देवताओं का स्तोत्र पूजा-उपासना का एक बहुत ही प्रभावशाली अंग है। देवताओं को प्रसन्न करने और कृपा प्राप्ति में स्तोत्र बहुत ही महत्वपूर्ण भूमिका निभाता है। भगवान सूर्य की दो रूपों में पूजा-अर्चना की जाती है प्रथम तो देवता के रूप में और द्वितीय ग्रह के रूप में इस कारण भगवान सूर्य के स्तोत्रों का महत्व भी दोगुना हो जाता है। इस आलेख में भगवान सूर्य के 7 प्रमुख स्तोत्र संस्कृत में दिये गये हैं।
सूर्य स्तोत्र संस्कृत – 7 Surya Stotra
यहां क्रमशः सूर्यप्रातःस्मरण स्तोत्र, सूर्य द्वादशनाम स्तोत्र, सूर्यमण्डल स्तोत्र – सूर्य मण्डलाष्टक, विश्वकर्मकृत सूर्य स्तवन – मार्कण्डेयपुराणोक्त, सूर्य द्वादशकं – साम्बकृत, कश्यपकृत सूर्य स्तुति – मुद्गल पुराणोक्त और महाभारतोक्त युधिष्ठिरविरचित सूर्यस्तोत्र संस्कृत में दिये गये हैं। भगवान सूर्य की उपासना में इन सातों स्तोत्रों को बहुत ही महत्वपूर्ण माना जाता है।
सूर्यप्रातःस्मरण स्तोत्र
प्रातः स्मरामि खलु तत्सवितुर्वरेण्यं
रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि ।
सामानि यस्य किरणाः प्रभवादिहेतुं
ब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम् ॥१॥
प्रातर्नमामि तरणिं तनुवाङ्मनोभि-
र्ब्रह्मेन्द्रपूर्वकसुरैर्नुतमर्चितं च ।
वृष्टिप्रमोचनविनिग्रहहेतुभूतं
त्रैलोक्यपालनपरं त्रिगुणात्मकं च ॥२॥
प्रातर्भजामि सवितारमनन्तशक्तिं
पापौघशत्रुभयरोगहरं परं च ।
तं सर्वलोककलनात्मककालमूर्तिं
गोकण्ठबन्धनविमोचनमादिदेवम् ॥३॥
श्लोकत्रयमिदं भानोः प्रातः प्रातः पठेत्तु यः । स सर्वव्याधिनिर्मुक्तः परं सुखमवाप्नुयात् ॥४॥
सूर्य द्वादशनाम स्तोत्र
॥ ॐ सूं सूर्याय नमः ॥
आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः ।
तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः ॥
पञ्चमं तु सहस्रांशुः षष्ठं त्रैलोक्यलोचनः ।
सप्तमं हरिदश्वश्च अष्टमं च विभावसुः ॥
नवमं दिनकरं प्रोक्तो दशमं द्वादशात्मकः ।
एकादशं त्रयोमूर्तिः द्वादशं सूर्य एव च ॥
॥ इति सूर्यद्वादशनामस्तोत्रं सम्पूर्णम् ॥
सूर्यमण्डल स्तोत्र – सूर्य मण्डलाष्टक
नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूती स्थितिनाशहेतवे ।
त्रयीमयाय त्रिगुणात्मधारिणे विरञ्चि नारायण शङ्करात्मन् ।
नमोऽस्तु सूर्याय सहस्ररश्मये सहस्रशाखान्वितसम्भवात्मने ।
सहस्रयोगोद्भवभावभागिने सहस्रसङ्ख्यायुगधारिणे नमः ॥
यन्मण्डलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरूपम् ।
दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥१॥
यन्मण्डलं देवगणैः सुपूजितं विप्रैः स्तुतं भावनमुक्तिकोविदम् ।
तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥२॥
यन्मण्डलं ज्ञानघनं त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरूपम् ।
समस्त-तेजोमय-दिव्यरूपं पुनातु मां तत्सवितुर्वरेण्यम् ॥३॥
