विभिन्न पुराणादि में भगवान वामन के अनेकानेक स्तोत्र मिलते हैं जिनमें से कुछ महत्वपूर्ण स्तोत्रों का यहाँ संग्रह किया गया है; यथा : नारद पुराणोक्त, पद्मपुराणोक्त, भागवत महापुराणोक्त और वामन पुराणोक्त। इस प्रकार चार वामन स्तोत्र (vaman stotra) का संग्रह होने से यह विशेष महत्वपूर्ण हो जाता है और वामन उपासना काल में एक साथ चारों स्तोत्रों का अवलोकन संभव होता है।
वामन स्तोत्र संस्कृत में – vaman stotra
बलिरुवाच
अद्य मे सफलं जन्म अद्य मे सफलो मखः ।
जीवितं सफलं मेऽद्य कृतार्थोऽस्मि न संशयः ॥
अमोघामृतवृष्टिर्मे समायातातिदुर्लभा ।
त्वदागमनमात्रेण ह्यनायासो महोत्सवः ॥
एते च ऋषयः सर्वे कृतार्था नात्र संशयः ।
यैः पूर्वं हि तपस्तप्तं तदद्य सफलं प्रभो ॥
कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः ।
तस्मात्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥
त्वदाज्ञया त्वन्नियोगं साधयामीति मन्मनः ।
अत्युत्साहसमायुक्तं समाज्ञापय मां प्रभो ॥
॥ इति नारदपुराणे पूर्वभागे एकादशाध्यायान्तर्गतं बलिकृतं वामनस्तोत्रं सम्पूर्णं ॥
पद्मपुराणोक्त वामन स्तोत्र
अदितिरुवाच
नमस्ते देवदेवेश सर्वव्यापिन् जनार्दन ।
सत्त्वादिगुणभेदेन लोकव्यापारकारिणे ॥१॥
नमस्ते बहुरूपाय अरूपाय नमो नमः ।
सर्वैकाद्भुतरूपाय निर्गुणाय गुणात्मने ॥२॥
नमस्ते लोकनाथाय परमज्ञानरूपिणे ।
सद्भक्तजनवात्सल्यशीलिने मङ्गलात्मने ॥३॥
यस्यावताररूपाणि ह्यर्जयन्ति मुनीश्वराः ।
तमादिपुरुषं देवं नमामीष्टार्थसिद्धये ॥४॥
यं न जानन्ति श्रुतयो यं न जानन्ति सूरयः ।
तं नमामि जगद्धेतुं मायिनं तममायिनम् ॥५॥
यस्यावलोकनं चित्रं मायोपद्रववारणम् ।
जगद्रूपं जगत्पालं तं वन्दे पद्मजाधवम् ॥६॥
यो देवस्त्यक्तसङ्गानां शान्तानां करुणार्णवः ।
करोति ह्यात्मना सङ्गं तं वन्दे सङ्गवर्जितम् ॥७॥
यत्पादाब्जजलक्लिन्नसेवारञ्जितमस्तकाः ।
अवापुः परमां सिद्धिं तं वन्दे सर्ववन्दितम् ॥८॥
यज्ञेश्वरं यज्ञभुजं यज्ञकर्मसु निष्ठितम् ।
नमामि यज्ञफलदं यज्ञकर्मप्रबोधकम् ॥९॥
अजामिलोऽपि पापात्मा यन्नामोच्चारणादनु ।
प्राप्तवान्परमं धाम तं वन्दे लोकसाक्षिणम् ॥१०॥
ब्रह्माद्या अपि ये देवा यन्मायापाशयन्त्रिताः ।
न जानन्ति परं भावं तं वन्दे सर्वनायकम् ॥११॥
हृत्पद्मनिलयोऽज्ञानां दूरस्थ इव भाति यः ।
प्रमाणातीतसद्भावं तं वन्दे ज्ञानसाक्षिणम् ॥१२॥
यन्मुखाद्ब्राह्मणो जातो बाहुभ्यः क्षत्रियोऽजनि ।
तथैव ऊरुतो वैश्यः पद्भ्यां शूद्रो अजायत ॥१३॥
मनसश्चन्द्रमा जातो जातः सूर्यश्च चक्षुषः ।
मुखादिन्द्रस्तथाग्निश्च प्राणाद्वायुरजायत ॥१४॥
त्वमिन्द्रः पवनः सोमस्त्वमीशानस्त्वमन्तकः ।
त्वमग्निर्निरृतिश्चैव वरुणस्त्वं दिवाकरः ॥१५॥
देवाश्च स्थावराश्चैव पिशाचाश्चैव राक्षसाः ।
गिरयः सिद्धगन्धर्वा नद्यो भूमिश्च सागराः ॥१६॥
त्वमेव जगतामीशो यन्नामास्ति परात्परः ।
त्वद्रूपमखिलं तस्मात्पुत्रान्मे पाहि श्रीहरे ॥१७॥
इति स्तुत्वा देवधात्री देवं नत्वा पुनः पुनः ।
उवाच प्राञ्जलिर्भूत्वा हर्षाश्रुक्षालितस्तनी ॥१८॥
