श्री नीलसरस्वतीतन्त्र में माता भुवनेश्वरी का हृदय स्तोत्र दिया गया है। यहां नीलसरस्वतीतन्त्रोक्त भुवनेश्वरी हृदय स्तोत्र (bhuvaneshwari hridaya stotra) दिया गया है।
यहां पढ़ें भुवनेश्वरी हृदय स्तोत्र संस्कृत में ~ bhuvaneshwari hridaya stotra
देव्युवाच
भगवन् ब्रूहि तत्स्तोत्रं सर्वकामप्रसाधनम् ।
यस्य श्रवणमात्रेण नान्यच्छ्रोतव्यमिष्यते ॥१॥
यदि मेऽनुग्रहः कार्यः प्रीतिश्चापि ममोपरि ।
तदिदं कथय ब्रह्मन् विमलं यन्महीतले ॥२॥
ईश्वर उवाच
शृणुदेवि प्रवक्ष्यामि सर्वकामप्रसाधनम् ।
हृदयं भुवनेश्वर्याः स्तोत्रमस्ति यशोदयम् ॥३॥
विनियोग : ॐ अस्य श्रीभुवनेश्ववरीहृदयस्तोत्रमन्त्रस्य शक्तिर्ऋषिः । गायत्री छन्दः । श्रीभुवनेश्ववरी देवता । हकारो बीजम् । ईकारः शक्तिः। रेफः कीलकम् । सकलमनोवाञ्छितसिद्धयर्थे जप/पाठे विनियोगः ॥
॥ हृदयादिषडङ्गन्यासः ॥
ॐ ह्रीं हृदयाय नमः ॥
ॐ श्रीं शिरसे स्वाहा ॥
ॐ ऐं शिखायै वषट् ॥
ॐ ह्रीं कवचाय हुं ॥
ॐ श्रीं नेत्रत्रयाय वौषट् ॥
ॐ ऐं अस्त्राय फट् ॥
॥ इति हृदयादिषडङ्गन्यासः ॥
॥ करन्यासः ॥
ॐ ह्रीं अङ्गुष्ठाभ्यां नमः ॥
ॐ श्रीं तर्जनीभ्यां नमः ॥
ॐ ऐं मध्यमाभ्यां नमः ॥
ॐ ह्रीं अनामिकाभ्यां नमः ॥
ॐ श्रीं कनिष्ठिकाभ्यां नमः ॥
ॐ ऐं करतलकरपृष्ठाभ्यां नमः ॥
॥ इति करन्यासः ॥
॥ अथ ध्यानम् ॥
ध्यायेद्ब्रह्मादिकानां कृतजनिजननीं योगिनीं योगयोनिं
देवानां जीवनायोज्ज्वलितजयपरज्योतिरुग्राङ्गधात्रीम् ।
शङ्खं चक्रं च बाणं धनुरपि दधतीं दोश्चतुष्काम्बुजातै-
र्मायामाद्यां विशिष्टां भवभवभुवनां भूभवा भारभूमिम् ॥४॥
॥ इति ध्यानम् ॥
यदाज्ञयेदं गगनाद्यशेषं सृजत्यजः श्रीपतिरौरसं वा ।
बिभर्ति संहन्ति भवस्तदन्ते भजामहे श्रीभुवनेश्वरीं ताम् ॥५॥
जगज्जनानन्दकरीं जयाख्यां यशस्विनीं यन्त्रसुयज्ञयोनिम् ।
जितामितामित्रकृतप्रपञ्चां भजामहे श्रीभुवनेश्वरीं ताम् ॥६॥
हरौ प्रसुप्ते भुवनत्रयान्ते अवातरन्नाभिजपद्मजन्मा ।
विधिस्ततोऽन्धे विदधार यत्पदं भजामहे श्रीभुवनेश्वरीं ताम् ॥७॥
न विद्यते क्वापि तु जन्म यस्या न वा स्थितिः सान्ततिकीह यस्याः ।
