माता भुवनेश्वरी जो कि दशमहाविद्या में एक हैं; और दशमहाविद्या क्रम में चतुर्थ क्रम पर हैं। यहां दो भुवनेश्वरी सहस्रनाम (bhuvaneshwari sahasranama stotram) संस्कृत में दिया गया है।
यहां पढ़ें भुवनेश्वरीसहस्रनाम स्तोत्र संस्कृत में ~ bhuvaneshwari sahasranama stotram
सर्वप्रथम माता भुवनेश्वरी के रुद्रयामलोक्त सहस्रनाम स्तोत्र दिया गया है तत्पश्चात श्रीमहातन्त्रार्णव में वर्णित भकारादि सहस्रनाम स्तोत्र दिया गया है। दोनों सहस्रनाम स्तोत्र संस्कृत में हैं।
॥ रुद्रयामलोक्त भुवनेश्वरी सहस्रनाम ॥
श्रीदेव्युवाच
देव देव महादेव सर्वशास्त्रविशारद । कपालखट्वाङ्गधर चिताभस्मानुलेपन ॥१॥
या आद्या प्रकृतिर्नित्या सर्वशास्त्रेषु गोपिता । तस्याः श्रीभुवनेश्वर्या नाम्नां पुण्यं सहस्रकम् ॥२॥
कथयस्व महादेव ! यथा देवी प्रसीदति ।
ईश्वर उवाच
साधु पृष्टं महादेवि ! साधकानां हिताय वै ॥३॥
या आद्या प्रकृतिर्नित्या सर्वशास्त्रेषु गोपिता । यस्याः स्मरणमात्रेण सर्वपापैः प्रमुच्यते ॥४॥
आराधनाद्भवेद्यस्या जीवन्मुक्तो न संशयः । तस्या नामसहस्रं वै कथयामि समासतः ॥५॥
विनियोग : अस्य श्रीभुवनेश्वर्या सहस्रनामस्तोत्रस्य दक्षिणामूर्तिऋषिः, पङ्क्तिश्छन्दः, आद्या श्रीभुवनेश्वरीदेवता, ह्रीं बीजं, श्रीं शक्तिः, क्लीं कीलकं, मम श्रीधर्मार्थकाममोक्षार्थे जपे विनियोगः ॥
॥ ऋष्यादिन्यासः ॥
श्रीदक्षिणामूर्तिऋषये नमः शिरसि ॥
पङ्क्तिश्छन्दसे नमः मुखे ॥
आद्या श्रीभुवनेश्वरीदेवतायै नमः हृदि ॥
ह्रीं बीजाय नमः गुह्ये ॥
श्रीं शक्तये नमः नाभौ ॥
क्लीं कीलकाय नमः पादयोः ॥
धर्मार्थकाममोक्षार्थे विनियोगाय नमः सर्वाङ्गे॥
॥ अथ सहस्रनामस्तोत्रम् ॥
आद्या माया परा शक्तिः श्रीं ह्रीं क्लीं भुवनेश्वरी । भुवना भावना भव्या भवानी भवमोचनी ॥६॥
रुद्राणी रुद्रभक्ता च तथा रुद्रप्रिया सती । उमा कामेश्वरी दुर्गा मङ्गला सर्वमङ्गला ॥७॥
त्रिपुरा परमेशानी त्रिपुरा सुन्दरी प्रिया । रमणा रमणी रामा रामकार्यकरी शुभा ॥८॥
ब्राह्मी नारायणी चण्डी चामुण्डा मुण्डनायिका । माहेश्वरी च कौमारी वाराही चापराजिता ॥९॥
महामाया मुक्तकेशी महात्रिपुरसुन्दरी । सुन्दरी शोभना रक्ता रक्तवस्त्रापिधायिनी ॥१०॥
रक्ताक्षी रक्तवस्त्रा च रक्तबीजातिसुन्दरी । रक्तचन्दनसिक्ताङ्गी रक्तपुष्पसदाप्रिया ॥११॥
कमला कामिनी कान्ता कामदेवसदाप्रिया । लक्ष्मी लोला चञ्चलाक्षी चञ्चला चपला प्रिया ॥१२॥
भैरवी भयहर्त्री च महाभयविनाशिनी । भयङ्करी महाभीमा भयहा भयनाशिनी ॥१३॥
श्मशाने प्रान्तरे दुर्गे संस्मृता भयनाशिनी । जया च विजया चैव जयपूर्णा जयप्रदा ॥१४॥
यमुना यामुना याम्या यामुनजा यमप्रिया । सर्वेषां जनिका जन्या जनहा जनवर्धिनी ॥१५॥
काली कपालिनी कुल्ला कालिका कालरात्रिका । महाकालहृदिस्था च कालभैरवरूपिणी ॥१६॥
कपालखट्वाङ्गधरा पाशाङ्कुशविधारिणी । अभया च भया चैव तथा च भयनाशिनी ॥१७॥
महाभयप्रदात्री च तथा च वरहस्तिनी । गौरी गौराङ्गिनी गौरा गौरवर्णा जयप्रदा ॥१८॥
उग्रा उग्रप्रभा शान्तिः शान्तिदाऽशान्तिनाशिनी । उग्रतारा तथा चोग्रा नीला चैकजटा तथा ॥१९॥
हां हां हूं हूं तथा तारा तथा च सिद्धिकालिका । तारा नीला च वागीशी तथा नीलसरस्वती ॥२०॥
गङ्गा काशी सती सत्या सर्वतीर्थमयी तथा । तीर्थरूपा तीर्थपुण्या तीर्थदा तीर्थसेविका ॥२१॥
पुण्यदा पुण्यरूपा च पुण्यकीर्तिप्रकाशिनी । पुण्यकाला पुण्यसंस्था तथा पुण्यजनप्रिया ॥२२॥
तुलसी तोतुलास्तोत्रा राधिका राधनप्रिया । सत्यासत्या सत्यभामा रुक्मिणी कृष्णवल्लभा ॥२३॥
देवकी कृष्णमाता च सुभद्रा भद्ररूपिणी । मनोहरा तथा सौम्या श्यामाङ्गी समदर्शना ॥२४॥
घोररूपा घोरतेजा घोरवत्प्रियदर्शना । कुमारी बालिका क्षुद्रा कुमारीरूपधारिणी ॥२५॥
युवती युवतीरूपा युवतीरसरञ्जका । पीनस्तनी क्षूद्रमध्या प्रौढा मध्या जरातुरा ॥२६॥
अतिवृद्धा स्थाणुरूपा चलाङ्गी चञ्चला चला । देवमाता देवरूपा देवकार्यकरी शुभा ॥२७॥
देवमाता दितिर्दक्षा सर्वमाता सनातनी । पानप्रिया पायनी च पालना पालनप्रिया ॥२८॥
मत्स्याशी मांसभक्ष्या च सुधाशी जनवल्लभा । तपस्विनी तपी तप्या तपःसिद्धिप्रदायिनी ॥२९॥
हविष्या च हविर्भोक्त्री हव्यकव्यनिवासिनी । यजुर्वेदा वश्यकरी यज्ञाङ्गी यज्ञवल्लभा ॥३०॥
