वास्तु मंडल – पूजा

वास्तु मंडल पूजा विधि

१२. गृहक्षत : ॐ अक्षन्नमीमदन्त ह्यव प्प्रिया ऽअधूषत। अस्तोषत स्वभानवो व्विप्रा नविष्ठया मती योजान्विन्द्र ते हरी ॥ ॐ भूर्भुवः स्वः गृहक्षत इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः गृहक्षताय नमः ॥

१३. यम : ॐ यमाय त्वांगिरस्वते पितृमते स्वाहा। स्वाहा घर्माय स्वाहा धर्मः पित्रे ॥ ॐ भूर्भुवः स्वः यम इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः यमाय नमः ॥

१४. गन्धर्व : ॐ गन्धर्व्वस्तं व्विश्वावसुः परिदधातु व्विश्वस्यारिष्ट्यै यजमानस्य परिधिरस्यग्निरिड ऽईडितः ॥ इन्द्रस्य बाहुरसि दक्षिणो व्विश्वस्यारिष्ट्यै यजमानस्य परिधरस्यग्निरिड ऽईडितः ॥ मित्त्रावरुणौ त्वोत्तरतः परिधतां ध्रुवेण धर्मणा व्विश्वस्यारिष्ट्यै यजमानस्य परिधिरस्यग्निरिड ऽईडितः ॥ ॐ भूर्भुवः स्वः गन्धर्व इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः गन्धर्वाय नमः ॥

१५. भृङ्गराज : ॐ सौरी बलाका शार्ङ्गः सृञ्जयः शयाण्डकस्ते मैत्त्राः सरस्वत्यैशारिः पुरुषवाक् श्वाविद्भौमी शार्द्दूलो व्वृकः पृदाकुस्ते मन्यवे सरस्वते शुक्रः पुरुषांक् ॥ ॐ भूर्भुवः स्वः भृंगराज इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः भृंगराजाय नमः ॥

१६. मृग : ॐ मृगो न भीमः कुचरो गिरिष्ठाः परावत ऽआजगन्था परस्याः ॥ सृक ᳪ स ᳪ शायपविमिन्द्र तिग्मं व्वि शत्त्रून् ताड्ढि वि मृघो नुदस्व ॥ ॐ भूर्भुवः स्वः मृग इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः मृगाय नमः ॥

१७. पितृ : ॐ उशन्तस्त्वा निधीमह्युशन्तः समिधीमहि ॥ उशन्नुशत ऽआवह पितॄन्हविषे ऽअत्तवे ॥ ॐ भूर्भुवः स्वः पितर इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः पित्रे नमः ॥

१८. दौवारिक : ॐ द्वे व्विरूपे चरतः स्वर्थे ऽअन्यान्या व्वत्समुप धापयेते । हरिरन्यस्यां भवति स्वधावाञ्छुक्क्रो ऽअन्यस्यां ददृशे सुवर्च्चा ॥ ॐ भूर्भुवः स्वः दौवारिक इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः दौवारिकाय नमः ॥

१९. सुग्रीव : ॐ नीलग्ग्रीवाः शितिकण्ठा दिव ᳪ रुद्द्राऽउपश्श्रिताः। तेषा ᳪ सहस्रयोजनेऽवधन्न्वानि तन्न्मसि ॥ ॐ भूर्भुवः स्वः सुग्रीव इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः सुग्रीवाय नमः ॥

२०. पुष्पदन्त : ॐ नमो गणेब्भ्यो गणपतिब्भ्यश्च वो नमोनमो व्व्रातेब्भ्यो व्व्रातपतिब्भ्यश्च वो नमोनमो गृत्सेब्भ्यो गृत्सपतिब्भ्यश्च वो नमोनमो व्विरूपेब्भ्यो व्विश्वरुपेब्भ्यश्च वो नमः ॥ ॐ भूर्भुवः स्वः पुष्पदन्त इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः पुष्पदन्ताय नमः ॥

२१. वरुण : ॐ इमम्मे व्वरुणश्श्रुधी हवमद्या च मृडय। त्वामवस्युराचके ॥ ॐ भूर्भुवः स्वः वरुण इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः वरुणाय नमः ॥

२२. असुर : ॐ यमश्विना नमुचेरासुरादधि सरस्वत्यसुनोदिन्द्रियाय॥ इमं त ᳪ शुवक्रं मधुमन्तमिन्दु ᳪ सोम ᳪ राजानमिह भक्षयामि॥ ॐ भूर्भुवः स्वः असुर इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः असुराय नमः ॥

२३. शेष : ॐ या ऽइषवो यातुधानाना ये वा व्वनस्पतीं२ रनु ॥ ये वाऽवटेषु ॥ शेरते तेभ्यः ॥ ॐ भूर्भुवः स्वः शेष इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः शेषाय नमः ॥

२४. पाप : ॐ एतत्ते रुद्राऽवसन्तेन परो मूजवतो ऽतीहि ॥ अवतत धन्वा पिनाकावसः कृत्तिवासा ऽअहि ᳪ सन्नः शिवोऽतीहि ॥ ॐ भूर्भुवः स्वः पाप इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः पापाय नमः ॥

