शिव शक्ति के विपरीत रति आलिंगन माता छिन्नमस्ता स्थित हैं, एक हाथ में खड्ग और दूसरे हाथ में मस्तक धारण किए हुए हैं। अपने कटे हुए स्कन्ध से रक्त की जो धाराएं निकलती हैं, उनमें से एक को स्वयं पीती हैं और अन्य दो धाराओं से अपनी जया और विजया नाम की दो सखियों की क्षुधा शांत रही हैं। इडा, पिंगला और सुषुम्ना इन तीन नाडियों का संधान कर योग मार्ग में सिद्धि को प्रशस्त करती हैं। विद्यात्रयी में यह दूसरी विद्या गिनी जाती हैं। यहां छिन्नमस्ता स्तोत्र (maa chinnamasta stotra) संस्कृत में दिया गया है।
यहां पढ़ें छिन्नमस्ता स्तोत्र संस्कृत में – maa chinnamasta stotra
यहां सर्वप्रथम माता छिन्नमस्ता के अनेकानेक ध्यान मंत्र दिये गये हैं तत्पश्चात अत्यंत प्रभावशाली ब्रह्मकृतं छिन्नमस्तास्तोत्रम् जिसे छिन्नमस्ता स्तवराज के नाम से भी जाना जाता है दिया गया है तत्पश्चात शंकराचार्य विरचित स्तोत्र जिसे प्रचण्डचण्डिका स्तवराज भी कहा जाता है दिया गया है और अंत में छिन्नमस्ता द्वादशनाम स्तोत्र जो कि बहुत ही महत्वपूर्ण स्तोत्र है दिया गया है।
॥ छिन्नमस्ता ध्यान ॥
ध्यान ~ 1
प्रत्यालीढपदां सदैव दधतीं छिन्नं शिरः कर्त्रिकां
दिग्वस्त्रां स्वकबन्धशोणितसुधाधारां पिबन्तीं मुदा ।
नागाबद्धशिरोमणिं त्रिनयनां हृद्युत्पलालङ्कृतां
रत्यासक्तमनोभवोपरि दृढां वन्दे जपासन्निभाम् ॥
ध्यान ~ 2
दक्षे चातिसिता विमुक्तचिकुरा कर्त्रीं तथा खर्परम् ।
हस्ताभ्यां दधती रजोगुणभवा नाम्नापि सा वर्णिनी ॥
देव्याश्छिन्नकबन्धतः पतदसृग्धारां पिबन्ती मुदा ।
नागाबद्धशिरोमणिर्मनुविदा ध्येया सदा सा सुरैः ॥
प्रत्यालीढपदा कबन्धविगलद्रक्तं पिबन्ती मुदा ।
सैषा या प्रलये समस्तभुवनं भोक्तुं क्षमा तामसी ॥
शक्तिः सापि परात्परा भगवती नाम्ना परा डाकिनी ।
ध्येया ध्यानपरैः सदा सविनयं भक्तेष्टभूतिप्रदा ॥
भास्वन्मण्डलमध्यगां निजशिरश्छिन्नं विकीर्णालकम् ।
स्फारास्यं प्रपिबद्गलात्स्वरुधिरं वामे करे बिभ्रतीम् ॥
याभासक्तरतिस्मरोपरिगतां सख्यौ निजे डाकिनी-
वर्णिन्यौ परिदृश्य मोदकलितां श्रीछिन्नमस्तां भजे ॥
ध्यान ~ 3
स्वनाभौ नीरजं ध्यायाम्यर्धं विकसितं सितम् । तत्पद्मकोशमध्ये तु मण्डलं चण्डरोचिषः ॥
जपाकुसुमसङ्काशं रक्तबन्धूकसन्निभम् । रजस्सत्वतमोरेखा योनिमण्डलमण्डितम् ॥
तन्मध्ये तां महादेवीं सूर्यकोटिसमप्रभाम् । छिन्नमस्तां करे वामे धारयन्तीं स्वमस्तकम् ॥
प्रसारितमुखीं देवीं लेलिहानाग्रजिह्विकाम् । पिबन्तीं रौधिरीं धारां निजकण्ठविनिर्गताम् ॥