दक्षा दाक्षायिणी दुर्गा दक्षयज्ञविनाशिनी । पार्वती पर्वतप्रीता तथा पर्वतवासिनी ॥३१॥
हैमी हर्म्या हेमरूपा मेना मान्या मनोरमा । कैलासवासिनी मुक्ता शर्वक्रीडाविलासिनी ॥३२॥
चार्वङ्गी चारुरूपा च सुवक्त्रा च शुभानना । चलत्कुण्डलगण्डश्रीर्लसत्कुण्डलधारिणी ॥३३॥
महासिंहासनस्था च हेमभूषणभूषिता । हेमाङ्गदा हेमभूषा च सूर्यकोटिसमप्रभा ॥३४॥
बालादित्यसमाकान्तिः सिन्दूरार्चितविग्रहा । यवा यावकरूपा च रक्तचन्दनरूपधृक् ॥३५॥
कोटरी कोटराक्षी च निर्लज्जा च दिगम्बरा । पूतना बालमाता च शून्यालयनिवासिनी ॥३६॥
श्मशानवासिनी शून्या हृद्या चतुरवासिनी । मधुकैटभहन्त्री च महिषासुरघातिनी ॥३७॥
निशुम्भशुम्भमथनी चण्डमुण्डविनाशिनी । शिवाख्या शिवरूपा च शिवदूती शिवप्रिया ॥३८॥
शिवदा शिववक्षःस्था शर्वाणी शिवकारिणी । इन्द्राणी चेन्द्रकन्या च राजकन्या सुरप्रिया ॥३९॥
लज्जाशीला साधुशीला कुलस्त्री कुलभूषिका । महाकुलीना निष्कामा निर्लज्जा कुलभूषणा ॥४०॥
कुलीना कुलकन्या च तथा च कुलभूषिता । अनन्तानन्तरूपा च अनन्तासुरनाशिनी ॥४१॥
हसन्ती शिवसङ्गेन वाञ्छितानन्ददायिनी । नागाङ्गी नागभूषा च नागहारविधारिणी ॥४२॥
धरिणी धारिणी धन्या महासिद्धिप्रदायिनी । डाकिनी शाकिनी चैव राकिनी हाकिनी तथा ॥४३॥
भूता प्रेता पिशाची च यक्षिणी धनदार्चिता । धृतिः कीर्तिः स्मृतिर्मेधा तुष्टिःपुष्टिरुमा रुषा ॥४४॥
शाङ्करी शाम्भवी मीना रतिः प्रीतिः स्मरातुरा । अनङ्गमदना देवी अनङ्गमदनातुरा ॥४५॥
भुवनेशी महामाया तथा भुवनपालिनी । ईश्वरी चेश्वरीप्रीता चन्द्रशेखरभूषणा ॥४६॥
चित्तानन्दकरी देवी चित्तसंस्था जनस्य च । अरूपा बहुरूपा च सर्वरूपा चिदात्मिका ॥४७॥
अनन्तरूपिणी नित्या तथानन्तप्रदायिनी । नन्दा चानन्दरूपा च तथाऽनन्दप्रकाशिनी ॥४८॥
सदानन्दा सदानित्या साधकानन्ददायिनी । वनिता तरुणी भव्या भविका च विभाविनी ॥४९॥
चन्द्रसूर्यसमा दीप्ता सूर्यवत्परिपालिनी । नारसिंही हयग्रीवा हिरण्याक्षविनाशिनी ॥५०॥
वैष्णवी विष्णुभक्ता च शालग्रामनिवासिनी । चतुर्भुजा चाष्टभुजा सहस्रभुजसंज्ञिता ॥५१॥
आद्या कात्यायनी नित्या सर्वाद्या सर्वदायिनी । सर्वचन्द्रमयी देवी सर्ववेदमयी शुभा ॥५२॥
सवदेवमयी देवी सर्वलोकमयी पुरा । सर्वसम्मोहिनी देवी सर्वलोकवशङ्करी ॥५३॥
राजिनी रञ्जिनी रागा देहलावण्यरञ्जिता । नटी नटप्रिया धूर्ता तथा धूर्तजनार्दिनी ॥५४॥
महामाया महामोहा महासत्त्वविमोहिता । बलिप्रिया मांसरुचिर्मधुमांसप्रिया सदा ॥५५॥
मधुमत्ता माधविका मधुमाधवरूपिका । दिवामयी रात्रिमयी सन्ध्या सन्धिस्वरूपिणी ॥५६॥
कालरूपा सूक्ष्मरूपा सूक्ष्मिणी चातिसूक्ष्मिणी । तिथिरूपा वाररूपा तथा नक्षत्ररूपिणी ॥५७॥
सर्वभूतमयी देवी पञ्चभूतनिवासिनी । शून्याकारा शून्यरूपा शून्यसंस्था च स्तम्भिनी ॥५८॥
आकाशगामिनी देवी ज्योतिश्चक्रनिवासिनी । ग्रहाणां स्थितिरूपा च रुद्राणी चक्रसम्भवा ॥५९॥
ऋषीणां ब्रह्मपुत्राणां तपःसिद्धिप्रदायिनी । अरुन्धती च गायत्री सावित्री सत्त्वरूपिणी ॥६०॥
चितासंस्था चितारूपा चित्तसिद्धिप्रदायिनी । शवस्था शवरूपा च शवशत्रुनिवासिनी ॥६१॥
योगिनी योगरूपा च योगिनां मलहारिणी । सुप्रसन्ना महादेवी यामुनी मुक्तिदायिनी ॥६२॥
निर्मला विमला शुद्धा शुद्धसत्वा जयप्रदा । महाविद्या महामाया मोहिनी विश्वमोहिनी ॥६३॥
कार्यसिद्धिकरी देवी सर्वकार्यनिवासिनी । कार्यकार्यकरी रौद्री महाप्रलयकारिणी ॥६४॥
स्त्रीपुंभेदाह्यभेद्या च भेदिनी भेदनाशिनी । सर्वरूपा सर्वमयी अद्वैतानन्दरूपिणी ॥६५॥
प्रचण्डा चण्डिका चण्डा चण्डासुरविनाशिनी । सुमस्ता बहुमस्ता च छिन्नमस्ताऽसुनाशिनी ॥६६॥
अरूपा च विरूपा च चित्ररूपा चिदात्मिका । बहुशस्त्रा अशस्त्रा च सर्वशस्त्रप्रहारिणी ॥६७॥
शास्त्रार्था शास्त्रवादा च नाना शास्त्रार्थवादिनी । काव्यशास्त्रप्रमोदा च काव्यालङ्कारवासिनी ॥६८॥
रसज्ञा रसना जिह्वा रसामोदा रसप्रिया । नानाकौतुकसंयुक्ता नानारसविलासिनी ॥६९॥
अरूपा च स्वरूपा च विरूपा च सुरूपिणी । रूपावस्या तथा जीवा वेश्याद्या वेशधारिणी ॥७०॥
नानावेशधरा देवी नानावेशेषु संस्थिता । कुरूपा कुटिला कृष्णा कृष्णारूपा च कालिका ॥७१॥
