माता सरस्वती विद्या की देवी कही गयी हैं और विद्या प्राप्ति हेतु माता सरस्वती की उपासना की जाती है क्योंकि उनकी कृपा आवश्यक होती है। उपासना का एक विशेष अंग स्तोत्र पाठ करना भी है। स्तोत्र के द्वारा देवताओं को शीघ्र प्रसन्न किया जा सकता है। यहां माता सरस्वती को प्रसन्न करने में विशेष महत्वपूर्ण 7 सरस्वती स्तोत्र (saraswati stotra) दिये गये हैं।
पढ़ें 7 प्रमुख सरस्वती स्तोत्र संस्कृत में – saraswati stotra
यहां क्रमशः सरस्वती दशश्लोकी स्तोत्र, सरस्वती द्वादशनाम स्तोत्र, याज्ञवल्क्यकृत सरस्वती स्तोत्र, रुद्रयामलोक्त श्रीबृहस्पति विरचित सरस्वती स्तोत्र, वामनपुराणोक्त मार्कण्डेयमुनिप्रोक्त सरस्वती स्तोत्र, वामनपुराणोक्त वसिष्ठप्रोक्त सरस्वती स्तोत्र, मार्कण्डेयपुराणोक्त महासरस्वती स्तव संस्कृत में दिया गया है।
सरस्वती दशश्लोकी स्तोत्र
ऋषय ऊचुः
कथं सारस्वतप्राप्तिः केन ध्यानेन सुव्रत ।
महासरस्वती येन तुष्टा भवति तद्वद ॥१॥
आश्वलायन उवाच
शृण्वन्तु ऋषयः सर्वे गुह्याद्गुह्यतमं महत् ।
दशश्लोकीस्तुतिमिमां वदामि ध्यानपूर्वकम् ॥२॥
अङ्कुशं चाक्षसूत्रं च पाशं पुस्तं च धारिणीम् ।
मुक्ताहारैः समायुक्तां देवीं ध्यायेच्चतुर्भुजाम् ॥३॥
सितेन दर्पणाभेन वक्त्रेण परिभूषिताम् ।
सुस्तनीं वेदिमध्यां तां चन्द्रार्धकृतशेखराम् ॥४॥
जटाकलापसंयुक्तां पूर्णचन्द्रनिभाननाम् ।
त्रिलोचनीं महादेवीं स्वर्णनूपुरधारिणीम् ॥५॥
कटकस्वर्णरत्नाढ्यमहावलयभूषिताम् ।
कम्बुकण्ठीं सुताम्रोष्टीं सर्वाभरणभूषिताम् ॥६॥
केयूरैर्मेखलाद्यैश्च द्योतयन्तीं जगत्त्रयम् ।
शब्दब्रह्मारणिं ध्यायेद्ध्यानकामः समाहितः ॥७॥
वक्ष्ये सारस्वतं स्तोत्रं वाक्प्रवृत्तिकरं शुभम् ।
लक्ष्मीविवर्धनं चैव विवादे विजयप्रदम् ॥८॥
परब्रह्मात्मिकां देवीं भुक्तिमुक्तिफलप्रदाम् ।
प्रणम्य स्तौमि तामेव ज्ञानशक्तिं सरस्वतीम् ॥९॥
या वेदान्तोक्ततत्त्वैकस्वरूपा परमार्थतः ।
नामरूपात्मिका व्यक्ता सा मां पातु सरस्वती ॥१०॥
या साङ्गोपाङ्गवेदेषु चतुर्ष्वेकैव गीयते ।
अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती ॥११॥
या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते ।
अनादिनिधनानन्ता सा मां पातु सरस्वती ॥१२॥
अध्यात्ममधिदेवं च देवानां सम्यगीश्वरी ।
प्रत्यगात्मेव सन्ती या सा मां पातु सरस्वती ॥१३॥
अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति ।
रूद्रादित्यादिरूपस्था सा मां पातु सरस्वती ॥१४॥
या प्रत्यग्दृष्टिभिर्ज्ञानैर्व्यज्यमानानुभूयते ।
व्यापिनी ज्ञप्तिरूपैका सा मां पातु सरस्वती ॥१५॥
नामजात्यादिभिर्भेदैरष्टधा या विकल्पिता ।
निर्विकल्पात्मिका चैव सा मां पातु सरस्वती ॥१६॥
व्यक्ताव्यक्तगिरः सर्वे देवाद्या व्याहरन्ति याम् ।
सर्वकामदुधा धेनुः सा मां पातु सरस्वती ॥१७॥
यां विदित्वाखिलं बन्धं निर्मथ्यामलवर्मना ।
योगी याति परं स्थानं सा मां पातु सरस्वती ॥१८॥
नामजात्यादिकं सर्वं यस्यामाविश्य तां पुनः ।
ध्यायन्ती ब्रह्मरूपैका सा मां पातु सरस्वती ॥१९॥
यः कवित्वं निरातङ्कं भुक्तिं मुक्तिं च वाञ्छति ।
सोऽभ्यर्च्यैनां दशश्लोक्या भक्त्या स्तौतु सरस्वतीम् ॥२०॥
तस्यैवं स्तुवतो नित्यं समभ्यर्च्य सरस्वतीम् ।
भक्तिश्रद्धाभियुक्तस्य षण्मासात् प्रत्ययो भवेत् ॥२१॥
ततः प्रवर्तते वाणी स्वेच्छया ललिताक्षरा ।
गद्यपद्यात्मिका विद्या प्रमेयैश्च विवर्तते ॥२२॥
अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः ।
श्रुतं च धारयेदाशु स्खलद्वाक् स्पष्टवाग्भवेत् ॥२३॥
प्रख्यातः सर्वलोकेषु वाग्मी भवति पूजितः ।
अजितः प्रतिपक्षाणां स्वयं जेताऽधिजायते ॥२४॥
अयोध्यैर्वेदबाह्यैर्वा विवादे प्रस्तुते सति ।
अहं वाचस्पतिर्विष्णुः शिवो वास्मीति भावयेत् ॥२५॥
एवं भावयता तेन बृहस्पतिरपि स्वयम् ।
न शक्नोति परं वक्तुं नरेष्वन्येषु का कथा ॥२६॥
न काञ्चन स्त्रियं निन्देत् न देवान्नापि च द्विजान ।
अनार्यैर्नाभिभाषेत सर्वत्रैव क्षमी भवेत् ॥२७॥
सर्वत्रैव प्रियं ब्रूयात् यथेच्छालब्ध मात्मनः ।
श्लोकैरेव तिरस्कृत्य द्विषन्द प्रतिवादिनम् ॥२८॥
प्रतिवादिगजानां तु सिंहो भवति तद्वचः ।
यद्वागितिदव्यृचेनैव देवीं योऽर्चति सुव्रतः ॥२९॥
तस्य नासंस्कृता वाणी मुखादुच्चारिता क्वचित् ।
प्रथमं भारती नाम द्वितीयं च सरस्वती ।
तृतीयं शारदा देवी चतुर्थं कंसमर्दनी ॥३०॥
पञ्चमं तु जगन्माता षष्ठं चैव तु पार्वती ।
सप्तमं चैव कामक्षी ह्यष्टमं ब्रह्मचारिणी ॥३१॥
नवमं चैव वाराही दशमं ब्रह्मपुत्रिका ।
एकादशं च वाग्देवी द्वादशं वरदाम्बिका ॥३२॥
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
तस्य सारस्वतं चैव षण्मासेनैव सिध्यति ॥३३॥
यस्याः स्मरणमात्रेण वाग्विभूतिर्विजृम्भते ।