न वा निरोधेऽखिलकर्म यस्या भजामहे श्रीभुवनेश्वरीं ताम् ॥८॥
कटाक्षमोक्षाचरणोग्रवित्ता निवेशितार्णा करुणार्द्रचित्ता ।
सुभक्तये एति समीप्सितं या भजामहे श्रीभुवनेश्वरीं ताम् ॥९॥
यतो जगज्जन्म बभूव योनेस्तदेव मध्ये प्रतिपाति या वा ।
तदत्ति यान्तेऽखिलमुग्रकाली भजामहे श्रीभुवनेश्वरीं ताम् ॥१०॥
सुषुप्तिकाले जनमध्ययन्त्या यया जनः स्वप्नमवैति किञ्चित् ।
प्रबुद्ध्यते जाग्रति जीव एष भजामहे श्रीभुवनेश्वरीं ताम् ॥११॥
दयास्फुरत्कोरकटाक्षलाभान्नैकत्र यस्याः प्रलभन्ति सिद्धाः ।
कवित्वमीशित्वमपि स्वतन्त्रा भजामहे श्रीभुवनेश्वरीं ताम् ॥१२॥
लसन्मुखाम्भोरुहमुत्स्फुरन्तं हृदि प्रणिध्याय दिशि स्फुरन्तः ।
यस्याः कृपार्द्रं प्रविकाशयन्ति भजामहे श्रीभुवनेश्वरीं ताम् ॥१३॥
यदानुरागानुगतालिचित्राश्चिरन्तनप्रेमपरिप्लुताङ्गाः ।
सुनिर्भयाः सन्ति प्रमुद्य यस्याः भजामहे श्रीभुवनेश्वरीं ताम् ॥१४॥
हरिर्विरञ्चिर्हर ईशितारः पुरोऽवतिष्ठन्ति प्रपन्नभङ्गाः ।
यस्याः समिच्छन्ति सदानुकूल्यं भजामहे श्रीभुवनेश्वरीं ताम् ॥१५॥
मनुं यदीयं हरमग्निसंस्थं ततश्च वामश्रुतिचन्द्रसक्तम् ।
जपन्ति ये स्युर्हि सुवन्दितास्ते भजामहे श्रीभुवनेश्वरीं ताम् ॥१६॥
प्रसीदतु प्रेमरसार्द्रचित्ता सदा हि सा श्रीभुवनेश्ववरी मे ।
कृपाकटाक्षेण कुबेरकल्पा भवन्ति यस्याः पदभक्तिभाजः ॥१७॥
मुदा सुपाठ्यं भुवनेश्वरीयं सदा सतां स्तोत्रमिदं सुसेव्यम् ।
सुखप्रदं स्यात्कलिकल्मषघ्नं सुशृण्वतां सम्पठतां प्रशस्यम् ॥१८॥
एतत्तु हृदयं स्तोत्रं पठेद्यस्तु समाहितः ।
भवेत्तस्येष्टदा देवी प्रसन्ना भुवनेश्वरी ॥१९॥
ददाति धनमायुष्यं पुण्यं पुण्यमतिं तथा ।
नैष्ठिकीं देवभक्तिं च गुरुभक्तिं विशेषतः ॥२०॥
पूर्णिमायां चतुर्दश्यां कुजवारे विशेषतः ।
पठनीयमिदं स्तोत्रं देवसद्मनि यत्नतः ॥२१॥
यत्रकुत्रापि पाठेन स्तोत्रस्यास्य फलं भवेत् ।
सर्वस्थानेषु देवेश्याः पूतदेहः सदा पठेत् ॥२२॥
॥ इति नीलसरस्वतीतन्त्रे भुवनेश्वरीपटले श्रीदेवीश्वरसंवादे श्रीभुवनेश्ववरी हृदयस्तोत्रं समाप्तम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।