२५. रोग : ॐ द्द्रापेऽअन्धसस्प्पतेदरिद्द्रनीललोहित । आसाम्प्रजानामेषाम्पशूनाम्माभेर्म्मारोङ्मोचनः किञ्चनाममत् ॥ ॐ भूर्भुवः स्वः रोग इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः रोगाय नमः ॥

२६. अहिर्बुध्न्य : ॐ अहिरिव भोगै: पर्येति बाहुं ज्याया हेतिं परिबाधमान: । हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमा ᳪ सं परि पातु विश्वत: ॥ ॐ भूर्भुवः स्वः अहिर्बुध्न्य इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः अहिर्बुध्न्याय नमः ॥

२७. मुख्य : ॐ अवतत्त्य धनुष्ट्व ᳪ सहस्राक्षशतेषुधे। निशीर्य्यशल्ल्यानाम्मुखा शिवो नः सुमना भव ॥ ॐ भूर्भुवः स्वः मुख्य इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः मुख्याय नमः ॥

२८. भल्लाट : ॐ इमारुद्द्रायतवसे कपर्द्दिने क्षयद्वीराय प्प्रभरामहेमतीः । यथाषमसद्द्विपदे चतुष्ष्पदे व्विश्वम्पुष्टङ्ग्रामेऽअस्म्मिन्ननातुरम् ॥ ॐ भूर्भुवः स्वः भल्लाट इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः भल्लाटाय नमः ॥

२९. सोम : ॐ वय ᳪ सोमव्रते तव मनस्तनूषु बिब्भ्रतः। प्रजावन्तः सचेमहि॥ ॐ भूर्भुवः स्वः सोम इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः सोमाय नमः॥

३०. सर्प : ॐ नमोऽस्तु सर्पेभ्यो ये के च पृथिविमनु । ये ऽअन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः॥ ॐ भूर्भुवः स्वः सर्पाः इहागच्छत इह तिष्ठत। ॐ भूर्भुवः स्वः सर्पेभ्यो नमः ॥

३१. अदिति : ॐ अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः। विश्वेदेवा अदितिः पञ्चजना अदितिर्जातमदितिर्जनित्वम् ॥ ॐ भूर्भुवः स्वः अदिते इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः अदितये नमः ॥

३२. दिति : ॐ इड ऽएह्यदित ऽएहि काम्या ऽएत । मयि वः कामधरणं भूयात् ॥ ॐ भूर्भुवः स्वः दण्ड इहागच्छ इह तिष्ठ ॥ ॐ भूर्भुवः स्वः दिते इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः दितये नमः ॥

३३. अप : ॐ आपो हिष्ठा मयोभुवस्तानऽऊर्जे दधातन महेरणाय चक्षसे यो वः शिवतमो रसस्तस्य भाजयतेह नः उशतीरिव मातरः। तस्माऽअरङ्गमामवो यस्य क्षयाय जिन्वथ आपो जनयथा च नः॥ ॐ भूर्भुवः स्वः अद्भ्यः इहागच्छत इह तिष्ठत। ॐ भूर्भुवः स्वः अद्भ्यो नमः ॥

३४. आपवत्स : ॐ आ ते व्वत्सो मनो यमत्परमाञ्चित्सधस्थात्॥ अग्ने त्वां कामया गिरा ॥ ॐ भूर्भुवः स्वः आपवत्स इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः आपवत्साय नमः ॥

३५. अर्यमण : ॐ यदद्य सूर ऽउदितेऽनागा मित्रो ऽअर्यमा । सुवाति सविता भगः ॥ ॐ भूर्भुवः स्वः अर्यमण इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः अर्यम्णे नमः ॥

३६. सावित्र : ॐ हस्त ऽआधाय सविता बिब्भ्रद्भिः हिरण्मयीम् ॥ अग्नेर्ज्ज्योतिर्न्निचाय्य पृथिव्या ऽअद्ध्याभरदानुष्टुभेनच्छन्दसाङ्गिरस्वत्॥ ॥ ॐ भूर्भुवः स्वः सवित्रे इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः सावित्राय नमः ॥

३७. सवितृ : ॐ व्विश्वानि देव सवितर्द्दुरितानि परासुव । यद्भद्द्रं तन्न ऽआ सुव ॥ ॐ भूर्भुवः स्वः सविता इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः सवित्रे नमः ॥

३८. विवस्वान : ॐ व्विवस्वन्नादित्यैष ते सोमपीथस्तस्मिन्मत्स्व ॥ श्र्श्रदस्मै नरो व्वचसे दधातन यदाशीर्द्दा दम्पती व्वाममश्नुतः ॥ पुमान्पुत्त्रो जायते विन्दते व्वस्वधा विश्वाहारप ऽएधते गृहे ॥ ॐ भूर्भुवः स्वः विवस्वान इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः विवस्वते नमः ॥