सा भारती प्रसन्नाक्षी रमतां मन्मुखाम्बुजे ॥३४॥
इत्याश्वलायनमुनिर्निजगाद देव्याः
स्तोत्रं समस्तफलभोगनिधानभूतम् ।
एतत् पठन् द्विजवरः शुचितामुपैति
सन्ध्यासु वाञ्छितमुपैतिन संशयोऽत्र ॥३५॥
॥ इति श्रीसरस्वतीदशश्लोकीस्तोत्रं सम्पूर्णम् ॥
सरस्वती द्वादशनाम स्तोत्रम्
सरस्वतीमहं वन्दे वीणापुस्तकधारिणीम् ।
हंसवाहसमायुक्तां विद्यादानकरीं मम ॥१॥
प्रथमं भारती नाम द्वितीयं च सरस्वती ।
तृतीयं शारदा देवी चतुर्थं हंसवाहिनी ॥२॥
पञ्चमं जगति ख्याता षष्ठं वाणीश्वरी तथा ।
कौमारी सप्तमं प्रोक्ता अष्टमं ब्रह्मचारिणी ॥३॥
नवमं बुद्धिदात्री च दशमं वरदायिनी ।
एकादशं क्षुद्रघण्टा द्वादशं भुवनेश्वरी ॥४॥
ब्राह्मी द्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः ।
सर्वसिद्धिकरी तस्य प्रसन्ना परमेश्वरी ।
सा मे वसतु जिह्वाग्रे ब्रह्मरूपा सरस्वती ॥५॥
॥ इति सरस्वतीद्वादशनामस्तोत्रं सम्पूर्णम् ॥
याज्ञवल्क्यकृत सरस्वती स्तोत्र
नारायण उवाच
वाग्देवतायाः स्तवनं श्रूयतां सर्वकामदम् ।
महामुनिर्याज्ञवल्क्यो येन तुष्टाव तां पुरा ॥१॥
गुरुशापाच्च स मुनिर्हतविद्यो बभूव ह ।
तदा जगाम दुह्खार्तो रविस्थानं च पुण्यदम् ॥२॥
सम्प्राप्यतपसा सूर्यं कोणार्के दृष्टिगोचरे ।
तुष्टाव सूर्यं शोकेन रुरोद स पुनः पुनः ॥३॥
सूर्यास्तं पाठयामास वेदवेदाङ्गमीश्वरः ।
उवाच स्तुहि वाग्देवीं भक्त्या च श्रुतिहेतवे ॥४॥
तमित्युक्त्वा दीननाथो ह्यन्तर्धानं जगाम सः ।
मुनिस्नात्वा च तुष्टाव भक्तिनम्रात्मकन्धरः ॥५॥
याज्ञवल्क्य उवाच
कृपां कुरु जगन्मातर्मामेवं हततेजसम् ।
गुरुशापात्स्मृतिभ्रष्टं विद्याहीनं च दुःखितम् ॥६॥
ज्ञानं देहि स्मृतिं देहि विद्यां देहि देवते ।
प्रतिष्ठां कवितां देहि शाक्तं शिष्यप्रबोधिकाम् ॥७॥
ग्रन्थनिर्मितिशक्तिं च सच्छिष्यं सुप्रतिष्ठितम् ।
प्रतिभां सत्सभायां च विचारक्षमतां शुभाम् ॥८॥
लुप्तां सर्वां दैववशान्नवं कुरु पुनः पुनः ।
यथाऽङ्कुरं जनयति भगवान्योगमायया ॥९॥
ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी ।
सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः ॥१०॥
यया विना जगत्सर्वं शश्वज्जीवन्मृतं सदा ।
ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः ॥११॥
यया विना जगत्सर्वं मूकमुन्मत्तवत्सदा ।
वागधिष्ठातृदेवी या तस्यै वाण्यै नमो नमः ॥१२॥
