सभी देवताओं द्वारा समय-समय पर भगवान शिव का स्तवन किया गया है जो विभिन्न पुराणों में मिलते हैं। सर्वाधिक शिव स्तुति शिवरहस्य में मिलता है, शिव रहस्य भगवान शिव की उपासना में बहुत ही उपयोगी ग्रन्थ है। इस प्रकार विभिन्न पुराणों और शिवरहस्य आदि में वर्णित प्रमुख शिव स्तवन का यहां संग्रह किया गया है। यहां 11 महत्वपूर्ण शिव स्तवन स्तोत्र (shiv stavan) संस्कृत में दिया गया है।
यहां पढ़ें महत्वपूर्ण शिव स्तवन संस्कृत में – shiv stavan
भगवान शिव के स्तोत्रों में शिव स्तवराज स्तोत्र का बहुत ही उत्तम स्थान है और इसमें अनेकों प्रकार के फल भी बताये गए हैं। यह स्तोत्र पापों का क्षय करता है, सायुज्य मुक्ति प्रदायक है, सभी प्रकार के रोगों का हरण करने वाला है। शिव स्तवराज स्तोत्र पाठ पूर्वक शिव की उपासना करने वालों के करोड़ों जन्मों के पापों का नाश हो जाता है।
पद्मपुराणोक्त शिव स्तवराज स्तोत्र
सूत उवाच
एकदा नारदो योगी परानुग्रहतत्परः ।
विमत्सरो वीतरागो ब्रह्मलोकमुपाययौ ॥१॥
तत्र दृष्ट्वा समासीनं विधातारं जगत्पतिम् ।
प्रणम्य शिरसा भूमौ कृताञ्जलिरभाषत ॥२॥
नारद उवाच
ब्रह्मञ्जगत्पते तात नतोऽस्मि त्वत्पदाम्बुजम् ।
कृपया परया देव यत्पृछामि तदुच्यताम् ॥३॥
श्रुतिशास्त्रपुराणानि त्वदास्यात्संश्रुतानि च ।
तथापि मन्मनो याति सन्देहं मोहकारणम् ॥४॥
सर्वमन्त्राधिको मन्त्रः सदा जाप्यः क उच्यते ।
सर्वध्यानादिकं ध्यानं सदा ध्येयमिहास्ति किम् ॥५॥
वेदोपनिषदां सारमायुःश्रीजयवर्धनम् ।
मुक्तिकाङ्क्षापरैर्नित्यं कः स्तवः पठ्यते बुधैः ॥६॥
इमं मत्संशयं तात स्वं भेत्तासि न कश्चन ।
ब्रूहि कारुणयभावेन मह्यं शुश्रूषवे हितम् ॥७॥
श्रुत्वाऽङ्गजवचो वेधा हृदि हर्षमुपागतः ।
देवदेवं शिवाकान्तं नत्वा चाह मुनीश्वरम् ॥८॥
ब्रह्मोवाच
साधु पृष्टं महाप्राज्ञ लोकानुग्रहतत्पर ।
सत्सर्वं ते प्रवक्ष्यामि गोपनीयं प्रयत्नतः ॥९॥
प्रणवं पूर्वमुच्चार्य नमः शब्दं समुच्चरेत् ।
सचतुर्थ्यैकवचनं शिवं चैव समुच्चरेत् ॥१०॥
एष शैवो महामन्त्रः षड्वर्णाख्यो विमुक्तिदः ।
सर्वमन्त्राधिकः प्रोक्तः शिवेन ज्ञानरूपिणा ॥११॥
अनेन मन्त्रराजेन नाशयितुं न शक्यते ।
तच्च पापं न पश्यामि मार्गमाणोऽपि सर्वदा ॥१२॥
अयं संसारदावाग्निर्मोहसागरवाडवः ।
तस्मात्प्रयत्नतः पुत्र मन्त्रो ग्राह्यो मुमुक्षुभिः ॥१३॥
