्नं वन्दे रामं मरकतवर्णं मथुरेशम् ॥८॥
श्रद्धायुक्तो यः पठतीमं स्तवमाद्यं ब्राह्मं ब्रह्मज्ञानविधानं भुवि मर्त्यः ।
रामं श्यामं कामितकामप्रदमीशं ध्यात्वा ध्याता पातकजालैर्विगतः स्यात् ॥९॥
॥ इति श्रीमद्ध्यात्मरामायणे युद्धकाण्डे ब्रह्मदेवकृतं रामस्तोत्रं सम्पूर्णम् ॥
स्कन्दपुराणोक्त श्री राम स्तुति
नमो रामाय हरये विष्णवे प्रभविष्णवे ।
आदिदेवाय देवाय पुराणाय गदाभृते ॥१॥
विष्टरे पुष्पके नित्यं निविष्टाय महात्मने ।
प्रहृष्ट वानरानीक जुष्ट पादाम्बुजायते ॥२॥
निष्पिष्ट राक्षसेन्द्राय जगदिष्ट विधायिने ।
नमः सहस्र शिरसे सहस्र चरणाय च ॥३॥
सहस्राक्षाय शुद्धाय राघवाय च विष्णवे ।
भक्तार्ति हारिणे तुभ्यं सीतायाः पतये नमः ॥४॥
हरये नारसिंहाय दैत्यराज विदारिणे ।
नमस्तुभ्यं वराहाय दंष्ट्रोद्धृत वसुन्धरे ॥५॥
त्रिविक्रमाय भवते बलि यज्ञ विभेदिने ।
नमो वामन रूपाय नमो मन्दर धारिणे ॥६॥
नमस्ते मत्स्य रूपाय त्रयी पालन कारिणे ।
नमः परशुरामाय क्षत्रियान्त कराय ते ॥७॥
नमस्ते राक्षसघ्नाय नमो राघव रूपिणे ।
महादेव महाभीम महाकोदण्ड भेदिने ॥८॥
क्षत्रियान्तकरक्रूर भार्गव त्रास कारिणे ।
नमोऽस्त्व हिल्यासन्ताप हारिणे चाप हारिणे ॥९॥
नागायुत वलोपेत ताटका देह हारिणे ।
शिला कठिन विस्तार वालिवक्षो विभेदिने ॥१०॥
नमो माया मृगध्वंस कारिणेऽज्ञान हारिणे ।
दशस्यन्दन दुःखाब्धि शोषणागस्त्य रूपिणे ॥११॥
अनेकोर्मि समाधूत समुद्रमद हारिणे ।
मैथिली मानसाम्भोज भानवे लोक साक्षिणे ॥१२॥
राजेन्द्राय नमस्तुभ्यं जानकी पतये हरे ।
तारक ब्रह्मणे तुभ्यं नमो राजीव लोचन ॥१३॥
रामाय राम चन्द्राय वरेण्याय सुखात्मने ।
विश्वामित्र प्रियायेदं नमः खर विदारिणे ॥१४॥
प्रसीद देव देवेश भक्तानामभयप्रद ।
रक्ष मां करुणा सिन्धो रामचन्द्र नमोस्तुते ॥१५॥
रक्ष मां वेद वचसामप्यगोचर राघव ।
पाहिमां कृपया राम शरणं त्वामुपैम्यहम् ॥१६॥
रघुवीर महामोहमपाकुरु ममाधुना ।
स्नाने चाचमने भुक्तौ जाग्रत्स्वप्न सुषुप्तिषु ॥१७॥
सर्वावस्थासु सर्वत्र पाहिमां रघुनन्दन ।
महिमानं तवस्तोतुं कः समर्थो जगत्त्रये ॥१८॥
त्वमेव त्वन्महत्त्वं वै जानासि रघुनन्दन ।
अतस्ते शरणं यामि सर्वभावेन सर्वदा ॥१९॥
॥ इति स्कन्दपुराणान्तर्गता श्रीहनुमत्कृता श्रीरामस्तुतिः समाप्ता ॥
वराहपुराणोक्त श्री राम स्तुति
सुप्रतीक उवाच
नमामि रामं नरनाथमच्युतं कविं पुराणं त्रिदशारिनाशनम् ।
शिवस्वरूपं प्रभवं महेश्वरं सदा प्रपन्नार्तिहरं धृतश्रियम् ॥
भवान् सदा देव समस्ततेजसां करोषि तेजांसि समस्तरूपधृक् ।
क्षितौ भवान् पञ्चगुणस्तथा जले चतुःप्रकारस्त्रिविधोऽथ तेजसि ।
द्विधाऽथ वायौ वियति प्रतिष्ठितो भवान् हरे शब्दवपुः पुमानसि ॥
भवान् शशी सूर्यहुताशनोऽसि त्वयि प्रलीनं जगदेतदुच्यते ।
