॥ अथ पञ्चमोऽध्यायः॥
श्री पार्वत्युवाच
केनान्येन कृतं स्वामिन लोके रामार्चनं शुभम् । कथयस्व कृपासिंधो महाह्लादकरं परम् ॥१॥
श्री महादेव उवाच
पुरा देवि विशालायां कश्चिद्वैश्योऽवसत्सदा । सरमेति तु विख्यातो धनाढ्योऽसत्य संयुतः ॥२॥
देवेभ्यो ब्राह्मणेभ्यश्च प्रतिश्रुत्य न दत्तवान् । तेन पापेन भो देवि सर्वैश्वर्यमनश्यत् ॥३॥
दीनोऽतिमलिनो दुःखी बभ्रामाऽति क्षुधार्दितः। दरिद्रोऽसह्यदुखेन मरणाय मनोदधे ॥४॥
हिमालयं जगामासौ यत्र नारायणः स्थितः। अतिदीनं व्रतरतं दृष्ट्वा नारायणोहरिः ॥५॥
धृत्वा तु ब्राह्मणं रूपं जगाम सरमांतिकम् । सरमं स हरिः प्राह कस्त्वं केनाति दुःखितः ॥६॥
श्रुत्वा तदीरितं वाक्यं प्रणम्योवाच ब्राह्मणम् । अहं वैश्यो महाभाग सरमेति च विश्रुतः ॥७॥
महासुखी धनाढ्योऽहं पूर्वावस्थासु चोद्धतः । न जाने केन पापेन सर्वं नष्टं धनं मम ॥८॥
अतोऽहं दुखितो दीनो व्याकुलश्चह्युपद्रवैः । बन्धुभिः कलहोनित्यं क्षुत्क्षामोऽम्बर वर्जितः ॥९॥
भिक्षाशीर्मरणप्राय कथं जीवामि भो द्विज । तच्छ्रुत्वा ब्राह्मणो देविदयालुर्वाक्यमब्रवीत् ॥१०॥
ब्राह्मण उवाच
कार्पण्येनातिलोभेन सत्यहीनेन सर्वथा। प्रणश्यति धनं सौख्यं दुःखं स्यान्नित्यमेव हि ॥११॥
प्रतिज्ञाय न दत्तं ते देवाय ब्राह्मणाय च । तस्मात्तीव्रतरं दुखं प्राप्यते दुर्मते त्वया ॥१२॥
सर्वथा सत्यवाक्येन रहितोऽहं द्विजोत्तम् । प्रतिज्ञाय च न दत्तं देवाय ब्राह्मणाय च ॥१३॥
अकारणेन नष्टं मे सर्वैश्वर्यं सुहृद्गणम् । यत्नं वद् महाभाग सुखी येन भवाम्यहम् ॥१४॥
ब्राह्मण उवाच
विफलप्रतिज्ञा ये वै रामभक्तेः पराङ्मुखाः । धर्माणि प्रलयं यान्ति सवंशैर्यममालयम् ॥१५॥
देवाय ब्राह्मणायैव प्रतिश्रुत्यं न यच्छति । तं दृष्ट्वा पापनाशाय कुर्याच्चान्द्रायणव्रतम् ॥१६॥
असत्यात्पातकं नास्ति नहि धर्मश्च सत्यतः । अतोऽसत्यं परित्यज्य सत्यमाश्रयते सुधीः ॥१७॥
महारोगेण ते युक्ता वंशहीना दरिद्रिणः । सविघ्नाः क्रूर कर्माणो ये ह्यसत्यावलम्बिनः ॥१८॥
दुखादुद्धरणन्तेषां दुष्करं जन्मकोटिभिः ॥१९॥
सत्येन मनसैवादि यत्किंचित्कुरुते नरः। सत्वरं तत्फलं प्राप्य स्वर्गिभिस्सह मोदते ॥२०॥
वैश्य उवाच
भगवन्सर्वधर्मज्ञ पापे मयि कृपां कुरु । भ्रष्टप्रतिज्ञे कृपणे चातिदीने दयानिधे ॥२१॥