मातृपुत्रादिहा योऽपि वेदधर्मविवर्जितः ।
सकृदुच्चारणादस्य सायुज्यमुक्तिमाप्नुयात् ॥१४॥
किं पुनर्वक्ष्यते पुत्र स्वाचारपर्रिनिष्ठितः ।
सर्वमन्त्रान्विसृज्य त्वमिमं मन्त्रं सदा जप ॥१५॥
ध्यानं तेऽहं प्रवक्ष्यामि ज्ञात्वा यन्मुच्यते चिरात् ।
वेदोपनिषदोक्तं च योगगम्यं सनातनम् ॥१६॥
इन्द्रियाणि नियम्यादौ यतवाग्यतमानसः ।
स्वस्तिकाद्यासनयुतो हृदि ध्यानं समारभेत् ॥१७॥
नाभिनालं हृदिस्थं च पङ्कजं परिकल्पयेत् ।
रक्तवर्णमष्टदलं चन्त्रसूर्यादिशोभितम् ॥१८॥
समन्तात्कल्पवृक्षेण वेष्टितं कान्तिमत्सदा ।
तन्मध्ये शङ्करं ध्यायेद्देवदैवं जगद्गुरुम् ॥१९॥
कर्पूरसदृशं चन्दशेखरं शूलपाणिनम् ।
त्रिलोचन महादेवं द्विभुजं भस्मभूषितम् ॥२०॥
परार्धभूषणयुतं क्वणन्नूपुरमण्डितम् ।
सरत्नमेखलाबद्धकटिवस्त्रं सकुण्डलम् ॥२१॥
नीलकण्ठं जटावन्तं सकिरीटं सुशोभितम् ।
ग्रैवेयादिप्रबन्धढ्यं पार्वतीसहितं पुरम् ॥२२॥
कृपालुं जगदाधारं स्कन्दादिपरिवेष्टितम् ।
इन्द्रेण पूजितं यक्षराजेन व्यञ्जितं विभुम् ॥२३॥
प्रेतराजस्तुतं नीरनाथेन नमितं मुहुः ।
ब्रह्मणा गीयमानं च विष्णुवन्द्यं मुनिस्तुतम् ॥२४॥
ध्यानमेतन्मया ख्यातं सूत वेदान्तशेखरम् ।
सर्वपापक्षयकरं जयसम्पत्तिवर्धनम् ॥२५॥
अनेन सदृशं तात नास्ति संसारतारकम् ।
सर्वध्यानादिकं ध्यानं गोपनीयं सुत त्वया ॥२६॥
कायवाङ्मानसोत्थं यत्पापमन्यच्च विद्यते ।
तत्सर्वं नाशमायाति ध्यानात्सत्यं वचो मम ॥२७॥
वेदशास्त्रपुराणानि सेतिहासानि यानि च ।
ध्यानस्य तानि सर्वाणि कलां नार्हन्ति षोडशीम् ॥२८॥
प्रेम्णा कुरु महाभाग ध्यानमेतद्विमुक्तिदम् ।
अथ ते वच्म्यहं योगिन् स्तवं सर्वोत्तमं च यत् ॥२९॥
ब्रह्मास्यैव ऋषिः प्रोक्तोऽनुष्टुप् छन्दः प्रकीर्तितम् ।
शिवो वै दैवतं प्रोक्तं बीजं मृत्युञ्जयं मतम् ॥३०॥
कीलिकं नीलकण्ठश्च शक्तिः प्रोक्ता हरस्तथा ।
नियोगः सर्वसिद्ध्यर्थं मुक्तिकामाय वै मतः ॥३१॥
शिरस्यास्ये हृदि पदे कट्यां बाह्वोस्तु व्यापके ।
ऋषयदीनि क्रमाद्युञ्जेत्साङ्गुष्टाङ्गुलिभिः सुत ॥३२॥
मन्त्रन्यासं ततः कुर्याच्छ्रुणु चैकाग्रमानस्वः ।
षडक्षराणि युञ्जीयादङ्गुष्ठाद्यङ्गुलीषु च ॥३३॥
हृदये च शिरस्येव शिखायां कवचे यथा ।
नेत्रत्रये तथाऽस्त्रे च वर्णा ह्येवं च षट क्रमात् ॥३४॥
नमः स्वाहा वषट् हुं च सर्वौषट् फट्क्रमो वदेत् ।
मन्त्रन्यासमिमं कृत्वा स्तवन्यामं सामाचरेत् ॥३५॥
