दशमहाविद्याओं में से एक भुवनेश्वरी हैं और इनके भी विभिन्न ग्रंथों में अनेकों कवच स्तोत्र है। यहां भुवनेश्वरी देवी के तीन प्रमुख कवच (bhuvaneshwari kavach) स्तोत्र संस्कृत में दिया गया है।
यहां पढ़ें भुवनेश्वरी कवच स्तोत्र संस्कृत में ~ bhuvaneshwari kavach
सर्वप्रथम श्रीमायातन्त्रोक्त भुवनेश्वरीकवच दिया गया है तदुपरांत रुद्रयामलोक्त त्रैलोक्यमङ्गलं नामक भुवनेश्वरी कवच है और पुनः एक महत्वपूर्ण भुवनेश्वरी कवच जिसे त्रैलोक्यमोहन कवच के नाम से भी जाना जाता है दिया गया है। सभी कवच स्तोत्र संस्कृत में हैं।
॥ श्रीमायातन्त्रोक्त भुवनेश्वरीकवचं ॥
श्रीमहादेव उवाच
शृणु प्रिये प्रवक्ष्यामि कवचं भुवि दुर्लभम् ।
यस्यापि पठनाद् देवि सर्वसिद्धीश्वरो भवेत् ॥१॥
इन्द्रोऽपि धारणाद् यस्य प्राप्नुयाद् राज्यमुत्तमम् ।
कृष्णेन पठितं देवि भूतापमारणाय च ॥२॥
शुकदेवोऽपि यद् धृत्वा सर्वयोगविशारदः ।
तस्य श्रीभुवनेश्वरी कवचस्य महेश्वरि ॥३॥
सर्वार्थे विनियोगः स्यात् प्राणायामं ततश्चरेत् ।
॥ अथ कवचम् ॥
मायाबीजं शिरः पातु कामबीजं तु बालकम् ॥४॥
दुर्गाबीजं नेत्रयुग्मं नासिकां मन्त्रदा मनुः ।
वदने दक्षिणाबीजं ताराबीजं तु गण्डयोः ॥५॥
षोडशी मे गलं पातु कण्ठं मे भैरवीमनुः ।
हृदयं छिन्नमस्ता च उदरं बगला तथा ॥६॥
धूमावतीं कटिं पातु मातङ्गी पातु सर्वतः ।
सर्वाङ्गं मे सदा पातु सर्वविद्यास्वरूपिणी ॥७॥
॥ भुवनेश्वरी कवच महात्म्य ॥
इत्येतत् कवचं देवि पठनाद् धारणादिकम् ।
कृत्वा तु साधकः श्रेष्ठो विद्यावान् धनवान् भवेत् ॥८॥
पुत्रपौत्रादिसम्पन्नो ह्यन्ते याति परां गतिम् ।
इदं तु कवचं गुह्यं साधकाय प्रकाशयेत् ॥९॥
न दद्याद् भ्रष्टमर्त्याय न परदेवताय च ।
इदं यन्त्रं महेशानि त्रिषु लोकेषु गोपितम् ॥१०॥
सर्वसिद्धिकरं साक्षान्महापातकनाशनम् ।
कल्पद्रुमसमं ज्ञेयं पूजयेत् श्रियमाप्नुयात् ॥११॥
पठनाद् धारणात् सर्वं पापं क्षयति निश्चितम् ।
विवादे जयमाप्नोति धनैर्धनपतिर्भवेत् ।
यं यं वाञ्छति तत् सर्वं भवत्येव न संशयः ॥१२॥
॥ इति श्रीमायातन्त्रे भुवनेश्वरीकवचं सम्पूर्णम् ॥
॥ रुद्रयामलोक्त त्रैलोक्यमङ्गलं नामक भुवनेश्वरी कवच ॥
देव्युवाच
देवेश भुवनेश्वर्या या या विद्याः प्रकाशिताः ।
श्रुताश्चाधिगताः सर्वाः श्रोतुमिच्छामि साम्प्रतम् ॥१॥
त्रैलोक्यमङ्गलं नाम कवचं यत्पुरोदितम् ।
कथयस्व महादेव मम प्रीतिकरं परम् ॥२॥
ईश्वर उवाच
शृणु पार्वति वक्ष्यामि सावधानावधारय ।
त्रैलोक्यमङ्गलं नाम कवचं मन्त्रविग्रहम् ॥३॥
सिद्धविद्यामयं देवि सर्वैश्वर्यसमन्वितम् ।