विकीर्णकेशपाशां च नानापुष्पसमन्विताम् । दक्षिणे च करे कर्त्रीं मुण्डमालाविभूषिताम् ॥
दिगम्बरां महाघोरां प्रत्यालीढपदे स्थिताम् । अस्थिमालाधरां देवीं नागयज्ञेपवीतिनीम् ॥
रतिकामोपरिष्ठां च सदा ध्यातां च मन्त्रिभिः । सदा षोडशवर्षीयां पीनोन्नतपयोधराम् ॥
ध्यान ~ 4
विपरीतरतासक्तौ ध्यायामि रतिमन्मथौ । शाकिनीवर्णिनीयुक्तां वामदक्षिणयोगतः ॥
देवीगलोच्छलद्रक्तधारापानं प्रकुर्वतीम् । वर्णिनीं लोहितां सौम्यां मुक्तकेशीं दिगम्बराम् ॥
कपालकर्त्रिकाहस्तां वामदक्षिणयोगतः । नागयज्ञेपवीताढ्यां ज्वलत्तेजोमयीमिव ॥
प्रत्यालीढपदां विद्यां नानालङ्कारभूषिताम् । सदा द्वादशवर्षीयां अस्थिमालाविभूषिताम् ॥
डाकिनीं वामपार्श्वे तु कल्पसूर्यानलोपमाम् । विद्युज्जटां त्रिनयनां दन्तपङ्क्तिबलाकिनीम् ॥
दंष्ट्राकरालवदनां पीनोन्नतपयोधराम् । महादेवीं महाघोरां मुक्तकेशीं दिगम्बराम् ॥
लेलिहानमहाजिह्वां मुण्डमालाविभूषिताम् । कपालकर्त्रिकाहस्तां वामदक्षिणयोगतः ॥
देवीगलोच्छलद्रक्तधारापानं प्रकुर्वतीम् ।
करस्थितकपालेन भीषणेनातिभीषणाम् ।
आभ्यां निषेव्यमाणां तां कलये जगदीश्वरीम् ॥१९॥
॥ इति छिन्नमस्ताध्यानम् ॥
॥ ब्रह्मकृतं छिन्नमस्ता स्तोत्रम् ॥
ईश्वर उवाच
स्तवराजमहं वन्दे वैरोचन्याः शुभप्रदम् ।
नाभौ शुभ्रारविन्दं तदुपरि विलसन्मण्डलं चण्डरश्मेः
संसारस्यैकसारां त्रिभुवनजननीं धर्मकामार्थदात्रीम् ।
तस्मिन्मध्ये त्रिमार्गे त्रितयतनुधरां छिन्नमस्तां प्रशस्तां
तां वन्दे छिन्नमस्तां शमनभयहरां योगिनीं योगमुद्राम् ॥१॥
नाभौ शुद्धसरोजवक्त्रविलसद्बन्धूकपुष्पारुणं
भास्वद्भास्करमण्डलं तदुदरे तद्योनिचक्रं महत् ।
तन्मध्ये विपरीतमैथुनरतप्रद्युम्नसत्कामिन्-
पृष्ठस्थाम् तरुणार्ककोटिविलसत्तेजस्स्वरूपां भजे ॥२॥
वामे छिन्नशिरोधरां तदितरे पाणौ महत्कर्तृकां
प्रत्यालीढपदां दिगन्तवसनामुन्मुक्तकेशव्रजाम् ।
छिन्नात्मीयशिरस्समुच्छलदसृग्धारां पिबन्तीं परां
बालादित्यसमप्रकाशविलसन्नेत्रत्रयोद्भासिनीम् ॥३॥
वामादन्यत्र नालं बहुगहनगलद्रक्तधाराभिरुच्चैः
गायन्तीमस्थिभूषां करकमललसत्कर्तृकामुग्ररूपाम् ।
रक्तामारक्तकेशीमपगतवसनां वर्णिनीमात्मशक्तिं
प्रत्यालीढोरुपादामरुणितनयनां योगिनीं योगनिद्राम् ॥४॥
दिग्वस्त्रां मुक्तकेशीं प्रलयघनघटाघोररूपां प्रचण्डां
दंष्ट्रा दुष्प्रेक्ष्य वक्त्रोदरविवरलसल्लोलजिह्वाग्रभासाम् ।
विद्युल्लोलाक्षियुग्मां हृदयतटलसद्भोगिनीं भीममूर्त्तिं