यन्मण्डलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम् ।
यत्सर्वपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥४॥
यन्मण्डलं व्याधिविनाशदक्षं यदृग्यजुःसामसु सम्प्रगीतम् ।
प्रकाशितं येन च भूर्भुवः स्वः पुनातु मां तत्सवितुर्वरेण्यम् ॥५॥
यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारण-सिद्धसङ्घाः ।
यद्योगिनो योगजुषां च सङ्घाः पुनातु मां तत्सवितुर्वरेण्यम् ॥६॥
यन्मण्डलं सर्वजनैश्च पूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके ।
यत्कालकालाद्यमनादिरूपं पुनातु मां तत्सवितुर्वरेण्यम् ॥७॥
यन्मण्डलं विष्णुचातुर्मुखाख्यं यदक्षरं पापहरं जनानाम् ।
यत्कालकल्पक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥८॥
यन्मण्डलं विश्वसृजं प्रसिद्धमुत्पत्ति-रक्षा-प्रलय-प्रगल्भम् ।
यस्मिञ्जगत्संहरतेऽखिलं च पुनातु मां तत्सवितुर्वरेण्यम् ॥९॥
यन्मण्डलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्धतत्त्वम् ।
सूक्ष्मान्तरैर्योगपथानुगम्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥१०॥
यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारण-सिद्धसङ्घाः ।
यन्मण्डलं वेदविदः स्मरन्ति पुनातु मां तत्सवितुर्वरेण्यम् ॥११॥
यन्मण्डलं वेदविदोपगीतं यद्योगिनां योगपथानुगम्यम् ।
तत्सर्ववेद्यं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥१२॥
सूर्यमण्डलसुस्तोत्रं यः पठेत् सततं नरः । सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥१३॥
॥इति श्री भविष्योत्तरपुराणे श्रीकृष्णार्जुनसंवादे सूर्यमण्डलस्तोत्रं सम्पूर्णम् ॥
विश्वकर्मकृत सूर्य स्तवन – मार्कण्डेयपुराणोक्त
मार्कण्डेय उवाच
लिख्यमाने ततो भानौ विश्वकर्मा प्रजापतिः ।
उद्भूतपुलकः स्तोत्रमिदं चक्रे विवस्वतः ॥१॥
विश्वकर्मा उवाच
विवस्वते प्रणतहितानुकम्पिने महात्मने समजवसप्तसप्तये ।
सुतेजसे कमलकुलावबोधिने नमस्तमः पटलपटावपाटिने ॥२॥
पावनातिशयपुण्यकर्मणे नैककामविषयप्रदायिने ।
भास्वरानलमयूखशायिने सर्वलोकहितकारिणे नमः ॥३॥
अजाय लोकत्रयकारणाय भूतात्मने गोपतये वृषाय ।
नमो महाकारुणिकोत्तमाय सूर्याय चक्षुःप्रभवालयाय ॥४॥
विवस्वते ज्ञानमृतेऽन्तरात्मने जगत्प्रतिष्ठाय जगद्धितैषिणे ।
स्वयम्भुवे लोकसमस्तचक्षुषे सुरोत्तमायामिततेजसे नमः ॥५॥
क्षणमुदयाचलमौलिमणिः सुरगणमहितहितो जगतः ।
त्वमु मयूखसहस्रवपुर्जगति विभासि तमांसि नुदन् ॥६॥
भवतिमिरासवपानमदाद्भवति विलोहितविग्रहता ।
मिहिर विभासि यतः सुतरां त्रिभुवनभावनभानिकरैः ॥७॥
रथमधिरुह्य समावयवं चारुविकम्पितमुरुरुचिरम् ।
सततमखिन्नहयैर्भगवंश्चरसि जगद्धिताय विततम् ॥८॥
अमृतमयेन रसेन समं विबुधपितॄनपि तर्पयसे ।
अरिगणसूदन तेन तव प्रणतिमुपेत्य लिखामि वपुः ॥९॥
शुकसमवर्णह्यप्रथितं तव पदपांसुपवित्रतमम् ।
