भाद्र शुक्ल चतुर्दशी को अनंत व्रत – पूजा की जाती है और कथा श्रवण करके अनंत धारण किया जाता है। बात जब कथा श्रवण की आती है तो देववाणी अर्थात संस्कृत का विशेष महत्व व फल होता है। समझने के लिये भले ही स्थानीय भाषा में भी कथा श्रवण की जाय किन्तु फल प्राप्ति हेतु संस्कृत में ही सुननी चाहिये। यहां भविष्यपुराणोक्त अनंत व्रत कथा दी गयी है जो अनंत व्रत करने वालों के लिये लाभकारी हो सकता है।
अनन्त व्रत कथा – Anant Vrat Katha
अनंत पूजा विधि पूर्व आलेख में दी गयी है यदि आप अनन्त पूजा विधि भी देखना चाहें तो पूर्व आलेख को देख सकते हैं – अनंत पूजा विधि। यहां संस्कृत में अनंत व्रत की कथा दी गयी है जो भविष्य पुराणोक्त है एवं कृष्ण-युधिष्ठिर संवाद के रूप में है अर्थात भगवान श्रीकृष्ण वक्ता हैं और धर्मराज युधिष्ठिर व पाण्डव श्रोता हैं।
सूत उवाच
अरण्ये वर्तमानास्ते पाण्डवा दुःखकर्षिताः । कृष्णं दृष्ट्वा महात्मानं पणिपत्येदमब्रुवन् ॥१॥
युधिष्ठिर उवाच
कृष्ण आख्याहि भगवन् व्रतं यद्विश्वदुर्लभम् । यस्याचरणमात्रेण ईप्सितं लभते नरः ॥२॥
कृष्ण उवाच
अनन्तव्रतमाहात्म्यं सर्वपापप्रणाशनम् । सर्वकामप्रदं नृणां स्त्रीणां चैव विशेषतः ॥३॥
शुक्लपक्षे चतुर्दश्यां मासि भाद्रपदे भवेत् । तस्याचरणमात्रेण सर्वपापैः प्रमुच्यते ॥४॥
युधिष्ठिर उवाच
कृष्ण कोऽयं त्वयाख्यातो योऽनन्त इति विश्रुतः । कि शेषनाग आहोस्विदनन्तस्तक्षकः स्मृतः ॥५॥
परमात्माऽथ वाऽनन्त उताहो ब्रह्म उच्यते । एष कोऽनन्तसंज्ञो वे तथ्यं मे ब्रूहि केशव ॥६॥
कृष्ण उवाच
अनन्त इत्यहं पार्थ मम रूपं निबोधय । आदित्यादिषु वारेषु यः कालमुपपद्यते ॥७॥
कलाकाष्ठामुहूर्तादि दिनरात्रिशरीरवान् । पक्षो मासर्तुवर्षादि युगकल्पव्यवस्थया ॥८॥
योऽयं कालो मयाऽख्यातः सोऽनन्त इति कीर्तितः । सोहं कालोऽवतीर्णोत्र भुवो भारावतारणात् ॥९॥
दानवानां विनाशाय वसुदेवकुलोद्भवः । अनन्तं विद्धि मां पार्थ कृष्णं विष्णुं हरिं शिवम् ॥१०॥
ब्रह्माणं भास्करं सोमं सर्वव्यापिनमीश्वरम् । विश्वरूपं महाकायं सृष्टिसंहारकारकम् ॥११॥
प्रत्ययार्थं मया पार्थ तव रूपं प्रदर्शितम् । पूर्वमेव महाबाहो योगिध्येयमनुत्तमम् ॥१२॥
विश्वरूपमनन्तञ्च यस्मिन्निन्द्राश्चतुर्दश । वसवो द्वादशादित्या रुद्रा एकादशानिलाः ॥१३॥
