माता भुवनेश्वरी जो कि दशमहाविद्या में एक हैं; के अनेकों शतनाम स्तोत्र मिलते हैं; दो अष्टोत्तरशतनाम तो रुद्रयामल तंत्र में ही प्राप्त होता है। यहां तीन भुवनेश्वरी अष्टोत्तरशतनाम (bhuvaneshwari ashtottara shatanama stotram) संस्कृत में दिया गया है।
यहां पढ़ें भुवनेश्वरी अष्टोत्तर शतनाम स्तोत्र संस्कृत में ~ bhuvaneshwari ashtottara shatanama stotram
सर्वप्रथम माता भुवनेश्वरी के दो रुद्रयामलोक्त शतनाम स्तोत्र दिया गया है तत्पश्चात श्रीकालीविलासतन्त्र में वर्णित अष्टोत्तरशतनाम स्तोत्र दिया गया है। तीनों शतनाम स्तोत्र संस्कृत में हैं।
॥ रुद्रयामलोक्त श्रीभुवनेश्वर्यष्टोत्तर शतनाम स्तोत्र ॥
कैलासशिखरे रम्ये नानारत्नोपशोभिते ।
नरनारीहितार्थाय शिवं पप्रच्छ पार्वती ॥१॥
देव्युवाच
भुवनेशीमहाविद्यानाम्नामष्टोत्तरं शतम् ।
कथयस्व महादेव यद्यहं तव वल्लभा ॥२॥
ईश्वर उवाच
शृणु देवि महाभागे स्तवराजमिदं शुभम् ।
सहस्रनाम्नामधिकं सिद्धिदं मोक्षहेतुकम् ॥३॥
शुचिभिः प्रातरुत्थाय पठितव्यं समाहितैः ।
त्रिकालं श्रद्धया युक्तैः सर्वकामफलप्रदम् ॥४॥
विनियोग : अस्य श्रीभुवनेश्वर्यष्टोत्तरशतनामस्तोत्रस्य शक्तिर्ऋषिः गायत्री छन्दःभुवनेश्वरी देवता चतुर्वर्गसाधने जपे विनियोगः ॥
ॐ महामाया महाविद्या महाभोगा महोत्कटा ।
माहेश्वरी कुमारी च ब्रह्माणी ब्रह्मरूपिणी ॥५॥
वागीश्वरी योगरूपा योगिनीकोटिसेविता ।
जया च विजया चैव कौमारी सर्वमङ्गला ॥६॥
हिङ्गुला च विलासी च ज्वालिनी ज्वालरूपिणी ।
ईश्वरी क्रूरसंहारी कुलमार्गप्रदायिनी ॥७॥
वैष्णवी सुभगाकारा सुकुल्या कुलपूजिता ।
वामाङ्गा वामचारा च वामदेवप्रिया तथा ॥८॥
डाकिनी योगिनीरूपा भूतेशी भूतनायिका ।
पद्मावती पद्मनेत्रा प्रबुद्धा च सरस्वती ॥९॥
भूचरी खेचरी माया मातङ्गी भुवनेश्वरी ।
कान्ता पतिव्रता साक्षी सुचक्षुः कुण्डवासिनी ॥१०॥
उमा कुमारी लोकेशी सुकेशी पद्मरागिणी ।
इन्द्राणी ब्रह्म चाण्डाली चण्डिका वायुवल्लभा ॥११॥
सर्वधातुमयीमूर्तिर्जलरूपा जलोदरी ।
आकाशी रणगा चैव नृकपालविभूषणा ॥१२॥
नर्मदा मोक्षदा चैव धर्मकामार्थदायिनी ।
गायत्री चाथ सावित्री त्रिसन्ध्या तीर्थगामिनी ॥१३॥
अष्टमी नवमी चैव दशम्येकादशी तथा ।
पौर्णमासी कुहूरूपा तिथिमूर्तिस्वरूपिणी ॥१४॥
सुरारिनाशकारी च उग्ररूपा च वत्सला ।
अनला अर्धमात्रा च अरुणा पीतलोचना ॥१५॥
लज्जा सरस्वती विद्या भवानी पापनाशिनी ।
नागपाशधरा मूर्तिरगाधा धृतकुण्डला ॥१६॥
क्षत्ररूपा क्षयकरी तेजस्विनी शुचिस्मिता ।
अव्यक्ता व्यक्तलोका च शम्भुरूपा मनस्विनी ॥१७॥