पठनाद्धारणान्मर्त्यस्त्रैलोक्यैश्वर्यभाग्भवेत् ॥४॥
विनियोग : ॐ अस्य श्रीभुवनेश्वरीत्रैलोक्यमङ्गलकवचस्य शिव ऋषिः , विराट् छन्दः , जगद्धात्री भुवनेश्वरी देवता , धर्मार्थकाममोक्षार्थे जपे विनियोगः ॥
ह्रीं बीजं मे शिरः पातु भुवनेशी ललाटकम् ।
ऐं पातु दक्षनेत्रं मे ह्रीं पातु वामलोचनम् ॥१॥
श्रीं पातु दक्षकर्णं मे त्रिवर्णात्मा महेश्वरी ।
वामकर्णं सदा पातु ऐं घ्राणं पातु मे सदा ॥२॥
ह्रीं पातु वदनं देवि ऐं पातु रसनां मम ।
वाक्पुटा च त्रिवर्णात्मा कण्ठं पातु परात्मिका ॥३॥
श्रीं स्कन्धौ पातु नियतं ह्रीं भुजौ पातु सर्वदा ।
क्लीं करौ त्रिपुटा पातु त्रिपुरैश्वर्यदायिनी ॥४॥
ॐ पातु हृदयं ह्रीं मे मध्यदेशं सदावतु ।
क्रौं पातु नाभिदेशं मे त्र्यक्षरी भुवनेश्वरी ॥५॥
सर्वबीजप्रदा पृष्ठं पातु सर्ववशङ्करी ।
ह्रीं पातु गुह्यदेशं मे नमोभगवती कटिम् ॥६॥
माहेश्वरी सदा पातु शङ्खिनी जानुयुग्मकम् ।
अन्नपूर्णा सदा पातु स्वाहा पातु पदद्वयम् ॥७॥
सप्तदशाक्षरा पायादन्नपूर्णाखिलं वपुः ।
तारं माया रमाकामः षोडशार्णा ततः परम् ॥८॥
शिरःस्था सर्वदा पातु विंशत्यर्णात्मिका परा ।
तारं दुर्गे युगं रक्षिणी स्वाहेति दशाक्षरा ॥९॥
जयदुर्गा घनश्यामा पातु मां सर्वतो मुदा ।
मायाबीजादिका चैषा दशार्णा च ततः परा ॥१०॥
उत्तप्तकाञ्चनाभासा जयदुर्गाऽऽननेऽवतु ।
तारं ह्रीं दुं च दुर्गायै नमोऽष्टार्णात्मिका परा ॥११॥
शङ्खचक्रधनुर्बाणधरा मां दक्षिणेऽवतु ।
महिषामर्द्दिनी स्वाहा वसुवर्णात्मिका परा ॥१२॥
नैर्ऋत्यां सर्वदा पातु महिषासुरनाशिनी ।
माया पद्मावती स्वाहा सप्तार्णा परिकीर्तिता ॥१३॥
पद्मावती पद्मसंस्था पश्चिमे मां सदाऽवतु ।
पाशाङ्कुशपुटा मायो स्वाहा हि परमेश्वरि ॥१४॥
त्रयोदशार्णा ताराद्या अश्वारुढाऽनलेऽवतु ।
सरस्वति पञ्चस्वरे नित्यक्लिन्ने मदद्रवे ॥१५॥
स्वाहा वस्वक्षरा विद्या उत्तरे मां सदाऽवतु ।
तारं माया च कवचं खे रक्षेत्सततं वधूः ॥१६॥
हूँ क्षें ह्रीं फट् महाविद्या द्वादशार्णाखिलप्रदा ।
त्वरिताष्टाहिभिः पायाच्छिवकोणे सदा च माम् ॥१७॥
ऐं क्लीं सौः सततं बाला मूर्द्धदेशे ततोऽवतु ।
बिन्द्वन्ता भैरवी बाला हस्तौ मां च सदाऽवतु ॥१८॥
इति ते कथितं पुण्यं त्रैलोक्यमङ्गलं परम् ।
सारात्सारतरं पुण्यं महाविद्यौघविग्रहम् ॥१९॥
अस्यापि पठनात्सद्यः कुबेरोऽपि धनेश्वरः ।
इन्द्राद्याः सकला देवा धारणात्पठनाद्यतः ॥२०॥
सर्वसिद्धिश्वराः सन्तः सर्वैश्वर्यमवाप्नुयुः ।
पुष्पाञ्जल्यष्टकं दद्यान्मूलेनैव पृथक् पृथक् ॥२१॥
