भगवान विष्णु का एक कवच नारद पंचरात्र में भी है जिसे त्रैलोक्यमङ्गल विष्णु कवच (Trailokyamangal vishnu kavach) नाम से भी जाना जाता है। अष्टोत्तर शतावृत्ति करना इसका पुरश्चरण प्रयोग कहा गया है। इस कवच का जो नित्य पाठ करता है उसका त्रैलोक्य में मंगल ही मंगल होता है और वह त्रैलोक्य विजयी भी होता है। यहां नारद पंचरात्रोक्त त्रैलोक्यमङ्गल विष्णु कवच स्तोत्र संस्कृत में दिया गया है।
त्रैलोक्यमङ्गल विष्णु कवच स्तोत्र संस्कृत में – Trailokyamangal vishnu kavach
नारद उवाच
भगवन्सर्वधर्मज्ञ कवचं यत्प्रकाशितम् ।
त्रैलोक्यमङ्गलं नाम कृपया कथय प्रभो ॥१॥
सनत्कुमार उवाच
शृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतम् ।
नारायणेन कथितं कृपया ब्रह्मणे पुरा ॥२॥
ब्रह्मणा कथितं मह्यं परं स्नेहाद्वदामि ते ।
अति गुह्यतरं तत्त्वं ब्रह्ममन्त्रौघविग्रहम् ॥३॥
यद्धृत्वा पठनाद्ब्रह्मा सृष्टिं वितनुते ध्रुवम् ।
यद्धृत्वा पठनात्पाति महालक्ष्मीर्जगत्त्रयम् ॥४॥
पठनाद्धारणाच्छम्भुः संहर्ता सर्वमन्त्रवित् ।
त्रैलोक्यजननी दुर्गा महिषादिमहासुरान् ॥५॥
वरदृप्तान् जघानैव पठनाद्धारणाद्यतः ।
एवमिन्द्रादयः सर्वे सर्वैश्वर्यमवाप्नुयुः ॥६॥
इदं कवचमत्यन्तगुप्तं कुत्रापि नो वदेत् ।
शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥७॥
शठाय परशिष्याय दत्वा मृत्युमवाप्नुयात् ।
त्रैलोक्यमङ्गलस्यास्य कवचस्य प्रजापतिः ॥८॥
ऋषिश्छन्दश्च गायत्री देवो नारायणस्स्वयम् ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥९॥
प्रणवो मे शिरः पातु नमो नारायणाय च ।
भालं मे नेत्रयुगलमष्टार्णो भुक्तिमुक्तिदः ॥१०॥
क्लीं पायाच्छ्रोत्रयुग्मं चैकाक्षरः सर्वमोहनः ।
क्लीं कृष्णाय सदा घ्राणं गोविन्दायेति जिह्विकाम् ॥११॥
गोपीजनपदवल्लभाय स्वाहाननं मम ।
अष्टादशाक्षरो मन्त्रः कण्ठं पातु दशाक्षरः ॥१२॥
गोपीजनवल्लभाय स्वाहा भुजद्वयम् ।
क्लीं ग्लैं क्लीं श्यामलाङ्गाय नमः स्कन्धौ दशाक्षरः ॥१३॥
क्लीं कृष्णः क्लीं करौ पायात् क्लीं कृष्णो मां गतोऽवतु ।
हृदयं भुवनेशानः क्लीं कृष्णः क्लीं स्तनौ मम ॥१४॥
गोपालायाग्निजायान्तं कुक्षियुग्मं सदाऽवतु ।
क्लीं कृष्णाय सदा पातु पार्श्वयुग्ममनुत्तमः ॥१५॥
कृष्णगोविन्दकौ पातां स्मराद्यौ ङेयुतौ मनुः ।
अष्टाक्षरः पातु नाभिं कृष्णेति द्वयाक्षरोऽवतु ॥१६॥
पृष्ठं क्लीं कृष्णकं गल्लं क्लीं कृष्णाय द्विठान्तकः ।
सक्थिनी सततं पातु श्रीं ह्रीं क्लीं कृष्णठद्वयम् ॥१७॥
ऊरू सप्ताक्षरः पायात्त्रयोदशाक्षरोऽवतु ।
श्रीं ह्रीं क्लीं पदतो गोपीजनवल्लभदन्ततः ॥१८॥
भाय स्वाहेति पायुं वै क्लीं ह्रीं श्रीं सदशार्णकः ।