भवत्प्रतिष्ठं रमते जगद्यतः स्तुतोऽसि रामेति जगत् प्रतिष्ठितम् ॥
भवार्णवे दुःखतरोर्मिसङ्कुले तथाक्षमानग्रहणेऽतिभीषणे ।
न मज्जति त्वत्स्मरणप्लवो नरः स्मृतोऽसि रामेति तथा तपोवने ॥
वेदेषु नष्टेषु भवांस्तथा हरे करोषि मात्स्यं वपुरात्मनः सदा ।
युगक्षये रञ्जितसर्वदिङ्मुखो भवांस्तथाग्निर्बहुरूपधृग् विभो ॥
कौर्मं तथा ते वपुरास्थितः सदा युगे युगे माधव तोयमन्थने ।
न चान्यदस्तीति भवत्समं क्वचिज्जनार्दनाद्यः स्वयं भूतमुत्तमम् ॥
त्वया ततं विश्वमिदं महात्मन् स्वकाखिलान् वेद दिशश्च सर्वाः ।
कथं त्वमाद्यं परमं तु धाम विहाय चान्यं शरणं व्रजामि ॥
भवानेकः पूर्वमासीत् ततश्च त्वत्तो मही सलिलं वह्निरुच्चैः ।
वायुस्तथा खं च मनोऽपि बुद्धिश्चेतोगुणास्तत्प्रभवं च सर्वम् ॥
त्वया ततं विश्वमिदं समस्तं सनातनस्त्वं पुरुषो मतो मे ।
समस्तविश्वेश्वर विश्वमूर्ते सहस्रबाहो जय देव देव ।
नमोऽस्तु रामाय महानुभाव ॥
इति स्तुतो देववरः प्रसन्नः तदा राज्ञः सुप्रतीकस्य मूर्तिम् ।
सन्दर्शयामास ततोऽभ्युवाच वरं वृणीष्वेति च सुप्रतीकम् ॥
एवं श्रुत्वा वचनं तस्य राजा ससम्भ्रमं देवदेवं प्रणम्य ।
उवाच देवेश्वर मे प्रयच्छ लयं यदास्ते परमं वपुस्ते ॥
इतीरिते राजवरः क्षणेन लयं तथाऽगादसुरघ्नमूर्तौ ।
स्थितस्तस्मिन्नात्मभूतो विमुक्तः स भूमिपः कर्मकाण्डैरनेकैः ॥
॥ इति वराहपुराणे द्वादशाध्यायान्तर्गता राजा सुप्रतीककृता श्रीरामस्तुतिः समाप्ता ॥
बाल्मीकि रामायणोक्त श्री राम स्तुति
ततो हि दुर्मना रामः श्रुत्वैव वदतां गिरः ।
दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः ॥१॥
ततो वैश्रवणो राजा यमश्चामित्रकर्शनः ।
सहस्राक्षो महेन्द्रश्च वरुणश्च परन्तपः ॥२॥
षडर्धनयनः श्रीमान् महादेवो वृषध्वजः ।
कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः ॥३॥
एते सर्वे समागम्य विमानैः सूर्यसन्निभैः ।
आगम्य नगरीं लङ्कामभिजग्मुश्च राघवम् ॥४॥
ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान् ।
अब्रुवन्स्त्रिदशश्रेष्ठा राघवं प्राञ्जलिं स्थितम् ॥५॥
कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां वरः ।
उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने ॥६॥
कथं देवगणश्रेष्ठमात्मानं नावबुध्यसे ।
ऋतधामा वसुः पूर्वं वसूनां त्वं प्रजापतिः ॥७॥
त्वं त्रयाणां हि लोकानामादिकर्ता स्वयम्प्रभुः ।
रुद्राणामष्टमो रुद्रः साध्यानामपि पञ्चमः ॥८॥
अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी ।
अन्ते चादौ च लोकानां दृश्यसे त्वं परन्तप ॥९॥
उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा ।
इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः ॥१०॥
अब्रवीत् त्रिदशश्रेष्ठान् रामो धर्मभृतां वरः ।
