अथ चतुर्थोऽध्यायः
श्रीपार्वत्युवाच कैः कैः कृता पुरा देव रामार्चा तद्वदाधुना । श्रोतुमिच्छामि देवेश मम हर्षविवर्द्धनः ॥१॥
श्रीशिव उवाच
शृणु देवि कथां पुण्यां पूजा माहात्म्य संयुताम् । वक्ष्यामि सर्व मर्त्यभ्यः शुभदां पापमोचनीम् ॥२॥
कश्चिद्वसति धर्मज्ञो ब्राह्मणः मथुरापुरे। नाम्नां पृथुक विख्यातो महारोगेण पीडितः ॥३॥
बहुभिर्विधिभिर्यत्नं कृतवान् ब्राह्मणोत्तमः । न मुक्तो रोगबाधाभिर्महादीनमनोद्विजः ॥४॥
निर्जगाम गृहात्तूर्णं वनं व्याघ्रादिर्भियुतम् । वभ्राम दुःख संत्रस्तो मृत्योर्हेतुं विचिंतयन् ॥५॥
आत्महत्या भयाद्देवि न विपैस्त्यक्तवांस्तनुम् । भ्रमन्भृगुसुतं तत्र ऋचीकं दृष्टवान् द्विजः ॥६॥
नत्वा रुरोद दुःखार्तो महाबाधा प्रपीडितः। ऋचीको ब्राह्मणं प्राह कस्माद्रोदषि तद्वद् ॥७॥
ऋचीकेरितमाकर्ण्य पृथुको वाक्यमब्रीत् । ब्राह्मणोऽहं द्विजश्रेष्ठ विख्यातः पृथुकाह्नयः ॥८॥
सर्व व्याधियुतोविद्वन्महारोगेण पीडितः। येनदुःख मम क्षीयेत् तद्वदस्व कृपानिधे ॥९॥
श्रुत्वा कृपान्वितो विप्रो रामार्चा कुरु प्रोक्तवान् ।
श्रीपृथुक उवाच
रामार्चायाः विधिविद्वन्कथयस्व परंतप ॥१०॥
श्रुत्वोवाच ऋचीकस्तु शृणु विप्र वचो मम । कुशनाभसुतौ गाधिः श्वसुरो मम धर्मवित् ॥११॥
सोऽनपत्योऽभवत्पूर्वं तेन दुःखी निरन्तरम् । तस्य पुत्री मम पत्नी तयाहं परितोषितः ॥१२॥
प्रहर्षितोहमूचेतां वरं ब्रूहि सुमध्यमे । तयोक्तं चैव मे भ्राता भवेद्वरमिदं प्रभो ॥१३॥
तथास्विति महाभागे प्रोक्त्वा चाहं भृगुं गतः । भृगुः ब्रह्मविदं विप्र वृत्तान्तं तन्निवेदितम् ॥१४॥
श्रुत्वा भृगुरुवाचेदं गाधिपुत्राय भो सुत। रामार्चा कारय प्रेम्णा ताभ्यां सम्यग्विधानतः॥१५॥
तत्प्रसादेन सत्पुत्रो भविष्यत्यचिरेण वै । श्रुत्वा तद्विधिमागत्य श्वशुरं प्रोक्तवानहम् ॥१६॥
पन्या सह कृतं तेन सम्यक् श्रीरामपूजनम् । तदा रामप्रसादस्य भक्षणाद् गाधिवल्लभा ॥१७॥
गर्भं दधार धर्मज्ञस्तस्याः पुत्रोऽभवत्किल । विश्वामित्रेति विख्यातो योऽभूत्क्षत्राद्विजर्षभ् ॥१८॥
भृगोः श्रुतं मयापूर्वं श्रीरामस्यसुपूजनम् । सौभाग्यसन्ततिकरं सर्वेप्सितफलप्रदम् ॥१९॥
तस्मात् कुरु महाभागे महायज्ञ सुखप्रदम् । ऋचीकेरितमाकर्ण्य जगाम स्वगृहं द्विजः ॥२०॥
