रामार्चा की कथा श्रीशिव संहिता से ली गयी है। रामार्चा पूजा करने के पश्चात् रामार्चा कथा कही-सुनी जाती है, तत्पश्चात हवन करके आरती की जाती है एवं प्रसाद वितरण, ब्राह्मण, वैष्णव भोजन आदि कराया जाता है। रामार्चा कथा भगवान शिव और पार्वती संवाद के रूप में वर्णित है, अर्थात इस कथा में भगवती पार्वती श्रोता हैं और भगवान शिव कथा वक्ता। रामार्चा पूजा करने में असमर्थ व्यक्तियों के लिये भक्ति-भाव से कथा श्रवण करने पर भी पूजा का फल बताया गया है। इस आलेख में रामार्चा कथा संस्कृत में दिया गया है क्योंकि कथा श्रवण का जो फल होता है वो देववाणी संस्कृत में श्रवण करने से ही होता है।
रामार्चा कथा
अथ तृतीयोऽध्यायः कथा प्रारम्भः (श्रीरामार्चा माहात्म्य)
श्रीपार्वत्युवाच
भगवन्सर्वधर्मज्ञ! सर्वशास्त्र विशारद ।लोकानामुपकारार्थं यत्नान्युक्तान्यनेकशः ॥१॥
तन्त्राणि यन्त्रजालानि मन्त्रभेदाश्च भूरिशः । स्तोत्राणि विविधान्येव योगयज्ञव्रतानि च ॥२॥
तपांसि चैव दानानि सर्वसिद्धिकराणि च । तत्राऽपि दुःखिता लोका नानाक्लेशसमन्विताः ॥३॥
धनहीनाः पुत्रहीनाः आधिव्याधिसमाकुलाः । नसिद्ध्यन्ति क्रियाः काश्चिल्लोकाः सन्ति श्रमार्दिताः ॥४॥
तस्मात्कथय सर्वज्ञ ! सद्यः प्रत्ययकारकम् । उपायं सर्वलोकानां सर्वाऽभीष्टार्थ सिद्धिदम् ।
सम्यग्विचिन्त्य विश्वेश येन सिद्धिर्भवेद् ध्रुवम् ॥५॥
श्रीमहादेवोवाच
धन्याऽसि कृतपुण्याऽसि पुण्यरूपाऽसि पार्वति । यतस्त्वं सर्वलोकानां हितं वाञ्छसि सर्वदा ॥६॥
श्रृणु देवि ! प्रवक्ष्यामि प्रयत्नं परमाद्भुतम् । यस्य स्मरणमात्रेण सिद्धिं प्राप्नोति दुर्लभाम् ॥७॥
यज्ञः श्रीरामचन्द्रस्य साधनानां च साधकः । धर्माऽर्थकाममोक्षाणां प्रापकस्तुष्टिपुष्टिदः ॥८॥
ब्रह्मा सृजति यज्ञेन विश्वं विष्णुश्च रक्षति । यज्ञेनाऽहं जगत्सर्वं नाशयामि वरानने ॥९॥
रामयज्ञं विना सिद्धिं नाप्नुयादन्यकर्मभिः । पूजा दानं जपं यज्ञं तपः कुर्यादऽखण्डितम् ॥१०॥
सिद्धिं न प्राप्नुयात् देवि! तस्माद्वक्ष्यामि सुव्रते । महायज्ञोत्तमां सर्वं तपोदानफलप्रदाम् ॥११॥
कामनासिद्धिदां सौम्यां सर्व विघ्नविनाशिनीम् । रामार्चा शोभने कृत्वा न कश्चिद् दुःखभाग् नरः ॥१२॥
रामार्चायाः परो यज्ञो रामार्चायाः परं तपः । रामार्चायाः परं दानं रामार्चायाः परं जपः ॥१३॥
