भगवान शिव के कई महत्वपूर्ण स्तोत्र हैं जो सामान्य रूप से स्तोत्र संग्रहों में देखने को नहीं मिलता है। जो स्तोत्र सामान्य रूप से संग्रहों में देखे जाते हैं उसके अतिरक्त भी महत्वपूर्ण स्तोत्र हैं और उनमें ग्यारह प्रमुख स्तुतियों का चयन तो किया ही जा सकता है जैसे ब्रह्मा कृत, विष्णु कृत, दक्ष कृत, देवादि कृत आदि। इस प्रकार विभिन्न पुराणों और शिवरहस्य आदि में वर्णित प्रमुख शिव स्तोत्रों का यहां संग्रह किया गया है। यहां 11 महत्वपूर्ण शिव स्तोत्र (shiv stotra) संस्कृत में दिया गया है।
यहां पढ़ें 11 महत्वपूर्ण शिव स्तोत्र संस्कृत में – shiv stotra
यहां प्रमुख ग्यारह शिव स्तोत्र जो दिये गए हैं वो हैं : स्कन्दपुराणोक्त विष्णु कृत शिव स्तोत्र, ब्रह्मपुराणोक्त कश्यप कृत शिव स्तोत्र, शिवरहस्योक्त दधीचि कृत शिव स्तोत्र, ब्रह्मपुराणोक्त गौतम कृत शिव स्तोत्र, कूर्मपुराणोक्त श्रीकृष्ण कृत शिव स्तोत्र, “जय जय शम्भो गिरिजाबन्धो” शिव स्तोत्र, ब्रह्मपुराणोक्त दक्ष कृत शिव स्तोत्र, मत्स्यपुराणोक्त देवदानव कृत शिव स्तोत्र, वामनपुराणोक्त देवादि कृत शिव स्तोत्र, लिङ्गपुराणोक्त देवादि कृत शिव स्तोत्र, ब्रह्मपुराणोक्त कश्यप कृत शिव स्तोत्र । सभी स्तोत्र संस्कृत में हैं।
1 ~ स्कन्दपुराणोक्त विष्णु कृत शिव स्तोत्र
श्रीविष्णुरुवाच
महेशानन्ताद्य त्रिगुणरहितामेयविमल
स्वराकारापारामितगुणगणाकारिनिवृते ।
निराधाराधारामरवर निराकार परम
प्रभापूराकारावर पर नमो वेद्य शिव ते ॥१॥
नमो वेदावेद्याखिलजगदुपादान नियतं
स्वतन्त्रासामान्तानवधुतिनिजाकारविरते ।
निवर्तन्ते वाचः शिवभजनमप्राप्य मनसा
यतोऽशक्ताः स्तोतुं सकृदपि गुणातीत शिव ते ॥२॥
त्वदन्यद्वस्त्वेकं न हि भव समस्तत्रिभुवने
विभुस्त्वं विश्वात्मा न च परममस्तीश भवतः ।
ध्रुवं मायातीतस्त्वमसि सततं नात्र विषयो
न ते कृत्यं सत्यं क्वचिदपि विपर्येति शिव ते ॥३॥
त्वयैवेमं लोकं निखिलममलं व्याप्य सततं
तथैवान्यां लोकस्थितिमनघ देवोत्तम विभो ।
त्वयैवैतत्सृष्टं जादखिलमीशान भगवन्-
विलासोऽयं कश्चित्तव शिव नमो वेद्य शिव ते ॥४॥
जगत्सृष्टेः पूर्वं यदभवदुमाकान्त सततं
त्वया लीलामात्रं तदपि सकलं रक्षितमभूत् ।
तदेवाग्रे भालप्रकटनयनाद्भुतकर-
आज्जगद्दग्ध्वा स्थास्यस्यज हर नमो वेद्य शिव ते ॥५॥
विभूतीनामन्तो भव न भवतो भूतिविलसन्-
निजाकार श्रीमन्न गुणगणसीमाप्यवगता ।
अतद्व्यावृत्याऽद्धा त्वयि सकलवेदाश्च चकिता
भवन्त्येवासामप्रकृतिक नमो धर्ष शिव ते ॥६॥
विराड्रूपं यत्ते सकलनिगमागोचरमभूत्-
तदेवेदं रूपं भवति किमिदं भिन्नमथवा ।
न जाने देवेश त्रिनयन सुराराध्यचरण
त्वओङ्कारो वेदस्त्वमसि हि नमोऽघोर शिव ते ॥७॥
यदन्तस्तत्त्वज्ञा मुनिवरगणा रूपमनघं
तवेदं सञ्चिन्त्य स्वमनसि सदाऽऽसन्नविहताः ।
ययुर्दिव्यानन्दं तदिदमथवा किं तु न तथा
किमेतज्जानेऽहं शरणद नमः शर्व शिव ते ॥८॥
तथा शक्त्या सृष्ट्वा जगदथ च संरक्ष्य बहुधा
ततः संहृत्यैतन्निवसति तदाधारमथवा ।
इदं ते किं रूपं निरुपम न जाने हर विभो
विसर्गः को वा ते तमपि हि नमो भव्य शिव ते ॥९॥
तवानन्तान्याहुः शुचिपरमरूपाणि निगमा-
स्तदन्तर्भूतं सत्सदसदनिरुक्तं पदमपि ।
निरुक्तं छन्दोभिर्निलयनमिदं वानिलयनं
न विज्ञातं ज्ञातं सकृदपि नमो ज्येष्ठ शिव ते ॥१०॥
तवाभूत्सत्यं चानृतमपि च सत्यं कृतमभू-
दृतं सत्यं सत्यं तदपि च यथा रूपमखिलम् ।
यतः सत्यं सत्यं शममपि समस्तं तव विभो
कृतं सत्यं सत्यानृतमपि नमो रुद्र शिव ते ॥११॥