संवत्सरकृतायास्तु पूजायाः फलमाप्नुयात् ।
प्रीतिमन्योऽन्यतः कृत्वा कमला निश्चला गृहे ॥२२॥
वाणी च निवसेद्वक्त्रे सत्यं सत्यं न संशयः ।
यो धारयति पुण्यात्मा त्रैलोक्यमङ्गलाभिधम् ॥२३॥
कवचं परमं पुण्यं सोऽपि पुण्यवतां वरः ।
सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यविजयी भवेत् ॥२४॥
पुरुषो दक्षिणे बाहौ नारी वामभुजे तथा ।
बहुपुत्रवती भूयाद्वन्ध्यापि लभते सुतम् ॥२५॥
ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तं जनम् ।
एतत्कवचमज्ञात्वा यो भजेद्भुवनेश्वरीम् ।
दारिद्र्यं परमं प्राप्य सोऽचिरान्मृत्युमाप्नुयात् ॥२६॥
॥ इति श्रीरुद्रयामले तन्त्रे देवीश्वर संवादे त्रैलोक्यमङ्गलं नाम भुवनेश्वरीकवचं सम्पूर्णम् ॥
॥ भुवनेश्वरी त्रैलोक्यमोहनकवच ॥
श्रीदेव्युवाच भगवन् परमेशान, सर्वागमविशारद ।
कवचं भुवनेश्वर्याः कथयस्व महेश्वर ॥
श्री भैरव उवाच शृणु देवि, महेशानि कवचं सर्वकामदम् ।
त्रैलोक्यमोहनं नाम सर्वेप्सितफलप्रदम् ॥
विनियोग : ॐ अस्य श्रीत्रैलोक्यमोहनकवचस्य श्रीसदाशिव ऋषिः । विराट् छन्दः । श्रीभुवनेश्वरी देवता । चतुर्वर्गसिद्ध्यर्थं कवचपाठे विनियोगः ॥
॥ ऋष्यादिन्यास ॥
श्रीसदाशिवऋषये नमः शिरसि ॥ विराट्छन्दसे नमः मुखे ॥ श्रीभुवनेश्वरीदेवतायै नमः हृदि ॥ चतुर्वर्गसिद्ध्यर्थं कवचपाठे विनियोगाय नमः सर्वाङ्गे ॥
॥ अथ कवचस्तोत्रम् ॥
ॐ ह्रीं क्लीं मे शिरः पातु श्रीं फट् पातु ललाटकम् ।
सिद्धपञ्चाक्षरी पायान्नेत्रे मे भुवनेश्वरी ॥१॥
श्रीं क्लीं ह्रीं मे श्रुतीः पातु नमः पातु च नासिकाम् ।
देवी षडक्षरी पातु वदनं मुण्डभूषणा ॥२॥
ॐ ह्रीं श्रीं ऐं गलं पातु जिह्वां पायान्महेश्वरी ।
ऐं स्कन्धौ पातु मे देवी महात्रिभुवनेश्वरी ॥३॥
ह्रूं घण्टां मे सदा पातु देव्येकाक्षररूपिणी ।
ऐं ह्रीं श्रीं हूं तु फट् पायादीश्वरी मे भुजद्वयम् ॥४॥
ॐ ह्रीं श्रीं क्लीं ऐं फट् पायाद् भुवनेशी स्तनद्वयम् ।
ह्रां ह्रीं ऐं फट् महामाया देवी च हृदयं मम ॥५॥
ऐं ह्रीं श्रीं हूं तु फट् पायात् पार्श्वौ कामस्वरूपिणी ।
ॐ ह्रीं क्लीं ऐं नमः पायात् कुक्षिं महाषडक्षरी ॥६॥
ऐं सौः ऐं ऐं क्लीं फट् स्वाहा कटिदेशे सदाऽवतु ।
अष्टाक्षरी महाविद्या देवेशी भुवनेश्वरी ॥७॥
ॐ ह्रीं ह्रौं ऐं श्रीं ह्रीं फट् पायान्मे गुह्यस्थलं सदा ।
षडक्षरी महाविद्या साक्षाद् ब्रह्मस्वरूपिणी ॥८॥
ऐं ह्रां ह्रौं ह्रूं नमो देव्यै देवि! सर्वं पदं ततः,
दुस्तरं पदं तारय तारय प्रणवद्वयम् ।
स्वाहा इति महाविद्या जानुनि मे सदाऽवतु ॥९॥
