दृश्य व अदृश्य दोनों पंचांगों के आधार पर प्रदोषकालीन चतुर्थी 6 सितम्बर 2024 शुक्रवार को उपलब्ध है और चतुर्थी चंद्र या चौरचन व्रत होना सिद्ध होता है। 2024 के सभी पंचांगों में भी इसी दिन चौरचन व्रत पूजा दिया गया है। सामान्य जनों को भी चौरचन (चतुर्थी चंद्र) पूजा करने में सहायता प्राप्त हो इस उद्देश्य से यह आलेख दिया जा रहा है, इस आलेख में चतुर्थी चंद्र अर्थात चौरचन पूजा विधि और मंत्र दिया गया है।
चौरचन पूजा विधि मंत्र
यद्यपि यहां चौरचन पूजा विधि और मंत्र दी जा रही है और इसके आधार पर बिना पंडित के भी किया जा सकता है एवं अधिकतर लोग स्वयं ही करते हैं। तथापि एक सत्य यह भी है की भले ही पुस्तकों में लिखे हों, वेबसाइट पर प्राप्त हो जाये किन्तु कर्मकांड में ब्राह्मण की आवश्यकता रहती ही है। भले ही सम्पूर्ण पूजा स्वयं कर लें किन्तु ब्राह्मण भोजन व दान-दक्षिणा देने के लिये तो ब्राह्मण की आवश्यकता होती ही है साथ ही ब्राह्मण की उपस्थिति में ही ब्राह्मण से कर्म सम्पूर्ति का वचन प्राप्त किया जा सकता है।
इस प्रकार यह स्पष्ट है कि यहां चौरचन पूजा की पूर्ण विधि और मंत्र दी गयी है किन्तु इसका तात्पर्य यह नहीं कि ब्राह्मण की आवश्यकता नहीं होगी। यदि कोई विधि वेबसाइट पर देने से ब्राह्मण की आवश्यकता समाप्त होनी होती तो सभी विधियां पुस्तकों में अंकित ही हैं, किसी भी कर्म में ब्राह्मण की आवश्यकता नहीं सिद्ध हो सकती अतः उन लोगों से विशेष सावधान रहने की आवश्यकता भी है जो सोशल मीडिया, वेबसाइट आदि पर कुछ विडियो/लेख आदि देकर यह बताते हैं कि बिना पंडित के करें। अतः भले ही बिना पंडित के भी चौरचन पूजा की जाती हो किन्तु पंडित की आवश्यकता रहती है।
चौरचन पूजा की तैयारी
चौरचन पूजा में दधि, खीर आदि के साथ नैवेद्य के लिये नाना प्रकार के पक्वान्न दिन में बनाये जाते हैं एवं सूर्यास्त होने के बाद प्रदोष काल में पूजा की जाती है। पूजा करने के लिये पीसे चावल, सिन्दूरादि से अष्टदल व चौका (रंगोली) पूरी जाती है। फिर केले के पत्ते आदि लगाकर नैवेद्य लगा लिया जाता है। धूप-दीप जलाकर एक कलश में जल-पल्लवादी देकर कलश के ऊपर दीप जलाना चाहिये। डालियों में नाना प्रकार के पक्वान्न फल आदि सजा लें। अन्य सभी पूजा सामग्री यथा फूल-माला, अक्षत, तिल, चंदन, जल आदि भी व्यवस्थित कर लें।