तवामेयं मेयं यदपि तदमेयं विरचितं
न वामेयं मेयं रचितमपि मेयं विरचितुम् ।
न मेयं मेयं ते न खलु परमेयं परमयं
न मेयं न नामेयं वरमपि नमो देव शिव ते ॥१२॥
तवाहारं हारं विदितमविहारं विरहसं
नवाहारं हारं हर हरसि हारं न हरसि ।
न वाहारं हारं परतरविहारं परतरं
परं पारं जाने न हि खलु नमो विश्वशिव ते ॥१३॥
यदेतत्तत्त्वं ते सकलमपि तत्त्वेन विदितं
न ते तत्त्वं तत्त्वं विदितमपि तत्त्वेन विदितम् ।
न चैतत्तत्त्वं चेन्नियतमपि तत्त्वं किमु भवे
न ते तत्त्वं तत्त्वं तदपि च नमो वेद्य शिव ते ॥१४॥
इदं रूपं रूपं सदसदमलं रूपमपि चेन्-
न जाने रूपं ते तरतमविभिन्नं परतरम् ।
यतो नान्यद्रूपं नियतमपि वेदैर्निगदितं
न जाने सर्वात्मन् क्वचिदपि नमोऽनन्त शिव ते ॥१५॥
महद्भूतं भूतं यदपि न च भूतं तव विभो
सदा भूतं भूतं किमु न भक्तो भूतविषये ।
यदाभूतं भूतं भवति हि न भव्यं भगवतो
भवाभूतं भाव्यं भवति न नमो ज्येष्ठ शिव ते ॥१६॥
वशीभूता भूता सततमपि भूतात्मकतया
न ते भूता भूतास्तव यदपि भूता विभुतया ।
यतो भूता भूतास्तव तु न हि भूतात्मकतया
न वा भूता भूताः क्वचिदपि नमो भूत शिव ते ॥१७॥
न ते मायामाया सततमपि मायामयतया
ध्रुवं मायामाया त्वयि वर न मायामयमपि ।
यदा मायामाया त्वयि न खलु मायामयतया
न मायामाया वा परमय नमस्ते शिव नमः ॥१८॥
यतन्तः संवेद्यं विदितमपि वेदैर्न विदितं
न वेद्यं वेद्यं चेन्नियतमपि वेद्यं न विदितम् ।
तदेवेदं वेद्यं विदितमपि वेदान्तनिकरैः
करावेद्यं वेद्यं जितमिति नमोऽतर्क्य शिव ते ॥१९॥
शिवं सेव्यं भावं शिवमतिशिवाकारमशिवं
न सत्यं शैवं तच्छिवमिति शिवं सेव्यमनिशम् ।
शिवं शान्तं मत्वा शिवपरमतत्त्वं शिवमयं
न जाने रूपत्वं शिवमिति नमो वेद्य शिव ते ॥२०॥
यदज्ञात्वा तत्त्वं सकलमपि संसारपतितं
जगज्जन्मावृत्तिं दहति सततं दुःखनिलयम् ।
यदेतज्ज्ञात्वैवावहति च निवृत्तिं परतरां
न जाने तत्तत्त्वं परमिति नमो वेद्य शिव ते ॥२१॥
न वेदं यद्रूपं निगमविषयं मङ्गलकरं
न दृष्टं केनापि ध्रुवमिति विजाने शिव विभो ।
ततश्चित्ते शम्भो न हि मम विषादोऽघविकृतिः
प्रयत्नाल्लब्धेऽस्मिन्न किमपि नमः पूर्णं शिव ते ॥२२॥
तवाकर्ण्यागूढं यदपि परतत्त्वं श्रुतिपरं
तदेवातीतं सन्नयनपदवीं नात्र तनुते ।
कदाचित्किञ्चिद्वा स्फुरति कतिधा चेतसि तव
स्फुरद्रूपं भव्यं भवहर परावेद्य शिव ते ॥२३॥
त्वमिन्दुर्भानुस्त्वं हुतभुगसि वायुश्च सलिलं
त्वमेवाकाशोऽसि क्षितिरसि तथाऽऽत्माऽसि भगवन् ।
ततः सर्वाकारस्त्वमसि भवतो भिन्नमनघान्-
न तत्सत्यं सत्यं त्रिनयन नमोऽनन्त शिव ते ॥२४॥
विधुं धत्से नित्यं शिरसि मृदुकण्ठोऽपि गरलं
नवं नागाहारं भसितममलं भासुरतनुम् ।
करे शूलं भाले ज्वलनमनिशं तत्किमिति ते
न तत्त्वं जानेऽहं भवहर नमः कूर्प शिव ते ॥२५॥
तवापाण्गः शुद्धो यदि भवति भव्ये शुभकरः
कदाचित्कस्मिंश्चिल्लघुतरनरे विप्रभवति ।
स एवैताँल्लोकान् रचयितुमलं सापि च महान्
कृपाधारोऽयं सुखयति नमोऽनन्त शिव ते ॥२६॥
भवन्तं देवेशं शिवमितरगीर्वाणसदृशं
प्रमादाद्यः कश्चिद्यदि यदपि चित्तेऽपि मनुते ।
स दुःखं लब्ध्वाऽन्ते नरकमपि याति ध्रुवमिदं
ध्रुवं देवाराध्यामितगुण नमोऽनन्त शिव ते ॥२७॥
प्रदोषे रत्नाढ्ये मृदुलतरसिंहासनवरे
भवानीमारूढामसकृदपि संवीक्ष्य भवता ।
कृतं सम्यन्नाट्यं प्रथितमिति वेदोऽपि भवति
प्रभावः को वाऽयं तव हर नमो दीप शिव ते ॥२८॥
श्मशाने सञ्चारः किमु शिव न ते क्वापि गमनं
यतो विश्वं व्याप्याखिलमपि सदा तिष्ठति भवान् ।
विभुं नित्यं शुद्धं शिवमुपहतं व्यापकमिति