रामार्चायाः परं पुण्यं नास्ति लोकेषु त्रिष्वपि । रामार्चनं परं सेव्यं वद्धोद्धारकरं परं ॥१४॥
महासिद्धिप्रदं सौम्यं सर्वकामफलप्रदम् । सर्वारिष्टहरं क्षिप्रं सर्वोपद्रवनाशनम् ॥१५॥
आधिव्याधिप्रहरणं वांछाधिकफलप्रदम् । पुत्रपौत्रादिसुखदं बलवीर्यविवर्धनम् ॥१६॥
राज्यदं नष्टराज्यानां निर्धनानां धनप्रदम् । दुर्भिक्षे वृष्टिजनकं महोत्पात – निवारणम् ॥१७॥
नाशनं शत्रुसैन्यानां मित्रवर्गविवर्धनम् । महाद्रारिद्र्य दौर्भाग्य दुःखितानां सुखावहम् ॥१८॥
सौभाग्य-सन्ततिकरं सर्वैश्वर्य-सुखप्रदम् । क्षयाऽपस्मारकुष्ठादि महारोग विनाशनम् ॥१९॥
ऋणभारप्रहरणं ग्रह-विग्रह वारणम् । क्रोधमात्सर्यहरणं दोषदुर्बुद्धिनाशनम् ॥२०॥
क्षमा-सौशील्य-सौहार्दसद्गुणानां प्रकाशनम् । त्रिकाल ज्ञान जननं षड् विकार-विनाशनम् ॥२१॥
मुक्तिदं च मुमुक्षुणाम् गतीनां च गतिप्रदम् । महासंकष्टसन्तप्तश्चेतसां सुखवर्द्धनम् ॥२२॥
नान्यं पश्यामि देवेशि साधनं सकलेष्टदम् । रामार्चनं विना देवि ! श्रुतं नैव कदाचन ॥२३ ॥
रामार्चा सिद्धिरूपा हि सर्वेषां श्रेयमिच्छताम् । कि होमैः सव्रतैस्तीर्थेः किं तपोभिः किमध्वरैः ॥२४॥
किमन्यैरर्चनैरुग्रैः साधनैश्च प्रयासदैः । रामार्चानेन भो देवि ! किंचिदिष्टं न दुर्लभम् ॥२५॥
यं यं चिन्तये कामं तं तं प्राप्नोति निश्चितम्। अन्यानि यानि लोकेऽस्मिन् साधनानि बहूनि च ॥२६॥
कदाचिन्नैव सिद्धयन्ति देवि ! रामार्चनं विना । रामार्चनमकृत्वा तु कुर्यादन्यव्रतादिकम् ॥२७॥
कल्पकोटि सहस्रेषु न तेषां फलभाग्भवेत् । ग्रहाणां च यथा भानुर्नक्षत्राणां च यथा शशी ॥२८॥
रामार्चनं परं देवि ! तथा सर्वसुकर्मणाम् । अत्र ते कथयिष्यामि कथां पौराणिकीं शुभाम् ॥२९॥
प्रलयान्ते महाविष्णोर्नाभिकञ्जाज्ञ्जगद्गुरुः । जातः सर्वतमोभूतं विश्वं दृष्ट्वाऽतिदुःखितः ॥३०॥
एकाकी कमले तिष्ठन् किं करोमीत्यचिंतयत् ॥३१॥
तदाऽऽकाशेऽभवद्वाणी ब्रह्माणं कमलोद्भवम् । ब्रह्मन् ! कुरु महासृष्टिं वृत्तिजां त्वर्थसंकुलाम ॥३२॥
सृष्ट्यै बहुविधां चिन्तां चकार मनसा विधिः । न सृष्टिकरणे शक्तो बभूव चतुराननः ॥३३॥
तदा चिन्ताकुलो ब्रह्मा संस्मार परमेश्वरम् । योमेऽकार्षीत्समुत्पत्तिं यो मावाक्यैरबोधयत् ॥३४॥
कर्ता कारयिता सोऽद्य भवेन्मे दृष्टिगोचरः । तस्याऽहं शरणं प्राप्तो भूयो भूयो नमो नमः ॥३५॥
ब्रह्मणःस्मरणाद् देवि ! महाविष्णुस्सनातनः । प्राप्तो वाक्यमुवाचेदं ब्रह्मन् ! रामार्चनं कुरु ॥३६॥