सप्तर्षयः समुद्राश्च पर्वताः सरितो द्रुमाः । नक्षत्राणि दिशो भूमिः पातालं भूर्भुवस्तथा ॥१४॥
मा कुरुष्वात्र सन्देहं सोऽहं पार्थ न संशयः ॥१५॥
युधिष्ठिर उवाच
अनन्तव्रतमाहात्म्यं विधिं ब्रूहि जनार्दन । किं पुण्यं किं फलं चास्य विधानञ्चास्य कीदृशम् ॥१६॥
केन चादौ पुरा चीर्णं मर्त्त्ये केन प्रकाशितम् । एतत्सर्वं प्रयत्नेन विस्तार्य्य वद मे प्रभो ॥१७॥
श्रीकृष्ण उवाच
आसीत् पुरा कृतयुगे सुमन्तुर्नाम वै द्विजः । वसिष्ठगोत्रे चोत्पन्नः सुरूपाञ्च भृगोः सुताम् ॥१८॥
दीक्षानाम्नी चोपयेमे गृह्योक्तविधिना नृप । तस्याः कालेन सञ्जाता दुहिता शुभलक्षणा ॥१९॥
शीलानाम सुशीला सा वर्द्धते पितृवेश्मनि । माता तस्यास्तु काले ज्वरदाहेन पीडिता ॥२०॥
विननाश नदीतीरे मृता स्वर्गपुरं ययौ । सुमन्तुश्च ततोऽन्यां वै धर्मपुत्रसुतां पुनः ॥२१॥
उपयेमे विधानेन कर्कशां नाम नामतः । दुःशीलां कर्कशां चण्डीं नित्यं कलहकारिणीम् ॥२२॥
साऽपि शीला पितुर्गेहे गृहार्चनरता बभो । कुड्यस्तम्भगृहद्वारे देहलीतोरणादिभिः ॥२३॥
वर्णकैश्चित्रमकरोन्नीलपीतसितासितैः । स्वस्तिकैः शंखपद्मैश्च अर्चयन्ती दिने दिने ॥२४॥
ततः काले बहुतिथे कौमारव्रत वर्त्तिनी । पित्रा दृष्टा तदा तेन स्त्रीचिह्ने यौवने स्थिता ॥२५॥
कस्मै देया मया शीला विचार्यैवं सुदुःखितः । एतस्मिन्नेव काले तु कन्यार्थी द्विजपुङ्गवः ॥२६॥
सुमन्तोश्च गृहं प्राप्तः कौण्डिल्यो गतकल्मषः । सुमन्तुश्च सुशीलां वै कौण्डिल्याय ददौ तदा ॥२७॥
गृह्योक्तवेदविधिना विवाहमकरोत्तदा । निवर्त्यौद्वाहिकं कर्म प्रोक्तवान् कर्कशां प्रति ॥२८॥
किञ्चिद्धनादिकं देयं जामातुः परितोषकम् । तच्छ्रुत्वा कर्कशा क्रुद्धा प्रोत्क्षिप्य गृहमण्डनम् ॥२९॥
पेट्टालकं दृढं बध्वा प्रययौ पितृवेश्मनि। भोज्यावशिष्टचूर्णेन पाथेयं दत्तवान् द्विजः ॥३०॥
कौण्डिल्योऽपि विवाह्यैनां पथि गृच्छञ्छनैः शनैः । शीलां सुशीलामादाय नवोढां गोरथेन च ॥३१॥
मध्याह्ने भोज्यवेलायां समुत्तीर्य्य सरित्तटे । ददर्श शीला स्त्रीणां च समूहं रक्तवाससाम् ॥३२॥
चतुर्दश्यामर्चयन्तं भक्त्या देवं पृथक् पृथक् । उपगम्य शनैः शीला पप्रच्छ स्त्रीकदम्बकम् ॥३३॥
आर्याः किमेतन्मे ब्रूत किन्नाम व्रतमीदृशम् । ता ऊचुर्योषितः सर्वाः शीलां शीलविभूषणाम् ॥३४॥
अनन्तव्रतमेतद्धि व्रतेऽनन्तस्तु पूज्यते ॥ साऽब्रवीदहमप्येतत् करिष्ये व्रतमुत्तमम् ॥३५॥