ऐं सौः ॐ ऐं क्लीं फट् स्वाहा जङ्घेऽव्याद् भुवनेश्वरी ।
ॐ ह्रीं श्रीं क्लीं ऐं फट् पायात् पादौ मे भुवनेश्वरी ॥१०॥
ॐ ॐ ह्रीं ह्रीं श्रीं श्रीं क्लीं क्लीं ऐं ऐं सौः सौः वद वद ।
वाग्वादिनीति च देवि विद्या या विश्वव्यापिनी ॥११॥
सौःसौःसौः ऐंऐंऐं क्लीङ्क्लीङ्क्लीं श्रींश्रींश्रीं ह्रींह्रींह्रीं ॐ ।
ॐ ॐ चतुर्दशात्मिका विद्या पायात् बाहू तु मे ॥१२॥
सकलं सर्वभीतिभ्यः शरीरं भुवनेश्वरी ।
ॐ ह्रीं श्रीं इन्द्रदिग्भागे पायान्मे चापराजिता ॥१३॥
श्रीं ऐं ह्रीं विजया पायादिन्दुमदग्निदिक्स्थले ।
ॐ श्रीं सौः क्लीं जया पातु याम्यां मां कवचान्वितम् ॥१४॥
ह्रीं ह्रीं ऐं सौः हसौः पायान्नैरृतिर्मां तु परात्मिका ।
ॐ श्रीं श्रीं ह्रीं सदा पायात् पश्चिमे ब्रह्मरूपिणी ॥१५॥
ॐ ह्रां सौः मां भयाद् रक्षेद् वायव्यां मन्त्ररूपिणी ।
ऐं क्लीं श्रीं सौः सदाऽव्यान्मां कौवेर्यां नगनन्दिनी ॥१६॥
ॐ ह्रीं श्रीं क्लीं महादेवी ऐशान्यां पातु नित्यशः ।
ॐ ह्रीं मन्त्रमयी विद्या पायादूर्ध्वं सुरेश्वरी ॥१७॥
ॐ ह्रीं श्रीं क्लीं ऐं मां पायादधस्था भुवनेश्वरी ।
एवं दशदिशो रक्षेत् सर्वमन्त्रमयो शिवा ॥१८॥
प्रभाते पातु चामुण्डा श्रीं क्लीं ऐं सौः स्वरूपिणी ।
मध्याह्नेऽव्यान्मामम्बा श्रीं ह्रीं क्लीं ऐं सौः स्वरूपिणी ॥१९॥
सायं पायादुमादेवी ऐं ह्रीं क्लीं सौः स्वरूपिणी ।
निशादौ पातु रुद्राणी ॐ क्लीं क्रीं सौः स्वरूपिणी ॥२०॥
निशीथे पातु ब्रह्माणी क्रीं ह्रूं ह्रीं ह्रीं स्वरूपिणी ।
निशान्ते वैष्णवी पायादोमै ह्रीं क्लीं स्वरूपिणी ॥२१॥
सर्वकाले च मां पायादो ह्रीं श्रीं भुवनेश्वरी ।
एषा विद्या मया गुप्ता तन्त्रेभ्यश्चापि साम्प्रतम् ॥२२॥
॥ फलश्रुतिः ॥
देवेशि! कथितां तुभ्यं कवचेच्छा त्वयि प्रिये ।
इति ते कथितं देवि! गुह्यन्तर परम् ।
त्रैलोक्यमोहनं नाम कवचं मन्त्रविग्रहम् ।
ब्रह्मविद्यामयं चैव केवलं ब्रह्मरूपिणम् ॥१॥
मन्त्रविद्यामयं चैव कवचं बन्मुखोदितम् ।
गुरुमभ्यर्च्य विधिवत् कवचं धारयेद्यदि ।
साधको वै यथाध्यानं तत्क्षणाद् भैरवो भवेत् ।
सर्वपापविनिर्मुक्तः कुलकोटि समुद्धरेत् ॥२॥
गुरुः स्यात् सर्वविद्यासु ह्यधिकारो जपादिषु ।
शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृता ।
शतमष्टोत्तरं जप्त्वा तावद्धोमादिकं तथा ।
त्रैलोक्ये विचरेद्वीरो गणनाथो यथा स्वयम् ॥३॥
गद्यपद्यमयी वाणी भवेद् गङ्गाप्रवाहवत् ।
पुष्पाञ्जल्यष्टकं दत्वा मूलेनैव पठेत् सकृत् ॥४॥
॥ इति श्रीभुवनेश्वरीत्रैलोक्यमोहनकवचं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।