नतजनवत्सल मां प्रणतं त्रिभुवनपावन पाहि रवे ॥१०॥
इति सकलजगप्रसूतिभूतं त्रिभुवनभावनधामहेतुमेकम् ।
रविमखिलजगत्प्रदीपभूतं त्रिदशवर प्रणतोऽस्मि सर्वदा त्वाम् ॥११॥
॥ इति श्रीमार्कण्डेयपुराणे चतुरधिकशततमाध्यायान्तर्गतं विश्वकर्मकृतं सूर्यस्तवनं समाप्तम् ॥
सूर्य द्वादशकं – साम्बकृत
॥ अथ श्रीसाम्बकृतद्वादशार्यासूर्यस्तुतिः ॥
उद्यन्नद्यविवस्वानारोहन्नुत्तरां दिवं देवः । हृद्रोगं मम सूर्यो हरिमाणं चाशु नाशयतु ॥१॥
निमिषार्धेनैकेन द्वे च शते द्वे सहस्रे द्वे । क्रममाण योजनानां नमोऽस्तुते नलिननाथाय ॥२॥
कर्मज्ञानखदशकं मनश्च जीव इति विश्वसर्गाय । द्वादशधा यो विचरति स द्वादशमूर्तिरस्तु मोदाय ॥३॥
त्वं हि यजूऋक्सामः त्वमागमस्त्वं वषट्कारः । त्वं विश्वं त्वं हंसः त्वं भानो परमहंसश्च ॥४॥
शिवरूपात् ज्ञानमहं त्वत्तो मुक्तिं जनार्दनाकारात् । शिखिरूपादैश्वर्यं त्वत्तश्चारोग्यमिच्छामि ॥५॥
त्वचि दोषा दृशि दोषाः हृदि दोषा येऽखिलेन्द्रियजदोषाः ।
तान् पूषा हतदोषः किञ्चिद् रोषाग्निना दहतु ॥६॥
धर्मार्थकाममोक्षप्रतिरोधानुग्रतापवेगकरान् ।
बन्दीकृतेन्द्रियगणान् गदान् विखण्डयतु चण्डांशुः ॥७॥
येन विनेदं तिमिरं जगदेत्य ग्रसति चरमचरमखिलम् ।
धृतबोधं तं नलिनीभर्तारं हर्तारमापदामीडे ॥८॥
यस्य सहस्राभीशोरभीशु लेशो हिमांशुबिम्बगतः ।
भासयति नक्तमखिलं भेदयतु विपद्गणानरुणः ॥९॥
तिमिरमिव नेत्रतिमिरं पटलमिवाशेषरोगपटलं नः ।
काशमिवाधिनिकायं कालपिता रोगयुक्ततां हरतात् ॥१०॥
वाताश्मरीगदार्शस्त्वग्दोषमहोदरप्रमेहांश्च । ग्रहणीभगन्धराख्या महतीस्त्वं मे रुजो हंसि ॥११॥
त्वं माता त्वं शरणं त्वं धाता त्वं धनं त्वमाचार्यः । त्वं त्राता त्वं हर्ता विपदामर्क प्रसीद मम भानो ॥१२॥
इत्यार्याद्वादशकं साम्बस्य पुरो नभःस्थलात् पतितम् ।
पठतां भाग्यसमृद्धिः समस्तरोगक्षयश्च स्यात् ॥१३॥
॥ इति श्रीसाम्बकृतद्वादशार्यासूर्यस्तुतिः सम्पूर्णा ॥
कश्यपकृत सूर्य स्तुति – मुद्गल पुराणोक्त
कश्यप उवाच नमस्ते जगदाधार आत्मने परमात्मने । सूर्याय त्रिविधायैव त्रिकालज्ञाय ते नमः ॥१॥
भेदाभेदविहीनाय नानाभेदधराय ते । अनाकाराय देवाय शाश्वताय नमो नमः ॥२॥
अमेयशक्तये तुभ्यं कर्माधाराय भानवे । सर्वकर्ममयायैव त्रिरूपाय नमो नमः ॥३॥
अमृताय सदा ब्रह्मनिष्ठाय त्वन्तरात्मने । अर्यम्णे रवये चैव हरिदश्वाय ते नमः ॥४॥
आदिमध्यान्तहीनाय तदाधाराय ते नमः । अनन्तविभवायैव तेजोराशे नमो नमः ॥५॥
दीननाथाय सर्वाय दिनानां पतये नमः । नमो हन्त्रे स्वभक्तानां पालकाय नमो नमः ॥६॥
भुक्तिमुक्तिप्रदायैव नानाखेलकराय च । नमो नमः परेशाय पुरुषाय दिवस्पते ॥७॥
एकस्मै चाद्वितीयाय मायाधाराय मायिने । संज्ञापते नमस्तुभ्यं रक्ष मां शरणागतम् ॥८॥
आत्माकारं च सर्वत्र किं स्तौमि त्वां दिवाकरम् । समर्था नाभवन् वेदा अतस्त्वां प्रणमामहे ॥९॥
देहि मे परमेशान भक्तिं ते चरणाम्बुजे । अन्यं वरं ययाचेऽहं त्वं मे पुत्रो भव प्रभो ॥१०॥
