संकष्टी गणेश चतुर्थी व्रत कथा
॥ अथ सङ्कष्टहरगणेशचतुर्थीव्रतकथा ॥
पार्वत्युवाच
कथं गणेश्वरः पूज्यो माघे किं भोजनं हितम् । किन्नाम किञ्च नैवेद्यं तद्वदस्व विशेषतः ॥१॥
गणेश उवाच
माघमासे गणाध्यक्षं भालचन्द्रं प्रपूजयेत् । श्रद्धया पूजयेद् देवं तत्कालैरुपचारकैः ॥२॥
मोदकान् कारयेन्मातस्तिलजान् दश पार्वति । देवाग्रे स्थापयेत् पञ्च पञ्च विप्राय कल्पयेत् ॥३॥
पूजयित्वा तु तं विप्रं भक्तिभावेन देववत् । दक्षिणां च यथाशक्ति मोदकान् पञ्च दापयेत् ॥४॥
स्वयं दशतिलान् देवि भुञ्जीयाद्भक्तितत्परः । इतिहासं प्रवक्ष्यामि हरिश्चन्द्रस्य भूपतेः ॥५॥
आसीत् पूर्वयुगे राजाहरिश्चन्द्रः प्रतापवान् । क्षत्रधर्मरतः साधुः सत्यसन्धो द्विजार्चकः ॥६॥
नाऽधर्मो दृश्यते देवि तस्मिन् राज्यं प्रशासति । न हीनवदनः कश्चिन्न दुःखी न दरिद्रवान् ॥७॥
न च व्याधिभयं किश्चिदल्पायुर्न नरोऽभवद् । तस्य राज्येऽभवद् विप्र ऋष्यशर्मेति तापसः ॥८॥
तस्याऽचिरेण कालेन बभूव तनयः प्रियः । ऋषिशर्मा गतः स्वर्गं पत्नीं पुत्रं ररक्ष च ॥९॥
भिक्षाशिनी महादीना पुत्रलालनतत्परा । दरिद्रा कारयामास सङ्कटव्रतमुत्तमम् ॥१०॥
गोमयस्य गणाध्यक्षं पूजयन्तो सदा सती । कृत्वा भिक्षां तिलानां तु मोदकान् दश पार्वति ॥११॥
यथोक्तेन विधानेन तावत् पुत्रो यदृच्छया । गले विनायकं बध्वा क्रीडनार्थं बहिर्गतः ॥१२॥
कुलालश्च ततस्तस्याः पुत्रं वै पञ्चहायनम् । गृहीत्वा प्रददौ वह्नौ पात्रपाकेच्छयाकुधीः ॥१३॥
अन्वेषयन्ती सा पुत्रं न लेभे क्वापि विह्वला । पूजयन्ती गणाध्यक्षं विललापातिदुःखिता ॥१४॥
भो गणेश महाकाय सूर्यारुण समप्रभ । जटाकलापसुभग त्राहि मां पुत्रदुःखिताम् ॥१५॥
गजानन चतुर्बाहो भालचन्द्रविनायक । अनाथनाथ वरद पाहि मां पुत्रदुःखिताम् ॥१६॥
एवं विलापं कुर्वन्ती निशार्धं च तदा सती । ततः कुलालः प्रातस्तु पात्रपाकदिदृक्षया ॥१७॥
अवाहमुत्सृजंस्तत्र बालकं क्रीडने रतम् । ददर्श जानुदघ्ने च जले तिष्ठन्तमद्भुतम् ॥१८॥
दृष्ट्वा स वेपथुस्तूर्णं जगाम नृपमन्दिरम् । तत्र गत्वा जगादाथ नृषस्याग्रे यथाकृतम् ॥१९॥
कुलील उवाच
हरिश्चन्द्र महाबाहो ज्वलदग्निसमप्रभ । वध्योऽयं सुतरां राजन् येन कर्मेंदृशं कृतम् ॥२०॥
राजकन्याविवाहार्थं मृत्पात्राणि पुनः पुनः । ददाह परिपक्वानि न जातानि कथञ्चन ॥२१॥