शिवं मृडं पशुपतिं शङ्करं चन्द्रशेखरम् ।
भवं चैव क्रमादेवमङ्गुष्टादिहृदादिषु ॥३६॥
सर्वन्यासान्प्रयुञ्जीत चतुर्थीसहितान्सुत ।
नमोयुतान्नमश्चैव शिरसादिषु वर्जयेत् ॥३७॥
शिवं सर्वात्मकं सर्वपतिं सर्वजनप्रियम् ।
सर्वदुःखहरं चैव मोहनं गिरिशं भजे ॥३८॥
कामघ्नं कामदं कान्तं कालमृत्युनिवर्तकम् ।
कलावन्तं कलाधीशं वन्देऽहं गिरिजापतिम् ॥३९॥
परेशं परमं देवं परम्ब्रह्म परात्परम् ।
परपीडाहरं नित्यं प्रणमामि वृषध्वजम् ॥४०॥
लोकेशं लोकवन्द्यं च लोककर्तारमीश्वरम् ।
लोकपालं हरं वन्दे धीरं शशिविभूषणम् ॥४१॥
शिवापतिं गिरिपतिं सर्वदेवपतिं विभुम् ।
प्रमथाधिपतिं सूक्ष्मं नौम्यहं शिखिलोचनम् ॥४२॥
भूतेशं भूतनाथं च भूतप्रेतविनाशनम् ।
भूधर भूपतिं शान्तं शूलपाणिमहं भजे ॥४३॥
कैलासवासिनं रौद्रं फणिराजविभूषणम् ।
फणिबद्धजटाजूटं प्रणमामि सदाशिवम् ॥४४॥
नीलकण्ठं दशभुजं त्र्यक्षं धूम्रविलोचनम् ।
दिगम्बरं दिशाधीशं नमामि विषभूषणम् ॥४५॥
मुक्तीशं मुक्तिदं मुक्तं मुक्तगम्यं सनातनम् ।
सत्पतिं निर्मलं शम्भुं नतोऽस्मि सकलार्थदम् ॥४६॥
विश्वेशं विश्वनाथं च विश्वपालनतत्परम् ।
विश्वमूर्तिं विश्वहरं प्रणमामि जटाधरम् ॥४७॥
गङ्गाधरं कपालाक्षं पञ्चवक्त्रं त्रिलोचनम् ।
विद्युत्कोटिप्रतीकाशं वन्दऽहं पार्वतापतिम् ॥४८॥
स्फटिकाभं जनार्तिघ्नं देवदेवमुमापतिम् ।
त्रिपुरारिं त्रिलोकेशं नतोऽस्मि भवतारकम् ॥४९॥
अव्यक्तमक्षरं दान्तं मोहसागरतारकम् ।
स्तुतिप्रीयं भक्तिगम्यं सदा वन्दे हरिप्रियम् ॥५०॥
अमलं निर्मलं नाथमपमृत्युभयापहम् ।
भीमयुद्धकरं भीमवरदं तं नतोऽस्म्यहम् ॥५१॥
हरिचक्रप्रदं योगिध्येयमूर्तिं सुमङ्गलम् ।
गजचर्माम्बरधरं प्रणमामि विभूतिदम् ॥५२॥
आनन्दकारिणं सोम्यं सुन्दरं भुवनेश्वरम् ।
काशीप्रियं काशिराजं वरदं प्रणतोऽस्म्यहम् ॥५३॥
श्मशानवसिनं भव्यं ग्रहपीडाविनाशनम् ।
महान्तं प्रणवं योगं भजेऽहं दीनरक्षकम् ॥५४॥
ज्योतिर्मयं ज्योतिरूपं जितक्रोधं तपस्विनम् ।
अनन्तं स्वर्गदं स्वर्गपालं वन्दे निरञ्जनम् ॥५५॥
वेदवेद्यं पापहरं गुप्तनाथमतीन्द्रियम् ।
सत्यात्मकं सत्यहरं निरीहं तं नतोऽस्म्यहम् ॥५६॥
द्वीपिचर्मोत्तरीयं च शवमूर्धाविभूषणम् ।
अस्थिमालं श्वेतवर्णं नमामि चन्द्रशेखरम् ॥५७॥
शूलिनं सर्वभूतस्थं भक्तोद्धरणसंस्थितम् ।
लिङ्गमूर्ति सिद्धसेव्यं सिद्धसिद्धिप्रदायकम् ॥५८॥
