षष्ठोऽध्यायः
सूत उवाच
यात्रां कृत्वा ततः साधुर्मङ्गलाचारपूर्विकाम् । ब्राह्मणाय धनं दत्त्वा सहर्षं नगरं ययौ ॥१२१॥
कियद् दूरे गते साधौ सत्यनारायणः प्रभुः । जिज्ञासां कृतवान् साधो किमस्ति तरणौ तव ॥१२२॥
ततो महाजनो मत्तो हेलया च प्रहस्य च । कथं पृच्छसि भो दण्डिन् मुद्रां कि लब्धुमिच्छसि ॥१२३॥
लतापत्रादिकं चैव वर्तते तरणौ मम । निष्ठुरं च वचः श्रुत्वा सत्यं भवतु त्वद्वचः ॥१२४॥
एवमुक्त्वा गतः शीघ्रं दण्डी तस्य समीपतः । गते दण्डिनि साधुश्च कृतनित्यक्रियस्तदा ॥१२५॥
उत्थितान्तरणिं दृष्ट्वा विस्मयं परमं ययो । लता पत्रादिकं दृष्ट्वा मूच्छितो न्यपतद् भुवि ॥१२६॥
लब्धसंज्ञो वणिक्पुत्रस्ततश्चिन्तान्वितोऽभवत् । जामाता दुहितुः कान्तो वचनं चेदमब्रवीत् ॥१२७॥
किमर्थं कुरुषे शोकं शापो दत्तश्च दण्डिना । शक्यते तेन सर्वं हि कर्तुं हर्तुं न संशयः ॥१२८॥
अतस्तच्छरणं याहि वाञ्छितार्थो भविष्यति । जामातुश्च वचः श्रुत्वा तत्सकाशं गतस्तदा ॥१२९॥
दृष्ट्वा तु दण्डिनं भक्त्यानत्वा प्रोवाच सादरम् । मया दुरात्मना देव मुग्धेन तव मायया ॥१३०॥
यदुक्तं तद्वचो नाथ दोषम्मे क्षन्तुमर्हसि । यतः परहिताः सर्वे क्षमासाराहि साधवः ॥१३१॥
पुनः पुनस्ततो नत्वा रुरोद शोकविह्वलः । तमुवाच ततो दण्डी विलपन्तं बिलोक्य च ॥१३२॥
मा रोदीः शृणु मे वाक्यं मम पूजाबहिर्मुखः । मामवज्ञाय दुर्बुद्धे लब्धं दुःखं मुहुर्मुहुः ॥१३३॥
तच्छ्रुत्वा भगवद्वाक्यं स्तुतिं कर्तुं समुद्यतः ॥१३४॥
साधुरुवाच
त्वन्मायामोहिताः सर्वे ब्रह्माद्यास्त्रिदिवौकसः । न जानन्ति गुणं रूपन्तवाश्चर्यमिदं विभो ॥१३५॥
मूढोऽहं प्राक् कथं जाने मोहितस्तव मायया । प्रसीद पूजयिष्यामि यथाविभवविस्तरैः ॥१३६॥
पुत्रं वित्तं च संवृत्तिं पाहि मां शरणागतम् ॥१३७॥
श्रुत्वा स्तवादिकं वाक्यं परितुष्टो जनार्दनः । वरञ्च वाञ्छितं दत्त्वा तत्रैवान्तरधीयत ॥१३८॥
ततोऽसौ नावमारुह्य दृष्ट्वा रत्नादिपूरिताम् । कृपया सत्यदेवस्य सफलं वाञ्छितं मम ।
इत्युक्त्वा स्वजनैः सार्द्ध पूजां कृत्वा यथाविधि ॥१३९॥
हर्षेण महता साधुः प्रयाणञ्चाकरोत्तदा । नावं संवाह्य वेगेन स्वदेशमगमत्तदा ॥१४०॥
ततो जामातरं प्राह पश्य वत्स पुरीं मम । दूतञ्च प्रेषयामास निजवित्तस्य रक्षकम् ॥१४१॥
ततोऽसौ नगरं गत्वा साघोर्भार्यां विलोक्य च । प्रोवाच वाञ्छितं वाक्यं नत्वा बद्धाञ्जलिस्तदा ॥१४२॥
तटे तु नगरस्यैव जामात्रा सहितो वणिक् । आगतो बन्धुवर्गैश्च धनैर्बहुविधैस्तदा ॥१४३॥
