प्रायः ऐसा होता है कि आप ढूंढ रहे होते हैं श्यामा कवच और मिलता है दक्षिण काली कवच, आप ढूंढ रहे होते हैं जगन्मंगल कवच और मिलता है कोई अन्य। यहां एक साथ अनेकों काली कवच दिये गये हैं। सभी काली कवच (Kali kavach) संस्कृत में दिये गये हैं।
काली कवच संस्कृत में – kali kavach
सर्वप्रथम महानिर्वाणतन्त्रोक्त श्रीकालिकाकवच / श्रीत्रैलोक्य विजय कवच, तत्पश्चात काली कवच / श्री जगन्मङ्गलकवच / श्यामा कवच, पुनः श्रीवज्रपञ्जरकाख्य श्रीकालिकाकवच, पुनः वैरिनाशन कालिका कवच – रुद्रयामलोक्त, वैरिनाशनं कालीकवचम् – शत्रु नाशक काली कवच, पुनः कालीकुलसर्वस्वोक्त कालीकवच – दक्षिण कालिका कवच, पुनः विश्वमङ्गल गुह्यकाली कवच, पुनः त्रैलोक्यमोहन कालीकवच – दक्षिणा कालिका कवच दिया गया है।
महानिर्वाणतन्त्रोक्त श्रीकालिकाकवच / श्रीत्रैलोक्य विजय कवच
श्रीसदाशिव उवाच
कथितं परमं ब्रह्म प्रकृतेः स्तवनं महत् ।
आद्यायाः श्रीकालिकायाः कवचं शृणु साम्प्रतम् ॥१॥
त्रैलोक्यविजयस्यास्य कवचस्य ऋषिः शिवः ।
छन्दोऽनुष्टुब्देवता च आद्या काली प्रकीर्तिता ॥२॥
मायाबीजं बीजमिति रमा शक्त्तिरुदाहृता ।
क्रीं कीलकं काम्यसिद्धौ विनियोगः प्रकीर्तितः ॥३॥
ह्रीमाद्या मे शिरः पातु श्रीं काली वदनं मम ।
हृदयं क्रीं परा शक्त्तिः पायात्कण्ठं परात्परा ॥४॥
नेत्रे पातु जगद्धात्री कर्णौ रक्षतु शङ्करी ।
घ्राणं पातु महामाया रसनां सर्वमङ्गला ॥५॥
दन्तान् रक्षतु कौमारी कपोलौ कमलालया ।
ओष्ठाधरौ क्षमा रक्षेच्चिबुकं चारुहासिनी ॥६॥
ग्रीवां पायात्कुलेशानी ककुत्पातु कृपामयी ।
द्वौ बाहू बाहुदा रक्षेत्करौ कैवल्यदायिनी ॥७॥
स्कन्धौ कपर्दिनी पातु पृष्ठं त्रैलोक्यतारिणी ।
पार्श्वे पायादपर्णा मे कटिं मे कमठासना ॥८॥
नाभौ पातु विशालाक्षी प्रजस्थानं प्रभावती ।
ऊरू रक्षतु कल्याणी पादौ मे पातु पार्वती ॥९॥
जयदुर्गावतु प्राणान्सर्वाङ्गं सर्वसिध्दिदा ।
रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन च ॥१०॥
तत्सर्वं मे सदा रक्षेदाद्या काली सनातनी ।
इति ते कथितं दिव्यं त्रैलोक्यविजयाभिधम् ॥११॥
कवचं कालिकादेव्या आद्यायाः परमाद्भुतम् ।
पूजाकाले पठेत्यस्तु आद्याधिकृतमानसः ॥१२॥
॥ इति महानिर्वाणतन्त्रे सप्तम उल्लासे श्रीकालिकाकवचं सम्पूर्णम् ॥
काली कवच / श्री जगन्मङ्गलकवच / श्यामा कवच
भैरव्युवाच
कालीपूजा श्रुता नाथ भावाश्च विविधाः प्रभो ॥
इदानीं श्रोतुमिच्छामि कवचं पूर्वसूचितम् ॥१॥
त्वमेव स्रष्टा पाता च संहर्ता च त्वमेव हि ।
त्वमेव शरणन्नाथ त्राहिमां दुःखसङ्कटात् ॥२॥
भैरव उवाच
रहस्यं शृणु वक्ष्यामि भैरवि प्राणवल्लभे ।
श्रीजगन्मङ्गलन्नाम कवचं मन्त्रविग्रहम् ॥३॥
पठित्वा धारयित्वा च त्रैलोक्यं मोहयेत्क्षणात् ।
नारायणोऽपि यद्धृत्वा नारी भूत्वा महेश्वरम् ॥४॥
योगिनङ्क्षोभमनयद्यद्धृत्वा च रघूत्तमः ।
वरतृप्तो जघानैव रावणादिनिशाचरान् ॥५॥
यस्य प्रसादादीशोऽहं त्रैलोक्यविजयी विभुः ।
धनाधिपः कुबेरोऽपि सुरेशोऽभूच्छचीपतिः ॥६॥
एवं हि सकला देवास्सर्वसिद्धीश्वराः प्रिये ।
श्रीजगन्मङ्गलस्यास्य कवचस्य ऋषिः शिवः ॥७॥
छन्दोऽनुष्टुप्देवता च कालिका दक्षिणेरिता ।
जगतां मोहने दुष्टविजये भुक्तिमुक्तिषु ॥८॥
योषिदाकर्षणे चैव विनियोगः प्रकीर्तितः ।
शिरो मे कालिका पातु क्रीङ्कारैकाक्षरी परा ॥९॥
क्रीङ्क्रीङ्क्रीं मे ललाटञ्च कालिका खड्गधारिणी ।
हूं हूं पातु नेत्रयुगं ह्रीं ह्रीं पातु श्रुती मम ॥१०॥
दक्षिणे कालिका पातु घ्राणयुग्मं महेश्वरी ।
क्रीङ्क्रीङ्क्रीं रसनाम्पातु हूं हूं पातु कपोलकम् ॥११॥
वदनं सकलम्पातु ह्रीँ ह्रीँ स्वाहास्वरूपिणी ।
द्वाविंशत्यक्षरी स्कन्धौ महाविद्या सुखप्रदा ॥१२॥
खड्गमुण्डधरा काली सर्वाङ्गमभितोऽवतु ।
क्रींह्रूँह्रीँ त्र्यक्षरी पातु चामुण्डा हृदयं मम ॥१३॥