पूजा से पहले नित्यकर्म किया जाता है। चौरचन पूजा यद्यपि पुरुष भी कर सकते हैं तथापि अधिकांशतः स्त्रियां ही करती है। स्त्रियों के लिये नित्यकर्म का तात्पर्य पंचदेवता व गौरी पूजा है। पूजा सूर्यास्त के बाद होती है इसलिये गणपत्यादि पंचदेवता और गौरी की पूजा करे। विधवा स्त्री गणपत्यादि पंचदेवता व विष्णु पूजा करे। तत्पश्चात संकल्प करके चतुर्थी चंद्र पूजा करे।
चतुर्थी चंद्र पूजा विधि और मंत्र
- पूजा की सभी व्यवस्था व्यवस्थित करके पवित्रिकरणादि करे ।
- तत्पश्चात गणपत्यादि पंचदेवता की पूजा करें। पञ्चदेवता विष्णु पूजा विधि
- फिर सधवा स्त्री गौरी की, विधवा विष्णु की पूजा करे ।
- तत्पश्चात हाथ में संकल्प द्रव्य लेकर संकल्प करे :
संकल्प : नमोऽस्यां रात्रौ भाद्रे मासे शुक्ले पक्षे चतुर्थ्यां तिथौ ……. गोत्रायाः मम …….. देव्याः (पुरुष : ….. गोत्रस्य …… शर्मणः/वर्मणः आदि) सकल कल्याणोत्पत्ति पूर्वक धनधान्य समृद्धि सकल मनोरथ सिद्ध्यर्थं यथाशक्ति गंधपुष्प धूपदीप ताम्बूल वस्त्रयज्ञोपवीत नानाविध नैवेद्यादिभिः रोहिणीसहित भाद्र शुक्ल चतुर्थी चन्द्रपूजनं तत्कथा श्रवणं चाहं करिष्ये ॥
आवाहन : अक्षत लेकर कलश पर रोहिणी सहित चंद्रमा का आवाहन करे – नमो रोहिणीसहित भाद्रशुक्लचतुर्थीचन्द्र इहागच्छ इह तिष्ठ ॥
ध्यान : श्वेतपुष्पं लेकर ध्यान करे – श्वेताम्बरं स्वच्छतनुं सुधांशुं चतुर्भुजं हेमविभूषणाढ्यम् । वरं सुधां दिव्यकमण्डलुञ्च करैरभीतिञ्च दधानमीडे ॥ एष पुष्पाञ्जलिः नमो रहिणीसहितभाद्रशुक्लचतुर्थीचन्द्राय नमः ॥
अर्घ्य : सोमाय सोमेश्वराय सोमपतये सोमसम्भवाय गोविन्दाय नमो नमः ॥ एतानि पाद्यादीनि एषोऽर्घ्यः नमो रहिणीसहित भाद्रशुक्ल चतुर्थीचन्द्राय नमः ॥
चन्दन : मलयाद्रिसमुद्भूतं श्रीखण्डं त्रिदशप्रियम् । सर्वपापहरं सौख्यं चन्दनं मे प्रगृह्यताम् ॥ इदमनुलेपनं नमो रहिणीसहित भाद्रशुक्ल चतुर्थीचन्द्राय नमः ॥
अक्षत : इदमक्षतं नमो रहिणीसहित भाद्रशुक्ल चतुर्थीचन्द्राय नमः ॥
श्वेतपुष्प : त्रैलोक्यमोदकं पुण्यं शुक्लपुष्पं मनोहरम् । दिव्यौषधि क्षपानाथ गृह्यतां च प्रसीद मे ॥ एतानि पुष्पाणि नमो रहिणीसहित भाद्रशुक्ल चतुर्थीचन्द्राय नमः ॥
बिल्वपत्र : इदं बिल्वपत्रम् नमो रहिणीसहित भाद्रशुक्ल चतुर्थीचन्द्राय नमः ॥
दूर्वा : इदं दूर्वादलम् नमो रोहिणीसहितभाद्रशुक्ल चतुर्थीचन्द्राय नमः ॥
यज्ञोपवीत : सुसंस्कृतं चतुर्वेदैर्द्विजानां भूषणं वरम् । यज्ञोपवीतंदेवेश कृपया मे प्रगृह्यताम् ॥ इमे यज्ञोपवीते बृहस्पतिदैवते नमो रहिणीसहित भाद्रशुक्ल चतुर्थीचन्द्राय नमः ॥