लक्ष्मीप्रदा महालक्ष्मीः सर्वलक्षणसंयुता । कुबेरगृहसंस्था च धनरूपा धनप्रदा ॥७२॥
नानारत्नप्रदा देवी रत्नखण्डेषु संस्थिता । वर्णसंस्था वर्णरूपा सर्ववर्णमयी सदा ॥७३॥
ओङ्काररूपिणी वाच्या आदित्यज्योतीरूपिणी । संसारमोचिनी देवी सङ्ग्रामे जयदायिनी ॥७४॥
जयरूपा जयाख्या च जयिनी जयदायिनी । मानिनी मानरूपा च मानभङ्गप्रणाशिनी ॥७५॥
मान्या मानप्रिया मेधा मानिनी मानदायिनी । साधकासाधकासाध्या साधिका साधनप्रिया ॥७६॥
स्थावरा जङ्गमा प्रोक्ता चपला चपलप्रिया । ऋद्धिदा ऋद्धिरूपा च सिद्धिदा सिद्धिदायिनी ॥७७॥
क्षेमङ्करी शङ्करी च सर्वसम्मोहकारिणी । रञ्जिता रञ्जिनी या च सर्ववाञ्छाप्रदायिनी ॥७८॥
भगलिङ्गप्रमोदा च भगलिङ्गनिवासिनी । भगरूपा भगाभाग्या लिङ्गरूपा च लिङ्गिनी ॥७९॥
भगगीतिर्महाप्रीतिर्लिङ्गगीतिर्महासुखा । स्वयम्भूः कुसुमाराध्या स्वयम्भूः कुसुमाकुला ॥८०॥
स्वयम्भूः पुष्परूपा च स्वयम्भूः कुसुमप्रिया । शुक्रकूपा महाकूपा शुक्रासवनिवासिनी ॥८१॥
शुक्रस्था शुक्रिणी शुक्रा शुक्रपूजकपूजिता । कामाक्षा कामरूपा च योगिनी पीठवासिनी ॥८२॥
सर्वपीठमयी देवी पीठपूजानिवासिनी । अक्षमालाधरा देवी पानपात्रविधारिणी ॥८३॥
शूलिनी शूलहस्ता च पाशिनी पाशरूपिणी । खड्गिनी गदिनी चैव तथा सर्वास्त्रधारिणी ॥८४॥
भाव्या भव्या भवानी सा भवमुक्तिप्रदायिनी । चतुरा चतुरप्रीता चतुराननपूजिता ॥८५॥
देवस्तव्या देवपूज्या सर्वपूज्या सुरेश्वरी । जननी जनरूपा च जनानां चित्तहारिणी ॥८६॥
जटिला केशबद्धा च सुकेशी केशबद्धिका । अहिंसा द्वेषिका द्वेष्या सर्वद्वेषविनाशिनी ॥८७॥
उच्चाटिनी द्वेषिनी च मोहिनी मधुराक्षरा । क्रीडा क्रीडकलेखाङ्ककारणाकारकारिका ॥८८॥
सर्वज्ञा सर्वकार्या च सर्वभक्षा सुरारिहा । सर्वरूपा सर्वशान्ता सर्वेषां प्राणरूपिणी ॥८९॥
सृष्टिस्थितिकरी देवी तथा प्रलयकारिणी । मुग्धा साध्वी तथा रौद्री नानामूर्तिविधारिणी ॥९०॥
उक्तानि यानि देवेशि अनुक्तानि महेश्वरि । यत् किञ्चिद् दृश्यते देवि तत् सर्वं भुवनेश्वरी ॥९१॥
इति श्रीभुवनेश्वर्या नामानि कथितानि ते । सहस्राणि महादेवि फलं तेषां निगद्यते ॥९२॥
यः पठेत् प्रातरुत्थाय चार्द्धरात्रे तथा प्रिये । प्रातःकाले तथा मध्ये सायाह्ने हरवल्लभे ॥९३॥
यत्र तत्र पठित्वा च भक्त्या सिद्धिर्न संशयः । पठेद् वा पाठयेद् वापि शृणुयाच्छ्रावयेत्तथा ॥९४॥
तस्य सर्वं भवेत् सत्यं मनसा यच्च वाञ्छितम् । अष्टम्यां च चतुर्दश्यां नवम्यां वा विशेषतः ॥९५॥
सर्वमङ्गलसंयुक्ते सङ्क्रातौ शनिभौमयोः । यः पठेत् परया भक्त्या देव्या नामसहस्रकम् ॥९६॥
तस्य देहे च संस्थानं कुरुते भुवनेश्वरी । तस्य कार्यं भवेद् देवि अन्यथा न कथञ्चन ॥९७॥
श्मशाने प्रान्तरे वापि शून्यागारे चतुष्पथे । चतुष्पथे चैकलिङ्गे मेरुदेशे तथैव च ॥९८॥
जलमध्ये वह्निमध्ये सङ्ग्रामे ग्रामशान्तये । जपत्वा मन्त्रसहस्रं तु पठेन्नामसहस्रकम् ॥९९॥
धूपदीपादिभिश्चैव बलिदानादिकैस्तथा । नानाविधैस्तथा देवि नैवेद्यैर्भुवनेश्वरीम् ॥१००॥
सम्पूज्य विधिवज्जप्त्वा स्तुत्वा नामसहस्रकैः । अचिरात् सिद्धिमाप्नोति साधको नात्र संशयः ॥१०१॥
तस्य तुष्टा भवेद् देवी सर्वदा भुवनेश्वरी । भूर्जपत्रे समालिख्य कुङकुमाद् रक्तचन्दनैः ॥१०२॥
तथा गोरोचनाद्यैश्च विलिख्य साधकोत्तमः । सुतिथौ शुभनक्षत्रे लिखित्वा दक्षिणे भुजे ॥१०३॥
धारयेत् परया भक्त्या देवीरूपेण पार्वति ! । तस्य सिद्धिर्महेशानि अचिराच्च भविष्यति ॥१०४॥
रणे राजकुले वाऽपि सर्वत्र विजयी भवेत् । देवता वशमायाति किं पुनर्मानवादयः ॥१०५॥
विद्यास्तम्भं जलस्तम्भं करोत्येव न संशयः । पठेद् वा पाठयेद् वाऽपि देवीभक्त्या च पार्वति ॥१०६॥
इह भुक्त्वा वरान् भोगान् कृत्वा काव्यार्थविस्तरान् । अन्ते देव्या गणत्वं च साधको मुक्तिमाप्नुयात् ॥१०७॥
प्राप्नोति देवदेवेशि सर्वार्थान्नात्र संशयः । हीनाङ्गे चातिरिक्ताङ्गे शठाय परशिष्यके ॥१०८॥
न दातव्यं महेशानि प्राणान्तेऽपि कदाचन । शिष्याय मतिशुद्धाय विनीताय महेश्वरि ॥१०९॥
दातव्यः स्तवराजश्च सर्वसिद्धिप्रदो भवेत् । लिखित्वा धारयेद् देहे दुःखं तस्य न जायते ॥११०॥
य इदं भुवनेश्वर्याः स्तवराजं महेश्वरि ।
इति ते कथितं देवि भुवनेश्याः सहस्रकम् ॥१११॥