अनादिनिधनाख्यं तं रामसेव्यं जयप्रदम् ।
योधादिं यज्ञभोक्तारं वन्दे नित्यं परावरम् ॥५९॥
अचिन्त्यमचलं विष्णुं महाभागवतोत्तमम् ।
परघ्नं परवेद्यं च वन्दे वैकुण्ठनायकम् ॥६०॥
आनन्दं निर्भयं भक्तवाञ्च्छितार्थप्रदायकम् ।
भवानीपतिमाचार्यं वन्देऽहं नन्दिकेश्वरम् ॥६१॥
सोमप्रियं सोमनाथं यक्षराजनिषेवितम् ।
सर्वाधारं सुविस्तारं प्रणमामि विभूतिदम् ॥६२॥
अनन्तनामानमनन्तरूपमनादिमध्यान्तमनादिसत्वम् ।
चिद्रूपमेकं भवनागसिंहं भजामि नित्यं भुवनाधिनाथम् ॥६३॥
वेदोपगीतं विधुशेखरं च सुरारिनाथार्चितपादपद्मम् ।
कर्पूरगौरं भुजगेन्द्रहारं जानामि तत्त्वं शिवमेव नान्यम् ॥६४॥
गणाधिणाथं शितिकण्ठमाद्यं तेजस्विनं सर्वमनोभिरामम् ।
सर्वज्ञमीशं जगदात्मकं च पञ्चाननं नित्यमहं नमामि ॥६५॥
विश्वसृजं नृत्यकरं प्रियं तं विश्वात्मकं विश्वविधूतपापम् ।
मृत्युञ्जयं भालविलोचनं च चेतः सदा चिन्तय देवदेवम् ॥६६॥
कपालिनं सर्पकृतावतंसं मनोवचोगोचरमम्बुजाक्षम् ।
क्षमाम्बुधिं दीनदयाकरं तं नमामि नित्यं भवरोगवैद्यम् ॥६७॥
सर्वान्तरस्थं जगदादिहेतुं कालज्ञमात्मानमनन्तपादम् ।
अनन्तबाहूदरमस्तक्राक्षं ललाटनेत्रं भज चन्द्रमौलिम् ॥६८॥
सर्वप्रदं भक्तसुखावहं च पुष्पायुधादिप्रणतिप्रियं च ।
त्रिलोकनाथं ऋणबन्धनाशं भजस्व नित्यं प्रणतार्तिनाशम् ॥६९॥
आनन्दमूर्ति सुखकल्पवृक्षं कुमारनाथं विधृतप्रपञ्चम् ।
यज्ञादिनाथं परमप्रकाशं नमामि विश्वम्भरमीशितारम् ॥७०॥
इत्येवं स्तवमाख्यातं शिवस्य परमात्मनः ।
पापक्षयकरं पुत्र सायुज्यमुक्तिदायकम् ॥७१॥
सर्वरोगहरं मोक्षप्रदं सिद्धिप्रदायकम् ।
माङ्गल्यं भुक्तिमुक्त्यादिसाधनं जयवर्धनम् ॥७२॥
सर्वस्तवोत्तमं विद्धि सर्ववेदान्तशेखरम् ।
पठस्वानुदिनं तात प्रेम्णा भक्त्या विशुद्धिकृत् ॥७३॥
गोहा स्त्रीबालविप्रादिहन्तान्यत्पापकृत्तथा ।
विश्वासघातचारी च खाद्यपेयादिदूषक्रः ॥७४॥
कोटिजन्मार्जितैः पापैरसंख्यातैश्च वेष्टितः ।
अष्टोत्तरशतात्पाठात् शुद्धो भवति निश्चितम् ॥७५॥
महारोगयुतो वापि मृत्युग्रहयुतस्तथा ।
त्रिंशत्तदस्य पठनात्सर्वदुःखं विनश्यति ॥७६॥
राजवश्ये सहस्रं तु स्त्रीवश्ये च तदर्धकम् ।
मित्रवश्ये पञ्चशतं पाठं कुर्यात्समाहितः ॥७७॥
लक्षपाठाद्भवेच्चैव शिव एव न संशयः ।
बहुना किमिहोक्तेन भावनासिद्धिदायकः ॥७८॥
पार्वत्या सहितं गिरीन्द्रशिखरे मुक्तामये सुन्दरे