वस्त्र : तन्तुसन्तानसम्भूतं कलाकोशलकल्पितम् । सर्वाङ्गभूषणश्रेष्ठं वसनं परिधीयताम् ॥ इदं वस्त्रं बृहस्पतिदैवतं नमो रहिणीसहित भाद्रशुक्ल चतुर्थीचन्द्राय नमः ॥
नैवेद्य : नैवेद्य गृह्यतां देव भक्तिं मे ह्यचलां कुरु । ईप्सितं मे वरं देहि परत्र च पराङ्गतिम् ॥ एतानि गन्ध पुष्प धूप दीप सदधिपक्कान्नादि नानाविधनैवेद्यानि नमो रहिणीसहित भाद्रशुक्ल चतुर्थीचन्द्राय नमः ॥
ताम्बूल : पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् । कर्पूरादिसमायुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ एतानि ताम्बूलानि नमो रहिणीसहित भाद्रशुक्ल चतुर्थीचन्द्राय नमः ॥
धूप : गन्धभारवहं दिव्यं नानावस्तुसमन्वितम् । सुरासुरनरानन्दं धूपं देव गृहाण मे ॥ एष धूपः नमो रहिणीसहित भाद्रशुक्ल चतुर्थीचन्द्राय नमः ॥
कलश पर दीप दे – मार्तण्डमण्डलाखण्ड चन्द्र बिम्बाग्निदीप्तिमान् । विधात्रा देवदीपोऽयं निमितस्तेऽस्तु भक्तितः ॥ एष कलशदीपः नमो रहिणीसहित भाद्रशुक्ल चतुर्थीचन्द्राय नमः ॥
विशेषार्घ्य :(शंख में में दूध, फल, पुष्प) – अत्रिनेत्रसमुद्भूत क्षीरोदार्णवसम्भव । गृहाणार्ध्यं मया दत्तं रोहिण्या सहितप्रभो ॥ इदं दुग्धार्घ्यं नमो रोहिणीसहित ० ॥
फिर दधि, पक्वान्न, फल, डलिया आदि ग्रहण करके चन्द्रदर्शण करे –
दर्शनमन्त्र : सिहः प्रसैनमवधीत्सिंहो जाम्बवता हतः । सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ॥
प्रणाम : नमः शुभ्रांशवे तुभ्यं द्विजराजाय ते नमः । रोहिणीपतये तुभ्यं लक्ष्मीभ्रात्रे नमोऽस्तु ते ॥ दिव्यशङ्खतुषाराभं क्षीरोदार्णवसम्भवम् । नामामि शशिनं भक्त्या शम्भोर्मुकुटभूषणम् ॥
प्रार्थना : मृगाङ्क रोहिणीनाथ शम्भोः शिरसि भूषण । व्रतं सम्पूर्णतां यातु सौभाग्यं च प्रयच्छ मे ॥ रूपं देहि यशो देहि भाग्यं भगवन् देहि मे। पुत्रान्देहि (विधवा – धर्मान्देहि) धनन्देहि सर्वान् कामान् प्रदेहि मे ॥
इस प्रकार पूजन करके तत्पश्चात कथा श्रवण करे
अथ भाद्रशुक्लचतुर्थीचन्द्रव्रतकथा
नन्दिकेश्वर उवाच
श्रृणुष्वैकाग्रचित्तः सन् चन्द्रोपाख्यानमुत्तमम् । भाद्रशुक्लचतुर्थ्यांन्तु चन्द्रपूजनमुत्तमम् ॥१॥
सनत्कुमार योगीन्द्र यदीच्छेच्छुभमात्मनः । नारी वा पुरुषो वाऽपि यः कुर्यात् पूजनं महत् ॥२॥
धनपुत्रान्वितो भूत्वा मोदते च सदा नरः । अपवादहरञ्चैव सर्वविध्नविनाशकम् ॥३॥
सनत्कुमार उवाच
मर्त्यलोके कथं प्राप्तं तत्कथां वद मे प्रभो !