सद्यश्छिन्नात्मकण्ठप्रगलितरुधिरैर्डाकिनीं वर्धयन्तीम् ॥५॥
ब्रह्मेशानाच्युताद्यैः शिरसि विनिहता मन्दपादारविन्दै-
राप्तैर्योगीन्द्रमुख्यैः प्रतिपदमनिशं चिन्तितां चिन्त्यरूपाम् ।
संसारे सारभूतां त्रिभुवनजननीं छिन्नमस्तां प्रशस्ता-
मिष्टां तामिष्टदात्रीं कलिकलुषहरां चेतसा चिन्तयामि ॥६॥
उत्पत्तिस्थितिसंहतीर्घटयितुं धत्ते त्रिरूपां तनुम् ।
त्रैगुण्याज्जगतो यदीय विकृतिर्ब्रह्माच्युतः शूलभृत् ॥
तामाद्यां प्रकृतिं स्मरामि मनसा सर्वार्थसंसिद्धये ।
यस्याः स्मेरपदारविन्दयुगले लाभं भजन्ते नराः ॥७॥
अभिलषितपरस्त्रीयोगपूजापरोऽहं
बहुविधजनभावारम्भसम्भावितोऽहम् ।
पशुजनविरतोऽहं भैरवीसंस्थितोऽहं
गुरुचरणपरोऽहं भैरवोऽहं शिवोऽहम् ॥८॥
इदं स्तोत्रं महापुण्यं ब्रह्मणा भाषितं पुरा ।
सर्वसिद्धिप्रदं साक्षान्महापातकनाशनम् ॥९॥
यः पठेत्प्रातरुत्थाय देव्याः सन्निहितोऽपि वा ।
तस्य सिद्धिर्भवेद्देवि वाञ्छितार्त्थप्रदायिनी ॥१०॥
धनं धान्यं सुतं जायां हयं हस्तिनमेव च ।
वसुन्धरां महाविद्यामष्टसिद्धिं लभेद् ध्रुवम् ॥११॥
वैयाघ्राजिनरञ्जितस्वजघनेऽरण्ये प्रलम्बोदरे
खर्वेऽनिर्वचनीयपर्वसुभगे मुण्डावलीमण्डिते ।
कर्त्रीं कुन्दरुचिं विचित्रवनितां ज्ञाने दधाने पदे
मातर्भक्तजनानुकम्पिनि महामायेऽस्तु तुभ्यं नमः ॥१२॥
॥ इति ब्रह्मकृतं छिन्नमस्तास्तोत्रम् ॥
॥ शंकराचार्य विरचित प्रचण्डचण्डिका स्तवराज ॥
आनन्दयित्रि परमेश्वरि वेदगर्भे
मातः पुरन्दरपुरान्तरलब्धनेत्रे ।
लक्ष्मीमशेषजगतां परिभावयन्तः
सन्तो भजन्ति भवतीं धनदेशलब्ध्यै ॥१॥
लज्जानुगां विमलविद्रुमकान्तिकान्तां
कान्तानुरागरसिकाः परमेश्वरि त्वाम् ।
ये भावयन्ति मनसा मनुजास्त एते
सीमन्तिनीभिरनिशं परिभाव्यमानाः ॥२॥
मायामयीं निखिलपातककोटिकूट
विद्राविणीं भृशमसंशयिनो भजन्ति ।
त्वां पद्मसुन्दरतनुं तरुणारुणास्यां
पाशाङ्कुशाभयवराद्यकरां वरास्त्रैः ॥३॥
ते तर्ककर्कशधियः श्रुतिशास्त्रशिल्पैश्छन्दोऽ-
भिशोभितमुखाः सकलागमज्ञाः ।
सर्वज्ञलब्धविभवाः कुमुदेन्दुवर्णां
ये वाग्भवे च भवतीं परिभावयन्ति ॥४॥
वज्रपणुन्नहृदया समयद्रुहस्ते
वैरोचने मदनमन्दिरगास्यमातः ।
मायाद्वयानुगतविग्रहभूषिताऽसि
दिव्यास्त्रवह्निवनितानुगताऽसि धन्ये ॥५॥
वृत्तत्रयाष्टदलवह्निपुरःसरस्य
मार्तण्डमण्डलगतां परिभावयन्ति ।
ये वह्निकूटसदृशीं मणिपूरकान्तस्ते
कालकण्टकविडम्बनचञ्चवः स्युः ॥६॥
कालागरुभ्रमरचन्दनकुण्डगोल-
खण्डैरनङ्गमदनोद्भवमादनीभिः ।
सिन्दूरकुङ्कुमपटीरहिमैर्विधाय