अनुग्राह्याऽस्मि देवेश हरे सर्वादिकारण ।
अकण्टकश्रियं देहि मत्सुतानां दिवौकसाम् ॥१९॥
अन्तर्यामिन् जगद्रूप सर्वभूतपरेश्वर ।
तवाज्ञातं किमस्तीह किं मां मोहयसि प्रभो ॥२०॥
तथापि तव वक्ष्यामि यन्मे मनसि वर्तते ।
वृथापुत्रास्मिदेवेश रक्षोभिः परिपीडिता ॥२१॥
एतान्न हन्तुमिच्छामि मत्सुता दितिजातयः ।
तानहत्वा श्रियं देहि मत्सुतानामुवाच सा ॥२२॥
इत्युक्तो देवदेवस्तु पुनः प्रीतिमुपागतः ।
उवाच हर्षयन्साध्वीं कृपयाऽभिपरिप्लुतः ॥२३॥
श्रीभगवानुवाच
प्रीतोऽस्मि देवि भद्रं ते भविष्यामि सुतस्तव ।
यतः सपत्नीतनयेष्वपि वात्सल्यशालिनी ॥२४॥
त्वया च मे कृतं स्तोत्रं पठन्ति भुवि मानवाः ।
तेषां पुत्रा धनं सम्पन्न हीयन्ते कदाचन ॥२५॥
अन्ते मत्पदमाप्नोति यद्विष्णोः परमं शुभम् ॥२६॥
॥ इति श्रीपद्मपुराणान्तर्गतं वामनस्तोत्रं सम्पूर्णं ॥
भागवत महापुराणोक्त वामन स्तोत्र
श्रीअदितिरुवाच
यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद तीर्थश्रवः श्रवणमङ्गलनामधेय ।
आपन्नलोकवृजिनोपशमोदयाऽऽद्य शं नः कृधीश भगवन्नसि दीननाथः ॥१॥
विश्वाय विश्वभवनस्थितिसंयमाय स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने ।
स्वस्थाय शश्वदुपबृंहितपूर्णबोधव्यापादितात्मतमसे हरये नमस्ते ॥२॥
आयुः परं वपुरभीष्टमतुल्यलक्ष्मीर्द्यौभूरसाः सकलयोगगुणास्त्रिवर्गः ।
ज्ञानं च केवलमनन्त भवन्ति तुष्टात्त्वत्तो नृणां किमु सपत्नजयादिराशीः ॥३॥
॥ इति श्रीमद्भागवतपुराणान्तर्गतं वामनस्तोत्रं सम्पूर्णम् ॥
वामन पुराणोक्त वामन स्तोत्र
ब्रह्मोवाच
जयाधीश जयाजेय जय विश्वगुरो हरे ।
जन्ममृत्युजरातीत जयानन्त जयाच्युत ॥
जयाजित जयाशेष जयाव्यक्तस्थिते जय ।
परमार्थार्थ सर्वज्ञ ज्ञानज्ञेयार्थनिःसृत ॥
जयाशेष जगत्साक्षिञ्जगत्कर्तर्जगद्गुरो ।
जगतोऽजगदन्तेश स्थितौ पालयते जय ॥
जयाखिल जयाशेष जय सर्वहृदिस्थित ।
जयादिमध्यान्तमय सर्वज्ञानमयोत्तम ॥
मुमुक्षुभिरनिर्देश्य नित्यहृष्ट जयेश्वर ।
योगिभिर्मुक्तिकामैस्तु दमादिगुणभूषण ॥
जयातिसूक्ष्म दुर्ज्ञेय जय स्थूल जगन्मय ।
जय सूक्ष्मातिसूक्ष्म त्वं जयानिन्द्रिय सेन्द्रिय ॥
जय स्वमायायोगस्थ शेषभोग जयाक्षर ।
जयैकदंष्ट्रप्रान्तेन समुद्धृतवसुन्धर ॥
नृकेसरिन् सुरारातिवक्षःस्थलविदारण ।
साम्प्रतं जय विश्वात्मन् मायावामन केशव ॥
निजमायापरिच्छिन्न जगद्धातर्जनार्दन ।
जयाचिन्त्य जयानेकस्वरूपैकविध प्रभो ॥
वर्द्धस्व वर्धितानेकविकारप्रकृते हरे ।
त्वय्येषा जगतामीशे संस्थिता धर्मपद्धतिः ॥
न त्वामहं न चेशानो नेन्द्राद्यास्त्रिदशा हरे ।
ज्ञातुमीशा न मुनयः सनकाद्या न योगिनः ॥
त्वं मायापटसंवीतो जगत्यत्र जगत्पते ।
कस्त्वां वेत्स्यति सर्वेश त्वत्प्रसादं विना नरः ॥
त्वमेवाराधितो यस्य प्रसादसुमुखः प्रभो ।
स एव केवलं देवं वेत्ति त्वां नेतरो जनः ॥
तदीश्वरेश्वरेशान विभो वर्द्धस्व भावन ।
प्रभवायास्य विश्वस्य विश्वात्मन् पृथुलोचन ॥
॥ इति वामनपुराणे त्रिंशत्तमाध्यायान्तर्गतं ब्रह्मणा कृतं वामनस्तोत्रं सम्पूर्णं ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।