नन्दिकेश्वर उवाच
चक्र व्रतं जगन्नाथो गणेशस्य विधोरपि ॥४॥
दर्शनं पूजनञ्चापि नारदेन च प्रेरितः । वृथा लाञ्छनशान्तिञ्च तस्मादेव वभूव ह ॥५॥
सनत्कुमार उवाच
षड्गुणैश्वर्यसम्पन्नसृष्टिसंहारकारकः । वासुदेवो जगद्व्यापी प्राप्तवान् लाच्छनङ्कथम् ॥६॥
एतदाश्चर्यमाख्यानं ब्रूहि त्वं नन्दिकेश्वर।
नन्दिकेश्वर उवाच
भुवो भारावतारार्थं वसुदेवसुतावुभौ ॥७॥
रामकृष्णौ समुत्पन्नौ पद्मनाभहलायुधौ । जरासन्धभयात् कृष्णो द्वारकां समकल्पयत् ॥८॥
विश्वकर्माणमाहूय पुरीं हाटकनिर्मिताम् । तत्र षोडशसाहस्रं स्त्रीणाञ्चैव वराधिकम् ॥९॥
यादवानां गृहास्तत्र षट्पञ्चाशत्तु कोटयः । सत्राजितप्रसेनाख्यौ पुत्रावुग्रस्य विश्रुतौ ॥१०॥
अम्भोषितीरमासाद्य तन्मनस्कतया च सः । सत्राजितस्तपस्तेपे सूर्यमुद्दिश्य बुद्धिमान् ॥११॥
ततः प्रसन्नो भगवान् सत्राजितपुरः स्थितः । सत्राजितोऽपि तुष्टाव दृष्ट्वा देवं दिवाकरम् ॥१२॥
तेन संस्तूयमानोऽसौ देवदेवो दिवाकरः । वरं व्रूहि प्रसन्नोऽस्मि यत्ते मनसि वर्तते ॥१३॥
सत्राजित उवाच
स्यमन्तकर्मणि देहि परितुष्टोसि भास्कर । ददो तस्मै च तद्रत्नं स्वकण्ठादवतार्य्य स ॥१४॥
सूर्य उवाच
भाराष्टकं शातकुम्भं स्रवतेऽसौ महामणिः । शुचिष्मता सदा धार्यं रत्नमेतन्महोत्तमम् ॥१५॥
इत्युक्त्वाऽन्तर्दधे देवस्तेजोराशिदिवाकरः ॥१६॥
तत्कण्ठरत्नज्वलमानरूपो पुरीं स कृष्णस्य विवेश सत्वरम् ।
दृष्टवा तु लोका मनसा दिवाकरं सञ्चिन्तयन्तः स्तिमिताक्षदृष्टयः ॥१७॥
समागतोऽयं हरिदश्वदीधितिर्जनार्दनं द्रष्टुमसंशयेन ।
नायं सहस्त्रांशुरितीह लोकाः सत्राजितोऽयं मणिकण्ठभास्वान् ॥१८॥
सत्राजितो जातभयो याचयिष्यति मां हरिः । प्रसेनाय ददौ भ्रात्रे धार्योऽयं शुचिना त्वया ॥१९॥
एकदा कण्ठदेशेऽसौ क्षिप्त्वा तं मणिमुत्तमम् । मृगया क्रीडनार्थाय ययौ कृष्णेन संयुतः ॥२०॥
अश्वारूढोऽशुचिश्चासौ हतः सिंहेन तत्क्षणात् । रत्नमादाय सिंहोऽपि गच्छन् जाम्बवता हतः ॥२१॥
नीत्वा स विवरे रत्नं ददौ पुत्राय जाम्बवान् । पुरीं विवेश कृष्णोऽपि स्वकैः सर्वैः समावृतः ॥२२॥
प्रसेनोऽद्यापि नायाति हतः कृष्णेन निश्चितम् । मणिलोभेन हा कष्टं बान्धवः पापिना हतः ॥२३॥
द्वारकावासिनः सर्वे जना ऊचुः परस्परम् । वृथाऽपवादसन्तप्तः कृष्णोपि नगराच्छनैः ॥२४॥
सहैव तैर्यथाऽरण्ये दृष्ट्वा सिहेन पातितम् । प्रसेनं वाहनयुतं सिहोऽपि च हतस्ततः ॥२५॥
ऋक्षेण निहतं दृष्ट्वा कृष्णश्च तद्विलं गतः । विवेश योजनशतमन्धकारं स्वतेजसा ॥२६॥
निवारयन् ददर्शाग्रे प्रासादं बद्धभूमिकम् । सुकुमारं जाम्बवतो दोलायाममितद्युतिम् ॥२७॥