श्रुत्वा ब्रह्मा नमस्कृत्य संस्तुत्योवाच सादरम्। देवदेव ! कथं कुर्यात् रामार्चा तद्वदाऽधुना ॥३७॥
श्रीभगवानुवाच
शृणुष्वावहितो ब्रह्मन ! रामार्चा सर्वसिद्धिदाम् । यत्कृत्वा मानवाः सर्वे सर्वसौभाग्यसत्तमाः ॥
तद्विधिः संप्रवक्ष्यामि सावधानोऽवधारय ॥३८॥
रामभक्तान्समाहूय बन्धुवर्गान् सुहृद् द्विजान् । सद्भक्त्या तोषयेत्सर्वान्सर्वाभीष्टार्थसिद्धये ॥३९॥
पञ्चम्यां पञ्चदश्यां वा द्वादश्यां संक्रमेऽयने ॥४०॥
नवम्याञ्चाप्यमावस्यां यस्मिन्कस्मिन् दिनेऽथवा । मध्याह्ने वा प्रदोषे वा रामार्चा कारयेत्सुधीः ॥४१॥
आदौ पुण्यस्थले चैव सुजले च मृदा तदा । शोधितायां धरायां च विरचेन्मण्डपं शुभम् ॥४२॥
रक्तवितान संयुक्तं सपताकं सतोरणम् । मनोहरैश्चतुद्वरैिः शोभनं श्रद्धयाऽन्वितम् ॥४३॥
द्वारेषु पूर्णकुम्भाश्च सहचित्रान् सपल्लवान् । सदीपान् पट्टिकायुक्तान् तण्डुलोपरि स्थापयेत् ॥४४॥
रोपयेत् कदलीस्तम्भाश्चतुष्कोणेषु सफलान् । तन्मध्ये चतुरस्रं च पीठकं श्लक्ष्णमुत्तमम् ॥४५॥
पीतास्तरणसंयुक्तं संस्थाप्य वरशोभनम् । शालितण्डुल चूर्णैश्च नीलपीतसितासितैः ॥४६॥
एक विंशति कोष्ठं वै यन्त्रं तत्रैव कारयेत् । तस्य मध्ये रघुवरं परिवारसमन्वितम् ॥४७॥
सम्यगावाहयेद् भक्त्या माहेश्वर्यादि पूर्वकम्। गौरी गणेशयोः ब्रह्मन् ! पूजयेत्पुरतः स्थितम् ॥४८॥
पूर्वभागे महाशक्तिं पूजयेद्विधि पूर्वकम् । महालक्ष्मीं दक्षिणे च महादुर्गां च पश्चिमे ॥४९॥
गायत्रीसावित्रीवाणीं सर्वमातृस्तथोत्तरे । सिद्धिबुद्धि तथेशाने चाऽऽग्नेय्यां लोकमातरम् ॥५०॥
नैर्ऋत्यां च महादेवीं वायव्ये देवमातरम् । पूर्वेशानदिशोर्मध्ये ग्रहाणां पूजनं चरेत ॥५१॥
पूर्वाऽग्नि मध्ये दिक्पालानग्नि-याम्यान्तरे शिवम् । याम्यनैर्ऋत्ययोर्मध्ये वास्तुदेवान्समर्चयेत् ॥५२॥
अष्टौ लोकपतीन् वीरान् रक्षोवारुणकान्तरे । प्रत्यङ्मुखं वसिष्ठादीन् वायुवारुण-मध्यगान् ॥५३॥
पवनोत्तरदिग्भागे चाऽधि प्रत्यधि देवताः । उत्तरेशानयोर्मध्ये ब्रह्मपूजां समाचरेत् ॥५४॥
अयोध्यां पूजयेन्मध्ये चोत्तरे सरयूं तथा । गङ्गां पूर्वे तथा याम्ये भूशक्तिं च समर्चयेत् ॥५५॥
पुनर्याम्ये नलं–नीलं केशरिणं सुषेणकम् । ऋक्षराजमङ्गदं च सुग्रीवं च समर्चयेत् ॥५६॥
पश्चिमे वै तथा शक्तीर्विमलादींश्च पूजयेत् । पराभक्तियुतं नित्यं विभीषणमथोत्तरे ॥५७॥