विधानं कीदृशं चास्य किन्दानं कस्य पूजनम् ॥३६॥
स्त्रियः ऊचुः
शुक्लपक्षे चतुर्दश्यां मासि भाद्रपदे शुभे । कृत्वा दर्भमयं देवं सर्वालङ्कारभूषितम् ॥३७॥
पूपं कृत्वा घृतेनैव भक्तियुक्तेन चेतसा ॥ अर्द्धं विप्राय दातव्यं चार्द्धं भुञ्जीत वै स्वयम् ॥३८॥
शक्त्या च दक्षिणां दद्याद्वित्तशाष्ठचं न कारयेत् । कर्त्तव्यं तु सरित्तीरे कथां श्रुत्वा हरेरिमाम् ॥३९॥
ध्यात्वाऽनन्तं समभ्यर्च्य मण्डले घूपदीपकैः । पुष्पमाल्यैः सुगन्धैश्च नैवेद्यैः पीतवस्त्रकैः ॥४०॥
सुरेशं देवदेवेशं पीतवस्त्रं चतुर्भुजम् । तस्याग्रतो दृढं सूत्रं कुङ्कुमारक्तडोरकम् ॥४१॥
चतुर्दशग्रन्थिसंयुक्तं स्त्री वामे करे न्यसेत् । पुमांश्च दक्षिणे चैव बहुसौख्यप्रदायकम् ॥४२॥
मन्त्रेणानेन राजेन्द्र यावद्वर्षं समाप्यते ॥४३॥
अनन्तसंसारमहासमुद्रे मग्नान् समभ्युद्धर वासुदेव ।
अनन्तरूपे विनियोजयस्व अनन्तरूपाय नमो नमस्ते ॥४४॥
अनेन डोरकम्बध्वा भोक्तव्यं स्वस्थमानसैः । ध्यात्वा नारायणं देवमनन्तं विश्वरूमिणम् ॥४५॥
भुक्त्वा चान्ते व्रजेद गेहं व्रतं प्रोक्तमिदं तव । योऽनन्तस्य व्रतं कुर्याद् वर्षाणि नव पञ्च च ॥४६॥
सर्वान् कामानवाप्नोति विष्णुलोकञ्च गच्छति ॥४७॥
श्रीकृष्ण उवाच
एवमाकर्ण्य राजेन्द्र प्रहृष्टेनान्तरात्मना । सापि शीला व्रतञ्चक्रे करे बध्वा सुडोरकम् ॥४८॥
पाथेयशेषं विप्राय दत्त्वा भुक्त्वा तथैव च । पुनर्जगाम सा हृष्टा गोरथेन स्वमाश्रमम् ॥४९॥
भर्त्रा सहैव सा शीला राजमाना स्वमन्दिरे । तेनानन्तप्रभावेण बभौ गोधनसङ्कुलम् ॥५०॥
गृहाश्रमं श्रिया युक्तं धनधान्यसमाकुलम् । आकुलं व्याकुलञ्चैव सर्वदाऽतिथिपूजनैः ॥५१॥
साऽपि माणिक्यकाञ्चीभिर्मुक्ताहारविभूषिता । दिव्यवस्त्रैश्च सञ्छन्ना सावित्रीप्रतिमाऽभवत् ॥५२॥
कदाचिदुपविष्टेन भर्त्रा दृष्टः सुडोरकः । किमर्थं डोरको बद्धः, इत्यपृच्छद् द्विजोत्तमः ॥५३॥
शीलोवाच
व्रतं कृतं मया नाथ बद्धोऽनन्तस्य डोरकः । श्रीमदान्धेन विप्रेण संक्षिप्तं त्रोटितं रुषा ॥५४॥
कोऽनन्त इति मूढेन ब्रुव्रता तेन पापिना। क्षिप्तं ज्वालाकुले वह्नौ हा हा कृत्वा प्रधावती ॥५५॥
शीला गृहीत्वा तत्सूत्रं क्षीरमध्ये समाक्षिपत् । तेन कर्मविपाकेन लक्ष्मीस्तस्य क्षयं गता ॥५६॥
गोधनं तस्करैर्नीतं गृहं चापि प्रदीपितम् । यद्यथैवागता लक्ष्मीस्तत्तथैव गता पुनः ॥५७॥