पीठे संस्थिनमिन्दुशेखरमहर्नाथादिसंसेवितम् ।
पञ्चास्यं फणिराजकङ्कणधरं गङ्गाधरं शूलिनं
त्र्यक्षं पापहरं नमामि सततं पद्मासनस्थं शिवम् ॥७९॥
॥ इति श्रीपद्मपुराणे ब्रह्मनारदसंवादे शिवस्तवराजः सम्पूर्णः ॥
शिवरहस्योक्त विघ्नेश्वर कृत शिवस्तवन
भवत्पदाम्भोजविलोकनाय पुनः पुनश्चित्तमिदं प्रवृत्तम् ।
नान्यत्र गन्तुं यतते महेश त्वमेव माता च पिता त्वमेव ॥१॥
यत्पादपद्मभ्रमरत्वमेतत् मनोऽभिवाञ्छत्यतिलालसं च ।
किमुत्तमं वस्तु विहाय याति पवित्रवृत्तिः सुखवृद्धिकामः ॥२॥
यन्न श्रुतं वेदवचः प्रपन्नं विचारविस्तारपरैरपारैः ।
तदद्य दृष्ट्वाऽपि विहाय याति चित्तं तपलब्धमिदं कथं वा ॥३॥
अतः परं ते मयि सत्कृपा चेत् नयामि कालं खलु कालकाल ।
त्वत्पादुकाराधनसेवनाभ्यामन्यत्र तावन्न रुचिर्ममाद्य ॥४॥
अम्बा समायास्यति चेदिदानीं त्वत्पादपद्मार्चनविघ्न एव ।
नूनं तदभ्यागमनं तदानीमविघ्नितं तत्त्वत्पदपूजनेन ॥५॥
योषा जारमिव प्रिया प्रियतमं त्वत्पादपद्मं ममा-
प्यालिङ्ग्याद्य मम प्रयाति न कथं स्वाभीष्टसिद्धिं विना ।
त्यक्तुं वाञ्च्छति जारमप्यतिधनं तद्वन्मनो मे प्रभो
मच्चित्तभ्रमरो जहाति न भवत्पादाम्बुजं शङ्कर ॥६॥
अनन्तजनिसञ्चितैरमितपुण्यपूर्णार्णवैः
इदं शिवपदाम्बुजं नयनगोचरं जायते ।
जगज्जनक शङ्कर त्रिदशनायकाव
प्रभो भवत्पदसरोरुहभ्रमर एव चित्तं मम ॥७॥
भवन्तु बहवः सुराः त्रिपुरसूदनाराधकाः
परन्तु न सुरैरिदं तव पदाम्बुजं दृश्यते ।
अपारगुणसागर प्रमथवीर गौरीपते
चिरं मम मनः पदे तव विहारमन्विच्छति ॥८॥
अलं विमलयोगिहृत्कमलमध्यवासैश्चिरं
शिवाङ्घ्रिकमलाधुना शरणदाऽग्रगण्यादरात् ।
वसस्व मम मानसे कुगतिभूरिभारालसे
विचारगिरिगह्वरप्रकरभूतभूसाध्वसे ॥९॥
अनाथशरणागतासुरसुरैकरक्षामणे
त्रियम्बक सदाशिव त्रिपुरमर्दनाऽऽशाम्बर ।
कृपासुरससागर स्मरहरान्धकारे हर
प्रसीद भगवन्प्रभो भव भवाब्धिसंशोषक ॥१०॥
यदि त्रिनयनाधुना तव पदाम्बुजं त्यज्यते
मदीयमपि मानसभ्रमरमद्य सम्मूर्छितम् ।
क्षणेन हतमेव वा विगतजीवनं मन्महे
न जीवनविवर्जितं क्वचन जीवजातं प्रभो ॥११॥
शिवैकशरणस्य मे शरणमन्यदस्तीति किं
भ्रमोऽपि भवति प्रभो शिवपदाम्बुजाराधनम् ।
निधानमिति मे मतिः तदितरं निधानं न मे
तदेव निधनेऽपि मे धनमनन्यलभ्यं धनम् ॥१२॥
महेश्वर कदापि वा न च जिहास्यमास्या-
न्तरस्थितान्नमतिनिर्मलं शिवनिवेदितं सादरम् ।
