श्रीवराहपुराणे एकाशीतितमोऽध्यायः
रुद्र उवाच अतः परं पर्वतेषु देवानामवकाशा वर्ण्यन्ते ।
तत्र योऽसौशान्ताख्यः पर्वतस्तस्योपरि महेन्द्रस्य क्रीडास्थानम् ।
तत्र देवराजस्य पारिजातकवृक्षवनम् ।
तस्य पूर्वपार्श्वे कुञ्जरो नाम गिरिः । तस्योपरि दानवानामष्टौ पुराणि च ।
तथा वज्रके पर्वतवरे राक्षसानामनेकानि पुराणि ।
ते च नाम्ना नीलकाः कामरूपिणः । महानीलेऽपि शैलेन्द्रपुराणि ।
पञ्चदशसहस्राणि किन्नराणां ख्यातानि ।
तत्र देवदत्तचन्द्रादयो राजानः । पञ्चदशकिन्नराणां गर्विताः ।
तानि सौवर्णानि बिलप्रवेशनानि च पुराणि ।
चन्द्रोदये च पर्वतवरे नागानामधिवासः ।
ते च बिलप्रवेशाः बिलेषु वैनतेयविषयावर्त्तिनो
व्यवस्थितानुरागे च दानवेन्द्रा व्यवस्थिताः ।
वेणुमत्यपि विद्याधरपुरत्रयम् ।
त्रिंशद्योजनशत विस्तीर्णमेकैकं तावदायतम् ।
उलूकरोमशमहावेत्रादयश्च राजानो विद्याधराणाम् । एकैके च शैलराजनि स्वयमेव गरुडो व्यवस्थितः ।
कुञ्जरे तु पर्वतवरे नित्यं पशुपतिः स्थितः । वृषभाङ्को महादेवः शङ्करो योगिनां वरः अनेकगणभूतकोटिसहस्रवारो भगवान् अनादिपुरुषो व्यवस्थितः ।
वसुधारे च पुष्पवतां वसूनां चसमावासः ।
वसुधाररत्नधारयोर्मूर्ध्नि अष्टौ सप्त च सङ्ख्यया ।
पुराणि वसुसप्तर्षीणां चेति ।
एकशृङ्गे च पर्वतोत्तमेप्रजापतेः स्थानं चतुर्वक्त्रस्य ब्रह्मणः ।
गजपर्वते च महाभूतपरिवृता स्वयमेव भगवती तिष्ठति ।
वसुधारे च पर्वतवरे मुनिसिद्धविद्याधराणामायतनं चतुराशीत्यपरपुर्योमहाप्राकारतोरणाः ।
तत्र चानेकपर्वता नाम गन्धर्वा युद्धशालिनो वसन्ति ।
तेषां चाधिपतिर्देवो राजराजैकपिङ्गलः ।
सुरराक्षसाः पञ्चकूटे दानवाः शतशृङ्गे यक्षाणां पुरःशतम् ।
ताम्राभे तक्षकस्य पुरःशतम् । विशखपर्वते गुहस्यायतनम् ।
श्वेतोदये गिरिवरे महागन्धर्वभवनम् । हरिकूटे हरिर्देवः ।
कुमुदे किन्नरावासः । अञ्जने महोरगाः ।
सहस्रशिखरे च
दैत्यानामुग्रकर्मिणामावासः ।
पुराणां सहस्रमेकं हेममालिनां मुकुटे पन्नप्रपक्षे पर्वतवरे चत्वार्यायतनानि तु ।
एवं मेरुपर्वतेषु देवानामधिवासः ।
मर्यादापर्वते देवकूटे पुरविन्यासः कीर्त्यते ।
तस्योपरि योजनशतं गरुडस्य जातं क्षेत्रम् ।
तस्यैव पार्श्वतस्त्रिंशद्योजनविस्तीर्णाश्चत्वारिंशदायताः सप्तगन्धर्वनगराः ।
आग्नेयाश्च नाम्नागन्धर्वातिबलिनः ।
तत्र चान्यत् त्रिंशद्योजनमण्डलं पुरं सैंहिकेयानाम् ।
तत्र च देवर्षिचरितानि देवकूटे दृश्यन्ते ।
पुरं च कालकेयानां तत्रैव ।
तथा चान्तरतटेऽन्येसुनान्नाम तस्यैव दक्षिणे त्रिंशद्योजनविस्तृतं द्विषष्टियोजनायामं पुरं
कामरूपिणां दृप्तानां मध्यमे च तस्य हेमकूटे महादेवस्य न्यग्रोधः ।
अथातः कैलासवर्णको भवति ।
कैलासस्य तटे योजनशतमायामवस्तृतं भुवनमालाभिव्याप्तम् ।