माणिक्यं लम्बमानञ्च ददर्श भगवान् हरिः । क्रीडापयन्ती मणिना धात्रीदं वाक्यमब्रवीत् ॥२८॥
धात्र्युवाच
सिहः प्रसेन्मवधीत्सिंहो जाम्बवता हतः । सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ॥२९॥
रूपयौवनसम्पन्नां कन्यां जाम्बवतीं पुनः । दोलांदोलयमानाञ्च ददर्श कमलेक्षणः ॥३०॥
मदनज्वरदाहार्ता दृष्ट्वा तं कमलेक्षणम् । उवाच ललितं वाक्यं गम्यतां गम्यतामिति ॥३१॥
रत्नं गृहीत्वा वेगेन यावच्छेते तु जाम्बवान् । इत्याकर्ण्य वचः शौरिः शङ्ख दध्मौ प्रतापवान् ॥३२॥
आकर्ण्य सहसोत्थाय ऋक्षः संयुयुधे ततः । तयोर्युद्धमभूद् घोरं हरिजाम्बवतोस्तदा ॥३३॥
द्वारकावासिनः सर्वे गतास्ते सप्तमे दिने । मृतः कृष्णो रक्षितो वा निःसन्दिग्धं विचार्य च ॥३४॥
परलोकक्रियां चक्रुः परेतस्य तु ते तदा । एकविंवशद्दिनं यावद् बाहुप्रहरणो विभुः ॥३५॥
युयुधे तेन ऋक्षेण युद्धकर्मणि तोषितः । जाम्बवान् प्राक्तनं स्मृत्वा दृष्ट्वा देवबलं महत् ॥३६॥
जाम्बवानुवाच
त्वया जितोऽहं देवेश देवस्त्वमसि निश्चितम् । इति प्रसाद्य देवेशं ददौ माणिक्यमुत्तमम् ॥३७॥
सुतां जाम्बवतीं चाथ भार्यार्थं वरवर्णिनीम् । पाणिञ्च ग्राहयामास देवदेवश्च जाम्बवान् ॥३८॥
मणिमादाय देवोऽपि जाम्बवत्याऽपि संयुतः । तवृत्तान्तं समाचष्टे द्वारकावासिनां ततः ॥३९॥
सत्राजितस्य माणिक्यं दत्तवान् संसदि स्थितः । मिथ्याऽभिशापसंशुद्धि प्राप्तवान् मधुसूदनः ॥४०॥
सत्राजितोऽपि सन्त्रस्तः कृष्णाय प्रददौ सुताम् । सत्यभामां महाबुद्धिर्ददौ सर्वगुणान्विताम् ॥४१॥
दुरात्मा शतधन्वापि गते कृष्णेपि कुत्रचित् । सत्राजितं निहत्याशु मणि जग्राह पापधीः ॥४२॥
कृष्णस्य पुरतः सत्या समाचष्टे विचेष्टितम् । कृष्णोपि बलदेवं तं भ्रातरं प्रत्युवाच ह ॥४३॥
हत्वा सत्राजितं हृत्वा मणिमादाय गच्छति । मम भोग्यं च तद्रत्नं भविष्यति न संशयः ॥४४॥
एतच्छ्रुत्वा भयत्रस्तः शतधन्वाऽपि यादवः । आहूयाक्रूरनामानं माणिक्यं प्रददौ च सः ॥४५॥
आरुह्य बडवां वेगान्निर्गतो दक्षिणां दिशम् । रथस्थावनुगच्छता तदा रामजनार्दनौ ॥४६॥
शतयोजनमात्रेण ममार बडवा तदा । पलायमानो निहतः पदातिस्तु पदातिना ॥४७॥
रथस्थे बलदेवे तु हरिणा रत्नलोभिना । अदृष्टं तत्र तद्रत्नं बलदेवं पुरोऽवदत् ॥४८॥
तदाकर्ण्य महारोषादुवाच वचनं बली । कपटी त्वं सदा कृष्ण लोभी पापी सुनिश्चितम् ॥४९॥
अनैकशपथैः कृष्णो बलदेवं प्रसादयत् । सोऽपि धिक्कष्टमित्युक्त्वा ययौ वैदर्भमण्डलम् ॥५०॥
कृष्णोऽपि रथमारुह्य द्वारकां प्रययौ पुनः । तथैवोचुर्जनाः सर्वे न साधीयानयं हरिः ॥५१॥