मातङ्गी मत्तमातङ्गी महादेवप्रिया सदा ।
दैत्यहा चैव वाराही सर्वशास्त्रमयी शुभा ॥१८॥
॥ फलश्रुतिः ॥
य इदं पठते भक्त्या शृणुयाद्वा समाहितः ।
अपुत्रो लभते पुत्रं निर्धनो धनवान् भवेत् ॥१९॥
मूर्खोऽपि लभते शास्त्रं चोरोऽपि लभते गतिम् ।
वेदानां पाठको विप्रः क्षत्रियो विजयी भवेत् ॥२०॥
वैश्यस्तु धनवान्भूयाच्छूद्रस्तु सुखमेधते ।
अष्टम्याञ्च चतुर्दश्यां नवम्यां चैकचेतसः ॥२१॥
ये पठन्ति सदा भक्त्या न ते वै दुःखभागिनः ।
एककालं द्विकालं वा त्रिकालं वा चतुर्थकम् ॥२२॥
ये पठन्ति सदा भक्त्या स्वर्गलोके च पूजिताः ।
रुद्रं दृष्ट्वा यथा देवाः पन्नगा गरुडं यथा ॥
शत्रवः प्रपलायन्ते तस्य वक्त्रविलोकनात् ॥२३॥
॥ इति श्रीरुद्रयामले देवीशङ्करसंवादे श्रीभुवनेश्वर्यष्टोत्तरशतनामस्तोत्रम् ॥
॥ अथ रुद्रयामलोक्तं श्रीभुवनेश्वर्यष्टोत्तरशतनामस्तोत्रम् ~ २ ॥
ईश्वर उवाच
ॐ महासम्मोहिनी देवी सुन्दरी भुवनेश्वरी ।
एकाक्षरी एकमन्त्री एकाकी लोकनायिका ॥१॥
एकरूपा महारूपा स्थूलसूक्ष्मशरीरिणी ।
बीजरूपा महाशक्तिः सङ्ग्रामे जयवर्धिनी ॥२॥
महारतिर्महाशक्तिर्योगिनी पापनाशिनी ।
अष्टसिद्धिः कलारूपा वैष्णवी भद्रकालिका ॥३॥
भक्तिप्रिया महादेवी हरिब्रह्मादिरूपिणी ।
शिवरूपी विष्णुरूपी कालरूपी सुखासिनी ॥४॥
पुराणी पुण्यरूपा च पार्वती पुण्यवर्धिनी ।
रुद्राणी पार्वतीन्द्राणी शङ्करार्धशरीरिणी ॥५॥
नारायणी महादेवी महिषी सर्वमङ्गला ।
अकारादिक्षकारान्ता ह्यष्टात्रिंशत्कलाधरी ॥६॥
सप्तमा त्रिगुणा नारी शरीरोत्पत्तिकारिणी ।
आकल्पान्तकलाव्यापिसृष्टिसंहारकारिणी ॥७॥
सर्वशक्तिर्महाशक्तिः शर्वाणी परमेश्वरी ।
हृल्लेखा भुवना देवी महाकविपरायणा ॥८॥
इच्छाज्ञानक्रियारूपा अणिमादिगुणाष्टका ।
नमः शिवायै शान्तायै शाङ्करि भुवनेश्वरि ॥९॥
वेदवेदाङ्गरूपा च अतिसूक्ष्मा शरीरिणी ।
कालज्ञानी शिवज्ञानी शैवधर्मपरायणा ॥१०॥
कालान्तरी कालरूपी संज्ञाना प्राणधारिणी ।
खड्गश्रेष्ठा च खट्वाङ्गी त्रिशूलवरधारिणी ॥११॥
अरूपा बहुरूपा च नायिका लोकवश्यगा ।
अभया लोकरक्षा च पिनाकी नागधारिणी ॥१२॥
वज्रशक्तिर्महाशक्तिः पाशतोमरधारिणी ।
अष्टादशभुजा देवी हृल्लेखा भुवना तथा ॥१३॥
खड्गधारी महारूपा सोमसूर्याग्निमध्यगा ।
एवं शताष्टकं नाम स्तोत्रं रमणभाषितम् ॥१४॥
सर्वपापप्रशमनं सर्वारिष्टनिवारणम् ।
सर्वशत्रुक्षयकरं सदा विजयवर्धनम् ॥१५॥
आयुष्करं पुष्टिकरं रक्षाकरं यशस्करम् ।
अमरादिपदैश्वर्यममत्वांशकलापहम् ॥१६॥
॥ इति श्रीरुद्रयामले तन्त्रे भुवनेश्वर्यष्टोत्तरशतनाम समाप्तम् ॥