श्रुतिः साक्षाद्वक्ति त्वयमपि नमः शुद्ध शिव ते ॥२९॥
धनुर्मेरुः शेषो धनुवरगुणो यानमवनि-
स्तवैवेदं चक्रं निगमनिकरा वाजिनिकराः ।
पुरोलक्ष्यं यन्ता विधिरिषुहरिश्चेति निगमः
किमेवं त्वन्वेष्यो निगदति नमः पूर्ण शिव ते ॥३०॥
मृदुः सत्त्वं त्वेतद्भवमनघयुक्तं च रजसा
तमोयुक्तं शुद्धं हरमपि शिवं निष्कलमिति ।
वदत्येको वेदस्त्वमसि तदुपास्यं ध्रुवमिदं
त्वमोङ्काराकारो ध्रुवमिति नमोऽनन्त शिव ते ॥३१॥
जगत्सुप्तिं बोधं व्रजति भवतो निर्गतमपि
प्रवृत्तिं व्यापारं पुनरपि सुषुप्तिं च सकलम् ।
त्वदन्यं त्वत्प्रेक्ष्यं व्रजति शरणं नेति निगमो
वदत्यद्धा सर्वः शिव इति नमः स्तुत्य शिव ते ॥३२॥
त्वमेवालोकानामधिपतिरुमानाथ जगतां
शरण्यः प्राप्यस्त्वं जलनिधिरिवानन्तपयसाम् ।
त्वदन्यो निर्वाणं तट इति च निर्वाणयतिर-
प्यतः सर्वोत्कृष्टस्त्वमसि हि नमो नित्य शिव ते ॥३३॥
तवैवांशो भानुस्तपति विधुरप्येति पवनः
पवत्येषोऽग्निश्च ज्वलति सलिलं च प्रवहति ।
तवाज्ञाकारित्वं सकलसुरवर्गस्य सततं
त्वमेकः स्वातन्त्र्यं वहसि हि नमोऽनन्त शिव ते ॥३४॥
स्वतन्त्रोऽयं सोमः सकलभुवनैकप्रभुरयं
नियन्ता देवानामपि हर नियन्तासि न परः ।
शिवः शुद्धा मायारहित इति वेदोऽपि वदति
स्वयं तामाशास्य त्रयहर नमोऽनन्त शिव ते ॥३५॥
नमो रुद्रानन्तामरवर नमः शङ्कर विभो
नमो गौरीनाथ त्रिनयन शरण्याङ्घ्रिकमल ।
नमः शर्व श्रीमन्ननघ महदैश्वर्यनिलय
स्मरारे पापारे जय जय नमः सेव्य शिव ते ॥३६॥
महादेवामेयानघगुणगणप्रामवसतन्-
नमो भूयो भूयः पुनरपि नमस्ते पुनरपि ।
पुराराते शम्भो पुनरपि नमस्ते शिव विभो
नमो भूयो भूयः शिव शिव नमोऽनन्त शिव ते ॥३७॥
कदाचिद्गण्यन्ते निबिडनियतवृष्टिकणिकाः
कदाचित्तत्क्षेत्राण्यपि सिकतलेशं कुशलिना ।
अनन्तैराकल्पं शिव गुणगणश्चारुरसनै-
र्न शक्यं ते नूनं गणयितुमुषित्वाऽपि सततम् ॥३८॥
मया विज्ञायैषाऽनिशमपि कृता जेतुमनसा
सकामेनामेया सततमपराधा बहुविधाः ।
त्वयैते क्षन्तव्याः क्वचिदपि शरीरेण वचसा
कृतैर्नैतैर्नूनं शिव शिव कृपासागर विभो ॥३९॥
प्रमादाद्ये केचिद्विततमपराधा विधिहताः
कृताः सर्वे तेऽपि प्रशममुपयान्तु स्फुटतरम् ।
शिव श्रीमच्छम्भो शिवशिव महेशेति च जपन्
क्वचिल्लिङ्गाकारे शिव हर वसामि स्थिरतरम् ॥४०॥
इति स्तुत्वा शिवं विष्णुः प्रणम्य च मुहुर्मुहुः ।
निर्विण्णो न्यवसन्नूनं कृताञ्जलिपुटः स्थिरम् ॥४१॥
तदा शिवः शिवं रूपमादायोवाच सर्वगः ।
भीषयन्नखिलान्भूतान् घनगम्भीरया गिरा ॥४२॥
मदीयं रूपममलं कथं ज्ञेयं भवादृशैः ।
यत्तु वेदैरविज्ञातमित्युक्त्वाऽन्तर्दधे शिवः ॥४३॥
ततः पुनर्विधिस्तत्र तपस्तप्तुं समारभत् ।
विष्णुश्च शिवतत्त्वस्य ज्ञानार्थमतियत्नतः ॥४४॥
तादृशी शिव मे वाच्छा पूजयित्वा वदाम्यहम् ।
नान्यो मयाऽर्च्यो देवेषु विना शम्भुं सनातनम् ॥४५॥
त्वयापि शाङ्करं लिङ्गं पूजनीयं प्रयत्नतः ।
विहायैवान्यदेवानां पूजनं शेष सर्वदा ॥४६॥
॥ इति श्रीस्कन्दपुराणे विष्णुविरचितं शिवमहिमस्तोत्रं सम्पूर्णम् ॥
2 ~ ब्रह्मपुराणोक्त कश्यप कृत शिव स्तोत्र
कश्यप उवाच
पाहि शङ्कर देवेश पाहि लोकनमस्कृत ।
पाहि पावन वागीश पाहि पन्नगभूषण ॥
पाहि धर्म वृषारूढ पाहि वेदत्रयेक्षण ।
पाहि गोधरलक्ष्मीश पाहि शर्व गजाम्बर ॥
पाहि त्रिपुरहन्नाथ पाहि सोमार्धभूषण ।
पाहि यज्ञेश सोमेश पाह्यभीष्टप्रदायक ॥
पाहि कारुण्यनिलय पाहि मङ्गलदायक ।
पाहि प्रभव सर्वस्य पाहि पालक वासव ॥
पाहि भास्कर वित्तेश पाहि ब्रह्मनमस्कृत ।