निष्काशितो रत्नलोभाज्ज्येष्ठो भ्राता बलो बली । वृथाभिशापसन्तप्तो बभूव स जगत्पतिः ॥५२॥
अक्रूरोऽपि विनिष्क्रम्य तीर्थयात्रामिषात्ततः । काशीं गत्वा सुखेनासौ यजेद्यज्ञपतिं प्रभुम् ॥५३॥
शुचिना धार्यते तत्र मणिः सूर्यस्य निश्चितम् । जानन्नपि हि सर्वज्ञो मानुषं भावमाश्रितः ॥५४॥
बन्धुवैरं समुत्पन्नं लाञ्छनं समुपस्थितम् । इति चिन्तातुरं कृष्ण नारदः समुपस्थितः ॥५५॥
नारद उवाच
किमर्थं खिद्यसे देव किं वा ते शोककारणम् । यथावृत्तं समाचक्ष्व ममाग्रे केशव प्रभो ॥५६॥
कृष्ण उवाच
वृथा च लाञ्छनं वारं वारं लगति दुःखदः । निर्मुक्तं कुरु देवर्षे त्राहि मां शरणागतम् ॥५७॥
नारद उवाच
जानामि कारणं देव यदर्थं लाञ्छनन्तव । त्वया भाद्रपदे शुक्लचतुर्थ्यां चन्द्रदर्शनम् ॥५८॥
कृतं तेन समुत्पन्नं लाञ्छनन्तु वृथैव हि ॥५९॥
कृष्ण उवाच
वद नारद मे शीघ्र को दोषश्चन्द्रदर्शने ॥६०॥
नारद उवाच
गणनाथेन संशप्तश्चन्द्रमा रूपगर्वितः । तद्दर्शने नराणां हि वृथा निन्दा भविष्यति ॥६१॥
कृष्ण उवाच
किमर्थं गणनाथेन शप्तश्चन्द्रः सुधामयः । इदमाख्यानकं श्रेष्ठं यथावद्वक्तुमर्हसि ॥६२॥
नारद उवाच
पुरा ददुः गणेशाय ब्रह्मा विष्णुस्तथा शिवः । भार्यार्थमष्टसिद्धींश्च खल्वर्थान्निधयस्तथा ॥६३॥
विहितेन विघानेन पूजयित्वा विनायकम् । अथ प्रजापतिर्देव स्तुति कर्तुं प्रचक्रमे ॥
ब्रह्मोवाच
गजवक्त्र गणाध्यक्ष लम्बोदर वरप्रद ॥६४॥
विद्याधीशश्च देवेश सृष्टिसंहारकारक । त्वत्कृपया गणाध्यक्षो विष्णुः पालयते सदा ।
रुद्रोऽपि संहरत्याशु स्तुतिः का ते करोम्यहम् । इत्थं संस्तूयमानोऽसौ देवदेवो गजाननः ।
उवाच परमप्रीतो ब्रह्माणं जगतां पतिम् ।
गणेश उवाच
वरं ब्रहि प्रदास्यामि यत्ते मनसि वर्तते ॥६५॥
ब्रह्मोवाच
क्रियमाणस्य मे सृष्टिंट निविघ्नं जायतां प्रभो । एवमस्त्विति देवोऽसौ गृहीत्वा मोदकान् करे ॥६६॥
सत्यलोकात् समागच्छन् स्वेच्छया गगने शनैः । चन्द्रलोकं समासाद्य बिभ्रद्रूपमनुत्तमम् ॥६७॥
अथ हासं महच्चक्रे सोमो रूपमदान्वितः । तं दृष्ट्वा क्रोधताम्राक्षो गणनाथः शशाप ह ॥६८॥
गर्गावतोऽसि शशाङ्कस्त्वं फलं प्राप्स्यसि सत्वरम् । अद्यप्रभृति लोकास्त्वां न हि पश्यन्ति पापिनम् ॥६९॥
ये पश्यन्ति प्रमादेन त्वां नरा मृगलाञ्छनम् । मिथ्याभिशापसंयुक्ता भविष्यन्ति हि ते ध्रुवम् ॥७०॥
हाहाकारो महाञ्जातः श्रुत्वा शापञ्च भीषणम् । अत्यन्तम्लानवदनश्चन्द्रो वारि समाविशत् ॥७१॥
कुमुदे कुमुदां नाथः स्थाप्य तत्र कृतालयः । ततो देवर्षिगन्धर्वा निराशा दीनमानसाः ॥७२॥