हिमचन्दनकुन्देन्दुकुमुदाम्भोजसंनिभा ।
वर्णाधिदेवी या तस्यै चाक्षरायै नमो नमः ॥१३॥
विसर्ग बिन्दुमात्राणां यदधिष्ठानमेव च ।
इत्थं त्वं गीयसे सद्भिर्भारत्यै ते नमो नमः ॥१४॥
यया विनाऽत्र संख्याकृत्संख्यां कर्तुं न शक्नुते ।
काल संख्यास्वरूपा या तस्यै देव्यै नमो नमः ॥१५॥
व्याख्यास्वरूपा या देवी व्याख्याधिष्ठातृदेवता ।
भ्रमसिद्धान्तरूपा या तस्यै देव्यै नमो नमः ॥१६॥
स्मृतिशक्तिर्ज्ञानशक्तिर्बुद्धिशक्तिस्वरूपिणी ।
प्रतिभाकल्पनाशक्तिर्या च तस्यै नमो नमः ॥१७॥
सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ।
बभूव जडवत्सोऽपि सिद्धान्तं कर्तुमक्षमः ॥१८॥
तदाऽऽजगाम भगवानात्मा श्रीकृष्ण ईश्वरः ।
उवाच स च तं स्तौहि वाणीमिति प्रजापते ॥१९॥
स च तुष्टाव तां ब्रह्मा चाऽऽज्ञया परमात्मनः ।
चकार तत्प्रसादेन तदा सिद्धान्तमुत्तमम् ॥२०॥
यदाप्यनन्तं पप्रच्छ ज्ञानमेकं वसुन्धरा ।
बभूव मूकवत्सोऽपि सिद्धान्तं कर्तुमक्षमः ॥२१॥
तदा त्वां च स तुष्टाव सन्त्रस्तः कश्यपाज्ञया ।
ततश्चकार सिद्धान्तं निर्मलं भ्रमभञ्जनम् ॥२२॥
व्यासः पुराणसूत्रश्च समपृच्छतवाल्मिकिम् ।
मौनीभूतः स सस्मार त्वामेव जगदम्बिकाम् ॥२३॥
तदा चकार सिद्धान्तं त्वद्वरेण मुनीश्वरः ।
स प्राप निर्मलं ज्ञानं प्रमादध्वंसकारणम् ॥२४॥
पुराण सूत्रं श्रुत्वा स व्यासः कृष्णकलोद्भवः ।
त्वां सिषेवे च दध्यौ तं शतवर्षं च पुष्क्करे ॥२५॥
तदा त्वत्तो वरं प्राप्य स कवीन्द्रो बभूव ह ।
तदा वेदविभागं च पुराणानि चकार ह ॥२६॥
यदा महेन्द्रे पप्रच्छ तत्त्वज्ञानं शिवा शिवम् ।
क्षणं त्वामेव सञ्चिन्त्य तस्यै ज्ञानं दधौ विभुः ॥२७॥
पप्रच्छ शब्दशास्त्रं च महेन्द्रस्च बृहस्पतिम् ।
दिव्यं वर्षसहस्रं च स त्वां दध्यौ च पुष्करे ॥२८॥
तदा त्वत्तो वरं प्राप्य दिव्यं वर्षसहस्रकम् ।
उवाच शब्दशास्त्रं च तदर्थं च सुरेश्वरम् ॥२९॥
अध्यापिताश्च यैः शिष्याः यैरधीतं मुनीश्वरैः ।
ते च त्वां परिसञ्चिन्त्य प्रवर्तन्ते सुरेश्वरि ॥३०॥
त्वं संस्तुता पूजिता च मुनीन्द्रमनुमानवैः ।
दैत्यैश्च सुरैश्चापि ब्रह्मविष्णुशिवादिभिः ॥३१॥
जडीभूतः सहस्रास्यः पञ्चवक्त्रश्चतुर्मुखः ।
यां स्तोतुं किमहं स्तौमि तामेकास्येन मानवः ॥३२॥
इत्युक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकन्धरः ।
प्रणनाम निराहारो रुरोद च मुहुर्मुहुः ॥३३॥