यस्मै कस्मै न दातव्यं विना शिष्याय पार्वति ।
सुरतरुवरकान्तं सिद्धिसाध्यैकसेव्यं
यदि पठति मनुष्यो नान्यचेताः सदैव ।
इह हि सकलभोगान् प्राप्य चान्ते शिवाय
व्रजति परसमीपं सर्वदा मुक्तिमन्ते ॥११२॥
॥ इति श्रीरुद्रयामले तन्त्रे भुवनेश्वरीसहस्रनामाख्यं स्तोत्रं सम्पूर्णम् ॥
॥ श्रीमहातन्त्रार्णवोक्त भकारादि भुवनेश्वरी सहस्रनाम ॥
विनियोग : ॐ अस्य श्रीभुवनेश्वरीसहस्रनाममन्त्रस्य सदाशिव ऋषिः । अनुष्टुप् छन्दः । श्री भुवनेश्वरीदेवता । लज्जा (ह्रीं) बीजम् । कमला (श्रीं) शक्तिः । वाग्भवं (ऐं) कीलकम् । श्री भुवनेश्वरी प्रसादसिद्ध्यर्थे सर्वार्थसाधने सहस्रनामजपे विनियोगः ॥
॥ ध्यानम् ॥
बालरविद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् ।
स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजे भुवनेशीम् ॥
॥ अथ श्रीभुवनेश्वरीभकारादिसहस्रनामस्तोत्रम् ॥
ॐ भुवनेशी भुवाराघ्या भवानी भयनाशिनी । भवरूपा भवानन्दा भवसागरतारिणी ॥१॥
भवोद्भवा भवरता भवभारनिवारिणी । भव्याना भव्यनयना भव्यरूपा भवौषधिः ॥२॥
भव्याङ्गना भव्यकेशी भवपाशविमोचिनी । भव्यासना भव्यवस्त्रा भव्याभरणभूषिता ॥३॥
भगरूपा भगानन्दा भगेशी भगमालिनी । भगविद्या भगवती भगक्लिन्ना भगावहा ॥४॥
भगाङ्कुरा भगक्रीडा भगाद्या भगमङ्गला । भगलीला भगप्रीता भगसम्पद्भगेश्वरी ॥५॥
भगालया भगोत्साहा भगस्था भगपोषिणी । भगोत्सवा भगविद्या भगमाता भगस्थिता ॥६॥
भगशक्तिर्ब्भगनिधिब्भगपूजा भगेषणा । भगस्वापा भगाधीशा भगार्च्या भगसुन्दरी ॥७॥
भगरेखा भगस्नेहा भगस्नेहविवर्धिनी । भगिनी भगबीजस्था भगभोगविलासिनी ॥८॥
भगाचारा भगाधारा भगाकारा भगाश्रया । भगपुष्पा भगश्रीदा भगपुष्पनिवासिनी ॥९॥
भव्यरूपधरा भव्याभव्यपुष्पैरलङ्कृता । भव्यलीला भव्यमाला भव्याङ्गी भव्यसुन्दरी ॥१०॥
भव्यशीला भव्यलीला भव्याक्षी भव्यनाशिनी । भव्याङ्गिका भव्यवाणी भव्यकान्तिर्ब्भगालिनी ॥११॥
भव्यत्रपा भव्यनदी भव्यभोगविहारिणी । भव्यस्तनी भव्यमुखी भव्यगोष्ठी भयापहा ॥१२॥
भक्तेश्वरी भक्तिकरी भक्तानुग्रहकारिणी । भक्तिदा भक्तिजननी भक्तानन्दविवर्द्धिनी ॥१३॥
भक्तिप्रिया भक्तिरता भक्तिभावविहारिणी । भक्तिशीला भक्तिलीला भक्तेशी भक्तिपालिनी ॥१४॥
भक्तिविद्या भक्तविद्या भक्तिर्भक्तिविनोदिनी । भक्तिरीतिर्ब्भक्तिप्रीतिर्भक्तिसाधनसाधिनी ॥१५॥
भक्तिसाध्या भक्तसाध्या भक्तिराली भवेश्वरी । भटविद्या भटानन्दा भटस्था भटरूपिणी ॥१६॥
भटमान्या भटस्थान्या भटस्थाननिवासिनी । भटिनी भटरूपेशी भटरूपविवर्द्धिनी ॥१७॥
भटवेशी भटेशी च भटभाग्भवसुन्दरी । भटप्रीत्या भटरीत्या भटानुग्रहकारिणी ॥१८॥
भटाराध्या भटबोध्या भटबोधविनोदिनी । भटैस्सेव्या भटवरा भटार्च्च्या भटबोधिनी ॥१९॥
भटकीर्त्त्या भटकला भटपा भटपालिनी । भटैश्वर्या भटाधीशा भटेक्षा भटतोषिणी ॥२०॥
भटेशी भटजननी भटभाग्यविवर्द्धिनी । भटमुक्तिर्भटयुक्तिर्ब्भटप्रीतिविवर्द्धिनी ॥२१॥
भाग्येशी भाग्यजननी भाग्यस्था भाग्यरूपिणी । भावनाभावकुशला भावदा भाववर्द्धिनी ॥२२॥
भावरूपा भावरसा भावान्तरविहारिणी । भावाङ्कुरा भावकला भावस्थाननिवासिनी ॥२३॥
भावातुरा भावधृता भावमध्यव्यवस्थिता । भावऋद्धिर्ब्भावसिद्धिर्ब्भावादिर्ब्भावभाविनी ॥२४॥
भावालया भावपरा भावसाधनतत्परा । भावेश्वरी भावगम्या भावस्था भावगर्विता ॥२५॥
भाविनी भावरमणी भारती भारतेश्वरी । भागीरथी भाग्यवती भाग्योदयकरीकला ॥२६॥
भाग्याश्रया भाग्यमयी भाग्या भाग्यफलप्रदा । भाग्यचारा भाग्यसारा भाग्यधारा च भाग्यदा ॥२७॥
भाग्येश्वरी भाग्यनिधिर्भाग्या भाग्यसुमातृका । भाग्येक्षा भाग्यना भाग्यभाग्यदा भाग्यमातृका ॥२८॥
भाग्येक्षा भाग्यमनसा भाग्यादिर्भाग्यमध्यगा । भ्रातेश्वरी भ्रातृमती भ्रात्र्यम्बा भ्रातृपालिनी ॥२९॥
भ्रातृस्था भ्रातृकुशला भ्रामरी भ्रमराम्बिका । भिल्लरूपा भिल्लवती भिल्लस्था भिल्लपालिनी ॥३०॥
भिल्लमाता भिल्लधात्री भिल्लिनी भिल्लकेश्वरी । भिल्लकीर्त्तिर्ब्भिल्लकला भिल्लमन्दिरवासिनी ॥३१॥
भिल्लक्रीडा भिल्ललीला भिल्लार्च्च्या भिल्लवल्लभा । भिल्लस्नुषा भिल्लपुत्री भिल्लिनी भिल्लपोषिणी ॥३२॥
भिल्लपौत्री भिल्लगोष्ठी भिल्लाचारनिवासिनी । भिल्लपूज्या भिल्लवाणी भिल्लानी भिल्लभीतिहा ॥३३॥