देवि तत्राकरोत्पूजां नैवेद्यस्य च भक्षणात् । महारोगः क्षयं प्राप्तः पृथुकोऽति सुखीऽभवत् ॥२१॥
सत्वरं तत्फलं प्राप्य सदा रामार्चने रतः । एकदा पूर्णिमायां तु पृथुको रामपूजनम् ॥२२॥
चकार स्वजनैः सार्द्धं तत्रैको धीवरोऽन्वगात् । नित्यं हिंसारतो दुष्टो बंधुको नाम विश्रुतः ॥२३॥
दृष्ट्वा रामार्चनं तत्र भुक्त्वा रामान्नमुत्तमम् । निर्धनश्चातिलोभेन ययौ देशान्तरं प्रति ॥२४॥
सौराष्ट्रे स मृतो व्याघ्रान्महापापोऽघ संयुतः । यमदूताः समाजग्मुः क्रोधवन्तो भयङ्कराः ॥२५॥
पाशैर्बध्वा समानेतुं तदा श्रीरामकिंकराः । आजग्मुस्तान्प्रपीड्यो चुरयं शुद्धः सुधार्मिकः ॥२६॥
दण्ड्यः कथं यमाः प्रोचुरयं हि पापविग्रहः । गोहन्ता विप्रहन्ता च चौरो हिंसारतः तदा ॥२७॥
श्री रामपार्षदा ऊचुः
रामार्चान्नं सकृद्येन भुक्तं पापिप्रपीडकाः । स शुद्धो धर्म कामार्थी याति रामपुरं शुभम् ॥२८॥
इत्युक्त्वा पुष्पके न्यस्य तं च रामान्तिकं ययुः ॥२९॥
यमदूता यमं गत्वा वृत्तान्तं तन्न्यवेदयन् । यमो विचिन्त्य रामस्य प्रभावं मनसा महत् ॥३०॥
प्रणम्य राघवं दूतानुवाचेश्वरि धर्मराट् । सकृदेव कृतं राम कीर्तनं पूजनं सकृत् ॥३१॥
सकृद् भुञ्जीत रामान्नं स वै त्रैलोक्यपावनाः । सर्वैरघर्चयैर्मुक्तः पूजनीयः सुरासुरैः ॥३२॥
सत्तमः सर्वभूतेषु रामानुग्रह भाग्यतः । रामार्चायाः प्रभावं वै सम्यग्वक्तुं न शक्यते ॥३३॥
रामार्चाः रामरूपेण सिद्धिदा सर्वदेहिनाम् । रामार्चया न सिद्धयेद्यत्तन्न पश्यामि किंचन ॥३४॥
दूतान्प्रबोधयित्वा स यमो रामं व्यभावयत् । एवं श्रीरामपूजायाः प्रभावमतिदुर्गभम् ॥३५॥
रामार्चा ये प्रकुर्वन्ति देवि मानव सत्तमाः । ते वै रामस्वरूपाः स्युः पूज्याः सर्व महर्षिभिः ॥३६॥
अश्वमेधायुतशतं राजसूयशतायुतम् । रामार्चायाः प्रसादस्य कलां नार्हन्ति षोडशीम् ॥३७॥
रामं समर्च्य रामस्य प्रसादान्नं हनूमते । यो ददाति प्रिये तस्य सर्वाभीष्टं प्रसिद्धयति ॥३८॥
यद्यत् श्रीरामचन्द्राय प्रदद्यात् प्रीतिमानसः । तत्सर्वं वायुपुत्राय प्रदातव्यं विशेषतः ॥३९॥
रामसिद्धयर्थ रूपोऽयं हनुमान्मारुतात्मजः । तस्मात्सर्व प्रयत्नेन तोषयेद्भक्तकामदम् ॥४०॥
इति श्रीशिव संहितायां भव्योत्तर खण्डे उमामहेश्वर–सम्वादे श्रीरामार्त्तामाहात्म्ये पृथुक बंधुकोपाख्यान वर्णनो नाम चतुर्थोऽध्याय ॥४॥