तदा ज्योतिः स्वरूपा सा तेनाऽदृष्टाऽप्युवाच तम् ।
सुकवीन्द्रो भवेत्युक्त्वा वैकुण्ठं च जगाम ह ॥३४॥
महामूर्खश्च दुर्मेधा वर्षमेकं च यः पठेत् ।
स पण्डितश्च मेधावी सुकविश्च भवेद्ध्रुवम् ॥३५॥
॥ इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे याज्ञवल्क्योक्त वाणीस्तवनं नाम पञ्चमोऽध्यायः ॥
॥ इति श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनं नाम पञ्चमोऽध्यायः ॥
रुद्रयामलोक्त श्रीबृहस्पति विरचित सरस्वती स्तोत्र
बृहस्पतिरुवाच
सरस्वति नमस्यामि चेतनां हृदि संस्थिताम् ।
कण्ठस्थां पद्मयोनिं त्वां ह्रीङ्कारां सुप्रियां सदा ॥१॥
मतिदां वरदां चैव सर्वकामफलप्रदाम् ।
केशवस्य प्रियां देवीं वीणाहस्तां वरप्रदाम् ॥२॥
मन्त्रप्रियां सदा हृद्यां कुमतिध्वंसकारिणीम् ।
स्वप्रकाशां निरालम्बामज्ञानतिमिरापहाम् ॥३॥
मोक्षप्रियां शुभां नित्यां सुभगां शोभनप्रियाम् ।
पद्मोपविष्टां कुण्डलिनीं शुक्लवस्त्रां मनोहराम् ॥४॥
आदित्यमण्डले लीनां प्रणमामि जनप्रियाम् ।
ज्ञानाकारां जगद्द्वीपां भक्तविघ्नविनाशिनीम् ॥५॥
इति सत्यं स्तुता देवी वागीशेन महात्मना ।
आत्मानं दर्शयामास शरदिन्दुसमप्रभाम् ॥६॥
श्रीसरस्वत्युवाच
वरं वृणीष्व भद्रं त्वं यत्ते मनसि वर्तते ।
बृहस्पतिरुवाच
प्रसन्ना यदि मे देवि परं ज्ञानं प्रयच्छ मे ॥७॥
श्रीसरस्वत्युवाच
दत्तंऽती निर्मलं ज्ञानं कुमतिध्वंसकारकम् ।
स्तोत्रेणानेन मां भक्त्या ये स्तुवन्ति सदा नराः ॥८॥
लभन्ते परमं ज्ञानं मम तुल्यपराक्रमाः ।
कवित्वं मत्प्रसादेन प्राप्नुवन्ति मनोगतम् ॥९॥
त्रिसन्ध्यं प्रयतो भूत्वा यस्त्विमं पठते नरः ।
तस्य कण्ठे सदा वासं करिष्यामि न संशयः ॥१०॥
॥ इति श्रीरुद्रयामले श्रीबृहस्पतिविरचितं सरस्वतीस्तोत्रम् सम्पूर्णम् ॥
वामनपुराणोक्त मार्कण्डेयमुनिप्रोक्त सरस्वती स्तोत्र
तस्मिन् प्लक्षे स्थितां दृष्ट्वा मार्कण्डेयो महामुनिः ।
प्रणिपत्य तदा मूर्ध्ना तुष्टावाथ सरस्वतीम् ॥
मार्कण्डेय उवाच
त्वं देवि सर्वलोकानां माता देवारणिः शुभा ।
सदसद्देवि यत्किञ्चिन्मोक्षदाय्यर्थवत्पदम् ॥
तत्सर्वं त्वयि संयोगि योगिवद्देवि संस्थितम् ।
अक्षरं परमं देवि यत्र सर्वं प्रतिष्ठितम् ।
अक्षरं परमं ब्रह्म विश्वं चैतत्क्षरात्मकम् ॥
दारुण्यवस्थितो वह्निर्भूमौ गन्धो यथा ध्रुवम् ।
तथा त्वयि स्थितं ब्रह्म जगच्चेदमशेषतः ॥