नश्यन्ति येन पापानि दुःखानि च ममांजसा । तद् वदस्व महाभाग दयां कृत्वा ममोपरि ॥२२॥
ब्राह्मण उवाच
रामार्चा कुरु यत्नेन यथाशक्त्या विधानतः । तत्कृते पातकं सर्वं नश्यत्येव न संशयः ॥२३॥
वैश्य उवाच
विधिं वद् कृपासिन्धो कथं कुर्यात् अर्चनम् । येन सर्वा ममापत्तिः सत्वरं नाशमाप्नुयात् ॥२४॥
ब्राह्मण उवाच
विधाय मण्डपं दिव्यं कदलीस्तम्भ मण्डितम् । वितानमरुणं पीतं सपताकं सतोरणम् ॥२५॥
तन्मध्ये पूजयेद्रामं दिव्यैर्नानोपचारकैः । वैश्यवर्य द्विजान् साधून् पूजयेद्रामपूजने ॥
सोऽत्र सर्वसुखं भुक्त्वा रामेण सह मोदते ॥२६॥
रामार्चायाः प्रसादान्नं यस्तु भुञ्जीत मानवः । आयुरारोग्यमैश्वर्यं प्राप्नुयान्नात्र संशयः ॥२७॥
रामार्चायाः प्रसादान्नं ये त्यजन्ति नराधमाः । ते यान्ति नरकं घोरं वंशहीनाः सुदुःखिताः ॥२८॥
रामार्चायाः प्रसादान्नं न प्रयच्छति ये नराः। सुहृद्भ्यो बन्धुवर्गेभ्यः स दरिद्रो भवेद् ध्रुवम् ॥२९॥
तस्माद्रामार्चनं कार्यं रामभक्तैः सुहृज्जनैः ॥३०॥
युक्तः समालभेत्क्षिप्रं दुर्लभं वांछितं फलम् । इहलोके सुखं भुक्त्वा परस्मिन् मोक्षमाप्नुयात् ॥३१॥
श्रद्धया हि सुकर्त्तव्या वित्तशाठ्यं न कारयेत् । हवने चाऽर्चने दाने यत्किंचिद्दीयते नरैः ॥३२॥
रामार्चायां महाभाग कोटिकोटि गुणं लभेत् । इत्युक्त्वा विररामासौ ब्राह्मणो देवि धर्मवित् ॥३३॥
सरम उवाच
केनेयं भो कृता पूर्वमपूर्वा वा द्विजोत्तम । तद्वदस्व महाभाग रामार्चायाः कथां शुभाम् ॥३४॥
ब्राह्मण उवाच
मधुकैटभ नाशाय प्रतिश्रुत्य मया कृता । ब्रह्मणा हि कृतापूर्व सृष्ट्यादौ नारदादिभिः ॥३५॥
इत्युक्ते ब्राह्मणे वैश्यो हरिं ज्ञात्वातिहर्षितः । पपात दण्डवद्भूमौ त्राहिमाम् पापिनं प्रभो ॥३६॥
अति प्रेम प्रपूर्णाङ्गं वैश्यं दृष्ट्वा ततः प्रभुः । स्वस्वरूपं समास्थाय विधिं तस्मै न्यवेदयत् ॥३७॥
श्री शिव उवाच
सेतिहासं विधिं श्राव्य हरिरन्तरधीयत । सरमेण कृतं देवि विधिना रामपूजनम् ॥३८॥
पूजायां राघवान्नं च वायुपुत्राय चार्पयत् । हनुमान् परितुष्टः सन् सर्वैश्वर्यं प्रदत्तवान् ॥३९॥
सोऽभवत्सर्वसौख्याढ्यो धनवान् पुत्र पौत्रवान् । इहलोके सुखं भुक्त्वा देहान्ते मोक्षमाप्तवान् ॥४०॥
इति श्री शिवसंहितायां भव्योत्तरखण्डे उमामहेश्वर सम्वादे श्रीरामार्चा माहात्म्ये सरमोपाख्यान वर्णनो नाम पञ्चमोऽध्यायः ॥५॥