श्रुत्वा दूतस्य तद्वाक्यं महाहर्षयुता सती । सत्यपूजां ततः कृत्वा प्रोवाच तनुजां प्रति ।
व्रजामि शीघ्रमागच्छ साधुसन्दर्शनाय च ॥१४४॥
इति मातृवचः श्रुत्वा व्रतं कृत्वा समाप्य च । प्रसादञ्च परित्यज्य गता सापि पतिम्प्रति ॥१४५॥
तेन रुष्टः सत्यदेवो भर्तारं तरणिं तथा । संहृत्य च धनैः सार्द्धं जले तस्मिन् न्यमज्जयत् ॥१४६॥
ततः कलावती कन्या नाऽवलोक्य निजं पतिम् । शोकेन महता तत्र रुदन्ती चाऽपतद् भुवि ॥१४७॥
दृष्ट्वा तथाविधां कन्यां न दृष्ट्वा तत्पतिन्तरिम् । भीतेन महता साधुः किमाश्चर्यमिदन्त्विति ।
चिन्त्यमानाश्च ते सर्वे बभूवुस्तरिवाहकाः ॥१४८॥
ततो लीलावती साध्वी दृष्ट्वा च विह्वला सती । विललापातिदुःखेन भर्तारञ्चेदमब्रवीत् ॥१४९॥
इदानीं नौकया सार्धमदृष्योऽभूदलक्षितः । न जाने केन देवेन हेलया चाऽपहारितः ॥१५०॥
सत्यदेवस्य माहात्म्यं किंवा ज्ञातुं न शक्यते । इत्युक्त्वा बिललापाथ तत्रत्यैः स्वजनैः सह ।
ततो लीलावती कन्यां क्रोडे कृत्वा रुरोद च ॥१५१॥
ततः कलावती कन्या नष्टे स्वामिनि दुःखिता । गृहीत्वा पादुकां तस्यानुगन्तुञ्च मनोदधे ॥१५२॥
कन्यायाश्चरितं दृष्ट्वा सभार्यः सज्जनो वणिक् । अतिशोकेन सन्तप्तश्चिन्तयामास धर्मवित् ॥१५३॥
हृतो हि सत्यदेवेन जामाता सत्यमायया । सत्यपूजां करिष्यामि यथाविभवविस्तरैः ॥१५४॥
इति सर्वान् समाहूय कथयँश्च मनोरथम् । नत्वा च दण्डवद् भूमौ सत्यदेवं पुनः पुनः ॥१५५॥
ततस्तुष्टः सत्यदेवो गगनाद्वणिजम्प्रति । जगाद वचनञ्चेदं नैवेद्यञ्चावमन्य च । आगता
स्वामिनं द्रष्टुमतोऽदृश्योऽभवत् पतिः ॥१५६॥
गृहं गत्वा प्रसादञ्च भुक्त्वा चायाति चेत् पुनः । लब्धभर्त्री सुता साधो भविष्यति न संशयः ॥१५७॥
ततस्तत्प्राणदं वाक्यं श्रुत्वा गगनमण्डलात् । क्षिप्रन्तदा गृहं गत्वा प्रसादं प्रतिगृह्य च ।
अपश्यत् पुनरागत्य पतिं नाविजनैः सह ॥१५८॥
ततः कलावती तुष्टा जगाद पितरं प्रति । एहि तात गृहं यामो विलम्बं कुरुषे कथम् ॥१५९॥
तच्छ्रुत्वा कन्यकावाक्यं सन्तुष्टोऽभूद् वणिक्सुतः । पूजनं सत्यदेवस्य कृत्वा बहुविधानतः ।
धनैर्बन्धुजनैः सार्द्धं जगाम निजमन्दिरम् ॥१६०॥
मासि मासि च संक्रान्त्यां पूजां कृत्वा यथाविधि । इह लोके सुखं भुक्त्वा चाऽन्ते सत्यपुरं ययौ ॥१५१॥
अथ चान्यत् प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः ॥१६२॥
[ इति श्रीस्कन्दपुराणे रेवाखण्डे श्रीसत्यनारायण व्रतकथायां षष्ठोऽध्यायः ]
अध्याय : प्रथम द्वितीय तृतीय चतुर्थ पञ्चम षष्ठ सप्तम