भीतस्था भीतजननी भीतिर्भीतिविनाशिनी । भीतिदा भीतिहा भीत्या भीत्याकारविहारिणी ॥३४॥
भीतेशी भीतिशमनी भीतस्थाननिवासिनी । भीतिरीत्या भीतिकला भीतीक्षा भीतिहारिणी ॥३५॥
भीमेशी भीमजननी भीमा भीमनिवासिनी । भीमेश्वरी भीमरता भीमाङ्गी भीमपालिनी ॥३६॥
भीमनादी भीमतन्त्री भीमैश्वर्यविवर्द्धिनी । भीमगोष्ठी भीमधात्री भीमविद्याविनोदिनी ॥३७॥
भीमविक्रमदात्री च भीमविक्रमवासिनी । भीमानन्दकरीदेवी भीमानन्दविहारिणी ॥३८॥
भीमोपदेशिनी नित्या भीमभाग्यप्रदायिनी । भीमसिद्धिर्ब्भीमऋद्धिर्ब्भीमभक्तिविवर्द्धिनी ॥३९॥
भीमस्था भीमवरदा भीमधर्मोपदेशिनी । भीष्मेश्वरी भीष्मभृती भीष्मबोधप्रबोधिनी ॥४०॥
भीष्मश्रीर्ब्भीष्मजननी भीष्मज्ञानोपदेशिनी । भीष्मस्था भीष्मतपसा भीष्मेशी भीष्मतारिणी ॥४१॥
भीष्मलीला भीष्मशीला भीष्मरोदिनिवासिनी । भीष्माश्रया भीष्मवरा भीष्महर्षविवर्द्धिनी ॥४२॥
भुवना भुवनेशानी भुवनानन्दकारिणी । भुविस्था भुविरूपा च भुविभारनिवारिणी ॥४३॥
भुक्तिस्था भुक्तिदा भुक्तिर्ब्भुक्तेशी भुक्तिरूपिणी । भुक्तेश्वरी भुक्तिदात्री भुक्तिराकाररूपिणी ॥४४॥
भुजङ्गस्था भुजङ्गेशी भुजङ्गाकाररूपिणी । भुजङ्गी भुजगावासा भुजङ्गानन्ददायिनी ॥४५॥
भूतेशी भूतजननी भूतस्था भूतरूपिणी । भूतेश्वरी भूतलीला भूतवेषकरी सदा ॥४६॥
भूतदात्री भूतकेशी भूतधात्री महेश्वरी । भूतरीत्या भूतपत्नी भूतलोकनिवासिनी ॥४७॥
भूतसिद्धिर्ब्भूतऋद्धिर्भूतानन्दनिवासिनी । भूतकीर्त्तिर्ब्भूतलक्ष्मीर्ब्भूतभाग्यविवर्द्धिनी ॥४८॥
भूतार्च्च्या भूतरमणी भूतविद्याविनोदिनी । भूतपौत्री भूतपुत्री भूतभार्याविधीश्वरी ॥४९॥
भूपस्था भूपरमणी भूतेशी भूपपालिनी । भूपमाता भूपनिभा भूपैश्वर्यप्रदायिनी ॥५०॥
भूपचेष्टा भूपनेष्ठा भूपभावविवर्द्धिनी । भूपस्वसा भूपभूरी भूपपौत्री तथा वधूः ॥५१॥
भूपकीर्त्तिर्ब्भूपनीतिर्ब्भूपभाग्यविवर्द्धिनी । भूपक्रिया भूपक्रीडा भूपमन्दरवासिनी ॥५२॥
भूपार्च्च्या भूपसंराध्या भूपभोगविवर्द्धिनी । भूपाश्रया भूपकला भूपकौतुकदण्डिनी ॥५३॥
भूषणस्था भूषणेशी भूषा भूषणधारिणी । भूषणाधारधर्मेशी भूषणाकाररूपिणी ॥५४॥
भूपताचारनिलया भूपताचारभूषिता । भूपताचाररचना भूपताचारमण्डिता ॥५५॥
भूपताचारधर्मेशी भूपताचारकारिणी । भूपताचारचरिता भूपताचारवर्जिता ॥५६॥
भूपताचारवृद्धिस्था भूपताचारवृद्धिदा । भूपताचारकरणा भूपताचारकर्मदा ॥५७॥
भूपताचारकर्मेशी भूपताचारकर्मदा । भूपताचारदेहस्था भूपताचारकर्मिणी ॥५८॥
भूपताचारसिद्धिस्था भूपताचारसिद्धिदा । भूपताचारधर्माणी भूपताचारधारिणी ॥५९॥
भूपतानन्दलहरी भूपतेश्वररूपिणी । भूपतेर्न्नीतिनीतिस्था भूपतिस्थानवासिनी ॥६०॥
भूपतिस्थानगीर्वाणी भूपतेर्वरधारिणी । भेषजानन्दलहरी भेषजानन्दरूपिणी ॥६१॥
भेषजानन्दमहिषी भेषजानन्दधारिणी । भेषजानन्दकर्मेशी भेषजानन्ददायिनी ॥६२॥
भैषजी भैषजाकन्दा भेषजस्थानवासिनी । भेषजेश्वररूपा च भेषजेश्वरसिद्धिदा ॥६३॥
भेषजेश्वरधर्मेशी भेषजेश्वरकर्मदा । भेषजेश्वरकर्मेशी भेषजेश्वरकर्मिणी ॥६४॥
भेषजाधीशजननी भेषजाधीशपालिनी । भेषजाधीशरचना भेषजाधीशमङ्गला ॥६५॥
भेषजारण्यमध्यस्था भेषजारण्यरक्षिणी । भैषज्यविद्या भैषज्या भैषज्येप्सितदायिनी ॥६६॥
भैषज्यस्था भैषजेशी भैषज्यानन्दवर्द्धिनी । भैरवी भैरवीचारा भैरवाकाररूपिणी ॥६७॥
भैरवाचारचतुरा भैरवाचारमण्डिता । भैरवा भैरवेशी च भैरवानन्ददायिनी ॥६८॥
भैरवानन्दरूपेशी भैरवानन्दरूपिणी । भैरवानन्दनिपुणा भैरवानन्दमन्दिरा ॥६९॥
भैरवानन्दतत्त्वज्ञा भैरवानन्दतत्परा । भैरवानन्दकुशला भैरवानन्दनीतिदा ॥७०॥
भैरवानन्दप्रीतिस्था भैरवानन्दप्रीतिदा । भैरवानन्दमहिषी भैरवानन्दमालिनी ॥७१॥
भैरवानन्दमतिदा भैरवानन्दमातृका । भैरवाधारजननी भैरवाधाररक्षिणी ॥७२॥
भैरवाधाररूपेशी भैरवाधाररूपिणी । भैरवाधारनिचया भैरवाधारनिश्चया ॥७३॥
भैरवाधारतत्त्वज्ञा भैरवाधारतत्त्वदा । भैरवाश्रयतन्त्रेशी भैरवाश्रयमन्त्रिणी ॥७४॥
भैरवाश्रयरचना भैरवाश्रयरञ्जिता । भैरवाश्रयनिर्द्धारा भैरवाश्रयनिर्ब्भरा ॥७५॥
भैरवाश्रयनिर्द्धारा भैरवाश्रयनिर्द्धरा । भैरवानन्दबोधेशी भैरवानन्दबोधिनी ॥७६॥
भैरवानन्दबोधस्था भैरवानन्दबोधदा । भैरव्यैश्वर्यवरदा भैरव्यैश्वर्यदायिनी ॥७७॥