(फलश्रुतिः) सूर्य उवाच
एवं वदन्तमानन्दयुक्तं मुनिवरं द्विजाः । अवदं तं प्रसन्नोऽहं भावयुक्तं तपस्विनम् ॥११॥
तव पुत्रो भविष्यामि द्वादशादित्यरूपवान् । मदीया भक्तिरुग्रा ते भविष्यति महामुने ॥१२॥
यद्यदिच्छसि विप्रेन्द्र तत्तत्ते सफलं भवेत् । भवामि स्मरणेनाऽहं प्रत्यक्षस्ते पुरो मुने ॥१३॥
त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । भुक्तिं मुक्तिं प्रदास्यामि मुने स्तोत्रेण तोषितः ॥१४॥
एवमुक्त्वा वालखिल्याः सौरलोके गतोऽभवम् । अन्तर्धाय स्वमात्मानं सोऽपि सम्मुदितोऽभवत् ॥१५॥
॥ इति कश्यपकृता सूर्यस्तुतिः सम्पूर्णम् ॥
महाभारतोक्तं युधिष्ठिरविरचितं सूर्यस्तोत्रं
त्वं भानो जगतश्चक्षुस्त्वमात्मा सर्वदेहिनाम् ।
त्वं योनिः सर्वभूतानां त्वमाचारः क्रियावताम् ॥१॥
त्वं गतिः सर्वसाङ्ख्यानां योगिनां त्वं परायणम् ।
अनावृतार्गलद्वारं त्वं गतिस्त्वं मुमुक्षताम् ॥२॥
त्वया सन्धार्यते लोकस्त्वया लोकः प्रकाश्यते ।
त्वया पवित्रीक्रियते निर्व्याजं पाल्यते त्वया ॥३॥
त्वामुपस्थाय काले तु ब्राह्मणा वेदपारगाः ।
स्वशाखाविहितैर्मन्त्रैरर्चत्यृषिगणार्चित ॥४॥
तव दिव्यं रथं यान्तमनुयान्ति वरार्थिनः ।
सिद्धचारणगधर्वा यक्षगुह्यकपन्नगाः ॥५॥
त्रयस्त्रिंशच्च वै देवास्तथा वैमानिका गणाः ।
सोपेन्द्राः समहेन्द्राश्च त्वामिष्ट्वा सिद्धिमागताः ॥६॥
उपयान्त्यर्चयित्वा तु त्वां वै प्राप्तमनोरथाः ।
दिव्यमन्दारमालाभिस्तूर्णं विद्याधरोत्तमाः ॥७॥
गुह्याः पितृगणाः सप्त ये दिव्या ये च मानुषाः ।
ते पूजयित्वा त्वामेव गच्छन्त्याशु प्रधानताम् ॥८॥
वसवो मरुतो रुद्रा ये च साध्या मरीचिपाः ।
वालखिल्यादयः सिद्धाः श्रेष्ठत्वं प्राणिनां गताः ॥९॥
सब्रह्मकेषु लोकेषु सप्तस्वप्यखिलेषु च ।
न तद्भूतमहं मन्ये यदर्कादतिरिच्यते ॥१०॥
सन्ति चान्यानि सत्त्वानि वीर्यवन्ति महान्ति च ।
न तु तेषां तथा दीप्तिः प्रभवो वा यथा तव ॥११॥
ज्योतींषि त्वयि सर्वाणि त्वं सर्वज्योतिषां पतिः ।
त्वयि सत्यं च सत्त्वं च सर्वे भावाश्च सात्त्विकाः ॥१२॥
त्वत्तेजसा कृतं चक्रं सुनाभं विश्वकर्मणा ।
देवारीणां मदो येन नाशितः शार्ङ्गधन्वना ॥१३॥
त्वमादायांशुभिस्तेजो निदाघे सर्वदेहिनाम् ।
सर्वौषधिरसानां च पुनर्वर्षासु मुञ्चसि ॥१४॥
तपन्त्यन्ये दहन्त्यन्ये गर्जन्त्यन्ये यथा घनाः ।
विद्योतन्ते प्रवर्षन्ति तव प्रावृषि रश्मयः ॥१५॥
न तथा सुखयत्यग्निर्न प्रावारा न कम्बलाः ।
शीतवातार्दितं लोकं यथा तव मरीचयः ॥१६॥
त्रयोदशद्वीपवतीं गोभिर्भासयसे महीम् ।
त्रयाणामपि लोकानां हितायैकः प्रवर्तसे ॥१७॥
तव यद्युदयो न स्यादन्धं जगदिदं भवेत् ।
न च धर्मार्थकामेषु प्रवर्तेरन्मनीषिणः ॥१८॥
आधानपशुबन्धेष्टिमन्त्रयज्ञतपक्रियाः ।
त्वत्प्रसादादवाप्यन्ते ब्रह्मक्षत्रविशां गणैः ॥१९॥
यदहर्ब्रह्मणः प्रोक्तं सहस्रयुगसम्मितम् ।