पाहि विश्वेश सिद्धेश पाहि पूर्ण नमोऽस्तु ते ॥
घोरसंसारकान्तारसञ्चारोद्विग्नचेतसाम् ।
शरीरिणां कृपासिन्धो त्वमेव शरणं शिव ॥
एवं संस्तुवतस्तस्य पुरतोऽभूद्वृषध्वजः ।
वरेण च्छन्दयामास कश्यपं तं प्रजापतिम् ॥
॥ इति ब्रह्मपुराणे चतुर्विंशाधिकशततमाध्यायान्तर्गतं कश्यपकृतं शिवस्तोत्रं समाप्तम् ॥
3 ~ शिवरहस्योक्त दधीचि कृत शिव स्तोत्र
उक्षाधीश्वरकेतनं त्रिभुवनाध्यक्षं सुधाधामसत्खण्डोत्तं-
सितलोचनश्रवणजापारोरुहारप्रियम् ।
दिग्वासं वसतिप्रपञ्चहृदयागारप्रमोदास्पदं
मारागतिमपारवेदशिखरैरीड्यं भजे शङ्करम् ॥
हृदम्बुजचिदम्बरे दिवसनाथकोटिप्रभाविका-
सिकनकाम्बुजोद्भवपयोधितल्पान्तिमम् ।
प्रकृष्टनयनाम्बुजप्रथितपूज्यपादाम्बुजं भजामि
यमिहृत्सुधाविकसिताम्बुजोद्भासितम् ॥
(सदम्बुजभवासुताम्बुजसुकायदाहेक्षणं)
मुधा सुधासाधनतोऽपि देवान्
खिन्नाननानुरुगरोद्धतकीलदग्धान् ।
मुग्धान् सुदुग्धप्रमतोऽम्बुधेस्तटे
देवानरक्षत भयेऽशरणान् शरण्यः ॥
मुग्धेन्दुचूडकरुणातरणिं विहाय
खद्योतवद्विधिहरीन्द्रमुखान् सुरांश्च ।
सेवन्ति गाढतमसैकविनाशहेतुं
मूढा हि ते दृढतरं मृडभक्तिहीनाः ॥
कन्दर्पदर्पशमनार्चनजातदर्पात् क्वायं
नृपः क्व च हरिः क्व च देवसङ्घाः ।
नेक्षे तं क्षितिपाधमं क्षतसुखं सापेक्षमीक्षे सदा
त्र्यक्षं दक्षसुपक्षपातसुरतासन्धुक्षिताधोक्षजम् ॥
गङ्गाचन्द्रकलाधर त्रिजगतां कामान्नपूर्णार्धधृक्
तूर्णं मे हृदि चिन्तितं दिश विभो पाहीश मामर्भकम् ।
ऊर्णाचक्रनिकाशसंसृतिमहाचक्रेऽथ बद्धाङ्गकं
त्वामेवाभिमुखं प्रयामि शरणं मामद्य साम्ब प्रभो ॥
अगुणं भगणाधिपैकचूडं त्रिगुणातीतगुणं च निर्गुणं तम् ।
अरुणाधिपकारणं सुराणां वरुणार्च्य शरणं शरण्यमीड्यम् ॥
धृतभसितभुजङ्गं भक्तचित्तैकसङ्गं
करधृतसुकुरङ्गं तुङ्गलिङ्गैकसङ्गम् ।
मुनिजनभवमङ्गं कालकालं स्थाङ्ग-
प्रदमथ हरये तं सम्भजे शङ्गमीशम् ॥
समुत्थाप्य तमाशीर्भिरभिनन्द्य सदाशिवः ।
कामं कामान्तकस्यैव प्रसादश्चास्तु शाश्वतः ॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये दधीचिःकृतं शिवस्तोत्रं सम्पूर्णम् ॥
4 ~ ब्रह्मपुराणोक्त गौतम कृत शिव स्तोत्र
गौतम उवाच
भोगार्थिनां भोगमभीप्सितं च दातुं महान्त्यष्टवपूंषि धत्ते ।
सोमो जनानां गुणवन्ति नित्यं देवं महादेवमिति स्तुवन्ति ॥४॥
कर्तुं स्वकीयैर्विषयैः सुखानि भर्तुं समस्तं सचराचरं च ।
सम्पत्तये ह्यस्य विवृद्धये च महीमयं रूपमितीश्वरस्य ॥५॥
सृष्टेः स्थितेः संहरणाय भूमेराधारमाधातुमपां स्वरूपम् ।
भेजे शिवः शान्ततनुर्जनानां सुखाय धर्माय जगत्प्रतिष्ठितम् ॥६॥
कालव्यवस्थाममृतस्रवं च जीवस्थितिं सृष्टिमथो विनाशनम् ।
मुदं प्रजानां सुखमुन्नतिं च चक्रेऽर्कचन्द्राग्निमयं शरीरम् ॥७॥
वृद्धिं गतिं शक्तिमथाक्षराणि जीवव्यवस्थां मुदमप्यनेकाम् ।
स्रष्टुं कृतं वायुरितीशरूपं त्वं वोत्सि नूनं भगवन्भवन्तम् ॥८॥
भेदैर्विना नैव कृतिर्न धर्मो नात्मीयमन्यन्न दिशोऽन्तरिक्षम् ।
द्यावापृथिव्यौ न च भुक्तिमुक्ती तस्मादिदं व्योमवपुस्तवेश ॥९॥
धर्मं व्यवस्थापयितुं व्यवस्य ऋक्सामशास्त्राणि यजुश्च शाखाः ।
लोके च गाथाः स्मृतयः पुराणमित्यादिशब्दात्मकतामुपैति ॥१०॥
यष्टा क्रतुर्यान्यपि साधनानि ऋत्विक्प्रदेशं फलदेशकालाः ।
त्वमेव शम्भो परमार्थतत्त्वं वदन्ति यज्ञाङ्गमयं वपुस्ते ॥११॥
कर्ता प्रदाता प्रतिभूः प्रदानं सर्वज्ञसाक्षी पुरुषः परश्च ।
प्रत्यात्मभूतः परमार्थरूपस्त्वमेव सर्वं किमु वाग्विलासैः ॥१२॥
न वेदशास्त्रैर्गुरुभिः प्रदिष्टो न नासि बुद्ध्यादिभिरप्रधृष्यः ।