ऐंहूँओंऐं स्तनद्वन्द्वं ह्रीम्फट्स्वाहा ककुत्स्थलम् ।
अष्टाक्षरी महाविद्या भुजौ पातु सकर्तृका ॥१४॥
क्रीङ्क्रींहूंहूंह्रींह्रीङ्कारी पातु षडक्षरी मम ।
क्रीं नाभिं मध्यदेशञ्च दक्षिणे कालिकाऽवतु ॥१५॥
क्रींस्वाहा पातु पृष्ठञ्च कालिका सा दशाक्षरी ।
क्रीं मे गुह्यं सदा पातु कालिकायै नमस्ततः ॥१६॥
सप्ताक्षरी महाविद्या सर्वतन्त्रेषु गोपिता ।
ह्रींह्रीं दक्षिणे कालिके हूंहूं पातु कटिद्वयम् ॥१७॥
काली दशाक्षरी विद्या स्वाहा मामूरुयुग्मकम् ।
ॐ क्रीङ्क्रीं मे स्वाहा पातु कालिका जानुनी सदा ॥१८॥
कालीहृन्नामविद्येयञ्चतुर्वर्गफलप्रदा ।
क्रींह्रींह्रीं पातु सा गुल्फन्दक्षिणे कालिकाऽवतु ॥१९॥
क्रींह्रूंह्रीं स्वाहा पदम्पातु चतुर्द्दशाक्षरी मम ।
खड्गमुण्डधरा काली वरदाभयधारिणी ॥२०॥
विद्याभिस्सकलाभिः सा सर्वाङ्गमभितोऽवतु ।
काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ॥२१॥
विप्रचित्ता तथोग्रोग्रप्रभा दीप्ता घनत्विषा ।
नीला घना वलाका च मात्रा मुद्रा मिता च माम् ॥२२॥
एतास्सर्वाः खड्गधरा मुण्डमालाविभूषणाः ।
रक्षन्तु दिग्विदिक्षु मां ब्राह्मी नारायणी तथा ॥२३॥
माहेश्वरी च चामुण्डा कौमारी चापराजिता ।
वाराही नारसिम्ही च सर्वाश्चामितभूषणाः ॥२४॥
रक्षन्तु स्वायुधैर्दिक्षु विदिक्षु मां यथा तथा ।
इति ते कथितं दिव्यं कवचं परमाद्भुतम् ॥२५॥
श्रीजगन्मङ्गलन्नाम महाविद्यौघविग्रहम् ।
त्रैलोक्याकर्षणं ब्रह्मन्कवचं मन्मुखोदितम् ॥२६॥
गुरुपूजां विधायाथ विधिवत्प्रपठेत्ततः ।
कवचन्त्रिस्सकृद्वापि यावज्जीवञ्च वा पुनः ॥२७॥
एतच्छतार्द्धमावृत्य त्रैलोक्यविजयी भवेत् ।
त्रैलोक्यङ्क्षोभयत्येव कवचस्य प्रसादतः ॥२८॥
महाकविर्भवेन्मासं सर्वसिद्धीश्वरो भवेत् ।
पुष्पाञ्जलीन्कालिकायै मूलेनैवार्पयेत् सकृत् ॥२९॥
शतवर्षसहस्राणां पूजायाः फलमाप्नुयात् ।
भूर्जे विलिखितञ्चैतत् स्वर्णस्थन्धारयेद्यदि ॥३०॥
विशाखायां दक्षबाहौ कण्ठे वा धारयेद्यदि ।
त्रैलोक्यं मोहयेत् क्रोधात्त्रैलोक्यञ्चूर्णयेत्क्षणात् ॥३१॥
पुत्रवान्धनवाञ्श्रीमान्नानाविद्यानिधिर्भवेत् ।
ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रस्पर्शनात्ततः ॥३२॥
नाशमायाति या नारी वन्ध्या वा मृतपुत्रिनी ।
बह्वपत्या जीवतोका भवत्येव न संशयः ॥३३॥
न देयम्परशिष्येभ्यो ह्यभक्तेभ्यो विशेषतः ।
शिष्येभ्यो भक्तियुक्तेभ्यो ह्यन्यथा मृत्युमाप्नुयात् ॥३४॥
स्पर्द्धामुद्धूय कमला वाग्देवी मन्दिरे सुखे ।
पौत्रान्तं स्थैर्यमास्थाय निवसत्येव निश्चितम् ॥३५॥
इदं कवचमज्ञात्वा यो भजेद्घोरदक्षिणाम् ॥
शतलक्षम्प्रजप्त्वापि तस्य विद्या न सिद्ध्यति ॥
सहस्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ॥३६॥
॥ इति कालीकवचं (जगन्मङ्गलकवचम् / श्यामाकवचं) सम्पूर्णम् ॥
श्रीवज्रपञ्जरकाख्य श्रीकालिकाकवच
श्रीदेव्युवाच
अधुना देवदेवेश कवचं वज्रपञ्जरम् ।
काल्याः कृपाकटाक्षोर्मि किमीरितदृशोद्भवम् ॥१॥
श्रीईश्वर उवाच
शृणु देवि प्रवक्ष्यामि तवाग्रे कवचोत्तमम् ।
यस्मिन्कृते भवति श्रीकालीतनयो नरः ॥२॥
विनामुना न सिद्धः स्याद्दक्षिणा दक्षिणानना ।
अतः कवचिना भाव्यं साधकेन्द्रेण सिद्धये ॥३॥
ऋषिरस्य स्मृतः शम्भुच्छन्दः प्राकृतिरुत्तमम् ।
देवता दक्षिणां ध्यात्वा कलीं प्रत्यक्षरं न्यसेत् ॥४॥
अम्भोदश्यामलाङ्गीमतिविकटदतीं लोलजिह्वां जटालां
मुण्डं वामे दधानां करकमलतले दक्षिणे चन्द्रहासम् ।
सृक्कि द्वन्द्वसुधाधरमुखकमलां प्रेतदो वल्लिकाञ्चीं
मार्द्वीकोन्मत्तनेत्रां शिवहृदयगतां नौमि कालीं सकालाम् ॥५॥
क्रीं बीजं मूर्ध्नि गण्डद्वितयमनु पुनस्तद्द्वयं ह्रूं द्वयं यः
नेत्रद्वन्द्वे च लज्जायुगलमपि पुनः कर्णयोर्विन्यसेच्च ।
नासाद्वन्द्वे च रक्षेद्रदनरसनयोः कालिकादन्तपङ्क्तौ
लिङ्गे भूस्यद्गुदे च त्रितयमपि पुनर्बीजमाद्यं न्यसेच्च ॥६॥