॥ अथ श्रीकालीविलासतन्त्रोक्तं श्रीभुवनेश्वर्यष्टोत्तरशतनामस्तोत्रम् ॥
श्रीदेव्युवाच
देवदेव महादेव योगीन्द्र वृषभध्वज ।
अस्याः श्रीभुवनेश्वर्याः शतनाम वद प्रभो ॥१॥
श्रीईशान उवाच
सहस्रेण महेशानि कलिकाले न सिद्ध्यति ।
शतनाम्नः परं नाम कलौ नास्ति महेश्वरि ॥२॥
विनियोग : अस्य श्रीभुवनेश्वरी शतनामस्तोत्रस्य शक्तिरृषि
विराट्च्छन्दः श्रीभुवनेश्वरी देवता चतुर्वर्गसिद्ध्यर्थे विनियोगः ॥
ॐ आद्या श्रीभुवनाभव्या भवबन्धविमोहिनी ।
भगरूपा भगवती भेरण्डा भाग्यशालिनी ॥३॥
ईश्वरी ईश्वरानन्दा वन्दनीया विलासिनी ।
उमा ऊमा च उन्मत्ता इन्दिरा इन्द्रपूजिता ॥४॥
ऊर्ध्वतेजस्विनी ऊर्ध्वा ऊर्ध्वगा ऊर्ध्वरूपिणी ।
नन्दिनी नन्दमथिनी नन्दा नन्दकरूपिणी ॥५॥
नित्या च निष्कलङ्का च निर्मला मलनाशिनी ।
निरीहोल्लासिनी नत्या निर्मला नित्यनूतना ॥६॥
निशुम्भनाशिनी चैव तथा शुम्भविनाशिनी ।
शुक्लरूपा च शुक्लार्हा शाम्भवी शम्भुवल्वभा ॥७॥
शिवाख्या शिवरूपा च शिवपूज्या शिवार्चिता ।
शिववादा च श्यामा च श्यामाङ्गी श्याममूर्त्तिका ॥८॥
शोभा च सुभगा चैव शोभना भुवनेश्वरी ।
रक्ताङ्गी रक्तनयना रक्ताक्षी रक्तलोचना ॥९॥
रेवती रुक्मिणी राधा रौद्री रामा रजोगुणा ।
रम्या च रमणीया च रामक्रीडावती तथा ॥१०॥
रामार्चिता रामपूज्या रङ्गिनी रामवल्लभा ।
रक्ताक्षी रक्तहास्या च रुधिरा रुधिरप्रिया ॥११॥
रक्तारक्तमयी राज्ञी रसयुक्ता रसप्रिया ।
रसमाला रसमयी तथा रसवती रतिः ॥१२॥
रूपमाला रूपवती रूपाङ्गदविभूषणा ।
रेणुका रेतरूपा च रसरूपा रसाश्रया ॥१३॥
भागीरथी तथोन्नासांवशिनी वेशरूपिणी ।
रेवा च शाम्भवी चैव मृदापारणपण्डिता ॥१४॥
शतनाम इदं देवि कथितं भक्तितस्तव ।
गुह्याद् गुह्यतरं गुह्यं कलिकालस्य सम्मतम् ॥१५॥
अष्टोत्तरशतं जप्त्वा दशधा वापि सुन्दरि ।
पठित्वा फलमाप्नोति अयुतं वरवर्णनि ॥१६॥
अयुतावर्त्तनाद्देवि चाश्वमेधफलं लभेत् ।
गोमेधशतयज्ञानां फलमाप्नोति निश्चितम् ॥१७॥
प्रपठेद् यदि शुद्धात्मा स्वकीयस्त्रीषु संरतः ।
वामभागे स्त्रियं स्थाप्य धूपामोद सुगन्धितः ॥१८॥
ताम्बूल-पूरितमुखी यदि स्याज्जपतत्परः ।
यद्यप्यदीक्षिता नारी दूरतः परिवर्जयेत् ॥१८॥
दीक्षिता-परनारीषु यदि मैथुनमाचरेत् ।
न विन्दोः पातनं कार्यं कृते च ब्रह्महा भवेत् ॥२०॥
मृदापारगां मृत्तिकाविदारणमित्यर्थः ।
यदि न प्रपतेद्दिन्दुः परनारीषु पार्वति ।
सर्वसिद्धोश्वरो भूत्वा विहरेत् क्षितिमण्डले ॥२१॥
॥ इति श्रीकालीविलासतन्त्रे श्रीभुवनेश्वरी शतनामस्तोत्रं समाप्तम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।