अमूल्यसितशर्करामधुरमेव मीशाधुना
भवत्पदमरोरुहं न मम मानसं त्यक्ष्यति ॥१३॥
क्षणार्धमपि वा मनः स्मरहराङ्घ्रिपङ्केरुह
प्रभूतमकरन्दजप्रमुधारया धीरया ।
सुधामपि विहाय तां विहर सादरं क्वादरः
तवापि मम वा मनः शरणमिन्दुमौलिं व्रज ॥१४॥
व्रज व्रज निरन्तरं व्रज महेशपादाम्बुजं
भजाभयदमन्वहं भज भजाधुना वा भज ।
कथं न भजने रतिः शिवपदाम्बुजस्यान्यथा
ज्वलज्ज्वलनतेजसा ज्वलतु ते स्वरूपं मुहुः ॥१५॥
निधानमिदमेव मे सुकृतसिन्धुसङ्घार्जितं
ममाद्य निधयो नव त्रिपुरवैरिपादाम्बुजम् ।
इदं खलु सुदुर्लभं न निधयस्तथा दुर्लभाः
किमन्यदपि वाञ्छितं मम शिवाङ्घ्रिपद्मं विना ॥१६॥
प्रयाति मरणे धनं न निधयः प्रयान्त्येव किं
प्रयान्ति पशवः प्रियाः प्रियतमाः प्रयान्त्येव ताः ।
तदन्यदपि याति तत् हितसुपुत्रमित्रादिकं
न याति सुकृतं परं पशुपतिप्रसादार्जितम् ॥१७॥
न सातिशयमीदृशं पशुपतिप्रसादं विदुः
स्मरारिचरणार्चनादधिकमस्ति किं वा फलम् ।
श्रुतिश्रुतमनेकधा शिवपदाम्बुजाराधनं
प्रधानधनमित्यपि प्रथितमेव वेदेष्वपि ॥१८॥
निरन्तरमुमापतिस्मरणकारणं दुर्लभं
तपः फलमिदं मतं शिवपदाम्बुजानुग्रहात् ।
किमन्यदधिकं फलं शिव शपामि पादाम्बुजे
किमस्ति भुवनत्रयेऽप्यधिकमेतदन्यत् तव ॥१९॥
यदङ्घ्रिकमलार्चनं जगति दुर्लभं देहिनां
सुरासुरमुनीश्वरप्रवरखाञ्छितं तत्परम् ।
तदेव पुनरीप्सितं मम पुनस्तदेवेप्सितं
तदेव पुनरीप्सितं मम पुनस्तदेवेप्सितम् ॥२०॥
इदं शिवपदाम्बुजं यदि विहाय मोहान्मुहुः
प्रयाति मदनान्तकस्मरणहीनमेतन्मनः ।
प्रणश्यतु न तेन मे गिरिश कृत्यमस्ति प्रभो
न चाहितमिहेप्सितं भवति याति सङ्ग्राह्यताम् ॥२१॥
परात्परसरामरप्रवरशङ्कराधीरितां
हराऽऽदरवशान्मम त्वमसि मे गतिः सर्वथा ।
अनन्यशरणं कथं हर विहातुमिच्छा तव
प्रचोदय धियः प्रियाः सदय भर्ग नस्ते पदे ॥ २२॥
॥ इति शिवरहस्यान्तर्गते विघ्नेश्वरविरचितं शिवस्तवः सम्पूर्णः ॥
मुद्गलपुराणोक्त शिवस्तवः
ब्रह्माविष्णू ऊचतुः
नमस्ते शङ्करायैव नमस्ते शूलपाणये ।
रुद्राय कालरूपाय त्र्यम्बकाय नमो नमः ॥
उमापते नमस्तुभ्यं वृषभेश्वरवाहन ।
आदिदेवाय देवाय महादेवाय ते नमः ॥
प्रसीद भगवन् शम्भो नान्तं पश्यावहे विभो ।
किंरूपं किंस्वभावं त्वां न जानीवः कथञ्चन ॥
दर्शय स्वात्मरूपं भो महेश्वर नमोऽस्तु ते ।
येन ते भजनं देव जनाः कुर्वन्ति निर्भयाः ॥
तयोर्वचनमाकर्ण्य शम्भुः प्राकट्यमास्थितः ।