अजोऽप्रमेयः शिवशब्दवाच्यस्त्वमस्ति सत्यं भगवन्नमस्ते ॥१३॥
आत्मैकतां स्वप्रकृतिं कदाचिदैक्षच्छिवः सम्पदियं ममेति ।
पृथक्तदैवाभवदप्रतर्क्याचिन्त्यप्रभावो बहुविश्वमूर्तिः ॥१४॥
भावोऽभिवृद्धा च भवे भवे च स्वकारणं कारणमास्थिता च ।
नित्या शिवा सर्वसुलक्षणा वा विलक्षणा विश्वकरस्य शक्तिः ॥१५॥
उत्पादनं संस्थितिरन्नवृद्धिलयाः सतां यत्र सनातनास्ते ।
एकैव मूर्तिर्न समस्ति किञ्चिदसाध्यमस्या दयिता हरस्य ॥१६॥
यदर्थमन्नानि धनानि जीवा यच्छन्ति कुर्वन्ति तपांसि धर्मान् ।
साऽपीयमम्बा जगतो जनित्री प्रिया तु सोमस्य महासुकीर्तिः ॥१७॥
यदीक्षितं काङ्क्षति वासवोऽपि यन्नामतो मङ्गलमाप्नुयाच्च ।
या व्याप्य विश्वं विमलीकरोति सोमा सदा सोमसमानरूपा ॥१८॥
ब्रह्मादिजीवस्य चराचरस्य बुद्ध्यक्षिचैतन्यमनःसुखानि ।
यस्याः प्रसादात्फलवन्ति नित्यं वागीश्वरी लोकगुरोः सुरम्या ॥१९॥
चतुर्मुखस्यापि मनो मलीनं किमन्यजन्तोरिति चिन्त्य माता ।
गङ्गाऽवतारं विविधैरुपायैः सर्वं जगत्पावयितुं चकार ॥२०॥
श्रुतीः समालक्ष्य हरप्रभुत्वं विश्वस्य लोकः सकलैः प्रमाणैः ।
कृत्वा च धर्मान्बुभुजे च भोगान्विभूतिरेषा तु सदाशिवस्य ॥२१॥
कार्यक्रियाकारकसाधनानां वेदोदितानामथ लौकिकानाम् ।
यत्साध्यमुत्कृष्टतमं प्रियं च प्रोक्ता च सा सिद्धिरनादिकर्तुः ॥२२॥
ध्यात्वा वरं ब्रह्म परं प्रधानं यत्सारभूतं यदुपासितव्यम् ।
यत्प्राप्य मुक्ता न पुनर्भवन्ति सद्योगिनो मुक्तिरुमापतिः सः ॥२३॥
यथा यथा शम्भुरमेयमायारूपाणि धत्ते जगतो हिताय ।
तद्योगयोग्यानि तथैव धत्से पतिव्रतात्वं त्वयि मातरेवम् ॥२४॥
॥ इति ब्रह्मपुराणे पञ्चसप्ततितमाध्यायान्तर्गतं गौतममहर्षिकृतं शिवस्तोत्रं समाप्तम् ॥
5 ~ कूर्मपुराणोक्त श्रीकृष्ण कृत शिव स्तोत्र
श्रीकृष्ण उवाच
नमोऽस्तु ते शाश्वत सर्वयोने
ब्रह्माधिपं त्वामृषयो वदन्ति ।
तपश्च सत्त्वं च रजस्तमश्च
त्वामेव सर्वं प्रवदन्ति सन्तः ॥१॥
त्वं ब्रह्मा हरिरथ विश्वयोनि-
रग्निः संहर्त्ता दिनकरमण्डलाधिवासः ।
प्राणस्त्वं हुतवहवासवादिभेद-
स्त्वामेकं शरणमुपैमि देवमीशम् ॥२॥
साङ्ख्यास्त्वामगुणमथाहुरेकरूपं
योगस्थं सततमुपासते हृदिस्थम् ।
वेदास्त्वामभिदधतीह रुद्रमग्निं
त्वामेकं शरणमुपैमि देवमीशम् ॥३॥
त्वत्पादे कुसुममथापि पत्रमेकं
दत्त्वासौ भवति विमुक्तविश्वबन्धः ।
सर्वाघं प्रणुदति सिद्धयोगिजुष्टं
स्मृत्वा ते पदयुगलं भवत्प्रसादात् ॥४॥
यस्याशेषविभागहीनममलं हृद्यन्तरावस्थितं
ते त्वां योनिमनन्तमेकमचलं सत्यं परं सर्वगम् ।
स्थानं प्राहुरनादिमध्यनिधनं यस्मादिदं जायते
नित्यं त्वाहमुपैमि सत्यविभवं विश्वेश्वरं तं शिवम् ॥५॥
ॐ नमो नीलकण्ठाय त्रिनेत्राय च रंहसे ।
महादेवाय ते नित्यमीशानाय नमो नमः ॥६॥
नमः पिनाकिने तुभ्यं नमो मुण्डाय दण्डिने ।
नमस्ते वज्रहस्ताय दिग्वस्त्राय कपर्दिने ॥७॥
नमो भैरवनादाय कालरूपाय दंष्ट्रिणे ।
नागयज्ञोपवीताय नमस्ते वह्निरेतसे ॥८॥
नमोऽस्तु ते गिरीशाय स्वाहाकाराय ते नमः ।
नमो मुक्ताट्टहासाय भीमाय च नमो नमः ॥९॥
नमस्ते कामनाशाय नमः कालप्रमाथिने ।
नमो भैरववेषाय हराय च निषङ्गिणे ॥१०॥
नमोऽस्तु ते त्र्यम्बकाय नमस्ते कृत्तिवाससे ।
नमोऽम्बिकाधिपतये पशूनां पतये नमः ॥११॥
नमस्ते व्योमरूपाय व्योमाधिपतये नमः ।
नरनारीशरीराय साङ्ख्ययोगप्रवर्त्तिने ॥१२॥
नमो भैरवनाथाय देवानुगतलिङ्गिने ।
कुमारगुरवे तुभ्यं देवदेवाय ते नमः ॥१३॥
नमो यज्ञाधिपतये नमस्ते ब्रह्मचारिणे ।