बाहुद्वन्द्वे च ह्रं ह्रं चरणयुगलके शक्तिबीजद्वयं च
स्वाहा सर्वत्र देहे विषदतरमतिर्विन्यसेद्व्यापके च ।
एवं न्यासं विधाय त्रिभुवनवलयाख्यातकीर्तिः कवीन्द्रो
वज्राङ्गो जीवलोके जयति वहुधनः साधकः सिद्धमन्त्रः ॥७॥
क्रीं क्रीं क्रीं देवि हूं हूं कह कह कह हे देवी ह्रं ह्रं ह हां हा
दं दं दं दक्षिणे त्वां क क क क कलिते कालिके कालपत्नि ।
क्रीं क्रीं क्रीं योनि ह्रं ह्रं ह ह ह सहिते कालि ह्रीं ह्रीं हरेशे
स्वाहे स्वाहेशनेत्रे भ भ भ भ भवती भूतयो वो भवन्तु ॥८॥
भूतप्रेतपिशाचपन्नगपरप्रत्यर्थिसेनाभये
रण्ये रण्यतरक्षु भीषु च तथा चान्यासु भीषु स्फुटम् ।
स्मृत्वैवं मनुमुत्तमं गतभयो जायेत वीरोत्तमो
वीरं चापि च साधयेदनु मनुं स्वान्ते दधत्साधकः ॥९॥
॥ इति श्रीवज्रपञ्जरकाख्यं श्रीकालिकाकवचं सम्पूर्णम् ॥
वैरिनाशन कालिका कवच – रुद्रयामलोक्त
कैलासशिखरासीनं देवदेवं जगद्गुरुम् ।
शङ्करं परिपप्रच्छ पार्वती परमेश्वरम् ॥
कैलासशिखरारूढं शङ्करं वरदं शिवम् ।
देवी पप्रच्छ सर्वज्ञं सर्वदेव महेश्वरम् ॥१॥
पार्वत्युवाच
भगवन् देवदेवेश देवानां भोगद प्रभो ।
प्रब्रूहि मे महादेव गोप्यं चेद्यदि हे प्रभो ॥२॥
शत्रूणां येन नाशः स्यादात्मनो रक्षणं भवेत् ।
परमैश्वर्यमतुलं लभेद्येन हि तद्वद ॥३॥
भैरव उवाच
वक्ष्यामि ते महादेवि सर्वधर्मविदां वरे ।
अद्भुतं कवचं देव्याः सर्वकामप्रसाधकम् ॥४॥
विशेषतः शत्रुनाशं सर्वरक्षाकरं नृणाम् ।
सर्वारिष्टप्रशमनं सर्वाभद्रविनाशनम् ॥५॥
सुखदं भोगदं चैव वशीकरणमुत्तमम् ।
शत्रुसंघाः क्षयं यान्ति भवन्ति व्याधिपीडिअताः ॥६॥
दुःखिनो ज्वरिणश्चैव स्वाभीष्टद्रोहिणस्तथा ।
भोगमोक्षप्रदं चैव कालिकाकवचं पठेत् ॥७॥
विनियोग : ॐ अस्य श्रीकालिकाकवचस्य भैरव ऋषिः । अनुष्टुप्छन्दः । श्रीकालिका देवता । शत्रुसंहारार्थ जपे विनियोगः ॥
॥ ध्यानम् ॥
ॐ ध्यायेत्कालीं महामायां त्रिनेत्रां बहुरूपिणीम् ।
चतुर्भुजां ललज्जिह्वां पूर्णचन्द्रनिभाननाम् ॥८॥
नीलोत्पलदलश्यामां शत्रुसंघविदारिणीम् ।
नरमुण्डं तथा खड्गं कमलं च वरं तथा ॥९॥
निर्भयां रक्तवदनां दंष्ट्रालीघोररूपिणीम् ।
साट्टहासाननां देवीं सर्वदां च दिगम्बरीम् ॥१०॥
शवासनस्थितां कालीं मुण्डमालाविभूषिताम् ।
इति ध्यात्वा महाकालीं ततस्तु कवचं पठेत् ॥११॥
ॐ कालिका घोररूपाढ्या सर्वकामप्रदा शुभा ।
सर्वदेवस्तुता देवी शत्रुनाशं करोतु मे ॥१२॥
ॐ ह्रीं ह्रींरूपिणीं चैव ह्रां ह्रीं ह्रांरूपिणीं तथा ।
ह्रां ह्रीं क्षों क्षौंस्वरूपा सा सदा शत्रून्विदारयेत् ॥१३॥
श्रीं-ह्रीं ऐंरूपिणी देवी भवबन्धविमोचनी ।
हुंरूपिणी महाकाली रक्षास्मान् देवि सर्वदा ॥१४॥
यया शुम्भो हतो दैत्यो निशुम्भश्च महासुरः ।
वैरिनाशाय वन्दे तां कालिकां शङ्करप्रियाम् ॥१५॥
ब्राह्मी शैवी वैष्णवी च वाराही नारसिंहिका ।
कौमार्यैन्द्री च चामुण्डा खादन्तु मम विद्विषः ॥१६॥
सुरेश्वरी घोररूपा चण्डमुण्डविनाशिनी ।
मुण्डमालावृताङ्गी च सर्वतः पातु मां सदा ॥१७॥
ह्रीं ह्रीं ह्रीं कालिके घोरे दंष्ट्रेव रुधिरप्रिये ।
रुधिरापूर्णवक्त्रे च रुधिरेणावृतस्तनि ॥१८॥
मम शत्रून् खादय खादय हिंस हिंस मारय मारय भिन्धि भिन्धि छिन्धि छिन्धि उच्चाटय उच्चाटय द्रावय द्रावय शोषय शोषय स्वाहा । ह्रां ह्रीं कालिकायै मदीयशत्रून् समर्पयामि स्वाहा ।
ॐ जय जय किरि किरि किटि किटि कट कट मर्द मर्द मोहय मोहय हर हर मम रिपून ध्वंस ध्वंस
भक्षय भक्षय त्रोटय त्रोटय यातुधानान् चामुण्डे सर्वजनान् राज्ञो राजपुरुषान् स्त्रियो मम वश्यान् कुरु कुरु तनु तनु धान्यं धनं मेऽश्वान् गजान् रत्नानि दिव्यकामिनीः पुत्रान् राजश्रियं देहि यच्छ क्षां क्षीं क्षूं क्षैं क्षौं क्षः स्वाहा ॥
इत्येतत् कवचं दिव्यं कथितं शम्भुना पुरा ।