ततस्तं तौ ददृशतुर्हरिश्च भगवान् विधिः ॥
वामभागे स्थितं विष्णुं दक्षिणाङ्गे पितामहम् ।
विश्वं चराचरं सर्वं लिङ्गं तत्रास्य संस्थितम् ॥
अपारमहिमानं तं दृष्ट्वा नेमतुरादरात् ।
उपसंहर रूपं तत्त्वमेव परमेश्वरः ॥
तयोर्वचनमाकर्ण्य हृष्टः सन् शङ्करः प्रभुः ।
भगवान् पूर्वरूपेण सन्तस्थौ वृषभध्वजः ॥
उवाच तौ महादेवो वृणुतं वरमीप्सितम् ।
दास्यामि भवतोर्भावात् स्तोत्रसन्तुष्टमानसः ॥
य एतत्पठति स्तोत्रं स कामान् लभतेऽखिलान् ।
मत्प्रियः सोऽपि भवति मल्लोकेऽन्ते प्रगच्छति ॥
॥ इति श्रीमुद्गलपुराणे ब्रह्माविष्णुकृतः शिवस्तवः सम्पूर्णः ॥
शिवरहस्योक्त ब्रह्मा कृत शिवस्तवन
ब्रह्मोवाच
पूज्यः सर्वोत्तमो देवः शिव एव न चापरः ।
पूज्यश्च सर्वथा देवः शिव एव मुमुक्षुभिः ॥
मन्यन्ते शिवमद्वैतं चतुर्थं ब्रह्मवादिनः ।
स एव परमात्माऽतो विजिज्ञास्यो मुमुक्षुभिः ॥
सर्वव्यापी सर्वरूपः परमात्मा सदाशिवः ।
स एव सर्वदा पूज्यो मुमुक्षुभिरनेकधा ॥
यमाहुरक्षरं वेदाः सर्वदेवशिखामणिम् ।
स एव सर्वदा पूज्यो मुमुक्षुभिरनेकधा ॥
यमाहुः सर्वगं वेदाः सर्वदेवशिखामणिम् ।
स एव सर्वदा पूज्यो मुमुक्षुभिरनेकधा ॥
शिवाभिधं परं ब्रह्म सेवनीयं प्रयत्नतः ।
पार्वतीसहितो नित्यं ध्यातव्यः श्रीमहेश्वरः ॥
पूजनीयो लिङ्गरूपी त्र्यम्बकस्त्रिपुरान्तकः ।
जप्तव्यश्च मनुः शैवः पञ्चाक्षरमयो नृभिः ॥
यमाहुः प्रणवाकारं वेदा देवशिखामणिम् ।
स एव सर्वदा पूज्यो मुमुक्षुभिरीश्वरः ॥
मुक्तिर्हस्तगता नॄणां यस्य देवस्य पूजनात् ।
स एव सर्वदा पूज्यो मुमुक्षुभिरीश्वरः ॥
॥ इति शिवरहस्यान्तर्गते ब्रह्माकृतः शिवस्तवः सम्पूर्णः ॥
शिवरहस्योक्त ब्रह्मा कृत शिवस्तवन
विष्णुरुवाच
देवोत्तमो महादेवः पूजनीयः प्रयत्नतः ।
स एव सर्वदेवेशः स एव जगदीश्वरः ॥
न तस्मादधिको देवः स एवाखिलपुङ्गवः ।
वेदवेदान्तसंवेद्यः स एव श्रुतिसंस्तुतः ॥
स एव सर्वलोकानां मोक्षदो मुक्तिनायकः ।
स एव सर्वभावेन पूजनीयो द्विजामरैः ॥
जगदुत्पद्यते यस्मात्तस्मिन्नेव प्रलीयते ।
तस्यैश्वर्याण्यनन्तानि स एव परमेश्वरः ॥
शङ्करादधिको देवो नास्ति न श्रूयतेऽपि च ।
शङ्करः सर्वदेवानामधिकः शङ्करो ध्रुवम् ॥
पुनः पुनर्विचार्येव वेदशास्त्राणि तत्त्वतः ।
शिव एव सदा पूज्य इति पूर्वं विनिश्चितम् ॥
सत्यं सत्यं पुनः सत्यं सत्यमेवोच्यते मया ।