तस्याश्च मध्ये सभा । तत्र च तत्पुष्करं नाम विमानं तिष्ठति ।
धनदस्य च तद्विमानमधिवासश्च ।
तत्र पद्ममहापद्ममकरकच्छप कुमुदशङ्खनीलनन्दमहानिधयः प्रतिवसन्ति ।
तत्र चन्द्रादीनां लोकपालानामावासः । तत्र च मन्दाकिनी नाम नदी ।
तथा कनकमन्दा मन्दा चेति नामभिः सरितः ।
तत्रान्या अपि नद्यः सन्ति ।
पूर्वपार्श्वे च शतयोजनमायामास्त्रिंशद्योजनविस्तृता दशगन्धर्वपुर्यः तासु च
सकुबाहुहरिकेशचित्रसेनादयो राजानः ।
तस्यैव च पश्चिमकूटे अशीतियोजनायामं चत्वारिंशद्विस्तृतमेकैकं यक्षनगरम् ।
तेषु च महामालिसुनेत्र चक्रादयो नायकाः ।
तस्यैव दक्षिणे पार्श्वे कुञ्जदरीषु गुहासु समुद्राः समुद्रं यावत्किन्नराणां पुरशतम् ।
तेषु च द्रुमसुग्रीवादिभगदत्तप्रमुखं राजशतम् ।
तत्र च रुद्रस्योमया सार्द्धं विवाहस्संवृत्तः ।
तपश्च कृतवती गौरी । किरातरूपिणा च रुद्रेण स्थितम् ।
तत्रैव तत्र स्थितेन सोमेन शङ्करेण जम्बूद्वीपावलोकनं कृतम् ।
तत्र चानेककिन्नरगन्धर्वोपगीतमुमावनं नामाप्सरोभिरनेकपुष्पलतावल्लीभिरुपेतम् ।
यत्र भगवता महेश्वरेणार्द्धनारीनरवपुः प्राप्तम् ।
तत्र च कार्तिकेयस्य शरद्वनम् ।
पुष्पचित्रक्रौञ्चयोर्मध्ये कार्तिकेयाभिषेकः कृतः
तस्य च पूर्वतटे सिद्धमुनिगणावासः कलापग्रामो नाम ।
तथा च मार्कण्डेयवसिष्ठपराशरनलविश्वामित्रोद्दालकादीनां महर्षीणामनेकानि सहस्राण्याश्रमाणां हि भवति । तथा च पश्चिमस्याचलेन्द्रस्य निषधस्य भागं शृणुत ।
तस्य च मध्यमकूटे विष्ण्वायतनं महादेवस्य ।
तस्यैवोत्तरतटे त्रिंशद्योजनविस्तृतं महत्पुरं लम्बाख्यातं राक्षसानाम् ।
तस्यैव दक्षिणे पार्श्वे बिलप्रवेशनगरम् ।
प्रभेदकस्य पश्चिमेन देवदानवसिद्धादीनां पुराणि ।
तस्य गिरेर्मूर्ध्नि महती सोमशिला तिष्ठति ।
तस्यां च पर्वणि सोमः स्वयमेवावतरति । तस्यैवोत्तरपार्श्वे त्रिकूटं नाम ।
तत्र ब्रह्मा तिष्ठति क्वचित् । तथा च वह्न्यायतनम् ।
मूर्त्तिमान् वह्निरुपास्यते देवैः । उत्तरे च शृङ्गाख्ये पर्वतवरे देवतानामायतनानि ।
पूर्वे नारायणस्यायतनम् ।
मध्ये ब्रह्मणः । शङ्करस्य पश्चिमे
तत्र च यक्षादीनां केचित् पुराणि तस्य चोत्तरतीरे जातुछे महापर्वते
त्रिंशद्योजनमण्डलं नन्दजलं नाम सरस्तत्र नन्दो नाम नागराजा
वसति । शतशीर्षप्रचण्ड इति इत्येतेऽष्टौ देवपर्वता विज्ञेयाः ।
ते चानुक्रमेण हेमरजतरत्नवैदूर्यमानः शिलाहिङ्गुलादिवर्णाः ।
इयं च पृथ्वी लक्षकोटिशतानेकसङ्ख्यातानां पूर्णा तेषु च
सिद्धविद्याधराणां निलयाः ते च मेरोः पार्श्वतः केसरवलयालवालं
सिद्धलोकेति कीर्त्त्यते । इयं पृथ्वी पद्माकारेण व्यवस्थिता । एष
च सर्वपुराणेषु क्रमः सामान्यतः प्रतिपाद्यते ।
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकाशीतितमोऽध्यायः ॥८१॥