ये पठन्ति सदा तेषां ध्रुवं नश्यन्ति शत्रवः ॥१९॥
वैरिणः प्रलयं यान्ति व्याधिता या भवन्ति हि ।
बलहीनाः पुत्रहीनाः शत्रवस्तस्य सर्वदा ॥२०॥
सहस्रपठनात्सिद्धिः कवचस्य भवेत्तदा ।
तत्कार्याणि च सिध्यन्ति यथा शङ्करभाषितम् ॥२१॥
श्मशानाङ्गारमादाय चूर्णं कृत्वा प्रयत्नतः ।
पादोदकेन पिष्ट्वा तल्लिखेल्लोहशलाकया ॥२२॥
भूमौ शत्रून् हीनरूपानुत्तराशिरसस्तथा ।
हस्तं दत्त्वा तु हृदये कवचं तु स्वयं पठेत् ॥२३॥
शत्रोः प्राणप्रियष्ठां तु कुर्यान्मन्त्रेण मन्त्रवित् ।
हन्यादस्त्रं प्रहारेण शत्रो गच्छ यमक्षयम् ॥२४॥
ज्वलदङ्गारतापेन भवन्ति ज्वरिता भृशम् ।
प्रोञ्छनैर्वामपादेन दरिद्रो भवति ध्रुवम् ॥२५॥
वैरिनाशकरं प्रोक्तं कवचं वश्यकारकम् ।
परमैश्वर्यदं चैव पुत्रपौत्रादिवृद्धिदम् ॥२६॥
प्रभातसमये चैव पूजाकाले च यत्नतः ।
सायङ्काले तथा पाठात्सर्वसिद्धिर्भवेद्ध्रुवम् ॥ २७॥
शत्रुरुच्चाटनं याति देशाद्वा विच्युतो भवेत् ।
पश्चात्किङ्करतामेति सत्यं सत्यं न संशयः ॥२८॥
शत्रुनाशकरे देवि सर्वसम्पत्करे शुभे ।
सर्वदेवस्तुते देवि कालिके! त्वां नमाम्यहम् ॥२९॥
॥ इति श्रीरुद्रयामले कालिकाकल्पे वैरिहरं श्मशानकाल्याः (कालिकाकवचं) सम्पूर्णम् ॥
वैरिनाशनं कालीकवचम् – शत्रु नाशक काली कवच
कैलास शिखरारूढं शङ्करं वरदं शिवम् ।
देवी पप्रच्छ सर्वज्ञं सर्वदेव महेश्वरम् ॥१॥
श्रीदेव्युवाच
भगवन् देवदेवेश देवानां भोगद प्रभो ।
प्रब्रूहि मे महादेव गोप्यमद्यापि यत् प्रभो ॥२॥
शत्रूणां येन नाशः स्यादात्मनो रक्षणं भवेत् ।
परमैश्वर्यमतुलं लभेद्येन हि तद् वद ॥३॥
वक्ष्यामि ते महादेवि सर्वधर्मविदाम्वरे ।
अद्भुतं कवचं देव्याः सर्वकामप्रसाधकम् ॥४॥
विशेषतः शत्रुनाशं सर्वरक्षाकरं नृणाम् ।
सर्वारिष्टप्रशमनंअभिचारविनाशनम् ॥५॥
सुखदं भोगदं चैव वशीकरणमुत्तमम् ।
शत्रुसङ्घाः क्षयं यान्ति भवन्ति व्याधिपीडिताः ।
दुःखिनो ज्वरिणश्चैव स्वानिष्टपतितास्तथा ॥६॥
विनियोग : ॐ अस्य श्रीकालिकाकवचस्य भैरवऋषये नमः, शिरसि । गायत्री छन्दसे नमः, मुखे । श्रीकालिकादेवतायै नमः, हृदि । ह्रीं बीजाय नमः, गुह्ये । ह्रूँ शक्तये नमः, पादयोः । क्लीं कीलकाय नमः, सर्वाङ्गे । शत्रुसङ्घनाशनार्थे पाठे विनियोगः ॥
इति विन्यस्य क्रां क्रीं क्रूं क्रैं क्रौं क्रः । इति करषडङ्गन्यासादिकं कुर्यात् ॥ (तत्पश्चात “क्रां क्रीं क्रूं क्रैं क्रौं क्रः” से करन्यास और षडङ्गन्यास भी करे)
॥ ध्यानम् ॥
ध्यायेत् कालीं महामायां त्रिनेत्रां बहुरूपिणीम् ।
चतुर्भुजां ललज्जिह्वां पूर्णचन्द्रनिभाननाम् ॥७॥
नीलोत्पलदलश्यामां शत्रुसङ्घविदारिणीम् ।
नरमुण्डं तथा खड्गं कमलं वरदं तथा ॥८॥
विभ्राणां रक्तवदनां दंष्ट्रालीं घोररूपिणीम् ।
अट्टाट्टहासनिरतां सर्वदा च दिगम्बराम् ॥९॥
शवासनस्थितां देवीं मुण्डमालाविभूषणाम् ।
इति ध्यात्वा महादेवीं ततस्तु कवचं पठेत् ॥१०॥
कालिका घोररूपाद्या सर्वकामफलप्रदा ।
सर्वदेवस्तुता देवी शत्रुनाशं करोतु मे ॥११॥
ॐ ह्रीं स्वरूपिणीं चैव ह्राँ ह्रीं ह्रूँ रूपिणी तथा ।
ह्राँ ह्रीं ह्रैं ह्रौं स्वरूपा च सदा शत्रून् प्रणश्यतु ॥१२॥
श्रीं ह्रीं ऐं रूपिणी देवी भवबन्धविमोचिनी ।
ह्रीं सकलां ह्रीं रिपुश्च सा हन्तु सर्वदा मम ॥१३॥
यथा शुम्भो हतो दैत्यो निशुम्भश्च महासुरः ।
वैरिनाशाय वन्दे तां कालिकां शङ्करप्रियाम् ॥१४॥
ब्राह्मी शैवी वैष्णवी च वाराही नारसिंहिका ।
कौमार्यैन्द्री च चामुण्डा खादन्तु मम विद्विषः ॥१५॥
सुरेश्वरी घोररूपा चण्डमुण्डविनाशिनी ।
मुण्डमाला धृताङ्गी च सर्वतः पातु मा सदा ॥१६॥
अथ मन्त्रः – ह्रां ह्रीं कालिके घोरदंष्ट्रे च रुधिरप्रिये । रूधिरापूर्णवक्त्रे च रूधिरेणावृतस्तनि ॥१७॥
मम सर्वशत्रून् खादय खादय हिंस हिंस मारय मारय भिन्धि भिन्धि छिन्धि छिन्धि उच्चाटय उच्चाटय विद्रावय विद्रावय शोषय शोषय स्वाहा ॥ ह्रां ह्रीं कालिकायै मदीयशत्रून् समर्पय स्वाहा ॥