शिव एव सदा सेव्यः सेव्यः सेव्यो न संशयः ॥
शिव एव सदा पूज्यः स्मर्तव्यः शिव एव हि ।
शिव एव सदा सेव्यो मुक्तिरूपफलेप्सुभिः ॥
शिवान्यो मुक्तिदो नास्ति शिव एव ततो जनैः ।
सम्प्रायः सर्वभावेन यत्नैश्च विविधैर्वरैः ॥
वेदैरपि शिवो ध्येयो न ज्ञातस्तत्त्वतोऽनघैः ।
स एव सर्वदा पूज्यो ध्येयः स्मर्तव्य एव च ॥
शिवो धनं शिवो बन्धुः शिवस्त्राता शिवः पिता ।
शिवः प्रभुः शिवो दाता शिवान्नास्त्यधिकः परः ॥
शिवलिङ्गं मया पूर्वमार्चितं बहुसाधनैः ।
इदानीमपि पश्यैतत् लिङ्गं सम्पूज्यते मया ॥
लिङ्गार्चनजपुण्येन काशी सम्प्राप्यते मया ।
पिबेस्सर्वैः सर्वार्थसिध्यर्थं सर्वपापौघशान्तये ॥
लिङ्गपूजैव कर्तव्या मुमुक्षुभिरहर्निशम् ।
बहवो मोक्षमापन्नाः शिवलिङ्गस्य पूजया ॥
देवैर्नरैश्च गन्धर्वैर्मुनिभिश्च मुमुक्षुभिः ।
अप्रमादेन कर्तव्या लिङ्गपूजैव सर्वथा ॥
“ऊर्ध्वाय नम” इत्यादि मन्त्रैर्लिङ्गस्य पूजनम् ।
कर्तव्यमनिशं विप्रैर्देवैश्च शिवतत्परैः ॥
शिवस्य सन्निधिर्लिङ्गे सर्वकालेषु सर्वदा ।
तिष्ठत्यतो लिङ्गपूजा कर्तव्या सततं बुधैः ॥
वेदोक्तलिङ्गपूजैव कर्तव्या सततं द्विजैः ।
वेदमार्गरतैः शुद्धैर्मोक्षरूपफलार्थिभिः ॥
॥ इति शिवरहस्यान्तर्गते विष्णुकृतः शिवस्तवः सम्पूर्णः ॥
बृहद्धर्मपुराणोक्त लक्ष्मीकृत शिवस्तवन
ॐ नमः शिवाय शान्ताय कारणत्रयहेतवे ।
निवेदयामि चात्मानं त्वं गतिः परमेश्वर ॥१॥
शशधरशुचिमूर्ते चन्द्रमौलेऽमलाभ
त्रिनयन मृदुचारुस्मेरवक्रामृताभ ।
धवलवृषभपृष्ठे भ्राजमान प्रसीद
प्रणतसदयदृष्टे देवदेवाधिदेव ॥२॥
त्रिगुणमय विराजत्र्यक्षधुस्तूरपुष्प
प्रविलसितसिताभ डिण्डिमध्वानवादिन् ।
सततसुखसुखाब्धौ त्वं शिवः सन्विहारी
जय जय जय शम्भो पार्वतीश प्रसीद ॥३॥
भुवननिचयनीलाधार साकार शम्भो
अनलरविशशिक्ष्माश्वासभूताशुगेश ।
सृजसि हरसि पासि स्वेच्छया त्वं
कथन्तद्विदित इह ननु स्याः ईदृशो वा इयान्वा ॥४॥
मृतनिलयविचारी प्रेतधूल्याचिताङ्गो
विवसनकृतमालाकीकशो भूतनाथः ।
भवसि विभवभूतं त्वां पुनः साधुचित्तं
लसति धरितुकामं प्रेतभूमीवराञ्च्यम् ॥५॥
त्रिपुरहर महेश त्र्यक्ष सर्वेश नाथ
प्रभव विभवनील श्वेतवक्त्र प्रसन्न ।
गिरिश गहनगोप श्रीगुरो नीलकण्ठ
क्षयकर हर दुःखं दुःखहन्तः प्रसीद ॥६॥
॥ इति बृहद्धर्मपुराणान्तर्गतः लक्ष्मीकृतः शिवस्तवः सम्पूर्णः ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।