स्वजनैः कलहो नित्यं बन्धनं तर्जनं ततः । अनन्ताक्षेपदोषेण दारिद्रयं पतितं गृहे ॥५८॥
न किंचिद् वदते लोकस्तेन सार्धं नराधिप । शरीरेणातिसन्तप्तो मनसाऽपि च दुःखितः ॥५९॥
निर्वेदं परमं प्राप्तः कौण्डिल्यः प्राह तां प्रियाम् । शीले किमेतदुत्पन्नं सहसा शोककारणम् ॥६०॥
येनातिदुःखमस्माकं जातः सर्वधनक्षयः । स्वजनैः कलहो गेहे न कश्चिन्मां प्रभाषते ॥६१॥
शरीरे तीव्रसन्तापः खेदश्चेतसि दारुणः । ईदृशी दुर्गतिः किम्मे किं कृत्वा सुकृतं भवेत् ॥६२॥
प्रत्युवाच ततः शीला सुशीला स्वामिनं प्रति ॥६३॥
शीलोवाच
प्रायोऽनन्तकृताक्षेपात् पापसम्भवजं फलम् । भविष्यति महाभागे तदर्थं यत्नमाचर ॥६४॥
तच्छ्रुत्वा स च कौण्डिल्यो जगाम गहनं वनम् । विधिवत्कृतसंकल्पो वायुभुक्तजितेन्द्रियः ॥६५॥
मनसा ध्यायतेऽनन्तं क्वचिद् द्रक्ष्यामि केशवम् । यस्य चाक्षेपदोषेण संजातं मम निर्द्धनम् ॥६६॥
धनादिकं मम गतं दुःखव्याधिसमागमम् । एवं सञ्चिन्तयत्सोऽथ बिभ्राम विजने वने ॥६७॥
तत्रापश्यन्महावृक्षं पुष्पितं फलितं तथा । वर्जितं पक्षिसंघातैः कीटकैरभिभक्षितम् ॥६८॥
तमपृच्छद् द्विजोऽनन्तः क्वचिद् दृष्टौ महाद्रुमः । ब्रूहि सौम्य ममातीव दुःखं चेतसि वर्त्तते ॥६९॥
तेनोक्तश्चूतवृक्षेण नानन्तं वेद्म्यहं द्विज । एवं विनिष्कृतस्तेन गां ददर्श सवत्सकाम् ॥७०॥
तृणमध्ये प्रधावन्तीमितश्चेतश्च पाण्डव । सोऽव्रवीद्धेनुके ब्रूहि यद्यनन्तस्त्वये क्षितः ॥७१॥
गौरुवाचाऽथ कौण्डिल्यं नानन्तो वीक्षितो मया । ततो व्रजन् ददर्शाग्रे वृषभं शाद्वले स्थितम् ॥७२॥
दृष्ट्वा पप्रच्छ गोस्वामिन्ननन्तो वीक्षितस्त्वया । वृषभस्तमुवाचेदं नानन्तो वीक्षितो मया ॥७३॥
ततो व्रजन् ददर्शाग्रे रम्यं पुष्करिणीद्वयम् । अन्योन्यजलकल्लोलैर्वीचीकमलशोभितम् ॥७४॥
छन्नं कमलकिञ्जल्कैः कुमुदोत्पलमण्डितम् । सेवितं भ्रमरैर्हंसैश्चक्रवाकोपशोभितम् ॥७५॥
तमपृच्छद् द्विजोऽनन्तो भवतीभ्यां प्रलक्षितः । ऊचतुः पुष्करिण्यौ ते नावाभ्यां वोपलक्षितः ॥७६॥
तृतो व्रजन् ददर्शाग्रे नदीतीरेष्वस्थितम् । दह्यमानं दिवारात्रौ कच्छपं स्थूल विक्रमम् ॥७७॥
तमपृच्छद् द्विजोऽनन्तः कच्छपालोकितस्त्वया । ततोऽब्रवीत् कच्छपस्तं नानन्तं वेद्म्यहं द्विज ॥७८॥
ततो व्रजन् ददर्शाग्रे वने तिष्ठति उष्ट्रकम् । तमपृच्छद् द्विजोऽनन्तः क्वचिद् दृष्टस्त्वयोष्ट्रक ॥७९॥
