तृतीयोऽध्यायः
मयाऽपि कथितं विप्र किमन्यत् कथयामि ते ॥५५॥
शौकन उवाच
तस्माद् विप्र व्रतं केन पृथिव्यां चरितं मुने । तत् सर्वं श्रोतुमिच्छामि श्रद्धाऽस्माकं प्रजायते ॥५६॥
सूत उवाच
शृणुध्वं मुनयः सर्वे तस्माद् येन कृतं भुवि ॥५७॥
एकदा स द्विजवरो यथाविभवविस्तरैः । बन्धुभिः स्वजनैः सार्द्धं व्रतं कर्तुं समुद्यतः ॥५८॥
एतस्मिन्नन्तरे काले काष्ठक्रेतुः समागतः । बहिष्काठञ्च संस्थाप्य विप्रस्य मन्दिरं ययौ ॥५९॥
तृष्णया पीडितात्मा स विप्रं दृष्ट्वा तथाविधम् । प्रणिपत्य द्विज प्राह किमिदं क्रियते त्वया ।
कृते कि फलमाप्नोति विस्तराद् वद मे प्रभो ॥६०॥
विप्र उवाच
सत्यनारायणस्येदं व्रतं सर्वेप्सितप्रदम् । दुःखशोकादिशमनं सर्वत्र विजयप्रदम् ॥६१॥
धनधान्यसन्ततिकरं सर्वेषामीप्सितप्रदम् । यस्य प्रसादान्मे सर्वं धनधान्यादिकं महत् ॥६२॥
ततस्तु तद्व्रतं ज्ञात्वा काष्ठकर्ताऽतिहर्षितः । पपो जलं प्रसादं च भुक्त्वा तन्नगरं ययौ ॥६३॥
सत्यनारायणं देवं चिन्तयन् स्थिरमानसः । काष्ठं विक्रीय नगरे प्राप्स्यते चाद्य यद्धनम् ।
तेनैव सत्यदेवस्य व्रतं सम्यक् करोम्यहम् ॥६४॥
इति सञ्चित्य मनसा काष्ठं कृत्वा तु मस्तके । जगाम नगरे रम्ये धनिनां यत्र संस्थितिः ॥६९॥
तद्दिने काष्ठमूल्यञ्च द्विगुणं प्राप्तवानसौ । ततः प्रसन्नहृदयः सुपक्वं कदलीफलम् ॥६६॥
शर्कराघृतदुग्धं च गोधूमस्य च चूर्णकम् । प्रत्येकं तु सपादं च गृहीत्वा स्वगृहं ययौ ॥६७॥
ततो बन्धून् समाहूय चकार विधिवद् व्रतम् । तद्व्रतस्य प्रभावेण धनपुत्रान्वितोऽभवत् ॥६८॥
इह लोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ । पुनरन्यत् प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः ॥६९॥
[ इति श्रीस्कन्दपुराणे रेवाखण्डे श्रीसत्यनारायणव्रतकथायां तृतीयोऽध्यायः ]
अध्याय : प्रथम द्वितीय तृतीय चतुर्थ पञ्चम षष्ठ सप्तम
Discover more from संपूर्ण कर्मकांड विधि
Subscribe to get the latest posts sent to your email.