ॐ जय जय किरि किरि किट किट मर्द मर्द मोहय मोहय हर हर मम रिपून् ध्वंसय ध्वंसय भक्षय भक्षय त्रोटय त्रोटय यातुधानान् चामुण्डे सर्वजनान् राजपुरुषान् स्त्रियो मम वश्याः कुरु कुरु अश्वान् गजान् दिव्यकामिनीः पुत्रान् राजश्रियं देहि देहि तनु तनु धान्यं धनं यक्षं क्षां क्षूं क्षैं क्षौं क्षं क्षः स्वाहा ॥
(इति मन्त्रः)
॥ फलश्रुतिः ॥
इत्येतत् कवचं पुण्यं कथितं शम्भुना पुरा ।
ये पठन्ति सदा तेषां ध्रुवं नश्यन्ति वैरिणः ॥१८॥
वैरिणः प्रलयं यान्ति व्याधिताश्च भवन्ति हि ।
बलहीनाः पुत्रहीनाः शत्रुवस्तस्य सर्वदा ॥१९॥
सहस्रपठनात् सिद्धिः कवचस्य भवेत्तथा ।
ततः कार्याणि सिध्यन्ति यथाशङ्करभाषितम् ॥२०॥
श्मशानाङ्गारमादाय चूर्णं कृत्वा प्रयत्नतः ।
पादोदकेन पिष्टा च लिखेल्लोहशलाकया ॥२१॥
भूमौ शत्रून् हीनरूपानुत्तराशिरसस्तथा ।
हस्तं दत्त्वा तु हृदये कवचं तु स्वयं पठेत् ॥२२॥
प्राणप्रतिष्ठां कृत्वा वै तथा मन्त्रेण मन्त्रवित् ।
हन्यादस्त्रप्रहारेण शत्रो गच्छ यमक्षयम् ॥२३॥
ज्वलदङ्गारलेपेन भवन्ति ज्वरिता भृशम् ।
प्रोङ्क्षयेद्वामपादेन दरिद्रो भवति ध्रुवम् ॥२४॥
वैरिनाशकरं प्रोक्तं कवचं वश्यकारकम् ।
परमैश्वर्यदं चैव पुत्र पौत्रादि वृद्धिदम् ॥२५॥
प्रभातसमये चैव पूजाकाले प्रयत्नतः ।
सायङ्काले तथा पाठात् सर्वसिद्धिर्भवेद् ध्रुवम् ॥२६॥
शत्रुरुच्चाटनं याति देशाद् वा विच्युतो भवेत् ।
पश्चात् किङ्करतामेति सत्यं सत्यं न संशयः ॥२७॥
शत्रुनाशकरं देवि सर्वसम्पत्करं शुभम् ।
सर्वदेवस्तुते देवि कालिके त्वां नमाम्यहम् ॥२८॥
॥ इति वैरिनाशनं कालीकवचं सम्पूर्णम् ॥
कालीकुलसर्वस्वोक्त कालीकवच – दक्षिण कालिका कवच
भैरव् उवाच
कालिका या महाविद्या कथिता भुवि दुर्लभा ।
तथापि हृदये शल्यमस्ति देवि कृपां कुरु ॥१॥
कवचन्तु महादेवि कथयस्वानुकम्पया ।
यदि नो कथ्यते मातर्व्विमुञ्चामि तदा तनुम् ॥२॥
श्रीदेव्युवाच
शङ्कापि जायते वत्स तव स्नेहात् प्रकाशितम् ।
न वक्तव्यं न द्रष्टव्यमतिगुह्यतरं महत् ॥३॥
कालिका जगतां माता शोकदुःखविनाशिनी ।
विशेषतः कलियुगे महापातकहारिणी ॥४॥
काली मे पुरतः पातु पृष्ठतश्च कपालिनी ।
कुल्ला मे दक्षिणे पातु कुरुकुल्ला तथोत्तरे ॥५॥
विरोधिनी शिरः पातु विप्रचित्ता तु चक्षुषी ।
उग्रा मे नासिकां पातु कर्णौ चोग्रप्रभा मता ॥६॥
वदनं पातु मे दीप्ता नीला च चिबुकं सदा ।
घना ग्रीवां सदा पातु बलाका बाहुयुग्मकम् ॥७॥
मात्रा पातु करद्वन्द्वं वक्षोमुद्रा सदावतु ।
मिता पातु स्तनद्वन्द्वं योनिमण्डलदेवता ॥८॥
ब्राह्मी मे जठरं पातु नाभिं नारायणी तथा ।
ऊरु माहेश्वरी नित्यं चामुण्डा पातु लिङ्गकम् ॥९॥
कौमारी च कटीं पातु तथैव जानुयुग्मकम् ।
अपराजिता च पादौ मे वाराही पातु चाङ्गुलीन् ॥१०॥
सन्धिस्थानं नारसिंही पत्रस्था देवतावतु ।
रक्षाहीनन्तु यत्स्थानं वर्जितं कवचेन तु ॥११॥
तत्सर्वं रक्ष मे देवि कालिके घोरदक्षिणे ।
ऊर्द्धमधस्तथा दिक्षु पातु देवी स्वयं वपुः ॥१२॥
हिंस्रेभ्यः सर्वदा पातु साधकञ्च जलाधिकात् ।
दक्षिणाकालिका देवी व्यपकत्वे सदावतु ॥१३॥
इदं कवचमज्ञात्वा यो जपेद्देवदक्षिणाम् ।
न पूजाफलमाप्नोति विघ्नस्तस्य पदे पदे ॥१४॥
कवचेनावृतो नित्यं यत्र तत्रैव गच्छति ।
तत्र तत्राभयं तस्य न क्षोभं विद्यते क्वचित् ॥१५॥
॥ इति कालीकुलसर्वस्वे कालीकवचं / श्रीमद्दक्षिणकालिकाकवचम् समाप्तम् ॥
विश्वमङ्गल गुह्यकाली कवच
विनियोग : ॐ अस्य श्रीविश्वमङ्गलनाम्नो गुह्यकाली महावज्र कवचस्य संवर्तऋषिरनुष्टुप्छन्दः, एकवक्त्रादि शतवक्त्रान्ता गुह्यकाली देवता, फ्रें बीजं, फ्रेंशक्तिः, छ्रीं कीलकं सर्वाभीष्टसिद्धि पूर्वकात्मरक्षणे जपे विनियोगः ॥
ॐ फ्रें पातु शिरः सिद्धिकराली कालिका मम ।