ततोऽब्रवीदुष्ट्रकस्तं नानन्तो वीक्षितो मया । ततो व्रजन् ददर्शाग्रे गर्दभं कुञ्चरन्तथा ॥८०॥
तावप्युक्तो मुनीन्द्रेण चिन्ताव्याकुलचेतसा । नावाभ्यां विक्षितोऽनन्तस्ताभ्यामुक्तो द्विजस्तदा ॥८१॥
तस्मिन् वने च कौण्डिल्यो विषादमगमत् परम् । दीर्घकालं च निश्वस्य पपात भुवि विह्वलः ॥८२॥
नूनं त्यजाम्यहं प्राणानिति संकल्प्य चेतसि । तस्मिन् क्षीणे सुनिर्विण्णे कौण्डिल्ये ब्राह्मणोत्तमे ॥८३॥
कृपयाऽनन्तदेवोऽपि प्रत्यक्षं समजायत । वृद्धब्राह्मणरूपेण इत एहीत्युवाच तम् ॥८४॥
नास्ति गम्यस्त्वया विप्र समुद्रो विस्तरोऽग्रतः । अहमप्यागतस्तस्मादनन्तो नैव दृश्यते ॥८५॥
एवं श्रुत्वा ततो वाक्यं सहसा स तपोनिधिः । वह्निः प्रज्वालितः शीघ्रं मरणाय समुद्यतः ॥८६॥
वृद्ध ब्राह्मण उवाच
क्वचिद् द्विजवरानन्तस्त्वया दग्धः किमग्निना । इत्युक्त्वा दर्शयामास शंखचक्रगदाधरम् ॥८७॥
स दृष्ट्वा तादृशं रूपमनन्तपराजितम् । पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः ॥८८॥
त्राहि मां पुण्डरीकाक्ष सर्वपापहरो भव। अद्य मे सफलं जन्म जीवितं सफलन्तथा ॥८९॥
यदृष्टोसि मया देव करुणादीनवत्सलः । तच्छ्रुत्वाऽनन्तदेवोऽपि दत्त्वा तस्मै वरत्रयम् ॥९०॥
दारिद्रयनाशनं धर्म्यं विष्णुलोकं तथाऽक्षयम् । प्रतिगृह्य द्विजोऽप्याह भगवन्तमधोक्षजम् ॥९१॥
कौण्डिल्य उवाच
को वृक्षः का च गौः सर्पः किं तत्पुष्करिणीद्वयम् । खरश्च कुञ्जरश्चैव देव मे ब्रूहि तत्त्वतः ॥९२॥
अनन्त उवाच
स चूतवृक्षो विप्रोऽसौ विद्वान् वै वेदगर्वितः । विद्या न दत्ता शिष्येभ्यस्तेनासौ तरुतां गतः ॥९३॥
यस्त्वया वृषभो दृष्टो लोभार्थी कृषकोऽभवत् । सा च गौर्भ्रमते ज्ञेया ब्राह्मणी बीजहारिणी ॥९४॥
निःस्वादं जलमस्यैव तेन पापेन दूषिता । स च सर्पो महाकायः सर्वशास्त्रविशारदः ॥९५॥
ब्रह्मस्वे रमते नित्यं पापात्मा क्रूरविग्रहः । धर्माधर्मव्यवस्थानं तच्च पुष्करणीद्वयम् ॥९६॥
खरः क्रोधस्त्वया दृष्टः कुञ्जरो धर्मनिन्दकः । अशास्त्रः कुप्रतिग्राही ग्राहकः पुरुषो भवेत् ॥९७॥
उष्ट्रो दृष्ट्रो वने रम्ये तेन पापेन क्रन्दति । कच्छपो यस्त्वया दृष्टो नदीतीरे व्यवस्थितः ॥९८॥
दूषितं ब्राह्मणं शास्त्रं तेन पापेन दह्यते । ब्राह्मणं मामनन्तं हि गुह्यं संसारसागरे ॥९९॥