सन्मण्डलं तदुपरीह यजेन्मृडानीम् ॥७॥
चञ्चत्तडिन्मिहिरकोटिकरां विचेला-
मुद्यत्कबन्धरुधिरां द्विभुजां त्रिनेत्राम् ।
वामे विकीर्णकचशीर्षकरे परे तामीडे
परं परमकर्त्रिकया समेताम् ॥८॥
कामेश्वराङ्गनिलयां कलया
सुधांशोर्विभ्राजमानहृदयामपरे स्मरन्ति ।
सुप्ताहिराजसदृशीं परमेश्वरस्थां
त्वामाद्रिराजतनये च समानमानाः ॥९॥
लिङ्गत्रयोपरिगतामपि वह्निचक्र-
पीठानुगां सरसिजासनसन्निविष्टाम् ।
सुप्तां प्रबोध्य भवतीं मनुजा
गुरूक्तहूँकारवायुवशिभिर्मनसा भजन्ति ॥१०॥
शुभ्रासि शान्तिककथासु तथैव पीता
स्तम्भे रिपोरथ च शुभ्रतरासि मातः ।
उच्चाटनेऽप्यसितकर्मसुकर्मणि त्वं
संसेव्यसे स्फटिककान्तिरनन्तचारे ॥११॥
त्वामुत्पलैर्मधुयुतैर्मधुनोपनीतैर्गव्यैः
पयोविलुलितैः शतमेव कुण्डे ।
साज्यैश्च तोषयति यः पुरुषस्त्रिसन्ध्यं
षण्मासतो भवति शक्रसमो हि भूमौ ॥१२॥
जाग्रत्स्वपन्नपि शिवे तव मन्त्रराजमेवं
विचिन्तयति यो मनसा विधिज्ञः ।
संसारसागरसमृद्धरणे वहित्रं चित्रं
न भूतजननेऽपि जगत्सु पुंसः ॥१३॥
इयं विद्या वन्द्या हरिहरविरिञ्चिप्रभृतिभिः
पुरारातेरन्तः पुरमिदमगम्यं पशुजनैः ।
सुधामन्दानन्दैः पशुपतिसमानव्यसनिभिः
सुधासेव्यैः सद्भिर्गुरुचरणसंसारचतुरैः ॥१४॥
कुण्डे वा मण्डले वा शुचिरथ मनुना भावयत्येव मन्त्री
संस्थाप्योच्चैर्जुहोति प्रसवसुफलदैः पद्मपालाशकानाम् ।
हैमं क्षीरैस्तिलैर्वां समधुककुसुमैर्मालतीबन्धुजातीश्वेतैरब्धं
सकानामपि वरसमिधा सम्पदे सर्वसिद्ध्यै ॥१५॥
अन्धः साज्यं समांसं दधियुतमथवा योऽन्वहं यामिनीनां
मध्ये देव्यै ददाति प्रभवति गृहगा श्रीरमुष्यावखण्डा ।
आज्यं मांसं सरक्तं तिलयुतमथवा तण्डुलं पायसं वा हुत्वा
मांसं त्रिसन्ध्यं स भवति मनुजो भूतिभिर्भूतनाथः ॥१६॥
इदं देव्याः स्तोत्रं पठति मनुजो यस्त्रिसमयं
शुचिर्भूत्वा विश्वे भवति धनदो वासवसमः ।
वशा भूपाः कान्ता निखिलरिपुहन्तुः सुरगणा
भवन्त्युच्चैर्वाचो यदिह ननु मासैस्त्रिभिरपि ॥१७॥
॥ इति श्रीशङ्कराचार्यविरचितः प्रचण्डचण्डिकास्तवराजः सम्पूर्णं ॥
॥ छिन्नमस्ता द्वादशनाम स्तोत्र ॥
छिन्नग्रीवा छिन्नमस्ता छिन्नमुण्डधराऽक्षता ।
क्षोदक्षेमकरी स्वक्षा क्षोणीशाच्छादनक्षमा ॥१॥
वैरोचनी वरारोहा बलिदानप्रहर्षिता ।
बलिपूजितपादाब्जा वासुदेवप्रपूजिता ॥२॥
इति द्वादशनामानि छिन्नमस्ताप्रियाणि यः ।
स्मरेत्प्रातः समुत्थाय तस्य नश्यन्ति शत्रवः ॥३॥
॥ इति छिन्नमस्ताद्वादशनामस्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।