तस्य त्वनादिरन्तश्च कालज्ञैः परिकीर्तितः ॥२०॥
मनूनां मनुपुत्राणां जगतोऽमानवस्य च ।
मन्वन्तराणां सर्वेषामीश्वराणां त्वमीश्वरः ॥२१॥
संहारकाले सम्प्राप्ते तव क्रोधविनिःसृतः ।
संवर्तकाग्निस्त्रैलोक्यं भस्मीकृत्यावतिष्ठते ॥२२॥
त्वद्दीधितिसमुत्पन्ना नानावर्णा महाधनाः ।
सैरावताः साशनयः कुर्वन्त्याभूतसम्प्लवम् ॥२३॥
कृत्वा द्वादशधात्मानं द्वादशादित्यतां गतः ।
संहृत्यैकार्णवं सर्वं त्वं शोषयसि रश्मिभिः ॥२४॥
त्वामिन्द्रमाहुस्त्वं रुद्रस्त्वं विष्णुस्त्वं प्रजापतिः ।
त्वमग्निस्त्वं मनः सूक्ष्मं प्रभुस्त्वं ब्रह्म शाश्वतम् ॥२५॥
त्वं हंसः सविता भानुरंशुमाली वृषाकपिः ।
विवस्वान्मिहिरः पूषा मित्रो धर्मस्तथैव च ॥२६॥
सहस्ररश्मिरादित्यस्तपनस्त्वं गवां पतिः ।
मार्तण्डोऽर्को रविः सूर्यः शरण्यो दिनकृत्तथा ॥२७॥
दिवाकरः सप्तसप्तिर्धामकेशी विरोचनः ।
आशुगामी तमोघ्नश्च हरिताश्वश्च कीर्त्यसे ॥२८॥
सप्तम्यामथवा षष्ट्यां भक्त्या पूजां करोति यः ।
अनिर्विण्णोऽनहङ्कारी तं लक्ष्मीर्भजते नरम् ॥२९॥
न तेषामापदः सन्ति नाधयो व्याधयस्तथा ।
ये तवानन्यमनसा कुर्वत्यर्चनवन्दनम् ॥३०॥
सर्वरोगैर्विरहिताः सर्वपापविवर्जिताः ।
त्वद्भावभक्ताः सुखिनो भवन्ति चिरजीविनः ॥३१॥
त्वं ममापन्नकामस्य सर्वातिथ्यं चिकीर्षतः ।
अन्नमन्नपते दातुममितः श्रद्धयार्हसि ॥३२॥
ये च तेऽनुचराः सर्वे पादोपान्तं समाश्रिताः ।
माठरारुणदण्डाद्यास्तांस्तान्वन्देऽशनिक्षुभान् ॥३३॥
क्षुभया सहितो मैत्री याश्चान्या भूतमातरः ।
ताश्च सर्वा नमस्यामि पान्तु मां शरणागतम् ॥३४॥
वैशम्पायन उवाच
एवं स्तुतो महाराज भास्करो लोकभावनः ।
ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम् ॥३५॥
दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः ।
विवस्वानुवाच यत्तेऽभिलषितं किञ्चित्तत्त्वं सर्वमवाप्स्यसि ॥३६॥
अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः ।
गृह्णीष्व पिठरं ताम्रं मया दत्तं नराधिप ॥३७॥
यावद्वर्त्स्यति पाञ्चाली पात्रेणानेन सुव्रत ।
फलमूलामिषं शाकं संस्कृतं यन्महानसे ॥३८॥
चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति ।
इतश्चतुर्दशे वर्षे भूयो राज्यमवाप्स्यसि ॥३९॥
वैशम्पायन उवाच
एवमुक्त्वा तु भगवांस्तत्रैवान्तरधीयत ।
इमं स्तवं प्रयतमनाः समाधिना पठेदिहान्योऽपि वरं समर्थयन् ॥४०॥
तत्तस्य दद्याच्च रबिर्मनीषितं तदाप्नुयाद्यद्यपि तत्सुदुर्लभम् ।
यश्चेदं धारयेन्नित्यं शृणुयाद्वाप्यभीक्ष्णशः ॥ ४१॥
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ।
विद्यार्थी लभते ब्रिद्या पुरुषोऽप्यथवा स्त्रियः ॥४२॥
उभे सन्ध्ये जपेन्नित्यं नारी वा पुरुषो यदि ।
आपदं प्राप्य मुच्येत बद्धो मुच्येत बन्धनात् ॥४३॥
॥ इति श्रीमहाभारतोक्तं युधिष्ठिरविरचितं सूर्यस्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।