पूर्वेऽष्टौ मंत्रिणः पूज्याः सर्वशास्त्रविशारदाः । पंक्ति स्यन्दनकं पूर्वे कौशल्यादिभिरन्वितम् ॥५८॥
दक्षिणे लक्ष्मणं पश्चाच्छत्रुघ्नं च सशक्तिकम् । उत्तरे भरतञ्चैव सशक्तिं च समर्चयेत् ॥५९॥
हनुमन्तं पूर्वभागे क्रमेणैव समर्चयेत् । ततः प्रधानपुरुषं श्रीरामं हि समर्चयेत् ॥६०॥
पाद्याऽर्घ्याऽऽचमनीयाद्यैः स्नानैः पञ्चामृतादिभिः । पीताम्बरोपवीतैश्चन्दनैः सतुलसीदलैः ॥६१॥
यवाक्षततिलैः पुष्पैः मालादूर्वाङ्कुरैः शुभैः। धूपदीपैः सुनैवेद्यैस्तांबूलैश्च सुगन्धिभिः ॥६२॥
मोदकाद्यं सुनैवेद्यं पञ्चसेटोत्तरं वरम् । नानाविधैः सुपक्वान्नैः सुस्वादुभिः फलैस्तथा ॥६३॥
नारिकेल बलिं दद्यान्नीराजनमतः परम् । चतुः प्रदक्षिणं कृत्वा प्रणमेत्प्रार्थयेत्पुनः ॥६४॥
प्रसादो रामभद्रस्य प्रदातव्यो हनूमते । प्रहृष्टो वायुतनयो वांछितार्थं प्रयच्छति ॥६५॥
कुर्यादेवं विधानेन रामार्चा भक्तितो विधे । यथाविभवविस्तारो वित्तशाठ्यं न कारयेत् ॥६६॥
सुवर्णप्रतिमा मध्ये, शालिग्राम शिलोपरि । तिलपुञ्जेऽथवा पूजा कर्तव्या राघवस्य च ॥६७॥
पूर्व बाल्ये त्वया वत्स मन्दाकिन्यास्तटे शुभे । चित्रकूटे कृता सृष्ट्यै श्रीरामार्चा ममाऽऽज्ञया ॥६८॥
पूजान्ते तु महाभाग ! प्रादुर्भूतो रघूत्तमः । तुभ्यं वरप्रदानं च दत्वाऽन्तर्ध्यानमागमत् ॥६९॥
रामप्रसादं भक्तेभ्यो दत्वा भुक्तस्त्वया तदा । पूर्णं बभूव तेऽभीष्टं यद्यन्मनसि कांक्षितम् ॥७०॥
रामार्चायाः प्रसादं यो भुञ्जीत प्रेममानसः । बन्धून विभज्य तस्याऽशु मनोभीष्टं भवेध्रुवम्॥७१॥
रामार्चायाः प्रसादं तु न भुञ्जीत विधे यदि । महादुःखार्दितो भूत्वा रौरवे नरके व्रजेत् ॥७२॥
ब्रह्महत्यादिकं पापं मनोवाक्काय कर्मजम् । कोटि जन्मार्जितं नश्येद्रामभुक्तान्नभक्षणात् ॥७३॥
एवं यः कुरुते ब्रह्मन् रामार्चा सद्विधानतः । तस्य क्षिप्रं भवेत्सिद्धिर्मनोऽभिलषितापुरा ॥७४॥
इत्युक्त्वान्तर्दधे विष्णुर्ब्रह्मालोकपतिः शुभे । चकार रामपूजां च तया सर्वेप्सितार्थभाक् ॥७५॥
ब्रह्मणा चिंतितं यद्यत्ततदाप्तं हि सत्वरम् । ब्रह्मलोके प्रकुर्वन्ति देवा रामार्चनं सदा ॥७६॥
तत्प्रभावेन ते सर्वे परमानन्दशालिनः । भुञ्जते विविधान् भोगान् सर्वेषामपिदुर्लभान् ॥७७॥
इति श्रीशिवसंहितायां भव्योत्तरखण्डे श्रीरामार्चामाहात्म्य वर्णनपूर्वकं सप्रधानावरण देवता–पूजाविधि-वर्णनो नाम तृतीयोऽध्यायः ।।३।।