जानुनी च सदा पातु ह्रीं श्रीं क्लीं च दशाक्षरः ॥१९॥
त्रयोदशाक्षरः पातु जङ्घे चक्राद्युदायुधः ।
अष्टादशाक्षरो ह्रीं श्रीं पूर्वको विंशदर्णकः ॥२०॥
सर्वाङ्गं मे सदा पातु द्वारकानायको बली ।
नमो भगवते पश्चाद्वासुदेवाय तत्परम् ॥२१॥
ताराद्यो द्वादशार्णोऽयं प्राच्यां मां सर्वदाऽवतु ।
श्रीं ह्रीं क्लीं च दशार्णस्तु ह्रीं क्लीं श्रीं षोडशार्णकः ॥२२॥
गदाद्यायुधो विष्णुर्मामग्नेर्दिशि रक्षतु ।
ह्रीं श्रीं दशाक्षरो मन्त्रो दक्षिणे मां सदाऽवतु ॥२३॥
तारो नमो भगवते रुक्मिणीवल्लभाय च ।
स्वाहेति षोडशार्णोऽयं नैरृत्यां दिशि रक्षतु ॥२४॥
क्लीं हृषीकेशाय पदं नमो मां वारुणोऽवतु ।
अष्टादषार्णः कामान्तो वायव्ये मां सदाऽवतु ॥२५॥
श्रीं मायाकामकृष्णाय गोविन्दाय द्विठो मनुः ।
द्वादशार्णात्मको विष्णुरुत्तरे मां सदाऽवतु ॥२६॥
वाग्भयं कामकृष्णाय ह्रीं गोविन्दाय तत्परम् ।
श्री गोपीजनवल्लभान्ताय स्वाहा हस्तौ ततः ॥२७॥
द्वाविंशत्यक्षरो मन्त्रो मामैशान्ये सदाऽवतु ।
कालियस्य फणामध्ये दिव्यं नृत्यं करोति तम् ॥२८॥
नमामि देवकीपुत्रं नृत्यराजानमच्युतम् ।
द्वात्रिंशदक्षरो मन्त्रोऽप्यधो मां सर्वदाऽवतु ॥२९॥
कामदेवाय विद्महे पुष्पबाणाय धीमहि ।
तन्नोऽनङ्गः प्रचोदयादेषा मां पातुचोर्ध्वतः ॥३०॥
इति ते कथितं विप्र ब्रह्ममन्त्रौघविग्रहम् ।
त्रैलोक्यमङ्गलं नाम कवचं ब्रह्मरूपकम् ॥३१॥
ब्रह्मणा कथितं पूर्वं नारायणमुखाच्छ्रुतम् ।
तव स्नेहान्मयाख्यातं प्रवक्तव्यं न कस्यचित् ॥३२॥
गुरुं प्रणम्य विधिवत्कवचं प्रपठेत्ततः ।
सकृद्द्विस्त्रिर्यथाज्ञानं स हि सर्वतपोमयः ॥३३॥
मन्त्रेषु सकलेष्वेव देशिको नात्र संशयः ।
शतमष्टोत्तरं चास्य पुरश्चर्या विधिः स्मृतः ॥३४॥
हवनादीन्दशांशेन कृत्वा तत्साधयेद्ध्रुवम् ।
यदि स्यात्सिद्धकवचो विष्णुरेव भवेत्स्वयम् ॥३५॥
मन्त्रसिद्धिर्भवेत्तस्य पुरश्चर्याविधानतः ।
स्पर्धामुद्धूय सततं लक्ष्मीर्वाणी वसेत्ततः ॥३६॥
पुष्पाञ्जल्यष्टकं दत्वा मूलेनैव पठेत्सकृत् ।
दशवर्षसहस्राणि पूजायाः फलमाप्नुयात् ॥३७॥
भूर्जे विलिख्याङ्गुलिकां स्वर्णस्थां धारयेद्यदि ।
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ॥३८॥
अश्वमेधसहस्राणि वाजपेयशतानि च ।
महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा ॥३९॥
कलां नार्हन्ति तान्येव सकृदुच्चारणात्ततः ।
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ॥४०॥
त्रैलोक्यं क्षोभयत्येव त्रैलोक्यविजयी भवेत् ।
इदं कवचमज्ञात्वा यजेद्यः पुरुषोत्तमम् ।
शतलक्षं प्रजप्तोऽपि न मन्त्रस्तस्य सिद्ध्यति ॥४१॥
॥ इति श्री नारदपञ्चरात्रे ज्ञानामृतसारे त्रैलोक्यमङ्गलं नाम विष्णुकवचं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।