मृगव्याधाय महते ब्रह्माधिपतये नमः ॥१४॥
नमो हंसाय विश्वाय मोहनाय नमो नमः ।
योगिने योगगम्याय योगमायाय ते नमः ॥१५॥
नमस्ते प्राणपालाय घण्टानादप्रियाय च ।
कपालिने नमस्तुभ्यं ज्योतिषां पतये नमः ॥१६॥
नमो नमो नमस्तुभ्यं भूय एव नमो नमः ।
मह्यं सर्वात्मना कामान् प्रयच्छ परमेश्वर ॥१७॥
सूत उवाच
एवं हि भक्त्या देवेशमभिष्टूय स माधवः ।
पपात पादयोर्विप्रा देवदेव्योः स दण्डवत् ॥१८॥
॥ इति कूर्मपुराणे पूर्वभागे चत्वारिंशाध्यायान्तर्गतं श्रीकृष्णकृतं शिवस्तोत्रं समाप्तम् ॥
6 ~ “जय जय शम्भो गिरिजाबन्धो” शिव स्तोत्र
जय जय शम्भो गिरिजाबन्धो शिव शिव शङ्कर भूतपते ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥१॥
शिव सुरनायक मङ्गलविग्रह कुरु कुरु मङ्गलमाशु विभो ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥२॥
शरणं यामश्चरणद्वन्द्वं तव यत् कमलापतिमृग्यं ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥३॥
तव पदकमलादमलादन्यच्चिन्तितमपि न हि चेत शंभो ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥४॥
नामैवोत्तम तव पदममलं मङ्गलदायकमङ्गलदम् ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥५॥
शिव वयमशिवं न भजामस्त्वयि सति सशिवे शिवमूर्तौ ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥६॥
भगवन् भवता भवतापहृता न हृतं दुरितं किं नु कृतम् ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥७॥
सकृदपि तव हर नामस्मरणं कृतमघकुलहरमतिशुभदम् ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥८॥
स्मृतमपि तव हर चरणद्वन्द्वं हरति विषादं किमु दुष्टम् ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥९॥
हर यद्यस्मत्कृतमपराधं विविधं कृपया हरसि तथा ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥१०॥
सुतमपराधिनमपि कृतशिक्ष जनकः पालयतीश यथा ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥११॥
भवता सृष्टं जगदिव सृष्टानस्मानयि भव पालय नित्यम् ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥१२॥
जगतामेको जनकस्त्वमतो वयमपि जगतो न हि भिन्नाः ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥१३॥
न हि जानीमो भवदन्यं शङ्कर धीरं पातारम् ।
गिरिश महापजलधेरस्मानुद्धर धीर कृपाजलधे ॥१४॥
देव गजासुरपरिहृतविभवानस्मान् सभवानव सदय ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥१५॥
शरणं भव भव शरणं भव भव भव शरणं त्वं करुणाब्धे ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥१६॥
न सुता वयमपि तव किमु शम्भो जनको न भवानस्माकम् ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥१७॥
भवता सृष्टाः सकला लोका वयमपि तद्वद्धर सृष्टाः ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥१८॥
भव भवदन्यं न वयं यामः सकृदपि शरणं मरणे वा ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥१९॥
निरवधिकरुणापारावारस्त्वमतो हर हर भवदुःखम् ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥२०॥
भव भवदीयानस्माननिशं कुरु गतदुःखानतिदुःखान् ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥२१॥
॥ इति श्रीशिवस्तोत्रं सम्पूर्णम् ॥
7 ~ ब्रह्मपुराणोक्त दक्ष कृत शिव स्तोत्र
दक्ष उवाच
जय शङ्कर सोमेश जय सर्वज्ञ शम्भवे ।
जय कल्याणभृच्छम्भो जय कालात्मने नमः ॥
आदिकर्तर्नमस्तेऽस्तु नीलकण्ठ नमोऽस्तु ते ।
ब्रह्मप्रिय नमस्तेऽस्तु ब्रह्मरूप नमोऽस्तु ते ॥