ॐ काराक्षरसंस्थानं यत्तद्देवि स्थिरास्थिरम् ।
तत्र मात्रात्रयं सर्वमस्ति यद्देवि नास्ति च ॥
त्रयो लोकास्त्रयो वेदास्त्रैविद्यं पावकत्रयम् ।
त्रीणि ज्योतींषि वर्गाश्च त्रयो धर्मादयस्तथा ॥
त्रयो गुणास्त्रयो वर्णास्त्रयो देवास्तथा क्रमात् ।
त्रैधातवस्तथावस्थाः पितरश्चैवमादयः ॥
एतन्मात्रात्रयं देवि तव रूपं सरस्वति ।
विभिन्नदर्शनामाद्यां ब्रह्मणो हि सनातनीम् ॥
सोमसंस्था हविःसंस्था पाकसंस्था सनातनी ।
तास्त्वदुच्चारणाद्देवि क्रियन्ते ब्रह्मवादिभिः ॥
अनिर्देश्यपदं त्वेतदर्द्धमात्राश्रितं परम् ।
अविकार्यक्षयं दिव्यं परिणामविवर्जितम् ॥
तवैतत्परमं रूपं यन्न शक्यं मयोदितुम् ।
न चास्येन न वा जिह्वाताल्वोष्ठादिभिरुच्यते ॥
स विष्णुः स वृषो ब्रह्मा चन्द्रार्कज्योतिरेव च ।
विश्वावासं विश्वरूपं विश्वात्मानमनीश्वरम् ॥
साङ्ख्यसिद्धान्तवेदोक्तं बहुशाखास्थिरीकृतम् ।
अनादिमध्यनिधनं सदसच्च सदेव तु ॥
एकं त्वनेकधाप्येकभाववेदसमाश्रितम् ।
अनाख्यं षड्गुणाख्यं च बह्वाख्यं त्रिगुणाश्रयम् ॥
नानाशक्तिविभावज्ञं नानाशक्तिविभावकम् ।
सुखात्सुखं महात्सौख्यं रूपं तत्त्वगुणात्मकम् ॥
एवं देवि त्वया व्याप्तं सकलं निष्कलं च यत् ।
अद्वैतावस्थितं ब्रह्म यच्च द्वैते व्यवस्थितम् ॥
येऽर्था नित्या ये विनश्यन्ति चान्ये येऽर्थाः स्थूला ये तथा सन्ति सूक्ष्माः ।
ये वा भूमौ येऽन्तरिक्षेऽन्यतो वा तेषां देवि त्वत्त एवोपलब्धिः ॥
यद्वा मूर्तं यदमूर्तं समस्तं यद्वा भूतेष्वेकमेकं च किञ्चित् ।
यच्च द्वैते व्यस्तभूतं च लक्ष्यं तत्सम्बद्धं त्वत्स्वरैर्व्यञ्जनैश्च ॥२२॥
॥ इति वामनपुराणे द्वात्रिंशाध्यायान्तर्गतं मार्कण्डेयमुनिप्रोक्तं सरस्वतीस्तोत्रं सम्पूर्णम् ॥
वामनपुराणोक्त वसिष्ठप्रोक्त सरस्वती स्तोत्र
वसिष्ठ उवाच
पितामहस्य सरसः प्रवृत्तासि सरस्वति ।
व्याप्तं त्वया जगत्सर्वं तवैवाम्भोभिरुत्तमैः ॥१३॥
त्वमेवाकाशगा देवी मेघेषु सृजसे पयः ।
सर्वास्त्वापस्त्वमेवेति त्वत्तो वयमधीमहे ॥१४॥
पुष्टिर्धृतिस्तथा कीर्तिः सिद्धिः कान्तिः क्षमा तथा ।
स्वधा स्वाहा तथा वाणी तवायत्तमिदं जगत् ॥१५॥
त्वमेव सर्वभूतेषु वाणीरूपेण संस्थिता ।
एवं सरस्वती तेन स्तुता भगवती तदा ॥१६॥
॥ इति वामनपुराणे चत्वारिंशाध्यायान्तर्गतं वसिष्ठप्रोक्तं सरस्वतीस्तोत्रं सम्पूर्णम् ॥