भैरव्यैश्वर्यरचना भैरव्यैश्वर्यवर्द्धिनी । भैरव्यैश्वर्यसिद्धिस्था भैरव्यैश्वर्यसिद्धिदा ॥७८॥
भैरव्यैश्वर्यसिद्धेशी भैरव्यैश्वर्यरूपिणी । भैरव्यैश्वर्यसुपथा भैरव्यैश्वर्यसुप्रभा ॥७९॥
भैरव्यैश्वर्यवृद्धिस्था भैरव्यैश्वर्यवृद्धिदा । भैरव्यैश्वर्यकुशला भैरव्यैश्वर्यकामदा ॥८०॥
भैरव्यैश्वर्यसुलभा भैरव्यैश्वर्यसम्प्रदा । भैरव्यैश्वर्यविशदा भैरव्यैश्वर्यविक्रिया ॥८१॥
भैरव्यैश्वर्यविनया भैरव्यैश्वर्यवेदिता । भैरव्यैश्वर्यमहिमा भैरव्यैश्वर्यमानिनी ॥८२॥
भैरव्यैश्वर्यनिरता भैरव्यैश्वर्यनिर्मिता । भोगेश्वरी भोगमाता भोगस्था भोगरक्षिणी ॥८३॥
भोगक्रीडा भोगलीला भोगेशी भोगवर्द्धिनी । भोगाङ्गी भोगरमणी भोगाचारविचारिणी ॥८४॥
भोगाश्रया भोगवती भोगिनी भोगरूपिणी । भोगाङ्कुरा भोगविधा भोगाधारनिवासिनी ॥८५॥
भोगाम्बिका भोगरता भोगसिद्धिविधायिनी । भोजस्था भोजनिरता भोजनानन्ददायिनी ॥८६॥
भोजनानन्दलहरी भोजनान्तर्विहारिणी । भोजनानन्दमहिमा भोजनानन्दभोग्यदा ॥८७॥
भोजनानन्दरचना भोजनानन्दहर्षिता । भोजनाचारचतुरा भोजनाचारमण्डिता ॥८८॥
भोजनाचारचरिता भोजनाचारचर्चिता । भोजनाचारसम्पन्ना भोजनाचारसंयुता ॥८९॥
भोजनाचारचित्तस्था भोजनाचाररीतिदा । भोजनाचारविभवा भोजनाचारविस्तृता ॥९०॥
भोजनाचाररमणी भोजनाचाररक्षिणी । भोजनाचारहरिणी भोजनाचारभक्षिणी ॥९१॥
भोजनाचारसुखदा भोजनाचारसुस्पृहा । भोजनाहारसुरसा भोजनाहारसुन्दरी ॥९२॥
भोजनाहारचरिता भोजनाहारचञ्चला । भोजनास्वादविभवा भोजनास्वादवल्लभा ॥९३॥
भोजनास्वादसन्तुष्टा भोजनास्वादसम्प्रदा । भोजनास्वादसुपथा भोजनास्वादसंश्रया ॥९४॥
भोजनास्वादनिरता भोजनास्वादनिर्णिता । भौक्षरा भौक्षरेशानी भौकाराक्षररूपिणी ॥९५॥
भौक्षरस्था भौक्षरादिर्ब्भौक्षरस्थानवासिनी । भङ्कारी भर्म्मिणी भर्मी भस्मेशी भस्मरूपिणी ॥९६॥
भङ्कारा भञ्चना भस्मा भस्मस्था भस्मवासिनी । भक्षरी भक्षराकारा भक्षरस्थानवासिनी ॥९७॥
भक्षराढ्या भक्षरेशी भरूपा भस्वरूपिणी । भूधरस्था भूधरेशी भूधरी भूधरेश्वरी ॥९८॥
भूधरानन्दरमणी भूधरानन्दपालिनी । भूधरानन्दजननी भूधरानन्दवासिनी ॥९९॥
भूधरानन्दरमणी भूधरानन्दरक्षिता । भूधरानन्दमहिमा भूधरानन्दमन्दिरा ॥१००॥
भूधरानन्दसर्वेशी भूधरानन्दसर्वसूः । भूधरानन्दमहिषी भूधरानन्ददायिनी ॥१०१॥
भूधराधीशधर्मेशी भूधरानन्दधर्मिणी । भूधराधीशधर्मेशी भूधराधीशसिद्धिदा ॥१०२॥
भूधराधीशकर्मेशी भूधराधीशकामिनी । भूधराधीशनिरता भूधराधीशनिर्णिता ॥१०३॥
भूधराधीशनीतिस्था भूधराधीशनीतिदा । भूधराधीशभाग्येशी भूधराधीशभामिनी ॥१०४॥
भूधराधीशबुद्धिस्था भूधराधीशबुद्धिदा । भूधराधीशवरदा भूधराधीशवन्दिता ॥१०५॥
भूधराधीशाऽराध्या च भूधराधीशचर्चिता । भङ्गेश्वरी भङ्गमयी भङ्गस्था भङ्गरूपिणी ॥१०६॥
भङ्गाक्षता भङ्गरता भङ्गार्च्च्या भङ्गरक्षिणी । भङ्गावती भङ्गलीला भङ्गभोगविलासिनी ॥१०७॥
भङ्गरङ्गप्रतीकाशा भङ्गरङ्गनिवासिनी । भङ्गाशिनी भङ्गमूली भङ्गभोगविधायिनी ॥१०८॥
भङ्गाश्रया भङ्गबीजा भङ्गबीजाङ्कुरेश्वरी । भङ्गयन्त्रचमत्कारा भङ्गयन्त्रेश्वरी तथा ॥१०९॥
भङ्गयन्त्रविमोहिस्था भङ्गयन्त्रविनोदिनी । भङ्गयन्त्रविचारस्था भङ्गयन्त्रविचारिणी ॥११०॥
भङ्गयन्त्ररसानन्दा भङ्गयन्त्ररसेश्वरी । भङ्गयन्त्ररसस्वादा भङ्गयन्त्ररसस्थिता ॥१११॥
भङ्गयन्त्ररसाधारा भङ्गयन्त्ररसाश्रया । भूधरात्मजरूपेशी भूधरात्मजरूपिणी ॥११२॥
भूधरात्मजयोगेशी भूधरात्मजपालिनी । भूधरात्मजमहिमा भूधरात्मजमालिनी ॥११३॥
भूधरात्मजभूतेशी भूधरात्मजरूपिणी । भूधरात्मजसिद्धिस्था भूधरात्मजसिद्धिदा ॥११४॥
भूधरात्मजभावेशी भूधरात्मजभाविनी । भूधरात्मजभोगस्था भुधरात्मजभोगदा ॥११५॥
भूधरात्मजभोगेशी भूधरात्मजभोगिनी । भव्या भव्यतरा भव्याभाविनी भववल्लभा ॥११६॥
भावातिभावा भावाख्या भातिभा भीतिभान्तिका । भासान्तिभासा भासस्था भासाभा भास्करोपमा ॥११७॥
भास्करस्था भास्करेशी भास्करैश्वर्यवर्द्धिनी । भास्करानन्दजननी भास्करानन्ददायिनी ॥११८॥
भास्करानन्दमहिमा भास्करानन्दमातृका । भास्करानन्दनैश्वर्या भास्करानन्दनेश्वरा ॥११९॥
भास्करानन्दसुपथा भास्करानन्दसुप्रभा । भास्करानन्दनिचया भास्करानन्दनिर्मिता ॥१२०॥
भास्करानन्दनीतिस्था भास्करानन्दनीतिदा । भास्करोदयमध्यस्था भास्करोदयमध्यगा ॥१२१॥