ह्रीं छ्रीं ललाटं मे सिद्धिविकरालि सदावतु ॥१॥
श्रीं क्लीं मुखं चण्डयोगेश्वरी रक्षतु सर्वदा ।
हूं स्त्रीं कर्णै वज्रकापालिनी मे कालिकाऽवतु ॥२॥
ऐं क्रौं हनू कालसङ्कर्षणा मे पातु कालिका ।
क्रीं क्रौं भ्रुवावुग्रचण्डा कालिका मे सदावतु ॥३॥
हां क्षौं नेत्रे सिद्धिलक्ष्मीरवतु प्रत्यहं मम ।
हूं ह्रौं नासां चण्डकापालिनी मे सर्वदावतु ॥४॥
आं ईं ओष्ठाधरौ पातु सदा समयकुब्जिका ।
ग्लूं ग्लौं दन्तान् राजराजेश्वरी मे रक्षतात् सदा ॥५॥
जूं सः सदा मे रसनां पातु श्रीजयभैरवी ।
स्फ्रें स्फ्रें पातु स्वर्णकूटेश्वरी मे चिबुकं सदा ॥६॥
ब्लूं ब्लौं कण्ठं रक्षतु मे सर्वदा तुम्बुरेश्वरी ।
क्ष्रूं क्ष्रौं मे राजमातङ्गी स्कन्धौ रक्षतु सर्वदा ॥७॥
फ्रां फ्रौं भुजौ वज्रचण्डेश्वरी रक्षतु मे सदा ।
स्त्रैं स्त्रौं वक्षःस्थलं जयझङ्केश्वरी मम ॥८॥
फिं फां करौ रक्षतु मे शिवदूती च सर्वदा ।
छ्रैं छौं मे जठरं पातु फेत्कारी घोरराविणी ॥९॥
स्त्रैं स्त्रौं गुह्येश्वरि नाभिं मम रक्षतु सर्वदा ।
क्षुं क्षौं पार्श्वो सदापातु बाभुवी घोररूपिणी ॥१०॥
ग्रूं ग्रौं कुलेश्वरी पातु मम पृष्ठं च सर्वदा ।
क्लूं क्लौं कटिं रक्षतु मे भीमादेवी भयानका ॥११॥
हैं हौं मे रक्षतादूरू सर्वदा चण्डखेचरी ।
स्फ्रों स्फ्रौं मे जानुनी पातु कोरङ्गी भीषणानना ॥१२॥
त्रीं श्रीं जङ्घायुगं पातु तामसी सर्वदा मम ।
ज्रैं ज्रौं पादौ महाविद्या सर्वदा मम रक्षतु ॥१३॥
ड्रीं ठ्रीं वागीश्वरी सर्वान् सन्धीन् देहस्य मेऽवतु ।
ख्रें ख्रौं शराराधातून्मे कामाख्या सर्वदावतु ॥१४॥
ब्रीं ब्रूं कात्यायनी पातु दशवायूंस्तनूद्भवान् ।
ज्लूं ज्लौं पातु महालक्ष्मीः खान्येकादश सर्वदा ॥१५॥
ऐं औं अनूक्तं यत्स्थानं शरीरेऽन्तर्बहिश्च मे ।
तत्सर्वं सर्वदा पातु हरसिद्धा हरप्रिया ॥१६॥
फ्रें छ्रीं ह्रीं स्त्री हूं शरीरसकलं सर्वदा मम ।
गुह्यकाली दिवारात्रौ सन्ध्यासु परिरक्षतु ॥१७॥
इति ते कवचं प्रोक्तं नाम्ना च विश्वमङ्गलम् ।
सर्वेभ्यः कवचेभ्यस्तु श्रेष्ठं सारतरं परम् ॥१८॥
इदं पठित्वा त्वं देहं भस्मनैवावगुण्ठ्य च ।
तत्तत्स्थानेषु विन्यस्य वद्धवादः कवचं दृढम् ॥१९॥
दशवारान् मनुः जप्त्वा यन्त्र कुत्रापि गच्छतु ।
समरे निपतच्छस्त्रेऽरण्ये स्वापदसङ्कुले ॥२०॥
श्मशाने प्रेतभूताढ्यकान्तारे दस्युसङ्कुले ।
राजद्वारे सपिशुने गह्वरे सर्पवेष्टिते ॥२१॥
तस्य भीतिर्न कुत्रापि चरतः पृथिवीमिमाम् ।
न च व्याधिभयं तस्य नैव तस्करजं भयम् ॥२२॥
नाग्न्युत्पातो नैव भूतप्रेतजः सङ्कटस्तथा ।
विद्युद्वर्षोपलभयं न कदापि प्रबाधते ॥२३॥
न दुर्भिक्षभयं चास्य न च मारिभयं तथा ।
कृत्याभिचारजा दोषाः स्पृशन्त्येनं कदापि न ॥२४॥
सहस्रं जपतश्चास्य पुरश्चरणमुच्यते ।
तत्कृत्वा तु प्रयुञ्जीत सर्वस्मिन्नपि कर्मणि ॥२५॥
वश्यकार्यो मोहने च मारणोच्चाटने तथा ।
स्तम्भने च तथा द्वेषे तथा कृत्याभिचारयोः ॥२६॥
दुर्गभङ्गे तथा युद्धे परचक्र निवारणे ।
एतत् प्रयोगात् सर्वाणि कार्याणि परिसाधयेत् ॥२७॥
भूतावेशं नाशयति विवादे जयति द्विषः ।
सङ्कटं तरति क्षिप्रं कलहे जयमाप्नुयात् ॥२८॥
यदीच्छेत् महतीं लक्ष्मी तनयानायुरेव च ।
विद्यां कान्तिं तथौन्नत्यं यश आरोग्यमेव ॥२९॥
भोगान् सौख्यं विघ्नहानिमनालस्यं महोदयम् ।
अधीहि कवचं नित्यममुनामुञ्च च प्रिये ॥३०॥
कवचेनामुना सर्वं संसाधयति साधकः ।
यद् यद् ध्यायति चित्तेन सिद्धं तत्तत्पुरः स्थितम् ॥३१॥
दुर्धटं घटयत्येतत् कवचं विश्वमङ्गलम् ।
विश्वस्य मङ्गलं यस्मादतो वै विश्वमङ्गलम् ॥३२॥
सान्निध्यकारकं गुह्यकाल्या एतत् प्रकीर्तितम् ।
भुक्तवा भोगानघं हत्वा देहान्ते मोक्षमाप्नुयात् ॥३३॥
॥ इति विश्वमङ्गल गुह्यकालीकवचम् ॥
त्रैलोक्यमोहन कालीकवच – दक्षिणा कालिका कवच
श्रीदेव्युवाच
देवदेवमहादेव संसारप्रीतिकारकः ।