त्रिमूर्तये नमो देव त्रिधाम परमेश्वर ।
सर्वमूर्ते नमस्तेऽस्तु त्रैलोक्याधार कामद ॥
नमो वेदान्तवेद्याय नमस्ते परमात्मने ।
यज्ञरूप नमस्तेऽस्तु यज्ञधाम नमोऽस्तु ते ॥
यज्ञदान नमस्तेऽस्तु हव्यवाह नमोऽस्तु ते ।
यज्ञहर्त्रे नमस्तेऽस्तु फलदाय नमोऽस्तु ते ॥
त्राहि त्राहि जगन्नाथ शरणागतवत्सल ।
भक्तानामप्यभक्तानां त्वमेव शरणं प्रभो ॥
॥ इति ब्रह्मपुराणे नवाधिकशततमाध्यायान्तर्गतं दक्षकृतं शिवस्तोत्रं सम्पूर्णम् ॥
8 ~ मत्स्यपुराणोक्त देवदानव कृत शिव स्तोत्र
देवदानवा ऊचुः
नमस्तुभ्यं विरूपाक्ष नमस्ते दिव्यचक्षुषे ।
नमः पिनाकहस्ताय वज्रहस्ताय धन्विने ॥
नमस्त्रिशूलहस्ताय दण्डहस्ताय धूर्जटे ।
नमस्त्रैलोक्यनाथाय भूतग्रामशरीरिणे ॥
नमः सुरारिहन्त्रे च सोमाग्न्यर्काग्र्यचक्षुषे ।
ब्रह्मणे चैव रुद्राय नमस्ते विष्णुरूपिणे ॥
ब्रह्मणे वेदरूपाय नमस्ते देवरूपिणे ।
साङ्ख्ययोगाय भूतानां नमस्ते शम्भवाय ते ॥
मन्मथाङ्गविनाशाय नमः कालक्षयङ्कर ।
रंहसे देवदेवाय नमस्ते वसुरेतसे ॥
एकवीराय सर्वाय नमः पिङ्गकपर्दिने ।
उमाभर्त्रे नमस्तुभ्यं यज्ञत्रिपुरघातिने ॥
शुद्धबोधप्रबुद्धाय मुक्तकैवल्यरूपिणे ।
लोकत्रयविधात्रे च वरुणेन्द्राग्निरूपिणे ॥
ऋग्यजुःसामवेदाय पुरुषायेश्वराय च ।
अग्र्याय चैव चोग्राय विप्राय श्रुतिचक्षुषे ॥
रजसे चैव सत्त्वाय तमसे तिमिरात्मने ।
अनित्यनित्यभावाय नमो नित्यचरात्मने ॥
व्यक्ताय चैवाव्यक्ताय व्यक्ताव्यक्ताय वै नमः ।
भक्तानामार्तिनाशाय प्रियनारायणाय च ॥
उमाप्रियाय शर्वाय नन्दिवक्त्राञ्चिताय च ।
ऋतुमन्वन्तकल्पाय पक्षमासदिनात्मने ॥
नानारूपाय मुण्डाय वरूथपृथुदण्डिने ।
नमः कपालहस्ताय दिग्वासाय शिखण्डिने ॥
धन्विने रथिने चैव यतये ब्रह्मचारिणे ।
इत्येवमादिचरितैः स्तुतं तुभ्यं नमो नमः ॥
॥ इति मत्स्यपुराणे पञ्चाशदधिकद्विशततमाध्यायान्तर्गतं देवदानवादिकृतं शिवस्तोत्रं समाप्तम् ॥
9 ~ वामनपुराणोक्त देवादि कृत शिव स्तोत्र
देवादय ऊचुः
नमस्ते परमात्मन् अनन्तयोने लोकसाक्षिन् परमेष्ठिन्
भगवन् सर्वज्ञ क्षेत्रज्ञ परावरज्ञ ज्ञानज्ञेय सर्वेश्वर महाविरिञ्च
महाविभूते महाक्षेत्रज्ञ महापुरुष सर्वभूतावास मनोनिवास
आदिदेव महादेव सदाशिव ईशान दुर्विज्ञेय दुराराध्य
महाभूतेश्वर परमेश्वर महायोगेश्वर त्र्यम्बक महायोगिन्
परब्रह्मन् परमज्योतिः ब्रह्मविदुत्तम ओङ्कार वषट्कार
स्वाहाकार स्वधाकार परमकारण सर्वगत सर्वदर्शिन्
सर्वशक्ते सर्वदेव अज सहस्रार्चिः पृषार्चिः सुधामन्
हरधाम अनन्तधाम संवर्त सङ्कर्षण वडवानल
अग्नीष्टोमात्मक पवित्र महापवित्र महामेघ महामायाधर
महाकाम कामहन् हंस परमहंस महाराजिक महेश्वर
महाकामुक महाहंस भवक्षयकर सुरसिद्धार्चित हिरण्यवाह
हिरण्यरेतः हिरण्यनाभ हिरण्याग्रकेश मुञ्जकेशिन् सर्वलोकवरप्रद
सर्वानुग्रहकर कमलेशय कुशेशय हृदयेशय ज्ञानोदधे शम्भो विभो
महायज्ञ महायाज्ञिक सर्वयज्ञमय सर्वयज्ञहृदय सर्वयज्ञसंस्तुत
निराश्रय समुद्रेशय अत्रिसम्भव भक्तानुकम्पिन् अभग्नयोग योगधर
वासुकिमहामणि विद्योतितविग्रह हरितनयन त्रिलोचन जटाधर
नीलकण्ठ चन्द्रार्धधर उमाशरीरार्धहर गजचर्मधर
दुस्तरसंसारमहासंहारकर प्रसीद भक्तजनवत्सल
एवं स्तुतो देवगणैः सुभक्त्या सब्रह्ममुख्यैश्च पितामहेन ।
त्यक्त्वा तदा हस्तिरूपं महात्मा लिङ्गे तदा सन्निधानं चकार ॥
॥ इति वामनपुराणे चतुश्चत्वारिंशाध्यायान्तर्गतं देवादिभिः कृतं शिवस्तोत्रं समाप्तम् ॥
10 ~ लिङ्गपुराणोक्त देवादि कृत शिव स्तोत्र