मार्कण्डेयपुराणोक्त महासरस्वती स्तवं
अश्वतर उवाच
जगद्धात्रीमहं देवीमारिराधयिषुः शुभाम् ।
स्तोष्ये प्रणम्य शिरसा ब्रह्मयोनिं सरस्वतीम् ॥१॥
सदसद्देवि ! सत्किञ्चिन्मोक्षवच्चार्थवत्पदम् ।
तत्सर्वं त्वय्यसंयोगं योगवद्देवि ! संस्थितम् ॥२॥
त्वमक्षरं परं देवि ! यत्र सर्वं प्रतिष्ठितम् ।
अक्षरं परमं देवि ! संस्थितं परमाणुवत् ॥३॥
अक्षरं परमं ब्रह्म विश्वञ्चैतत्क्षरात्मकम् ।
दारुण्यवस्थितो वह्निर्भौमाश्च परमाणवः ॥४॥
तथा त्वयि स्थितं ब्रह्म जगच्चेदमशेषतः ।
ओङ्काराक्षरसंस्थानं यत्तु देवि ! स्थिरास्थिरम् ॥५॥
तत्र मात्रात्रयं सर्वमस्ति यद्देवि नास्ति च ।
त्रयो लोकास्त्रयो वेदास्त्रैविद्यं पावकत्रयम् ॥६॥
त्रीणि ज्योतींषि वर्णाश्च त्रयो धर्मागमास्तथा ।
त्रयो गुणास्त्रयः शब्दस्त्रयो वेदास्तथाश्रमाः ॥७॥
त्रयः कालास्तथावस्थाः पितरोऽहर्निशादयः ।
एतन्मात्रात्रयं देवि ! तव रूपं सरस्वति ॥८॥
विभिन्नदर्शिनामाद्या ब्रह्मणो हि सनातनाः ।
सोमसंस्था हविः संस्थाः पाकसंस्थाश्च सप्त याः ॥९॥
तास्त्वदुच्चारणाद्देवि ! क्रियन्ते ब्रह्मवादिभिः ।
अनिर्देश्यं तथा चान्यदर्धमात्रान्वितं परम् ॥१०॥
अविकार्यक्षयं दिव्यं परिणामविवर्जितम् ।
तवैतत्परमं रूपं यन्न शक्यं मयोदितुम् ॥११॥
न चास्ये न च तज्जिह्वा ताम्रोष्ठादिभिरुच्यते ।
इन्द्रोऽपि वसवो ब्रह्मा चन्द्रार्कौ ज्योतिरेव च ॥१२॥
विश्वावासं विश्वरूपं विश्वेशं परमेश्वरम् ।
साङ्ख्यवेदान्तवादोक्तं बहुशाखास्थिरीकृतम् ॥१३॥
अनादिमध्यनिधनं सदसन्न सदेव यत् ।
एकन्त्वनेकं नाप्येकं भवभेदसमाश्रैतम् ॥१४॥
अनाख्यं षड्गुणाख्यञ्च वर्गाख्यं त्रिगुणाश्रयम् ।
नानाशक्तिमतामेकं शक्तिवैभविकं परम् ॥१५॥
सुखासुखं महासौख्यरूपं त्वयि विभाव्यते ।
एवं देवि ! त्वया व्याप्तं सकलं निष्कलञ्च यत् ।
अद्वैतावस्थितं ब्रह्म यच्च द्वैते व्यवस्थितम् ॥१६॥
येऽर्था नित्या ये विनश्यन्ति चान्ये
ये वा स्थूला ये च सूक्ष्मातिसूक्ष्माः ।
ये वा भूमौ येऽन्तरीक्षेऽन्यतो वा
तेषां तेषां त्वत्त एवोपलब्धिः ॥१७॥
यच्चामूर्तं यच्च मूर्तं समस्तं
यद्वा भूतेष्वेकमेकञ्च किञ्चित् ।
यद्दिव्यस्ति क्ष्मातले खेऽन्यतो वा
त्वत्सम्बद्धं त्वत्स्वरैर्व्यञ्जनैश्च ॥१८॥
॥ इति श्रीमार्कण्डेयपुराणे त्रयोविंशोऽध्यायान्तरगतं महासरस्वतीस्तवं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।