आत्मानं मानुषं मन्ये रामं दशरथात्मजम् ॥११॥
योऽहं यस्य यतश्चाहं भगवान् प्रब्रवीतु मे ।
इति ब्रुवाणं काकुत्स्थं ब्रह्मा लोकपितामहः ॥१२॥
अब्रवीच्छृणु मे राम सत्यं सत्यपराक्रम ।
भवान्नारायणो देवः श्रीमांश्चक्रधरो हरिः ॥१३॥
एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित् ।
अक्षरं ब्रह्म सत्यं च त्वं मध्येऽन्ते च राघव ॥१४॥
लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः ।
शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः ॥१५॥
अजितः खड्गभृद्विष्णुः कृष्णश्चैव बृहद्बलः ।
सेनानीर्ग्रामणीश्च त्वं त्वं बुद्धिस्त्वं क्षमा दया ॥१६॥
प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः ।
इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत् ॥१७॥
शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः ।
सहस्रशृङ्गो वेदात्मा शतजिह्वो महर्षभः ॥१८॥
त्वं त्रयाणां हि लोकानामादिकर्ता स्वयम्प्रभुः ।
सिद्धानामपि साध्यानामाश्रयश्चासि पूर्वजः ॥१९॥
त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः परन्तप ।
प्रभवं निधनं वा ते न विदुः को भवानिति ॥२०॥
दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च ।
दिक्षु सर्वासु गगने पर्वतेषु वनेषु च ॥२१॥
सहस्रचरणः श्रीमान् शतशीर्षः सहस्रदृक् ।
त्वं धारयसि भूतानि वसुधां च सपर्वताम् ॥२२॥
अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगैः ।
त्रीन् लोकान् धारयन् राम देवगन्धर्वदानवान् ॥२३॥
अहं ते हृदयं राम जिह्वा देवी सरस्वती ।
देवा गात्रेषु रोमाणि निर्मिता ब्रह्मणा प्रभो ॥२४॥
निमेषस्तेऽभवद्रात्रिरुन्मेषस्तेऽभवद्दिवा ।
संस्कारास्तेऽभवन् वेदा न तदस्ति त्वया विना ॥२५॥
जगत्सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् ।
अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षण ॥२६॥
त्वया लोकाः समाक्रान्ताः पुराणे विक्रमैस्त्रिभिः ।
महेन्द्रश्च कृतो राजा बलिं बद्ध्वा महासुरम् ॥२७॥
सीता लक्ष्मीर्भवान् विष्णुर्देवः कृष्णः प्रजापतिः ।
वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् ॥२८॥
तदिदं नः कृतं कार्यं त्वया धर्मभृतां वर ।
निहतो रावणो राम प्रहृष्टो दिवमाक्रम ॥२९॥
अमोघं बलवीर्यं ते न ते मोघः पराक्रमः ।
अमोघं दर्शनं राम न च मोघस्तव स्तवः ॥३०॥
अमोघास्ते भविष्यन्ति भक्तिमन्तस्तु ये जनाः ।
ये त्वां देव ध्रुवं प्राप्ताः पुराणपुरुषोत्तमम् ॥३१॥
प्राप्नुवन्ति सदा कामानिह लोके परत्र च ।
इममार्षं स्तवं नित्यमितिहासं पुरातनम् ।
ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः ॥३२॥
॥ इति श्रीब्रह्मकृता रामस्तुतिः सम्पूर्णा ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।