३९: विबुधाधिप : ॐ स बोधि सूरिर्म्मघवा व्वसुपते व्वसुदावन् । युयोध्यस्मद् द्वेषा ᳪ सि व्विश्वकर्म्मणे स्वाहा ॥ ॐ भूर्भुवः स्वः विबुधाधिप इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः विबुधाधिपाय नमः ॥

४०. जय : ॐ अषाढं य्युत्सु पृतनासु पप्प्रि ᳪ स्वर्षामप्सां व्वृजनस्य गोपाम् ॥ भरेषुजा ᳪ सुक्षितिः सुश्र्श्रवसं जयन्तं त्वामनु मदेन सोम ॥ ॐ भूर्भुवः स्वः जय इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः जयाय नमः ॥

४१. मित्र : ॐ मित्त्रो न एहि सुमित्त्रध ऽइन्द्रस्योरुमाविश दक्षिणमुशन्नुशन्त ᳪ स्योनः स्योनम्॥ स्वानब्भ्राजाङ्घरिब्बर्भारे हस्त सुहस्त कृशानवेतेवः सोमवक्रयणात्तान्रक्षद्ध्वं मा वो दभन् ॥ ॐ भूर्भुवः स्वः मित्र इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः मित्राय नमः ॥

४२. राजयक्ष्मा : ॐ नाशयित्त्री बलासस्यार्शस ऽउपचितामसि ॥ अथो शतस्य यक्ष्माणां पाकारोरसि नाशनी ॥ ॐ भूर्भुवः स्वः राजयक्ष्मा इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः राजयक्ष्मणे नमः ॥

४३. रुद्र : ॐ अव रुद्रमदीमह्यव द्देवं त्र्यम्बकम् ॥ यथा नो व्वस्यसस्करद्यथा नः श्रेयसस्करद्यथा नो व्यवसाययात् ॥ ॐ भूर्भुवः स्वः रुद्र इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः रुद्राय नमः ॥

४४. पृथ्वीधर : ॐ स्योना पृथिवि नो भवानृक्षरानिवेशनी यच्छा नः शर्मसप्रथाः॥ ॥ ॐ भूर्भुवः स्वः पृथ्वीधर इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः पृथ्वीधराय नमः ॥

४५. ब्रह्मा : ॐ ब्रह्म यज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेनऽआवः। सबुध्न्या उपमाऽअस्य विष्ठाः सतश्च योनिमसश्च विवः॥ ॐ भूर्भुवः स्वः ब्रह्मण इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः ब्रह्मणे नमः ॥

प्राणप्रतिष्ठा : ॐ वास्तोष्पते प्रतिजानीह्यस्मान्स्वा वेशोऽनमीवो भवा नः। यत्त्वेमहे प्रतितन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे॥ ॐ मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तन्नोत्वरिष्टं यज्ञ ᳪ समिमं दधातु॥ विश्वेदेवा स इह मादयंतामों३ प्रतिष्ठ॥ ॐ भूर्भुवः स्वः शिख्यादि वास्तु मण्डल देवताः इहागच्छत इह तिष्ठत ॥

एकतंत्र पूजा मंत्र : ॐ भूर्भुवः स्वः शिख्यादि वास्तु मण्डल देवताभ्यो नमः॥

पूजा मंत्र

  • जल : एतानि पाद्यार्घाचमनीयस्नानीयपुनराचमनीयानि ॐ भूर्भुवः स्वः शिख्यादि वास्तु मण्डल देवताभ्यो नमः॥
  • गंध (चंदन) : इदं गन्धं ॐ भूर्भुवः स्वः शिख्यादि वास्तु मण्डल देवताभ्यो नमः॥
  • पुष्प : इदं पुष्पं ॐ भूर्भुवः स्वः शिख्यादि वास्तु मण्डल देवताभ्यो नमः॥
  • अक्षत : इदं अक्षतं ॐ भूर्भुवः स्वः शिख्यादि वास्तु मण्डल देवताभ्यो नमः॥
  • धूप : एष धूपः ॐ भूर्भुवः स्वः शिख्यादि वास्तु मण्डल देवताभ्यो नमः॥
  • दीप : एष दीपः ॐ भूर्भुवः स्वः शिख्यादि वास्तु मण्डल देवताभ्यो नमः॥
  • नैवेद्य : इदं नैवेद्यं ॐ भूर्भुवः स्वः शिख्यादि वास्तु मण्डल देवताभ्यो नमः॥
  • जल : इदमाचमनीयं पुनराचमनीयं ॐ भूर्भुवः स्वः शिख्यादि वास्तु मण्डल देवताभ्यो नमः॥

पुष्पाञ्जलि : ॐ वास्तोष्पते प्रतिजानीह्यस्मान्स्वा वेशोऽनमीवो भवा नः। यत्त्वेमहे प्रतितन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे॥ एष मंत्र पुष्पाञ्जलिः ॐ भूर्भुवः स्वः शिख्यादि वास्तु मण्डल देवताभ्यो नमः॥

क्षमा प्रार्थना

कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।

Leave a Reply