भास्करोदयतेजःस्था भास्करोदयतेजसा । भास्कराचारचतुरा भास्कराचारचन्द्रिका ॥१२२॥
भास्कराचारपरमा भास्कराचारचण्डिका । भास्कराचारपरमा भास्कराचारपारदा ॥१२३॥
भास्कराचारमुक्तिस्था भास्कराचारमुक्तिदा । भास्कराचारसिद्धिस्था भास्कराचारसिद्धिदा ॥१२४॥
भास्कराचरणाधारा भास्कराचरणाश्रिता । भास्कराचारमन्त्रेशी भास्कराचारमन्त्रिणी ॥१२५॥
भास्कराचारवित्तेशी भास्कराचारचित्रिणी । भास्कराधारधर्मेशी भास्कराधारधारिणी ॥१२६॥
भास्कराधाररचना भास्कराधाररक्षिता । भास्कराधारकर्माणी भास्कराधारकर्मदा ॥१२७॥
भास्कराधाररूपेशी भास्कराधाररूपिणी । भास्कराधारकाम्येशी भास्काराधारकामिनी ॥१२८॥
भास्कराधारसांशेशी भास्कराधारसांशिनी । भास्कराधारधर्मेशी भास्कराधारधामिनी ॥१२९॥
भास्कराधारचक्रस्था भास्कराधारचक्रिणी । भास्करेश्वरक्षत्रेशी भास्करेश्वरक्षत्रिणी ॥१३०॥
भास्करेश्वरजननी भास्करेश्वरपालिनी । भास्करेश्वरसर्वेशी भास्करेश्वरशर्वरी ॥१३१॥
भास्करेश्वरसद्भीमा भास्करेश्वरसन्निभा । भास्करेश्वरसुपथा भास्करेश्वरसुप्रभा ॥१३२॥
भास्करेश्वरयुवती भास्करेश्वरसुन्दरी । भास्करेश्वरमूर्तेशी भास्करेश्वरमूर्तिनी ॥१३३॥
भास्करेश्वरमित्रेशी भास्करेश्वरमन्त्रिणी । भास्करेश्वरसानन्दा भास्करेश्वरसाश्रया ॥१३४॥
भास्करेश्वरचित्रस्था भास्करेश्वरचित्रदा । भास्करेश्वरचित्रेशी भास्करेश्वरचित्रिणी ॥१३५॥
भास्करेश्वरभाग्यस्था भास्करेश्वरभाग्यदा । भास्करेश्वरभाग्येशी भास्करेश्वरभाविनी ॥१३६॥
भास्करेश्वरकीर्त्त्येशी भास्करेश्वरकीर्तिनी । भास्करेश्वरकीर्तिस्था भास्करेश्वरकीर्तिदा ॥१३७॥
भास्करेश्वरकरुणा भास्करेश्वरकारिणी । भास्करेश्वरगीर्वाणी भास्करेश्वरगारुडी ॥१३८॥
भास्करेश्वरदेहस्था भास्करेश्वरदेहदा । भास्करेश्वरनादस्था भास्करेश्वरनादिनी ॥१३९॥
भास्करेश्वरनादेशी भास्करेश्वरनादिनी । भास्करेश्वरकोशस्था भास्करेश्वरकोशदा ॥१४०॥
भास्करेश्वरकोशेशी भास्करेश्वरकोशिनी । भास्करेश्वरशक्तिस्था भास्करेश्वरशक्तिदा ॥१४१॥
भास्करेश्वरतोषेशी भास्करेश्वरतोषिणी । भास्करेश्वरक्षेत्रेशी भास्करेश्वरक्षेत्रिणी ॥१४२॥
भास्करेश्वरयोगस्था भास्करेश्वरयोगदा । भास्करेश्वरयोगेशी भास्करेश्वरयोगिनी ॥१४३॥
भास्करेश्वरपद्मेशी भास्करेश्वरपद्मिनी । भास्करेश्वरहृद्बीजा भास्करेश्वरहृद्वरा ॥१४४॥
भास्करेश्वरहृद्योनि-र्भास्करेश्वरहृद्युतिः । भास्करेश्वरबुद्धिस्था भास्करेश्वरसद्विधा ॥१४५॥
भास्करेश्वरसद्वाणी भास्करेश्वरसद्वरा । भास्करेश्वरराज्यस्था भास्करेश्वरराज्यदा ॥१४६॥
भास्करेश्वरराज्येशी भास्करेश्वरपोषिणी । भास्करेश्वरज्ञानस्था भास्करेश्वरज्ञानदा ॥१४७॥
भास्करेश्वरज्ञानेशी भास्करेश्वरगामिनी । भास्करेश्वरलक्षेशी भास्करेश्वरक्षालिता ॥१४८॥
भास्करेश्वरलक्षिता भास्करेश्वररक्षिता । भास्करेश्वरखड्गस्था भास्करेश्वरखड्गदा ॥१४९॥
भास्करेश्वरखड्गेशी भास्करेश्वरखड्गिनी । भास्करेश्वरकार्येशी भास्करेश्वरकामिनी ॥१५०॥
भास्करेश्वरकायस्था भास्करेश्वरकायदा । भास्करेश्वरचक्षुःस्था भास्करेश्वरचक्षुषा ॥१५१॥
भास्करेश्वरसन्नाभा भास्करेश्वरसार्चिता । भ्रूणहत्याप्रशमनी भ्रूणपापविनाशिनी ॥१५२॥
भ्रूणदारिद्र्यशमनी भ्रूणरोगनिवाशिनी । भ्रूणशोकप्रशमनी भ्रूणदोषनिवारिणी ॥१५३॥
भ्रूणसन्तापशमनी भ्रूणविभ्रमनाशिनी । भवाब्धिस्था भवाब्धीशा भवाब्धिभयनाशिनी ॥१५४॥
भवाब्धिपारकरणी भवाब्धिसुखवर्द्धिनी । भवाब्धिकार्यकरणी भवाब्धिकरुणानिधिः ॥१५५॥
भवाब्धिकालशमनी भवाब्धिवरदायिनी । भवाब्धिभजनस्थाना भवाब्धिभजनस्थिता ॥१५६॥
भवाब्धिभजनाकारा भवाब्धिभजनक्रिया । भवाब्धिभजनाचारा भवाब्धिभजनाङ्कुरा ॥१५७॥
भवाब्धिभजनानन्दा भवाब्धिभजनाधिपा । भवाब्धिभजनैश्वर्या भवाब्धिभजनेश्वरी ॥१५८॥
भवाब्धिभजनासिद्धिर्ब्भवाब्धिभजनारतिः । भवाब्धिभजनानित्या भवाब्धिभजनानिशा ॥१५९॥
भवाब्धिभजनानिम्ना भवाब्धिभवभीतिहा । भवाब्धिभजनाकाम्या भवाब्धिभजनाकला ॥१६०॥
भवाब्धिभजनाकीर्तिर्ब्भवाब्धिभजनाकृता । भवाब्धिशुभदा नित्या भवाब्धिशुभदायिनी ॥१६१॥
भवाब्धिसकलानन्दा भवाब्धिसकलाकला । भवाब्धिसकलासिद्धिर्ब्भवाब्धिसकलानिधिः ॥१६२॥
भवाब्धिसकलासारा भवाब्धिसकलार्त्थदा । भवाब्धिभवनामूर्तिर्ब्भवाब्धिभवनाकृतिः ॥१६३॥