सर्वविद्येश्वरीं विद्यां कालिकां कथयाद्भुताम् ॥१॥
श्रीशिव उवाच
शृणुदेवि महाविद्यां सर्वविद्योत्तमोत्तमाम् ।
सर्वेश्वरीं महाविद्यां सर्वदेवप्रपूजिताम् ॥२॥
यस्याः कटाक्षमात्रेण त्रैलोक्यविजयीहरः ।
बभूवकमलानाथो विभुब्रह्मा प्रजापति ॥३॥
शचीस्वामीदेवनाथो यमोपिधर्मनायकः ।
त्रैलोक्यपावनी गङ्गा कमला श्रीर्हरिप्रिया ॥४॥
दिनस्वामिरविश्चन्द्रो निशापतिर्ग्रहेश्वरः ।
जलाधिपतिर्वरुणः कुबेरोपिधनेश्वरः ॥५॥
अव्याहतगतिर्वायुर्गजास्योविघ्ननायकः ।
वागीश्वरः सुराचार्यो दैत्याचार्यो महाकविः ॥६॥
एवं हि सर्वदेवाश्च सर्वसिद्धिश्वराः प्रिये ।
तस्यास्तु कवचं दिव्यं मातृजारं विभावय ॥७॥
विनियोग : अस्य श्रीदक्षिणकाली कवचमन्त्रस्य भैरव ऋषिः, अनुष्टुप् छन्दः, श्मशानकाली देवता, धर्मार्थकाममोक्षार्थे जपे विनियोगः ॥
ललाटं पातु चक्रीं मे हरेणाराधितं सदा ॥
नेत्रेमे रक्षतु क्रीं क्रीं विष्णुना सेविता पुरा ॥८॥
क्रीं हूँ ह्रीं नासिकां पातु ब्रह्मणा सेविता पुरा ।
क्रीं क्रीं क्रीं वदनं पातु शक्रेणाराधिता सदा ॥९॥
क्रीं स्वाहा श्रवणं पातु यमेनैवप्रपूजिता ।
क्रीं हूँ ह्रीं स्वाहा रसना गङ्गयासेवितावतु ॥१०॥
दन्तपङ्क्ति सदा पातु ॐ क्रीं हूँ ह्रीं स्वाहा मम ।
भुक्तिमुक्ति प्रदा काली श्रिया नित्यं सुसेविता ॥११॥
ओष्टाधरं सदा पातु क्रीं क्रीं क्रीं हूँ हूँ
सूर्येणाराधिता विद्या सर्वसिद्धिप्रदायिनी ॥१२॥
कण्ठं पातु महाकाली ॐ क्रीं ह्रीं मे स्वाहा।
मम चन्द्रेणाराधिता चतुर्वर्गफलप्रदा ॥१३॥
हस्तयुग्मं सदा पातु क्रीं क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं स्वाहा।
सौख्यदा मोक्षदा काली वरुणेनैवसेविता ॥१४॥
ॐ क्रीं हूँ ह्रीं फट् स्वाहा हृदयं पातु सर्वदा ।
सर्वसम्पत्प्रदा काली कुबेरेणोपसेविता ॥१५॥
ऐं ह्रीं ॐ ऐं हूँ फट् स्वाहा हस्तयुग्मं सदावतु ।
वायुनोपासिताकाली यशोबल सुखप्रदा ॥१६॥
क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं फट् पातु जठरं मम ।
सर्वसिद्धिप्रदा काली गणनाथेन सेविता ॥१७॥
क्रीं दक्षिणे कालिके ह्रीं स्वाहा नाभिं ममावतु ।
सिद्धिबुद्धिकरी काली गुरुणा सेविता पुरा ॥१८॥
लिङ्गं पातु सदा हूँ हूँ दक्षिणे कालिके स्वाहा ।
शुक्रेणराधिता काली त्रैलोक्यजयदायिनी ॥१९॥
पात्वण्ड कोशं क्रीं क्रीं दक्षिणे कालिके ह्रीं ह्रीं स्वाहा ।
धरया सेविता विद्या सर्वरत्न प्रदायिनी ॥२०॥
पातुं गुदं क्रीं क्रीं दक्षिणे कालिके ह्रीं स्वाहा ।
द्वादशीचमहाविद्या राघवेणार्चिता सदा ॥२१॥
जानुनी पातु ॐ क्रीं क्रीं दक्षिणे कालिके स्वाहा ।
एकादशी महाविद्या मेघनादेन सेविता ॥२२॥
क्रीं क्रीं दक्षिणे कालिके ह्रीं ह्रीं स्वाहा जङ्घेवतु
द्वादशीच महाविद्या प्रह्लादेनचसेविता ॥२३॥
क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं तथाङ्गुलीः
पातु मे द्वादशीकाली क्षेत्रपालेन सेविता ॥२४॥
क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं स्वाहा
च नखान्सर्वात्सदा पातु पञ्चदशीत् ग्रहेश्वरी ॥२५॥
क्रीं क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं दक्षिणे कालिके
क्रीं क्रीं क्रीं मम पृष्ठे सदा पातु षोडशी परमेश्वरी ॥२६॥
क्रीं क्रीं क्रीं पातु रोमाणि हूँ हूँ रक्षतु वर्मणि ।
मांसं पातु सदा ह्रीं ह्रीं रक्तं दक्षिणे कालिके ॥२७॥
क्रीं क्रीं क्रीं पातु मे अस्थिमज्जां हूँ हूँ सदावतु ।
ह्रीं ह्रीं शुक्रं सदा पातु रंध्रं स्वाहा ममावतु ॥२८॥
द्वाविंशत्यक्षरी विद्या सर्वलोकेषु दुर्लभा ।
महाविद्येश्वरी विद्या सर्वतन्त्रेषु गोपिता ॥२९॥
सूर्यवंशेन सोमेन रामेण जमदग्निग्निना ।
जयन्ते न सुमन्ते न बलिनानारदेन च ॥३०॥
बिभीषणेनबाणेन भृगुणाकश्यपेन च ।
कपिलेन वसिष्ठेन धौम्येन त्रिपुरेण च ॥३१॥
मार्कण्डयेन ध्रुवेणैवद्रोणेन सत्यभामया ।