तुरासाहं पुरोधाय जग्मुस्ते च पितामहम् । दृष्ट्वा पितामहं देवं शशंसुश्चन्द्रचेष्टितम् ॥७३॥
दत्तः शापो गणेशेन कथयामासुरादरात् । विचार्य भगवान् ब्रह्मा तान् सुरानिदमब्रवीत् ॥७४॥
तमेव देवदेवेशं व्रजध्वं शरणं सुराः । स एव शापमोक्षं च करिष्यति न संशयः ॥७५॥
देवा ऊचुः
केनोपायेन हे ब्रह्मन् वरदो हि गणेश्वरः ।
पितामह उवाच
चतुर्थ्यां देवदेवोऽसौ पूजनीयः प्रयत्नतः ॥७६॥
अपूपैर्घृतसंयुक्तैर्मोदकैः परितोषयेत् । एवं बुध्वा च ते सर्वे प्रेरयामास गीष्पतिम् ॥७७॥
स गत्वा कथयामास वचो ब्रह्मोदितं तत् । व्रतं चक्रे ततश्चन्द्रो यथोक्तं ब्रह्मणा पुरा ॥७८॥
आविर्बभूव भगवान् गणेशो व्रततोषितः। क्रीडमानं गणेशञ्च दृष्ट्वा तुष्टाव चन्द्रमाः ॥७९॥
चन्द्रेण स्तूयमानोऽसावुक्तवान् स गजाननः ।
गणेश उवाच
तुष्टोहं तव दास्यामि वरं ब्रूहि निशाकर ॥८०॥
चन्द्र उवाच
लोकानां दर्शनीयोऽहं भवामि पुनरेव हि । विपापोहं विशापोहं त्वत्प्रसादाद्गणेश्वर ॥८१॥
गणेश उवाच
विपापश्च विशापश्च मत्प्रसादाच्च त्वं भव । शुक्लपक्षे चतुर्थ्यान्तु ये पश्यन्ति सदैव हि ॥८२॥
मिथ्यापवादमनायासं ते प्राप्स्यन्ति न संशयः । मासादौ पूर्वमेव त्वां ये पश्यन्ति सदा जनाः ॥८३॥
भद्रायां शुक्लपक्षस्य तेषां दोषो न जायते ॥८४॥
सिहः प्रसेनमित्यादि यो वे मन्त्रेण पश्यति । भाद्रशुक्लचतुर्थ्यां त्वां फलपुष्पादिसंयुतः ॥८५॥
मिथ्यापवाददोषादिर्न भवेत्तस्य चन्द्रमाः । चन्द्रस्य दर्शनार्थाय गणेशस्य च भाषितम् ॥८६॥
शृणोति यः पठेद्वापि वाञ्छितं तस्य सिद्धयति ॥८७॥
॥ इति श्रीस्कन्दपुराणे भाद्रशुक्लचतुर्थीचन्द्रव्रतकथा समाप्ता ॥
चतुर्थीचन्द्रपूजाविसर्जन
- पञ्चदेवता विषर्जन : नमो गणपत्यादिपञ्चदेवताः पूजिताः स्थ क्षमध्वं स्वस्थानं गच्छत ।
- विष्णु विसर्जन : (विधवा के लिये विष्णु विसर्जन) नमो विष्णो पूजितोऽसि प्रसीद क्षमस्व ।
- गौरि विसर्जन : (सधवा के लिये गौरी विसर्जन) नमो गौरि पूजितासि प्रसीद क्षमस्व ।
चन्द्र विसर्जन : नमो रोहिणीसहितभाद्रशुक्लचतुर्थीचन्द्र पूजितोसि प्रसीद क्षमस्व स्वस्थानं गच्छ ।
दक्षिणा : दक्षिणा द्रव्य लेकर दक्षिणा करे – नमो अस्यां रात्रौ कृतेतद्रोहिणीसहित भाद्रशुक्लचतुर्थीचन्द्रपूजन तत्कथा श्रवणकर्म प्रतिष्ठार्थमेतावद्रव्यमूल्यक हिरण्यमग्निदैवतं यथानामगोत्राय ब्राह्मणाय दक्षिणामहं ददे ॥ ‘ॐ स्वस्तीति प्रतिवचनम्।
तत्पश्चात ब्राह्मण भोजन कराकर स्वयं भी भोजन करे ।
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।