तदा ह्यपृच्छं भीतोऽहं मन्त्रिणं चेटके स्थितम् । स मां बालबलिं दद्या इति प्राह रहःस्थितः ॥२२॥
तदाऽहं चिन्तयामास कस्य गृह्णामि बालकम् । यस्य बालं ददाम्यग्नौ स मां छेत्स्यति सत्वरम् ॥२३॥
इति भीत्या महाराज ब्राह्मणीतनयं बलिम् । कृत्वा मृत्पात्रनिवहं ददाम्यग्निं सुनिश्चितम् ॥२४॥
स च प्राह निजां भार्यामृषिशर्मा मृतो द्विजः । तत्पत्नी विधवा नित्यं भिक्षाकृत्योपजीविनी ॥२५॥
स करिष्यति किं बाले तत्पुत्रोऽयं मया हृतः । पक्वपात्राणि सर्वाणि कार्यं मे च भविष्यति ॥२६॥
इति रात्रौ सुखं सुप्त्वा प्रातः पात्रदिदृक्षया । गतस्तत्रावमुच्यार्थं यावत्पश्यामि सत्वरस् ॥२७॥
तावद्बालो यथानीतस्तथा तिष्ठति निर्भयः । दृष्ट्वा समागतोऽत्राहं सकम्पो जातसम्भवः ॥२८॥
इति तस्य वचः श्रुत्वा राजा विस्मृतमानसः । आजगामाशु तत्रैव यत्र बालः स मोदते ॥२९॥
दृष्ट्वा तथाविधं बाले राजाऽमात्यमुवाच ह। किमिदं कस्य बालोऽयमिति त्वं निश्चयं कुरु ॥३०॥
जानुदघ्नं कुतः प्राप्तं जलं जलजमण्डितम् । वैदूर्यसदृशी दूर्वा दरिद्रस्य यथैव हि ॥३१॥
न दाहो न क्षुधा तस्य न पिपासाऽपि वर्तते । निर्भयं तु यथा गेहे तथा क्रीडति बालकः ॥३२॥
एवं निगदिते राज्ञि ब्राह्मणी सा समागता । क्रोशन्ती बालकं दृष्ट्वा स्ववत्सं सुरभिर्यथा ॥३३॥
समुत्थाय निजं बालं समालिंग्य चुचुम्ब ह। रुदन्ती कम्पमाना सा नृपस्याग्रे न्यषीदत ॥३४॥
हरिश्चन्द्र उवाच
विप्रपत्नि कुतो बालो ताग्निना भस्मसात्कृतः । चेटकं किं विजानासि को धर्मश्च त्वया कृतः ॥३५॥
ब्राह्मण्युवाच
चेटकं न विजानामि न धर्म न तपस्तथा । न च योगं न दानञ्च न विधानं बलिं पुनः ॥३६॥
सङ्कष्टनाशनं चैकं करोमि व्रतमुत्तमस् । तत्प्रभावेण राजेन्द्र जातो मे कुशली सुतः ॥३७॥
इति तस्या वचः श्रुत्वा पुनः प्राह स भूपतिः । व्रतमेतत्प्रजाः सर्वाः कुर्वन्तु मम सम्मतम् ॥३८॥
राजा तां च परिक्रम्य धन्या साध्वीत्यभाषत । पूजनीयो गणाध्यक्षः सर्वैः पौरजनैस्तथा ॥३९॥
मासि मासि व्रतं चक्रुः सर्वे विस्मयसंयुताः । ब्राह्मणी सा सुतं लेभे व्रतराजप्रभावतः ॥४०॥
श्रीकृष्ण उवाच
तस्मात् पार्थ त्वया कार्यं व्रतानामुत्तमं व्रतम् । एतद्व्रतप्रभावेण लब्धकामो भविष्यसि ॥४१॥