इत्युक्त्वान्योन्यमनघं तुष्टुवुः शिवमीश्वरम् ।
नमः सर्वात्मने तुभ्यं सर्वज्ञाय पिनाकिने ॥
अनघाय विरिञ्चाय देव्याः कार्यार्थदायिने ।
अकायायार्थकायाय हरेः कायापहारिणे ॥
कायान्तस्थामृताधारमण्डलावस्थिताय ते ।
कृतादिभेदकालाय कालवेगाय ते नमः ॥
कालाग्निरुद्ररुपाय धर्माद्यष्टपदाय च ।
कालीविशुद्धदेहाय कालिकाकारणाय ते ॥
कालकण्ठाय मुख्याय वाहनाय वराय ते ।
अम्बिकापतये तुभ्यं हिरण्यपतये नमः ॥
हिरण्यरेतसे चैव नमः शर्वाय शूलिने ।
कपालदण्डपाशासिचर्माङ्कुशधराय च ॥
पतये हैमवत्याश्च हेमशुक्लाय ते नमः ।
पीतशुक्लाय रक्षार्थं सुराणां कृष्णवर्त्मने ॥
पञ्चमाय महापञ्चयज्ञिनां फलदाय च ।
पञ्चास्यफणिहाराय पञ्चाक्षरमयाय ते ॥
पञ्चधा पञ्चकैवल्यदेवैरर्चितमूर्तये ।
पञ्चाक्षरदृशे तुभ्यं परात्परतराय ते ॥
षोडशस्वरवज्राङ्गवक्त्रायाक्षयरूपिणे ।
कादिपञ्चकहस्ताय चादिहस्ताय ते नमः ॥
टादिपादाय रुद्राय तादिपादाय ते नमः ।
पादिमेढ्राय यद्यङ्गधातुसप्तकधारिणे ॥
शान्तात्मरूपिणे साक्षात्क्षदततक्रोधिने नमः ।
लवरेफहळाङ्गाय निरङ्गाय च ते नमः ॥
सर्वेषामेव भूतानां हृदि निःस्वनकारिणे ।
भ्रुवोरन्ते सदा सद्भिर्दृष्टायात्यन्तभानवे ॥
भानुसोमाग्निनेत्राय परमात्मस्वरूपिणे ।
गुणत्रयोपरिस्थाय तीर्थपादाय ते नमः ॥
तीर्थतत्त्वाय साराय तस्मादपि पराय ते ।
ऋग्जयुः सामवेदाय ओङ्काराय नमो नमः ॥
ॐ कारे त्रिविधं रूपमास्थायोपरिवासिने ।
पीताय कृष्णवर्णाय रक्तायात्यन्ततेजसे ॥
स्थानपञ्चकसंस्थाय पञ्चधाण्डबहिः क्रमात् ।
ब्रह्मणे विष्णवे तुभ्यं कुमाराय नमो नमः ॥
अम्बायाः परमेशाय सर्वोपरिचारय ते ।
मूलसूक्ष्मस्वरूपाय स्थूलसूक्ष्माय ते नमः ॥
सर्वसङ्कल्पशून्याय सर्वस्माद्रक्षिताय ते ।
आदिमध्यान्तशून्याय चित्संस्थाय नमो नमः ॥
यमाग्निवायुरुद्राम्बुसोमशक्रनिशाचरैः ।
दिङ्मुखे दिङ्मुखे नित्यं सगणैः पूजिताय ते ॥
सर्वेषु सर्वदा सर्वमार्गे सम्पूजिताय ते ।
रुद्राय रुद्रनीलाय कद्रुद्राय प्रचेतसे ।
महेश्वराय धीराय नमः साक्षाच्छिवाय ते ॥
अथ शृणु भगवन् स्तवच्छलेन
कथितमजेन्द्रमुखैः सुरासुरेशैः ।
मखमदनयमाग्निदक्षयज्ञ-
क्षपणविचित्रविचेष्टितं क्षमस्व ॥
सूत उवाच
यः पठेत्तु स्तवं भक्या शक्राग्निप्रमुखैः सुरैः ।
कीर्तितं श्रावयेद्विद्वान् स याति परमां गतिम् ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे देवादिस्तुतिर्नाम चतुरधिकशततमोऽध्यायः ॥
11 ~ ब्रह्मपुराणोक्त कश्यप कृत शिव स्तोत्र
हिमाचल उवाच
देवदेव महादेव करुणाकर शङ्कर ।
पश्य मां शरणम्प्राप्तमुन्मील्य नयने विभो ॥
शिव शर्व महेशान जगदानन्दकृत्प्रभो ।
त्वां नतोऽहं महादेव सर्वापद्विनिवर्तकम् ॥
न त्वां जानन्ति देवेश वेदाश्शास्त्राणि कृत्स्नशः ।
अतीतो महिमाध्वानं तव वाङ्मनसोः सदा ॥
अतद्व्यावृत्तितस्त्वां वै चकितं चकितं सदा ।
अभिधत्ते श्रुतिः सर्वा परेषां का कथा मता ॥
जानन्ति बहवो भक्तास्त्वत्कृपां प्राप्य भक्तितः ।
शरणागत भक्तानां न कुत्रापि भ्रमादिकम् ॥
विज्ञप्तिं शृणु मत्प्रीत्या स्वदासस्य ममाधुना ।
तव देवाज्ञया तात दीनत्वाद्वर्णयामि हि ॥
सभाग्योहं महादेव प्रसादात्तव शङ्कर ।
मत्वा स्वदासं मां नाथ कृपां कुरु नमोऽस्तु ते ॥
प्रत्यहं चागमिष्यामि दर्शनार्थं तव प्रभो ।
अनया सुतया स्वामिन्निदेशं दातुमर्हसि ॥
॥ इति श्रीशिवपुराणे रुद्रसंहितायां पार्वतीखण्डे द्वादशाध्यायान्तर्गतं हिमाचलकृतं शिवस्तोत्रं समाप्तम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।