ऋष्यशृङ्गेन कर्णेन भारद्वाजेन संयुता ॥३२॥
सर्वेणाराधिता विद्या जरामृत्यु विनाशिनी ।
पूर्णविद्या महाकाली विद्याराज्ञी प्रकीर्तिता ॥३३॥
काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ।
विप्रचित्ता तथोग्रप्रभा दीप्ता घनत्विषा ॥३४॥
नीला घना बलाका च मात्रा मुद्रामितापि च ।
एताः सर्वा खड्गधरा मुण्डमाला विभूषणा ॥३५॥
हूँ हूँकारेट्टहासेन सर्वत्र पातु मां सदा ।
ब्रह्माणी पातु मां पूर्वे आग्नेया वैष्णवी तथा ॥३६॥
माहेश्वरी पातु याम्ये चामुण्डा नैरृते सदा ।
कौमारी वारुणे पातु वायव्ये अपराजिता ॥३७॥
वाराहीचोत्तरे पातु ईशान्यां नारसिंहिका ।
अध ऊर्ध्वे पातु काली पार्श्वेपृष्ठे च कालिका ॥३८॥
जलेस्थले च पाताले शयने भोजनेगृहे।
राजस्थाने कानने च विवादे मरणे रणे ॥३९॥
पर्वते प्रान्तरे शून्ये पातु मां कालिका सदा ।
शवासने श्मशाने वा शून्यागारे चतुष्पथे ॥४०॥
यत्र यत्र भय प्राप्तिः सर्वत्र पातु कालिका ।
नक्षत्र तिथि वारेषु योगं करणयोरपि ॥४१॥
मासे पक्षे वत्सरे च दण्डेयामेनिमेषके ।
दिवारात्रौ सदा पातु सन्ध्ययोः पातु कालिका ॥४२॥
सर्वत्र कालिका पातु कालिका पातु सर्वदा।
सकृद्यः शृणुयानित्यं कवचं शिव निर्मितम् ॥४३॥
सर्वपापं परित्यज्य गच्छेछिवस्यचालयम् ।
त्रैलोक्यमोहनं दिव्यं देवतानां सुदुर्लभम् ॥४४॥
यः पठेत्साधकाधीशः सर्वकर्म जपान्वितः ।
सर्वधर्मेद्भवद्धर्मी सर्वविद्येश्वरेश्वरः ॥४५॥
कुबेर इव वित्ताढ्यः सुवाणी कोकिलस्वरः ।
कवित्वे व्यास सदृशो गणेशवच्छतीधरः ॥४६॥
कामदेव समोरूपे वायुतुल्यः पराक्रमे ।
महेश इव योगीन्द्र ऐश्वर्ये सुरनायकः ॥४७॥
बृहस्पतिसमोधीमां जरामृत्युविवर्जितः ।
सर्वज्ञः सर्वदर्शी च निःपापः सकलप्रियः ॥४८॥
अव्याहतगतिः शान्तो भार्यापुत्र समन्वितः ।
यो देहे कुरुते नित्यं कवचं देवदुर्लभम् ॥४९॥
न शोकोनभय क्लेशो न रोगोन पराजयः ।
धनहानिर्विषादोय परिवारोभवेन्नहि ॥५०॥
सङ्ग्रामेषु जयेच्छत्रून्यथावह्निर्दहेद्वनम् ।
ब्रह्मास्त्रादिनिवास्त्राणि पशवः कण्टकादमः ॥५१॥
तस्यदेहं न भिन्दति वज्राधिक भवेद्वपुः ।
ग्रहभूतपिशाश्च यक्ष राक्षस किन्नराः ॥५२॥
सर्वे दूरात्पलायन्ते हिंसको नश्यति ध्रुवम् ।
तद्देहं न दहेदग्नि न तापयतिभास्करः ॥५३॥
न शोषयति वातोऽपि न क्लेदं कुरुतेपयः ।
पुत्रवत्पाल्यते काल्या न हिमं कुरु ते शशी ॥५४॥
जलसूर्येन्दुवातानां स्तम्भकेनात्र संशयः ।
बहु किं कथयिष्यामि सर्वसिद्धिमुपा लभेत् ॥५५॥
राज्यं भोगं सुखं लब्ध्वा स्वेच्छयापि शिवो भवेत् ।
मोहन स्तम्भनाकर्षमारणोच्चाटनं भवेत् ॥५६॥
काकवन्द्या च यानारी वन्द्या वा मृतपुत्रिका ।
कण्ठे वा दक्षिणे बाहौ लिखित्वा धारयेद्यदि ॥५७॥
तदापुत्रो भवेत्सत्यं चिरायुः पण्डितः शुचिः ।
स्वामिनो वल्लभासापि धनधान्य सुतान्विता ॥५८॥
इदं कवचमज्ञात्वा यो जपेत्कालिकामनुम् ।
ध्यानेनकोटिजप्तेन तस्य विद्या न सिद्ध्यति ॥५९॥
पदे पदे भवेद्दुखं लोकानानिन्दतो ध्रुवम् ।
इहलोके भवेद्दुःखी परे च नरकं व्रजेत् ॥६०॥
गुरुं मनुं समं ज्ञात्वा यः पठेत्कवचोत्तमम् ।
तस्य विद्या भवेत्सिद्धा सत्यं सत्यं वरानने ॥६१॥
य इदं कवचं दिव्यं प्रकाश्य शिवहाभवेत् ।
भक्ताय श्रेष्ठपुत्राय साधकाय य प्रकाशयेत् ॥६२॥
॥ इति श्रीरुद्रयामले देवीशङ्कर संवादे त्रैलोक्यमोहनं नाम कवचं अथवा दक्षिणाकालिकाकवचं सम्पूर्णम् ॥
“आप्नोति धार्मिको धर्मानर्थानाप्नोति दुर्गतः । मोक्षार्थिनस्तथा मोक्षं कामुका कामिनीं वराम् ॥” कामकला काली की उपासना में काम तो विशेष लक्षित होता ही है इसके साथ ही यहां स्पष्ट रूप से ज्ञात होता है कि धर्म की इच्छा होने पर धर्म, अर्थ की कामना होने पर अर्थ, मोक्ष की कामना होने पर मोक्ष की भी प्राप्ति होती है।
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।