राज्यं प्राप्य तथा मित्रं पुत्र-पौत्र-सुखावहम् । यः करोति व्रतं राजन् सर्वसिद्धिप्रदायकम् ॥४२॥
कृष्णस्य वचनं श्रुत्वा प्रसन्नोऽभूद्युधिष्ठिरः । व्रतं चक्रे गणेशस्य प्राप्य राज्यमकण्टकम् ॥४३॥
॥ इति श्रीपार्वती-गणेशसंवादे संकष्टहरगणेशचतुर्थीव्रत कथा समाप्ता ॥
नीराजन
ॐ कर्पूरवर्तिसंयुक्तं वह्निना योजितं मया । गृहाण मङ्गलं दीपमारार्तिक्यमिदं प्रभो ॥
॥ इदमारार्तिकं ॐ भूर्भुवःस्वः भगवते श्रीगणेशाय नमः ॥
साष्टांग प्रणाम
ॐ महासंकष्टदग्धोऽहं गणेश शरणं गतः । तस्मान्मनोरथं पूर्णं कुरु सर्वेश्वरेश्वर ॥
ॐ महासङ्कष्टदग्धेन शरणं त्वां गतेन च । मया कृतामिमां पूजां गृहाणोमासुत प्रभो ॥
प्रार्थना
ॐ अबुद्धमतिरिक्तं वा द्रव्यहीनं च यत्कृतम् । तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ॥
विघ्नराज नमस्तेऽस्तु उमापुत्राघनाशन। यदुद्दिश्य कृतं तेऽद्य यथाशक्ति प्रपूजनम् ॥
तेन तुष्टो मम विभो हृत्स्थान् कामान् प्रपूरय । विघ्नान् नाशय मे सर्वान् नाशायोपस्थितान् प्रभो ॥
व्रतं कृतं मया देव यतोऽद्य विधिवन्मया । व्रजेदानीं गणेशस्त्वं स्वस्थानं वै यदृच्छया ॥
विसर्जन
ॐ यान्तु देवगणाः सर्वे पूजामादाय मामकीम् । इष्टाकाम प्रसिद्ध्यर्थं पुनरागमनाय च ॥
ॐ साङ्गसायुधसवाहनसपरिवार भगवन् श्रीगणेश पूजितोऽसि प्रसीद क्षमस्व स्वस्थानं गच्छ॥
दक्षिणा
त्रिकुशा-तिल-जल-दक्षिणा लेकर अगले मंत्र को पढ़कर ब्राह्मण को दक्षिणा प्रदान करे : ॐ अद्य कृतैतत् साङ्ग सायुध सवाहन सपरिवार श्रीसङ्कष्टहर गणेशपूजनं तत्कथाश्रवणकर्म प्रतिष्ठार्थमेतावद्रव्यमूल्यकं हिरण्यमग्निदैवतं यथानामगोत्राय ब्राह्मणाय दक्षिणामहं ददे ॥
॥ इति सङ्कष्टहरणणेशचतुर्थीव्रतपूजा समाप्ता ॥
संकष्टी गणेश चतुर्थी कब है – sankashti ganesh chaturthi 2025
2025 में संकष्टी चतुर्थी अर्थात संकष्टहर चतुर्थी व्रत 17 जनवरी, शुक्रवार को है।
सारांश : यहां संकष्टहर गणेश चतुर्थी व्रत की पूजा विधि व कथा दी गयी है। संकष्टी गणेश चतुर्थी का विशेष महत्व है और विशेष पूजा विधि भी है जिसके मंत्रों का भी ऊपर वर्णन किया गया है। व्रत कथा में चमत्कारिक प्रभाव भी देखने को मिलता है विशेष रूप से पुत्र प्राप्ति व पुत्र रक्षा हेतु यह व्रत अधिक महत्वपूर्ण है।
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।