भवाब्धिभवनाभव्या भवाब्धिभवनाम्भसा । भवाब्धिमदनारूपा भवाब्धिमदनातुरा ॥१६४॥
भवाब्धिमदनेशानी भवाब्धिमदनेश्वरी । भवाब्धिभाग्यरचना भवाब्धिभाग्यदा सदा ॥१६५॥
भवाब्धिभाग्यदाकूला भवाब्धिभाग्यनिर्ब्भरा । भवाब्धिभाग्यनिरता भवाब्धिभाग्यभाविता ॥१६६॥
भवाब्धिभाग्यसञ्चारा भवाब्धिभाग्यसञ्चिता । भवाब्धिभाग्यसुपथा भवाब्धिभाग्यसुप्रदा ॥१६७॥
भवाब्धिभाग्यरीतिज्ञा भवाब्धिभाग्यनीतिदा । भवाब्धिभाग्यरीत्येशी भवाब्धिभाग्यरीतिनी ॥ १६८॥
भवाब्धिभोगनिपुणा भवाब्धिभोगसम्प्रदा । भवाब्धिभाग्यगहना भवाब्धिभोग्यगुम्फिता ॥१६९॥
भवाब्धिभोगगान्धारी भवाब्धिभोगगुम्फिता । भवाब्धिभोगसुरसा भवाब्धिभोगसुस्पृहा ॥१७०॥
भवाब्धिभोगग्रथिनी भवाब्धिभोगयोगिनी । भवाब्धिभोगरसना भवाब्धिभोगराजिता ॥१७१॥
भवाब्धिभोगविभवा भवाब्धिभोगविस्तृता । भवाब्धिभोगवरदा भवाब्धिभोगवन्दिता ॥१७२॥
भवाब्धिभोगकुशला भवाब्धिभोगशोभिता । भवाब्धिभेदजननी भवाब्धिभेदपालिनी ॥१७३॥
भवाब्धिभेदरचना भवाब्धिभेदरक्षिता । भवाब्धिभेदनियता भवाब्धिभेदनिस्पृहा ॥१७४॥
भवाब्धिभेदरचना भवाब्धिभेदरोषिता । भवाब्धिभेदराशिघ्नी भवाब्धिभेदराशिनी ॥१७५॥
भवाब्धिभेदकर्मेशी भवाब्धिभेदकर्मिणी । भद्रेशी भद्रजननी भद्रा भद्रनिवासिनी ॥१७६॥
भद्रेश्वरी भद्रवती भद्रस्था भद्रदायिनी । भद्ररूपा भद्रमयी भद्रदा भद्रभाषिणी ॥१७७॥
भद्रकर्णा भद्रवेशा भद्राम्बा भद्रमन्दिरा । भद्रक्रिया भद्रकला भद्रिका भद्रवर्द्धिनी ॥१७८॥
भद्रक्रीडा भद्रकला भद्रलीलाभिलाषिणी । भद्राङ्कुरा भद्ररता भद्राङ्गी भद्रमन्त्रिणी ॥१७९॥
भद्रविद्याऽभद्रविद्या भद्रवाग्भद्रवादिनी । भूपमङ्गलदा भूपा भूलता भूमिवाहिनी ॥१८०॥
भूपभोगा भूपशोभा भूपाशा भूपरूपदा । भूपाकृतिर्ब्भूपतिर्ब्भूपश्रीर्ब्भूपश्रेयसी ॥१८१॥
भूपनीतिर्ब्भूपरीतिर्ब्भूपभीतिर्ब्भयङ्करी । भवदानन्दलहरी भवदानन्दसुन्दरी ॥१८२॥
भवदानन्दकरणी भवदानन्दवर्द्धिनी । भवदानन्दरमणी भवदानन्ददायिनी ॥१८३॥
भवदानन्दजननी भवदानन्दरूपिणी । य इदम्पठते स्तोत्रम्प्रत्यहम्भक्तिसंयुतः ॥१८४॥
गुरुभक्तियुतो भूत्वा गुरुसेवापरायणः । सत्यवादी जितेन्द्री च ताम्बूलपूरिताननः ॥१८५॥
दिवा रात्रौ च सन्ध्यायां स भवेत्परमेश्वरः । स्तवमात्रस्य पाठेन राजा वश्यो भवेद्ध्रुवम् ॥१८६॥
सर्वागमेषु विज्ञानी सर्वतन्त्रे स्वयं हरः । गुरोर्मुखात्समभ्यस्य स्थित्वा च गुरुसन्निधौ ॥१८७॥
शिवस्थानेषु सन्ध्यायाँ शून्यागारे चतुष्पथे । यः पठेच्छृणुयाद्वापि स योगी नात्र संशयः ॥१८८॥
सर्वस्वन्दक्षिणान्दद्यात्स्त्रीपुत्रादिकमेव च । स्वच्छन्दमानसो भूत्वा स्तवमेतत्समुद्धरेत् ॥१८९॥
एतत्स्तोत्ररतो देवि हररूपो न संशयः । यः पठेच्छृणुयाद्वापि एकचित्तेन सर्वदा ॥१९०॥
स दीर्ग्घायुः सुखी वाग्ग्मी वाणी तस्य न संशयः । गुरुपादरतो भूत्वा कामिनीनाम्भवेत्प्रियः ॥१९१॥
धनवान् गुणवाञ्श्रीमान् धीमानिव गुरुः प्रिये । सर्वेषान्तु प्रियो भूत्वा पूजयेत्सर्वदा स्तवम् ॥१९२॥
मन्त्रसिद्धिः करस्थैव तस्य देवि न संशयः । कुबेरत्वम्भवेत्तस्य तस्याधीना हि सिद्धयः ॥१९३॥
मृतपुत्रा च या नारी दौर्ब्भाग्यपरिपीडिता । वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याऽङ्गना ॥१९४॥
धनधान्यविहीना च रोगशोकाकुला च या । ताभिरेतन्महादेवि भूर्ज्जपत्रे विलेखयेत् ॥१९५॥
सव्ये भुजे च बध्नीयात्सर्वसौख्यवती भवेत् । एवम्पुनः पुनः प्रायाद्दुःखेन परिपीडिता ॥१९६॥
सभायां व्यसने व्वाणी विवादे शत्रुसङ्कटे । चतुरङ्गे तथा युद्धे सर्वत्रापदि पीडिते ॥१९७॥
स्मरणादस्य कल्याणि संशयय्याति दूरतः । न देयम्परशिष्याय नाभक्ताय च दुर्ज्जने ॥१९८॥
दाम्भिकाय कुशीलाय कृपणाय सुरेश्वरि ।
दद्याच्छिष्याय शान्ताय विनीताय जितात्मने ॥१९९॥
भक्ताय शान्तियुक्ताय जपपूजारताय च ।
जन्मान्तरसहस्रैस्तु वर्णितुन्नैव शक्यते ॥२००॥
स्तवमात्रस्य माहात्म्यव्वक्त्रकोटिशतैरपि ।
विष्णवे कथितम्पूर्वं ब्रह्मणापि प्रियंवदे ॥२०१॥
अधुनापि तव स्नेहात्कथितम्परमेश्वरि ।
गोपितव्यम्पशुभ्यश्च सर्वथा च प्रकाशयेत् ॥२०२॥
॥ इति श्रीमहातन्त्रार्णवे ईश्वरपार्वतीसंवादे श्रीभुवनेश्वर्याः भकारादि सहस्रनाम स्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।