इत्युक्तं च मया सर्वं विप्र गच्छ पुनर्गृहम् । कुरु तत्र व्रतं चेदं नववर्षाणि पञ्च च ॥१००॥
ततस्तुष्टः प्रदास्यामि अक्षयस्थानमुत्तमम् । इहापि विविधान् भोगान् भुक्त्वा चापि मनोरथान् ॥१०१॥
पुत्रैः पौत्रैः परिवृतस्ततो मोक्षमवाप्स्यसि । इति दत्त्वा वरन्देवस्तत्रैवान्तरधीयत ॥१०२॥
कौण्डिल्योऽपि गतो गेहं चकारान्तकव्रतम् । प्रवेशयित्वा स्वगृहं गृहीत्वा शुभडोरकम् ॥१०३॥
स्वां पुरीं दर्शयामास दिव्यनारीनरैर्युताम् । तस्यां प्रविश्य स्वात्मानं दिव्यसिंहासने शुभे ॥१०४॥
शीलया सह धर्मात्मा भुक्त्वा भोगान् यथेप्सितान् । अन्ते जगाम स्वर्गन्तु नक्षत्रं चाभवत्पुनः ॥१०५॥
तत्रैव च समुद्भूतः प्रज्वलन् दृश्यतेऽम्बरे । अनेन व्रतधर्मेण सम्यक् चीर्णेन पाण्डव ॥१०६॥
एतत्ते कथितं राजन् व्रतानां व्रतमुत्तमम् । कीर्त्तिरायुर्यशो भूमिः श्रीरनन्तप्रसादतः ॥१०७॥
यत्कथाश्रवणेनापि पठनेन नरोत्तमाः । सर्वपापविनिर्मुक्ता यास्यन्ति परमां गतिम् ॥१०८॥
संसारसागरगुहासु सुखं विहर्तुं वाञ्छन्ति ये कुरुकुलोद्भव शुद्धसत्त्वाः ।
सम्पूज्य च त्रिभुवनेशमनन्तरूपं बध्नन्ति दक्षिणकरे शुभडोरकन्ते ॥१०९॥
॥ इति श्रीभविष्यपुराणोक्त श्रीमदनन्तव्रतकथा समाप्ता ॥
अनंत पूजा 2024
- द्रिक्पंचांगों के अनुसार 2024 में 17 सितम्बर मंगलवार को मध्याह्न 11:44 तक चतुर्दशी तिथि है अतः 2024 में अनंत पूजा 17 सितम्बर मंगलवार को ही होना चाहिये।
- वहीं यदि अदृश्य पंचांगों (मिथिलादेशीय) की बात करें तो 17 सितम्बर मंगलवार को लगभग साढ़े ग्यारह बजे मध्याह्न तक चतुर्दशी तिथि प्राप्त होती है अतः अदृश्य पंचांगों के अनुसार भी 2024 में 17 सितम्बर मंगलवार को ही अनंत व्रत-पूजा का निर्णय दिया गया है।
अनंत पूजा 2025
अनंत पूजा 2025 में कब है अब हम इसे भी जानेंगे। 2025 के निर्णय हेतु तत्काल अदृश्य पंचांग अनुपलब्ध हैं अतः अनंत पूजा 2025 हेतु दृश्य पंचांग के आधार पर विचार करेंगे।
2025 में 6 सितंबर शनिवार को औदयिक चतुर्दशी (भाद्र शुक्ल चतुर्दशी) है जो रात्रि 1:41 (25:41) तक है। अतः 2025 में अनंत व्रत या अनंत पूजा 6 सितंबर शनिवार को होना सिद्ध होता है।
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।
Discover more from संपूर्ण कर्मकांड विधि
Subscribe to get the latest posts sent to your email.